०५५

पञ्चपञ्चाशः सर्गः ५५

श्रीवसिष्ठ उवाच ।

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।
आदावेव हि नोत्पन्नाः सर्गादौ कारणं विना ॥ १ ॥

अन्यभावनयान्यां स्वां पश्यन्ती चिज्जगत्स्थिता ।
स्वभावनादनन्येति परमार्थमयं जगत् ॥

एवं जगत आत्यन्तिके ब्रह्माभेदे अनुत्पत्तिरेव फलितेत्याह - भावेति ॥ १ ॥

न त्वमूर्तो हि चिद्धातुः कारणं भवितुं क्वचित् ।
स्वात्मा शक्तः स मूर्तानां बीजमुर्वीरुहामिव ॥ २ ॥

उत्पत्तिवादे त्ववश्यं बीजं वाच्यं तत्तु दुर्वचमित्यसकृदुक्तं स्मारयति - न
त्विति ॥ २ ॥

स्वभावमेव सततं भावयन्भावनात्मकम् ।
आत्मन्येव हि चिद्धातुः सर्वोऽनुभववान्स्थितः ॥ ३ ॥

अत एव तत्त्ववित्सर्वं जगच्चित्स्वभावमेव भावयंस्तद्भावेनैव स्थित इत्याह -
स्वभावमेवेति । सर्गानुभववान् इति पाठे तु अज्ञश्चिद्धातुरात्मन्येव
सर्गस्वभावं भावयंस्तथानुभववान्स्थित इति व्याख्येयम् ॥ ३ ॥

आस्वादयति यं भावं चिद्धातुर्गगनात्मकः ।
लब्धः सर्गः प्रलापेन क्षीबः क्षुब्धतया यथा ॥ ४ ॥

अत एवाज्ञात्मना स्वभावभावनानुरूपः सर्गो लब्ध इत्याह - आस्वादयतीति ।
यथा मदिरादिक्षुब्धतया आत्मनैव क्षीवः खात्मा लब्धस्तद्वत् ॥ ४ ॥

यदा सर्वमनुत्पन्नं नास्त्येवापि च दृश्यते ।
तदा ब्रह्मैव विद्धीदं समं शान्तमसत्समम् ॥ ५ ॥

अत एवानुत्पन्नवस्त्वन्तरस्वभावदर्शने तद्भावस्थितिरिति विद्धीत्याह - यदेति ॥ ५ ॥

चिन्नभश्चिन्नभस्येव पयसीव पयोद्रवः ।
चित्त्वात्कचति यत्तेन तदेवेदं जगत्कृतम् ॥ ६ ॥

कथं तर्हि तेनेदं जगत्कृतमिति श्रुत्यादिप्रवाद उपपन्नस्तत्राह - चिन्नभ इति ।
यद्यस्मात्तेन चिदात्मना निमित्तेनेदमध्यस्तं जगत्कचति तेन हेतुना जगद्ब्रह्मैव
जगदाकारेण तेनैव कृतमिति प्रवाद इति शेषः ॥ ६ ॥

स्वप्ने तदेवजगदित्युदेति विमला यथा ।
काचकस्येव कचति तथेत्थं सादि सर्गखे ॥ ७ ॥

स चायं स्वप्नद्रष्टुः अथ रथान् रथयोगान् पथः सृजते इति श्रुतौ
तत्स्रष्ट्टताप्रवादवदित्याह - स्वप्ने इति । यथा वा काचकदूषितनेत्रस्य नभसि
केशोण्ड्रकादिकचति तथा इत्थं विचित्रं सादिरूपं सर्गात्मभाविते चिदाकाशे
कचतीत्यर्थः ॥ ७ ॥

चित्काचकस्य कचनं यथा स्वप्ने जगद्भवेत् ।
तथैव जाग्रदविधं तत्खमात्रमिदं स्थितम् ॥ ८ ॥

तत्तस्मात्खमात्रं चिदाकाशमात्रम् ॥ ८ ॥

आदिसर्गे हि चित्स्वप्नो जाग्रदित्यभिशब्द्यते ।
अद्य रात्रौ चितेः स्वप्नः स्वप्न इत्यपि शब्द्यते ॥ ९ ॥

कस्तर्हि तथा सति जाग्रत्स्वप्नयोर्भेदस्तमाह - आदीति । आदौ प्रवृत्ते
हिरण्यगर्भात्मकसर्गे । अद्य रात्रौ प्रवृत्ते
स्वस्वव्यष्ट्यन्तःकरणमात्रपरिणामरूपे सर्गे यश्चितेः स्वप्नः ॥ ९ ॥

पूर्वप्रवृत्ता सरितां रूढाद्यापि यथास्थिता ।
तरङ्गलेखा दृष्टीनां पदार्थरचना तथा ॥ १० ॥

आदिसर्गसङ्कल्प एवामहाप्रलयं सर्वपदार्थस्वभावव्यवस्थापिका
नियतिस्तदनुसारेणैवाद्यापि यथास्थितं पदार्थरचना रूढा यथापूर्वप्रवृत्ता
सरितां तरङ्गरेखा दृष्टीनां प्रत्यक्षा रूढेत्यन्वयः ॥ १० ॥

यथा वारितरङ्गश्रीः सरितां रचना मिता ।
तथा चिद्व्योम्नि चिद्बीजसत्तान्तःसृष्टितामिता ॥ ११ ॥

तथा च वारिसत्तातिरिक्तसत्ता यथा तरङ्गश्रियो नास्ति एवं जगतश्चित्सत्तातिरिक्ता सा
नास्तीत्याशयेन ब्रह्मोपादानकताप्रवाद इत्याशयेनाह - यथेति ॥ ११ ॥

मृतस्यात्यन्तनाशश्चेत्तन्निद्रासुखमेव तत् ।
भूयश्चोदेति संसारस्तत्सुखं नवमेव तत् ॥ १२ ॥

एवं जगतः पृथक्सत्ताभावे जन्ममरणभीतिप्रसक्तिरेव नास्ति प्रत्युतोभयथापि
सुखमेवेत्याह - मृतस्येति । यदि मृतस्यात्यन्तासत्त्वं तथापि
ब्रह्मसुखसत्ताया एव तत्तन्नाशोभयसत्तात्मनः परिशेषान्निद्रायां सुषुप्तौ
निरतिशयानन्दत्वेन प्रसिद्धं सुखमेव प्राप्त भूयश्च पुनर्मृतौ
देहाद्यात्मना संसारो यद्युदेति तत्तस्य नवं संसाररूपमपि तदेव सुखं न हि
सुखान्यसत्तास्तीति न क्वचिद्भयप्रसक्तिरित्यर्थः ॥ १२ ॥

कुकर्मभ्यस्तु चेद्भीतिः सा समेह परत्र च ।
तस्मादेते समसुखे सर्वेषां मृतिजन्मनी ॥ १३ ॥

ननु मृतस्य कुकर्मभ्यो नरकादिदुःखसम्भावनाद्भयं किं न
स्यादित्याशङ्कामुत्थाप्याह - कुकर्मभ्य इति । सा भीतिरिह जीवतः परत्र मृतस्य
च समा नरकादेर्जीवनस्य च ब्रह्मसुखसत्तातिरिक्तसत्ताभावाद्दुःखस्यापि
सुखसत्तयैव स्थितेर्विशेषाभावादित्यर्थः ॥ १३ ॥

मरणं जीवितं वास्तु सहजे वासने तयोः ।
इति विश्रान्तचित्तो यः सोऽन्तःशीतल उच्यते ॥ १४ ॥

तयोर्मरणजीवितयोर्वासने सौक्ष्म्येण स्थितिरूपे सत्ते सहजे स्वाभाविकब्रह्मसुखरूपे
॥ १४ ॥

सर्वसंवित्तिविगमे संविद्रोहति यादृशी ।
भूयते तन्मयेनैव तेनासौ मुक्त उच्यते ॥ १५ ॥

तेन दृश्यबन्धस्य पृथक्सत्तापगमेनासौ मुक्त उच्यते ॥ १५ ॥

अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् ।
उदेत्यपास्तसंवेद्यं सति वाऽसति सर्गके ॥ १६ ॥

एवं दृश्यस्यात्यन्ताभावसंवित्त्या परसत्तया सर्गके सत्यसति वा सर्वदृश्यस्य
वेदनमपास्तसंवेद्यं निर्विषयमेवोदेतीति मुक्तत्वोपपत्तिरित्यर्थः ॥ १६ ॥

यन्न चेत्यं न चिद्रूपं यच्चितेरप्यचेतितम् ।
तद्भावैक्यं गतास्तज्ज्ञाः शान्ता व्यवहृतौ स्थिताः ॥ १७ ॥

चेत्याभावादेव तत्सापेक्षचितिक्रियारूपं न ॥ १७ ॥

चित्काचकाचकच्यं यज्जगन्नाम्ना तदुच्यते ।
अत्यच्छे परमाकाशे बन्धमोक्षदृशः कुतः ॥ १८ ॥

अभीक्ष्णं कचतीति कचकचस्तद्भावः काचकच्यम् ॥ १८ ॥

चिन्नभःस्पन्दमात्रात्म सङ्कल्पात्मतया जगत् ।
सद्भूतमयमेवेदं न पृथ्व्यादिमयं क्वचित् ॥ १९ ॥

नेह देशो न कालोऽस्ति न द्रव्यन्न् न क्रिया न खम् ।
सदिवाखिलमुच्छूनं वाप्यनुच्छूनमप्यसत् ॥ २० ॥

प्रतिभासमात्रेणोच्छूनं वाप्यनुच्छूनमेवेत्यसत् ॥ २० ॥

भाति केवलमेवेत्थं परमार्थघनं घनम् ।
यन्न शून्यं न वाऽशून्यमत्यच्छं गगनादपि ॥ २१ ॥

साकारमप्यनाकारमसदेवातिभास्वरम् ।
अतिशुद्धैकचिन्मात्रस्फारं स्वप्नपुरं यथा ॥ २२ ॥

निर्वाणमेवमिदमाततमित्थमन्तश्चिद्व्योम्न आविलमनाविलरूपमेव ।
नानेव न क्वचिदपि प्रसृतं न नाना शून्यत्वमम्बर इवाम्बुनिधौ
द्रवत्वम् ॥ २३ ॥

हे राम चिद्व्योम्न आविलं जगद्रूपमित्थमुक्तरीत्या अनाविलं रूपमाततं
निर्वाणमेव । अनेन क्वचिदपि न प्रसृतं न किन्तु सर्वत्र प्रसृतमेव । अम्बरे
शून्यत्वमिव अम्बुधौ द्रवत्वमिव च इदं जगन्न नाना किन्तु तदेवेत्यर्थः ॥ २३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० जगतः
परमार्थमयत्ववर्णनं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

इति श्रीवासिष्ठमहारामायणता पर्यप्रकाशे न्निर्वाणप्रकरणे उत्तरार्धे जगतः
परमार्थमयत्ववर्णनं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥