त्रिपञ्चाशः सर्गः ५३
श्रीराम उवाच ।
यथा चेत्ये चेतनता यथा काले च कालता ।
यथा च व्योमता व्योम्नि यथा च जडता जडे ॥ १ ॥
अध्यारोपितचेत्यानां प्रातिस्विकभिदाजुषाम् ।
भावस्त्वप्रत्ययाद्यर्थो ब्रह्मैवेत्युपवर्ण्यते ॥
ब्रह्मणोऽध्यारोपितानिर्वचनीयजगद्रूपप्राप्तिक्रमे वर्णिते तत्र
कतिपयव्यक्तिष्वनुगतमितराभ्यो व्यावृत्तं त्वतलादिभावप्रत्ययाभिधेयं
यज्जात्यादिरूपं तत्स्वरूपं तत्त्वतो जिज्ञासू रामः पृच्छति - यथेत्यादिना ।
चेत्ये स्मृतिविषये । चेतनता स्मृतिविषयभावः । वैषयिकाधारे ल्युटि तल् । चेत्यतेति
यावत् ॥ १ ॥
यथा वायौ च वायुत्वमभूतादावभूतता ।
यथा स्पन्दात्मनि स्पन्दो यथा मूर्ते च मूर्तता ॥ २ ॥
अभूतं वर्तमानं आदिपदाद्भविष्यच्च तत्र अभूतता ॥ २ ॥
यथा भिन्ने च भिन्नत्वं यथाऽनन्ते ह्यनन्तता ।
यथा दृश्ये च दृश्यत्वं यथा सर्गेषु सर्गता ॥ ३ ॥
भिन्ने वस्तुकृतपरिच्छेदादिमति । अनन्ते तच्छून्ये ॥ ३ ॥
एतत्क्रमेण हे ब्रह्मन् वद मे वदता वर ।
आदितः प्रतिपाद्यैव बोध्यन्ते ह्यल्पबोधिनः ॥ ४ ॥
एतदेवंरूपं सर्ववस्तूनामसाधारणं भावं बोधकोपायक्रमेण मे वद ।
क्रमेणेत्युक्तेराशयमुद्घाटयति - आदित इति ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
तदनन्तं महाकाशं महाचिद्घनमुच्यते ।
अवेद्यचिद्रूपमयं शान्तमेकं समस्थिति ॥ ५ ॥
त्वत्पृष्टश्चेत्यादिवस्तूनां भावश्चिदात्मैव तस्यैव
स्वाध्यस्तेष्वन्योन्यतादात्म्याध्यासेतद्भावताविभावनादित्युत्तरमभिप्रेत्य तस्य
नित्यसद्रूपतां दर्शयितुमारभते - तदनन्तमित्यादिना । यत्त्वया पृष्टं
तदिदमित्यर्थः ॥ ५ ॥
ब्रह्मविष्ण्वीश्वराद्यन्ते महाप्रलयनामनि ।
शब्दार्थे रूढिमापन्ने यच्छुद्धमवशिष्यते ॥ ६ ॥
सर्वनाशे परिशिष्यमाणत्वात्स एव सर्ववस्तूनां भावः । भूधातोर्भावे घञि
नित्यसत्तार्थे भावशब्दव्युत्पत्तेरित्याशयेनाह - ब्रह्मेति । शब्दार्थे नामरूपे ।
अरूढिं तिरोभावमापन्ने । असन्मात्रप्रलयेन परिशिष्टे सच्छब्दार्थे रूढिं
प्रसिद्धिमापन्ने इति वा ॥ ६ ॥
सर्गस्य कारणं तत्र न किञ्चिदुपपद्यते ।
मलमाकारबीजादि मायामोहभ्रमादिकम् ॥ ७ ॥
ननु तदपि स्वकारणे लीयतां तेनासदस्तु तत्राह - सर्गस्येति । तत्र सदात्मनि
सर्गस्य जन्मनः कारणं किञ्चिदपि नोपपद्यते । मलमायादीनां
तदधीनसिद्धिकत्वादिति भावः ॥ ७ ॥
केवलं शान्तमत्यच्छमाद्यन्तपरिवर्जितम् ।
तद्विद्यते यत्र किल खमपि स्थूलमश्मवत् ॥ ८ ॥
यत आद्यन्तपरिवर्जितमतस्तत्सदैव विद्यत इति सत्तार्थकभावशब्दार्थ इति भावः ॥ ८ ॥
न च नास्तीति तद्वक्तुं युज्यते चिद्वपुर्यदा ।
न चैवास्तीति तद्वक्तुं युक्तं शान्तमलं तदा ॥ ९ ॥
तद्यदा शान्तमलं तदा अस्तीति वाच्यवृत्त्या वक्तुं न युज्यते तदा हि भविता स्यान्न
भाव इति भावः ॥ ९ ॥
निमेषे योजनशते प्राप्तायामात्मसंविदि ।
मध्ये तस्यास्तु यद्रूपं रूपं तस्य पदस्य तत् ॥ १० ॥
तादृशनिर्विषयचित्स्वभावस्यात्यन्ताप्रसिद्धिमनुभवप्रदर्शनेन वारयति -
निमेषे इति । शाखाचन्द्रदर्शनकाले निमेषमात्रेण शाखोर्ध्वदेशे योजनशतं
चाक्षुषवृत्तिद्वारा प्राप्तायां प्रमातृसंविदि शाखाचन्द्रयोर्मध्ये तस्या
निर्विषयं रूपं प्रसिद्धमिति प्रागसकृद्दर्शितमेवेत्यर्थः ॥ १० ॥
सबाह्याभ्यन्तरे शान्ते वासनाविषयभ्रमे ।
सर्वचिन्ताविहीनस्य प्रबुद्धस्यार्धरात्रतः ॥ ११ ॥
अर्धरात्रिपर्यन्तं गाढनिद्रया मनसो निद्राकालुष्येऽपनीते सति ततः
समाध्यारूढानां योगिनां तद्रूपमनुभवसिद्धमित्याह - सबाह्येति
द्वाभ्याम् ॥ ११ ॥
शान्तं निःसुखदुःखस्य पुरुषस्यैव तिष्ठतः ।
यदस्पन्दि मनोरूपं रूपं तस्य पदस्य तत् ॥ १२ ॥
तृणगुल्माङ्कुरादीनां सत्तासामान्यमाततम् ।
यदुद्भवोद्भवं रूपं रूपं तस्य पदस्य तत् ॥ १३ ॥
तृणानां गुल्मानामङ्कुरकाण्डतरुविटपादीनां च सर्वपदार्थानामुद्भवे
उद्भवं तदनुषक्ततयाविर्भूतं यत्सत्तासामान्यमाततमनुगतं रूपं तदेव
त्वत्प्रययाद्यर्थ इत्यर्थः । तथा चोक्तं वाक्यपदीये सा सत्ता सा महानात्मा
तामाहुस्त्वतलादयः इति ॥ १३ ॥
तस्मिन्पदे जगद्रूपं यदिदं दृश्यते स्फुटम् ।
सकारणमिवाकारकरालमिव भेदवत् ॥ १४ ॥
तस्मिन्नेव सत्तासामान्यरूपे तादात्म्येनानुषक्तं व्यावृत्तमिव
यद्धटपटादिजगद्रूपमागन्तुकत्वात्सकारणमिव कम्बुग्रीवाद्याकारैः करालमिव
च भासते तत्सर्वमनृतम् अत एव कारणाभावान्न जातं न विद्यते चेति
परेणान्वयः ॥ १४ ॥
तत्सर्वं कारणाभावान्न जातं न च विद्यते ।
नाकारयुक्तं न जगन्न च द्वैतैक्यसंयुतम् ॥ १५ ॥
तत्तु सद्रूपं नाकारयुक्तम् अत एव न जगत् द्वैतैक्यादिनापि न सम्बद्धम् ॥ १५ ॥
यदकारणकं तस्य सत्ता नेहोपपद्यते ।
स्वयं नित्यानुभूतेऽर्थे कोऽत्रापह्नवशक्तिमान् ॥ १६ ॥
तत्कुतस्तत्राह - यदिति । अत्रार्थे सर्वेषां स्वानुभव एव मानमित्याह -
स्वयमिति ॥ १६ ॥
न च शून्यमनाद्यन्तं जगतः कारणं भवेत् ।
ब्रह्मामूर्तं समूर्तस्य दृश्यस्याब्रह्मरूपिणः ॥ १७ ॥
अस्तु तर्ह्यसतो जगतः शून्यमेव कारणं तत्राह - न चेति । शून्यस्य कारणत्वे
तस्य देशादिपरिच्छेदाभावात्सर्वं सर्वत्र सदा स्यादित्याशयेन विशिनष्टि -
अनाद्यन्तमिति । अत एव न ब्रह्मापि कारणम् । अमूर्तस्य
मूर्ताकारपरिणामायोगाच्चेत्याह - ब्रह्मेति । तथा च श्रुतिः
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः इति ॥ १७
॥
तस्मात्तत्र जगद्रूपं यदा भातं तदेव तत् ।
स्वयमेव तदा भाति चिदाकाशमिति स्थितम् ॥ १८ ॥
तस्मादीदृशे ब्रह्मणि यज्जगद्रूपं भातं तद्ब्रह्मैव तथा भातमिति । ब्रह्मैव
सर्ववस्तूनां भावस्त्वतलाद्यर्थ इत्युपसंहरति - तस्मादिति ॥ १८ ॥
जगच्चिद्ब्रह्मभावाच्च तथा भावो भ्रमादिव ।
सर्वमेकमजं शान्तमद्वैतैक्यमनामयम् ॥ १९ ॥
एवं जगतश्चिद्ब्रह्मभावादापातप्रतीतस्तथा भावो घटपटाद्याकारो भ्रमादिवेति
सिद्धे सर्वत्र सर्वमेकमेव ॥ १९ ॥
पूर्णात्पूर्णं विसरति पूर्णे पूर्णं विराजते ।
पूर्णमेवोदितं पूर्णे पूर्णमेव व्यवस्थितम् ॥ २० ॥
भ्रान्त्या तस्य जगज्जीवभावे भ्रान्त्यपगमे वास्तवब्रह्मभावे च पूर्णमदः
पूर्णमिदम् इत्यादिश्रुतिः प्राग्दर्शितैवेत्यनुवदति - पूर्णादिति ॥ २० ॥
शान्तं समं समुदयास्तमयैर्विहीनमाकारमुक्तमजमम्बरमच्छमेकम्
।
सर्वं सदा सदसदेकतयोदितात्म निर्वाणमाद्यमिदमुत्तमबोधरूपम् ॥ २१ ॥
वर्णितरीत्या सर्वमाकारैर्मुक्तं सत् सदसदेकतया सदा उदितात्मेति
यदिदमुत्तमबोधरूपं ब्रह्म परिशिष्टं तदेव निर्वाणमिति
भावप्रत्ययार्थतत्त्वमित्यर्थः ॥ २१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु नि० उत्तरार्धे
निर्वाणवर्णनं नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणवर्णनं नाम त्रिपञ्चाशः सर्गः ॥ ५३ ॥