चतुःपञ्चाशः सर्गः ५४
श्रीवसिष्ठ उवाच ।
जगन्नाम नभः स्वच्छन्न् सद्ब्रह्म नभसि स्थितम् ।
नभो नभसि भातीदं जगच्छब्दार्थ इत्यजम् ॥ १ ॥
सर्वं वस्तु स्वभावस्थं स्वभावेन क्रियाभिदे ।
अविकारमतोऽद्वैतं सन्मात्रमिति वर्ण्यते ॥
घटपटादीनां न घटत्वपटत्वाद्यनुल्लिख्य स्वरूपं भेदो वा निरूपयितुं
शक्यम् घटघटत्वयोरपि परस्परं न निरवच्छिन्नप्रतियोगिताकौ भेदौ
निरूपयितुं शक्याविति पृथक्करणे निर्विकल्पतया
समाभासयोर्भावभवित्रोर्विभागस्य विकल्पमात्रत्वात्सर्ववस्तूनान्न् भावमात्रत्वे
घटे घटत्वमित्यादिशब्दार्थनिष्कर्षे ब्रह्म ब्रह्मणि स्थितमित्येव पर्यवस्यतीति
प्रसाधितस्य भावप्रत्ययार्थनिष्कर्षस्य फलमिहोपपादयितुमारभते -
जगन्नामेत्यादिना । घटत्वपटत्वादिभावेभ्यो निष्कृष्यमाणं जगन्नभ इव
स्वच्छन्न् निर्भेदकलङ्कमेव प्रसिद्धम् । तत्र च घटत्वपटत्वादिभावः
प्रागुक्तरीत्या ब्रह्मैव स्थितम् । तथा चैवन्दर्शने घटः पट इत्यादिभावे नभ एव
नभसि भाति स एव जगच्छब्दस्य घटपटादिशब्दस्य चार्थस्तच्चाजं
जन्मादिविकारशून्यमेवेति न कार्यकारणभावः कस्यचित्किञ्चित्प्रतीत्यर्थः ॥ १ ॥
त्वमहं जगदित्यादि शब्दार्थो ब्रह्म ब्रह्मणि ।
शान्तं समसमाभासं स्थितमस्थितमेव सत् ॥ २ ॥
अमुमेवार्थं पुनः स्पष्टमाह - त्वमहमिति । भावभवित्रोः पृथक्कृत्य
दर्शने अत्यन्तैक्यदर्शनेऽपि वा सौक्ष्म्यादिना समसमाभासमेव
पृथगस्थितमेव तथा सत् ॥ २ ॥
समुद्रगिरिमेघोर्वीविस्फोटमयमप्यजम् ।
काष्ठमौनवदेवेदं जगद्ब्रह्मावतिष्ठते ॥ ३ ॥
एवं समुद्रगिरिभेघोर्व्यादिविभागप्रचुरं
विचित्रकारकक्रियाफलभेदैर्भासमानमपि तत्तद्भावभवितृतत्त्वं निष्कर्षे
निष्क्रियं ब्रह्मैवावतिष्ठत इत्यर्थः ॥ ३ ॥
द्रष्टा द्रष्टैव दृश्यस्य स्वभावात्स्वात्मनि स्थितः ।
कर्ता कर्तैव कर्तव्याभावतः कारणादृते ॥ ४ ॥
तदेव द्रष्ट्रादिविभागप्रचुरं विचित्रकारकेषु तत्तद्भावनिष्कर्षेण प्रपञ्चयति ##-
स्थितः सन् तद्द्रष्टैव भवति एवं कर्तापीत्यर्थः ॥ ४ ॥
न ज्ञत्वं न च कर्तृत्वं न जडत्वं न भोक्तृता ।
न शून्यता न चार्थत्वमिह नापि नभोर्थता ॥ ५ ॥
अनया दृष्ट्या सर्वजगद्वैचित्र्यमपमार्ष्टुं शक्यमिति दर्शयति - नेति ॥ ५ ॥
शिलाजठरवत्सत्यं घनमेकमजं ततम् ।
सर्वं शान्तमनाद्यन्तमेक विधिनिषेधयोः ॥ ६ ॥
भावाभावविभागस्याप्यपमार्जनाद्विधिनिषेधयोरेकम् ॥ ६ ॥
मरणं जीवितं सत्यमसत्यं च शुभाशुभम् ।
सर्वमेकमजं व्योम वीचिजालजलं यथा ॥ ७ ॥
विभाग एव दृश्यत्वं द्रष्ट्टत्वं चैव गच्छति ।
एतच्च कल्पनं स्वप्नपुरादिष्वनुभूयते ॥ ८ ॥
ब्रह्मणो जीवभावेन विभागे सत्येकमेव चिदंशप्राधान्येन द्रष्टृतां
तदंशप्राधान्येन चिद्रूपं तिरोधाय दृश्यतां चैव गच्छति । यथा स्वप्ने
व्यावहारिकजीवात्प्रातिभासिकजीवस्य विभागे स्वापतिरोहितो व्यावहारिकजीवः
स्वाप्नजीवदृश्यपुरादिभावं गच्छति तद्वदित्यर्थः ॥ ८ ॥
एवमच्छं पराकाशे स्वप्नपत्तनवज्जगत् ।
भाति प्रथममेवेदं ब्रह्मैवेत्थमतः स्थितम् ॥ ९ ॥
प्रथमं निष्प्रपञ्चं यद्ब्रह्म तदेवातो जीवात्मना विभागादित्थं जगद्भावेन
स्थितम् ॥ ९ ॥
तदिदं तादृशं विद्धि सर्वं सर्वात्मकं च यत् ।
देशाद्देशान्तरप्राप्तौ विदो मध्यमनङ्कितम् ॥ १० ॥
तत्तस्मादिदं सर्वात्मकं जगद्रूपं प्रथमं यादृशं निष्प्रपञ्चं
तादृशमेव सदेति विद्धि । तादृशं निष्प्रपञ्चमनावृतं चितो
रूपमप्रसिद्धमिति तु न वाच्यम् ।
शाखाचन्द्रोभयदर्शनवृत्त्यभिव्यक्तचितस्तदुभयमध्यमप्रदेशो तथा
प्रसिद्धेः प्रागसकृदुक्तत्वादित्याह - देशादिति । अनङ्कितं
विषयविशेषेणाचिह्नितम् ॥ १० ॥
चिद्व्योम्नः शान्तशान्तस्य मध्यमे चैवमास्थितम् ।
जगत्तथैव सलिलमेवोर्म्यादितया यथा ॥ ११ ॥
इदानीमपि प्रत्यग्दृष्ट्या पर्यालोचने तद्रूपं सुदर्शमित्याशयेन दृष्टान्तः
सलिलमेवेति ॥ ११ ॥
यदुदेत्युदितं यच्च यच्च नोदेति नोदितम् ।
देशाद्देशान्तरप्राप्तौ विदो मध्यान्न भेदितम् ॥ १२ ॥
सर्व जगत्तादृशनिर्विषयचैतन्याभिन्नमेवेत्याह - यदिति । उदेत्युदितं च
कार्यरूपं नोदेति नोदितं च कारणरूपम् । न भेदितं न भिन्नम् । स्वार्थण्यन्तात्
क्तः ॥ १२ ॥
अतः किलास्य सर्गस्य कारणं शशशृङ्गवत् ।
प्रयत्नेनापि चान्विष्टं न किञ्चिदुपलभ्यते ॥ १३ ॥
अस्त्वभिन्नं किं ततस्तत्राह - अत इति ॥ १३ ॥
यदकारणकं भाति तदभातं भ्रमात्मकम् ।
भ्रमस्यासत्यरूपस्य सत्यता कथमुच्यते ॥ १४ ॥
ततोऽपि किं तत्राह - यदिति ॥ १४ ॥
कारणेन विना कार्यं किल किं नाम विद्यते ।
यदपुत्रस्य सत्पुत्रदर्शनं स भ्रमो न सत् ॥ १५ ॥
यदपुत्रस्य वन्ध्यापतेः स्वप्ने सत्पुत्रदर्शनं स भ्रम एवेत्यर्थः ॥ १५ ॥
यस्त्वकारणको भाति स स्वभावो विजृम्भते ।
सर्वरूपेण सङ्कल्पगन्धर्वनगरादिवत् ॥ १६ ॥
स्वभावो द्रष्ट्टचिदेव स्वरूपं जहत्तथा विजृम्भते ॥ १६ ॥
देशाद्देशान्तरप्राप्तौ क्षणान्मध्यं विदो वपुः ।
स्वरूपमजहत्त्वेव राजतेऽर्थविवर्तवत् ॥ १७ ॥
क्व तर्हि स्वरूपमजहद्राजते तत्राह - देशादिति । शाखाचन्द्रदेशयोरेव
परमार्थविवर्तवदित्युभयरूपकचनं तत्र प्रसिद्धमित्यर्थः ॥ १७ ॥
बोध एव कचत्यर्थरूपेण स च स्वादणुः ।
दृष्टान्तोऽत्रानुभूतोऽन्तः स्वप्नसङ्कल्पपर्वतः ॥ १८ ॥
असत्यप्यर्थे बोधोऽर्थरूपेण कचते इत्यर्थेऽपि दृष्टान्तावाह - बोध एवेति ॥ १८ ॥
श्रीराम उवाच ।
विद्यते वटबीजान्तर्यथा भाविमहाद्रुमः ।
परमाणौ तथा सर्गो ब्रह्मन्कस्मान्न विद्यते ॥ १९ ॥
बोध एवार्थरूपेण कचतीति किमर्थं कल्प्यते वटबीजान्तः सूक्ष्मो वृक्ष इव
बोधान्तर्जडात्मकः प्रपञ्चो लक्ष्य एव प्राक् स्थित इत्येव कुतो वा न कल्प्यत इति रामः
शङ्कते - विद्यत इति ॥ १९ ॥
श्रीवसिष्ठ उवाच ।
यत्रास्ति बीजं तत्र स्याच्छाखा विततरूपिणी ।
जन्यते कारणैः सा च वितता सहकारिभिः ॥ २० ॥
साकारे हि बीजेऽन्तर्निराकारो वटः प्रागभूत् स च भूजलादि
सहकारिकारणसमवधानेऽङ्कुरादिक्रमेणाविरभूत् । न च सर्वजगत्प्रलये
किञ्चित्साकारं सम्भवति सहकारिणो वा लक्ष्यन्त इति विषमो दृष्टान्त इत्युत्तरं
वसिष्ठ आह - यत्रेत्यादिना ॥ २० ॥
समस्तभूतप्रलये बीजमाकारि किं भवेत् ।
सहकार्यथ किं तस्य जायते यद्वशाज्जगत् ॥ २१ ॥
आकारोऽस्यास्तीत्याकारि किं बीजं भवेत् । एवं सहकार्यपि तस्य बीजस्य किं भवेत् ॥ २१॥
यत्तु ब्रह्म परं शान्तं का तत्राकारकल्पना ।
परमाणुत्वयोगोऽपि नात्र केवात्र बीजता ॥ २२ ॥
ननु ब्रह्मैव तत्र जगच्छक्तिगर्भन्न् बीजमस्तु तत्राह - यत्त्विति ।
अत्रास्मिन्ब्रह्मणि परमाणुत्वयोगोऽपि नास्ति आकारकल्पना दूरापास्तेत्यर्थः ॥ २२ ॥
कारणस्येति बीजस्य सत्यासत्यैककारिणः ।
असम्भवाज्जगत्सत्ता कथं केन कुतः क्व का ॥ २३ ॥
अत एव कारणासम्भवः प्रागुक्त इत्याह - कारणस्येति । इति अनया रीत्या ॥ २३ ॥
जगदास्ते परस्याणोरन्तरित्यपि नोचितम् ।
सार्षपे कणके मेरुरास्त इत्यज्ञकल्पना ॥ २४ ॥
यदि तु अणुः पन्था विततः पुराणः अणोरणीयान्
इत्यादिश्रुतिबलादणुत्वमभ्युपगम्येत तथापि तत्र जगत्स्थितिर्दुरुपपादेत्याह -
जगदिति ॥ २४ ॥
सति बीजे प्रवर्तन्ते कार्यकारणदृष्टयः ।
निराकारस्य किं बीजं क्व जन्यजनकक्रमः ॥ २५ ॥
यदि तु जगदपि निराकारमेवेत्यभ्युपगम्येत तर्हि सुतरां
बीजाद्यसम्भवात्तादृशब्रह्मतैव पर्यवसितेत्याह - सतीति द्वाभ्याम् ॥ २५ ॥
अतो यत्परमं तत्त्वं तदेवेदं जगत्स्थितम् ।
नेह प्रथयते किञ्चिन्न च किञ्चिद्विनश्यति ॥ २६ ॥
प्रथयते आविर्भूय स्वरूपं प्रख्यापयति ॥ २६ ॥
चिदाकाशश्चिदाकाशे हृदि चित्त्वाज्जगद्भ्रमम् ।
अशुद्धवदिवाशुद्धे शुद्धं शुद्धे प्रपश्यति ॥ २७ ॥
किं तर्हि तत्तदाह - चिदाकाश इति ॥ २७ ॥
स्वमेवाभासते तस्य रूपं स्पन्द इवानिले ।
सर्गशब्दार्थकलना नेह काश्चन सन्ति नः ॥ २८ ॥
यथा शून्यत्वमाकाशे द्रवत्वं च यथा जले ।
अन्यतात्ममयी शुद्धा सर्गतेय तथात्मनि ॥ २९ ॥
आत्ममयी स्वविवर्तरूपा स्वान्यता ॥ २९ ॥
भारूपमिदमाशान्तं जगद्ब्रह्मैव नस्ततम् ।
अनादिनिधनं सत्यं नोदेति न च शाम्यति ॥ ३० ॥
अविवर्तं तर्हि कीदृक् तदाह - भारूपमिति ॥ ३० ॥
देशाद्देशान्तरप्राप्तौ क्षणान्मध्ये विदो वपुः ।
यत्तज्जगदितीवेदं व्योमात्मनि व्यवस्थितम् ॥ ३१ ॥
तदप्रसिद्धिस्तु बहुशो वारितेति स्मारयति - देशादिति ॥ ३१ ॥
यथा स्पन्दोऽनिले तोये द्रवत्वं व्योम्नि शून्यता ।
तथा जगदिदं भातमनन्याश्लेषमात्मनि ॥ ३२ ॥
अन्येन वस्त्वन्तरेणाश्लेषः सम्बन्धस्तच्छून्यम् । असङ्गाद्वयमिति यावत् ॥ ३२ ॥
संविन्नभो ननु जगन्नभ इत्यनर्कमात्मन्यवस्थितमनस्तमयोदयं क्व ।
तत्त्वङ्गभूतमखिलं तदनन्यदेव दृश्यं निरस्तकलनोऽम्बरमात्रमास्व
॥ ३३ ॥
वर्णितं सर्वं जगतश्चित्स्वभावमात्रत्वं सङ्गृह्योपदिशन्नुपसंहरति -
संविदिति । हे राम जगत् आत्मनि परमार्थस्वभावेऽवस्थितं सत् । नन्विति निश्चयेन
संविन्नभ एव शून्यतापन्नं सत्प्रसिद्धं नभ एव किं न स्यात्तत्राह - नभ
इति । अनर्कं सूर्यरहितं तदस्तमयोदयरहितं च आत्मनि स्वरूपमात्रेऽवस्थितं च
नभ इति क्व प्रसिद्धम् । न हि नभः सच्चित्स्वभावमर्कादिशून्यन्न् वा प्रसिद्धमपि
तु जडं शून्यम् । किं च सर्वदृश्यानां यत्तत्त्वं सच्चित्स्वभावरूपं
तदनुविद्धत्वेन भानात्तदङ्गभूतमेवाखिलं प्रसिद्धं न शून्यनभोङ्गम्
येन तन्मात्रं स्यात् । अतस्तेन सच्चिदात्मनैवानन्यत् । तस्मात्त्वमपि
निरस्तसकलदृश्यश्चिदम्बरमात्रं सन् आस्व तिष्ठेत्यर्थः ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
अद्वैतैक्यप्रतिपादनं नाम चतुःपञ्चाशः सर्गः ॥ ५४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अद्वैतैक्यप्रतिपादनं नाम चतु पञ्चाशः सर्गः ॥ ५४ ॥