०५२

द्विपञ्चाशः सर्गः ५२

श्रीराम उवाच ।

बोधो जगदिवाभाति मुने येन क्रमेण ह ।
तं क्रमेण क्रमं ब्रूहि भूयो भेदनिवृत्तये ॥ १ ॥

इह तार्किकतर्कोत्थकल्पनान्तरखण्डनैः ।
अनिर्वाच्यजगद्भावः कूटस्थस्य समर्थ्यते ॥

बोधः कूटस्थचिदात्मा येन क्रमेण प्रकारेण भाति तं क्रमं
वाद्यन्तरकल्पनाभेदखण्डनैः समर्थनक्रमेण भूयो ब्रूहि ॥ १ ॥

श्रीवसिष्ठ उवाच ।

वृक्षस्येव विमूढस्य यद्दृष्टौ तत्स्वचेतसि ।
यन्न दृष्टौ न तच्चित्ते भवत्यल्पतरस्मृते ॥ २ ॥

चिदात्मनो जगद्भावोऽयमनिर्वचनीय एवेत्यस्यार्थस्य समर्थनाय प्रथमं
दृष्टसृष्टिपक्षमवलम्ब्य दृष्ट्यन्वयव्यतिरेकानुविधायिस्थितिकत्वं तस्य
दर्शयति - वृक्षस्येवेति । विमूढस्याज्ञस्यात्मनो वृक्षस्य
मूलदारुपत्रपल्लवादिनानाकारघटितस्येव नानाकारं यज्जगद्रूपं तत् दृष्टौ
सत्यामेव अस्तीति स्वचेतसि प्रसिद्धं नान्यथा । अत एव ह्यल्पतरमपि दृष्टमेव
स्मर्यते न बह्वप्यदृष्टं तत्सत्ताऽप्रसिद्धेरित्यर्थः ॥ २ ॥

भव्यः पश्यति शास्त्रार्थमेव पूर्वापरान्वितम् ।
न दृष्टिविषयं वस्तु यत्पश्यति करोति तत् ॥ ३ ॥

विद्वदविदुषोः शास्त्राशास्त्रानुसारिक्रियावैलक्षण्यदर्शनादपि
तत्तद्दृष्ट्यनुसारव्यवस्थितैव जगत्सत्ता गम्यत इत्याशयेनाह - भव्य इति ।
दृष्टेर्नेत्रस्य विषयन्न् सन्निकृष्टमपि निषिद्धं वस्तु भोग्यतया न पश्यति ॥ ३ ॥

भावानुष्ठाननिष्ठः सन् शास्त्रार्थैकमना मुनिः ।
भूत्वोपदेशं त्वमिमं शृणु श्रवणभूषणम् ॥ ४ ॥

अत एव हि मयापि त्वं शास्त्रीयदृष्टिव्यवस्थापनमुखेनैव श्रवणादौ नियम्यसे
इत्याशयेनाह - भावेति । भावश्चित्तशुद्ध्यनुकूलं कर्म ॥ ४ ॥

इयं दृश्यभरभ्रान्तिर्नन्वविद्येति चोच्यते ।
वस्तुतो विद्यते नैषा तापनद्यां यथा पयः ॥ ५ ॥

अविद्यात्वप्रसिद्धेरपि तत्तथेत्याह - इयमिति ॥ ५ ॥

उपदेश्योपदेशार्थमेनां मदुपरोधतः ।
सत्यामिव क्षणं तावदाश्रित्य श्रूयतामिदम् ॥ ६ ॥

तर्हि कथं शास्त्रोपदेशतत्फलासिद्धिस्तत्राह - उपदेश्येति ॥ ६ ॥

कुत एषा कथं चेति विकल्पाननुदाहरन् ।
नेदमेषां न चास्तीति स्वयन्न् ज्ञास्यसि बोधतः ॥ ७ ॥

उपदेशफलसिद्धिकाले त्वियं भ्रान्तिर्निःशेषं निवर्तते ततोऽपि तथेत्याशयेनाह ##-

यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं कल्पान्ते तद्विनश्यति ॥ ८ ॥

इत्थं विवर्तपक्षमनुभवपर्यवसितं प्रदर्श्य पक्षान्तरेषु दोषान्विवक्षुः
सत्यस्यैव प्रपञ्चस्य वृक्षशाखान्यायेन ब्रह्माभेदमभ्युपगच्छतां पक्षे
ब्रह्मण आनन्त्यहानिः स्यादिति दोषं वक्तुं जगतो नश्वरत्वं प्रतिजानीते -
यदिदमिति ॥ ८ ॥

अस्य भागविभागात्मा नाशोऽवश्यमवारितः ।
बिन्दुना बिन्दुना बोधे उद्धृतस्यास्ति हि क्षयः ॥ ९ ॥

प्रतिज्ञातं साधयति - अस्येति । अस्य जगतो भागानां भूराद्यवयवानां विभागो
विश्लेषस्तदात्मा नाशो बोधे विमर्शे दुर्वारः सावयवत्वात् । हि
यस्माद्घटादिगतजलस्य बिन्दुना बिन्दुना पृथक्कृत्योद्धृतस्य क्षयो लोके
प्रसिद्धोऽस्ति तद्वदित्यर्थः ॥ ९ ॥

एवं स्थिते द्रव्यनाशे ब्रह्मणस्तन्मयत्वतः ।
नानन्तत्वं न चास्तित्वं न च वै सम्भवत्यलम् ॥ १० ॥

अस्तु नाशः को दोषस्तत्राह - एवमिति । शाखाद्यवयवनाशे
वृक्षनाशवद्भूरादिद्रव्यनाशे ब्रह्मणोऽपि नाशप्रसङ्गे श्रुत्युक्तमनन्तत्वं
न सिद्ध्यति । अवयवेभ्यः पृथक्कृतस्यावयविनो विमर्शे असत्त्वादस्तित्वं च न
सिद्ध्यति न च चिदेकरसं निरवयवं च ब्रह्म मूर्तादिजगदवयवकं
सम्भवतीत्यर्थः ॥ १० ॥

मदशक्तिरिव ज्ञानमिति नास्मासु सिध्यति ।
देहो विज्ञानतोऽस्माकं स्वप्नवन्न तु तत्त्वतः ॥ ११ ॥

ननु मा भूच्चिदात्मा जडजगदवयवकः जडानामेव भूम्यादिभूतानां
कायाकारपरिणतानां मदिरावयवानुगता मदशक्तिरिव चैतन्यं धर्मोऽस्त्विति
चार्वाकपक्षमुट्टङ्क्य दूषयति - मदशक्तिरेवेति । अस्मासु आस्तिकेषु । न सिध्यति
अस्मान्प्रति चार्वाकेण साधयितुं न शक्यमिति यावत् । यतोऽस्माकं प्रामाणिकानां
मते देहो विज्ञानाधीनसिद्धिकत्वात्स्वाप्नदेहवत्तात्त्विको न भवति । न हि
विज्ञानातिरेकेण देहसत्तासाधकमस्ति न चासिद्धे देहे
मदशक्तिवद्विज्ञानमुत्पत्तुमर्हतीति भावः ॥ ११ ॥

नश्यत्येव च दृश्यश्रीः सैव नान्यैव नैव च ।
इत्थं भवेत्समुचितं कृतं शास्त्रं च नान्यथा ॥ १२ ॥

किं च जगतो ब्रह्माभेदे उच्यमाने दृश्यनाशाद्ब्रह्मणोऽन्तवत्त्वशङ्का स्यात् ।
आध्यासिके त्वभेदे प्रतियोगिन इव तन्नाशस्यापि वस्तुतो ब्रह्मसंस्पर्शाभावान्न
तत्प्रसक्तिः शास्त्रसाफल्यं चेत्याशयेनाह - नश्यत्येवेति । यतः पुनः
पुनर्नष्ट्वा उद्भवन्ती दृश्यश्रीः सैव न अन्यैव च नैवेत्यनिर्वचनीया
अविद्यामात्रम् । इत्थं सत्येव विद्यया तद्बाधे शास्त्रं कृतं सफलं भवेत् ।
अन्यथा सत्यबन्धनिवृत्तौ शास्त्रस्यानुपायत्वाद्व्यर्थमेव स्यादित्यर्थः ॥ १२ ॥

सैवैतीत्यसमुल्लेखं कथं नष्टस्य सम्भवः ।
तद्रूपान्येति युक्तं स्यादनुभूतानुगा वयम् ॥ १३ ॥

प्रलये नष्टाया भुवनसंस्थितेः पुनः सृष्टाबुद्भवन्त्याः
सैवान्यैवेत्यनिर्धार्यत्वादप्यनिर्वचनीयतैवेत्याह - सैवैतीत्यादिना । या नष्टा
सैव पुनरुन्मज्जनेनैतीत्यसमुल्लेखं सम्भावयितुमशक्यम् । अनुभूतानुगाः
अनुभवानुसारिणो वयं नानुभवविरुद्धमण्वपि सहामहे इत्यर्थः ॥ १३ ॥

सैव व्योमतयैवासीदित्यसत्सैव सा कथम् ।
तथैव व्योमसंस्था चेन्नाशं तर्हि न सा गता ॥ १४ ॥

अनुभवानारोहमेव स्फुटयति - सैवेति । सा मूर्ततैव प्रलये व्योमतया
अमूर्तभावेनासीदित्यसत् । यतः सा मूर्ततैवामूर्तता कथम् । व्योमसंस्थापि सा तथा
पूर्वावस्थापन्नैव चेत्प्रलये नाशं न गतैवेति प्रलयवादोच्छेदः स्यादित्यर्थः ॥
१४ ॥

कार्यकारणयोरेकरूपतैवं यदा तदा ।
कार्यकारणताभावादैक्यमेवास्मदागमः ॥ १५ ॥

एवं सर्गेपि प्रलयावस्थाया अपि तुल्यन्यायेन प्रसक्तौ
प्रलयावस्थादव्याकृतात्कार्यस्य सर्गस्यक्यापत्तौ कूटस्थवादापत्तिरित्याह -
कार्येति । अस्मदागमोऽस्मत्सिद्धान्तः स्यादित्यर्थः ॥ १५ ॥

शून्यत्वमुपलम्भत्वं यद्गतं नष्टमेव तत् ।
अन्यस्तर्हि भवेन्नाशः कीदृशः किल कथ्यताम् ॥ १६ ॥

यद्वस्तु उपलम्भत्वं गतमपि शून्यत्वं गतं तन्नष्टमेव । सदा
उपलब्धिकालेऽप्यसत्त्वाभ्युपगमात् । असत्त्वापत्तिरेव हि नाशः । यद्यन्यादृशो नाशो
लोके भवेत्तर्हि स कीदृशः कथ्यताम् । न चोपलब्धत्वबलान्नष्टमप्यनष्टं
भवति । नष्टानामपि स्वप्ने उपलम्भदर्शनादनष्टत्वासिद्धेः ॥ १६ ॥

नष्टं भूयस्तदुत्पन्नमिति यत्प्रत्ययेति कः ।
नश्यत्यवश्यं तेनेदं पुनरन्यत्प्रवर्तते ॥ १७ ॥

भूयः समुत्पत्तिदर्शनान्मध्ये नष्टस्यापि सत्त्वं कल्प्यत इति
चेद्भेदेनाप्युत्पत्त्युपपत्तेः । प्रत्यभिज्ञादेरदर्शनाच्च नैवमित्याह -
नष्टमिति । प्रत्ययेति प्रत्यभिजानाति । अयतेर्लटि पदवर्णव्यत्ययश्छान्दसः ॥ १७ ॥

मध्ये मध्ये यदुत्सेधफलाद्यवयवैकिका ।
आदेहं बीजसत्तास्ति कार्यकारणता कुतः ॥ १८ ॥

ननु यथैकस्मिन्नेव तरौ मध्ये मध्ये
कोटरस्कन्धशाखादिवैचित्र्यभेदेऽप्यामूलाग्रं वृक्षदेहस्यैकता
शाखादितत्कार्याण्येव भिद्यन्ते एवमुत्पत्त्यादिविकारभेदेषु प्रलये पुनरुद्भवे च
भुवनाद्येकतैव किं न स्यादिति चेत्तत्राह - मध्ये इति । उत्सेध औन्नत्यं फलानि
आदिपदाच्छाखोपशाखादारुस्कन्धपत्रपुष्पादयश्च ये अवयवास्तेष्वेकिका अनुगता
वृक्षदेहमभिव्याप्य स्थिता बीजसत्तैवाखण्डा तत्रास्तीति सत्तैक्यदृष्टौ
शाखादेः पृथक्सत्ताऽसिद्धेः कार्यकारणतोच्छेदः स्यादित्यर्थः ॥ १८ ॥

देशकालक्रियात्मैकं यथादृष्टमिह स्थितम् ।
बीजमेवैककर्मातो न घटः पटकार्यकृत् ॥ १९ ॥

दृष्टान्ते उक्तं कार्यकारणतोच्छेदं दार्ष्टान्तिके दर्शयति - देशेति । यदि
प्रलयसर्गादिदेशकालक्रियात्मकमेकं सन्मात्रमेव बीजमभ्युपगम्येत तर्हि तत्
एकं स्वयमेवैकं कर्म क्रिया तत्फलं च यस्य तथाविधं सत् न किञ्चित्कुर्यात् ।
असमर्थत्वात् । न हि घटः पटकार्यासमर्थस्तत्करोतीत्यर्थः । अथवा तदनुगतं
बीजदेशात्मकं कालात्मकं क्रियात्मकं वा एकस्वभावं वाच्यम् । न ह्येकं
नानास्वभावं सम्भवति । स्वभावभेदे एकत्वानुपपत्तेः । तथा च यदि
देशैकस्वभावं तर्हि कालकार्यन्न् न कुर्यात् । न हि घटस्वभावं वस्तु
पटकार्यकृद्दृष्टमित्यर्थः ॥ १९ ॥

सर्वदर्शनसिद्धान्ते नास्ति भेदो न वस्तुनि ।
परमार्थमये तेन विवादेन किमत्र नः ॥ २० ॥

नानास्वभावमेकं वस्त्विति वदन्सर्वदर्शनसिद्धान्तातिलङ्घनाद्वैतण्डिकः
स्यादित्याशयेनाह - सर्वेति । वस्त्वैक्ये कार्यभेदः सर्वदर्शनसिद्धान्ते नास्ति ।
परमार्थमये वस्तुनि वस्तुस्वभावेऽपि भेदो नानात्वं नास्ति । अतः
सर्वदर्शनविरुद्धवादिना सह विवादेन किमित्यर्थः ॥ २० ॥

इदं शान्तमनाद्यन्तन्न् तद्रूपत्वाद्विचारतः ।
व्योमाभं बोधतामात्रमनुभूतिप्रमाणतः ॥ २१ ॥

परिशेषादेकस्वभावत्वे तु चित्स्वभावस्यैवोपजीव्यस्यैकस्य परिशेषः सिद्ध इत्याह

  • इदमिति । सर्वकल्पनानामनुभूतिप्रमाणसारत्वात्तत्स्वभावापलापायोगेन
    परिशेषाज्जडस्वभावस्यैव हानादिति भावः ॥ २१ ॥

यथैतन्नानुभूतं सद्यथैतदनुभूयते ।
यथैतत्सिद्धिमाप्नोति तदिदं कथ्यते क्रमात् ॥ २२ ॥

तदुपपादनं प्रतिजानीते - यथैतदिति ॥ २२ ॥

महाकल्पान्त उन्नष्टे सर्वस्मिन्दृश्यमण्डले ।
आमहादेवपर्यन्तन्न् समनोबुद्धिकर्मणि ॥ २३ ॥

अत एव हि सर्वभेदप्रलयेऽप्यविपरिलुप्तोऽनुभवात्मैवावशिष्यत इत्याह -
महाकल्पान्त इत्यादिपञ्चभिः ॥ २३ ॥

व्योमन्यपि शमं याते कालेऽप्यकलितस्थितौ ।
वायावपि त्वपगते तेजस्यत्यन्तमस्थिते ॥ २४ ॥

तेजस्यपि गते ध्वंसं वार्यादौ सुचिरं क्षते ।
अलमन्तमनुप्राप्ते सर्वशब्दार्थसञ्चये ॥ २५ ॥

शिष्यते शान्तबोधात्म सदच्छं बाध्यवर्जितम् ।
अनादिनिधनं सौम्यं किमप्यमलमव्ययम् ॥ २६ ॥

अवाच्यमनभिव्यक्तमतीन्द्रियमनामकम् ।
सर्वभूतात्मकं शून्यं सदसच्च परं पदम् ॥ २७ ॥

तन्न वायुर्न चाकाशं न बुद्ध्यादि न शून्यकम् ।
न किञ्चिदपि सर्वात्म किमप्यन्यत्परं नभः ॥ २८ ॥

परिशिष्टं वाय्वादिस्वरूपमेव किं न स्यात् तत्राह - तदिति ॥ २८ ॥

तद्विदा तत्पदस्थेन तन्मुक्तेनानुभूयते ।
अन्यैः केवलमाम्नातैरागमैरेव वर्ण्यते ॥ २९ ॥

इदानीमपि तद्विद्वदनुभवसिद्धमित्याह - तद्विदेति ॥ २९ ॥

न कालो न मनो नात्मा न सन्नासन्न देशदिक् ।
न मध्यमेतयोर्नान्तं न बोधो नाप्यबोधितम् ॥ ३० ॥

तत्र कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्
इत्याद्यागममर्थतो दर्शयति - न काल इति ॥ ३० ॥

किमप्येव तदत्यच्छं बुध्यते बोधपारगैः ।
शान्तसंसारविसरैः परां भूमिमुपागतैः ॥ ३१ ॥

तद्यदात्मविदो विदुःइत्यागमं च तथोदाहरति - किमपीति । चतुर्थ्यादेः पराम् ॥ ३१

प्रतिषिद्धा मयैते तु येऽर्थाः सर्वत्र ते स्थिताः ।
अस्मद्बुद्ध्या परिच्छेद्याः सौम्याम्भोधेरिवोर्मयः ॥ ३२ ॥

मयापि तेऽर्थाः श्रुत्यनुसार्यनुभवमाश्रित्य मुहुः प्रतिषिद्धा इत्याह -
प्रतिषिद्धा इति । सर्वत्र श्रुतिषु प्रतिषेध्यतया स्थिता येऽर्थास्त एव मया प्रतिषिद्धाः ॥
३२ ॥

यथास्थितं स्थिताः सर्वे भावास्तत्र यथा तथा ।
अनुत्कीर्णा महास्तम्भे विविधाः शालभञ्जिकाः ॥ ३३ ॥

तर्हि सदेव सोम्येदमग्र आसीत् इत्यादिसत्कार्यवादश्रुतीनां कोऽभिप्रायस्तमाह -
यथास्थितमिति । ब्रह्मस्वभावस्थितिरेवाविकल्पिता जगतोऽपि सत्तेत्याशयस्तासामिति भावः
॥ ३३ ॥

एवं तत्र स्थिताः सर्वे भावा एवं च न स्थिताः ।
असर्वात्मैव सर्वात्म तदेव न तदेव च ॥ ३४ ॥

अत एव नेह नानेत्यादिश्रुतीनां सदेव सोम्येत्यादिश्रुतीनां
चाविरोधेनैकमेवोभयथापि व्यपदिश्यत इत्याशयेनाह - एवमिति ॥ ३४ ॥

पदं यथैतत्सर्वात्म सर्वार्थपरिवर्जितम् ।
यथा तत्र च पश्यन्ति तत्रैकपरिणामिनः ॥ ३५ ॥

अनुत्कीर्णशिलायां पुत्रिकाभेदानामिव योगिनां तत्रेच्छया अस्ति नास्तीत्युभयथापि
दर्शनं सिद्धमित्याह - पदमिति ॥ ३५ ॥

सर्वं सर्वात्मकं चैव सर्वार्थरहितं पदम् ।
सर्वार्थपरिपूर्णं च तदाद्यं परिदृश्यते ॥ ३६ ॥

तवैतावन्महाबुद्धे सर्वार्थोपशमात्मकम् ।
न सम्यग्दानमुत्पन्नं संशयोऽत्र निदर्शनम् ॥ ३७ ॥

एतावत्प्राग्वर्णितसमाधिकालपर्यन्तम् । संशयोऽत्र सम्यग्ज्ञानानुत्पत्तौ
निदर्शनं लिङ्गम् । छिद्यन्ते सर्वसंशयाः इति श्रुतेर्निश्चिते तत्त्वे
संशयाननुभवाच्चेति भावः ॥ ३७ ॥

यः प्रबुद्धो निराभासं परमाभासमागतः ।
स्वच्छान्तःकरणः शान्तस्तं स्वभावं स पश्यति ॥ ३८ ॥

निराभासं सर्वदृश्याभासनिर्मुक्तम् । परं आभासं चरमसाक्षात्कारम् ॥ ३८ ॥

अयन्न् त्वमहमित्यादित्रिकालगजगद्भ्रमः ।
तत्रास्ति हेमपिण्डान्तरिव रूपकजालकम् ॥ ३९ ॥

हेमपिण्डान्तः रूपकाणां रूप्यमुद्राणां जालकं समूह इव कल्पनया अस्ति ॥ ३९ ॥

हेमपिण्डाद्यथा भाण्डजालं नानोपलभ्यते ।
तथा न लभ्यते भिन्नं परमार्थघनाज्जगत् ॥ ४० ॥

तर्हि किं रूपकवद्भेदेनापि जगत्सत् नेत्याह - हेमपिण्डादिति । नाना पृथक्सदिति
यावत् ॥ ४० ॥

सर्वदैव हि भिन्नात्मा स्वाङ्गभूतोपलम्भदृक् ।
स जगद्द्वैतमेवेदं हेमेवाङ्गदरूपकम् ॥ ४१ ॥

यद्यप्यनृतं सतो न भिद्यते तथापि सत्तु अनृताद्भिद्यत एवेत्याह - सर्वदैवेति
। अङ्गदरूपकमिवानृतमित्यर्थः ॥ ४१ ॥

रिक्तं देशादिशब्दार्थैर्देशकालक्रियात्मकम् ।
यथास्थितमिदं तत्र सर्वमस्ति न वास्ति च ॥ ४२ ॥

देशादिशब्दानामर्थैः प्रवृत्तिनिमित्तैर्जातिगुणक्रियादिभिः रिक्तं रहितम् ॥ ४२ ॥

यथोर्म्यादि समे तोये चित्रं चित्रकृदीहते ।
भाण्डवृन्दं मृदः पिण्डे तथेदं ब्रह्मणि स्थितम् ॥ ४३ ॥

तथैतदत्र नो भिन्नं नाभिन्नं नास्ति चास्ति च ।
नित्यं तन्मयमेवाच्छं शान्ते शान्तमिदं तथा ॥ ४४ ॥

तथैव भेदादिना दुर्निरूपस्वभावमनृतं ब्रह्मणि स्थितमित्याह - तथेति ।
तत्त्वज्ञानेन शान्ते ब्रह्मणि शान्तात्मनैव स्थितम् ॥ ४४ ॥

अनिखातैव भातीयं त्रिजगच्छालभञ्जिका ।
स्वरसस्येव दृश्यत्वमिता ब्रह्मणि दारुणि ॥ ४५ ॥

अनिखाता अनुत्कीर्णा । स्वरसस्य स्वसाक्षिणः शिल्पिनो दृश्यत्वं इतेव । ब्रह्मणि
दारुणीति व्यस्तरूपकम् ॥ ४५ ॥

निखाता दृश्यतां यान्ति स्तम्भस्थाः शालभञ्जिकाः ।
अस्मिन्नक्षोभ्य एवान्तस्तरङ्गाः सृष्टिदृष्टयः ॥ ४६ ॥

तत्र यो विशेषस्तमाह - अस्मिन्निति । अक्षोभ्ये अविकार्ये विवर्तरूपास्तरङ्गाः ॥ ४६ ॥

सरस्यतिरसे भान्ति चिद्घनामृतवृष्टयः ।
अविभागे विभागस्था अक्षोभे क्षुभिता इव ।
अविभाता विभान्तीव चिद्घने सृष्टिदृष्टयः ॥ ४७ ॥

तमेवाह - सरसीति सार्धेन । अतिरसे निरतिशयानन्दजलपूर्णे चित्सरसि
चिन्मेघामृतवृष्टिप्रायाः सृष्टिदृष्टयो विभाजकधर्मशून्येऽपि विभागस्था
अक्षोभेऽपि क्षुभिता अविभाता एव विभान्तीवेत्यपि विशेष इत्यर्थः ॥ ४७ ॥

परमाणौ परमाणावत्र संसारमण्डलम् ।
विभाति भासुरारम्भं न विभाति च किञ्चन ॥ ४८ ॥

तत्र अविभाता विभान्ति इत्येतद्विषदयति - परमाणाविति ॥ ४८ ॥

आकाशकालपवनादिपदार्थजातमस्याङ्गमङ्गरहितस्य तदप्यनङ्गम् ।
सर्वात्मकं सकलभावविकारशून्यमप्येतदाहुरजरं परमार्थतत्त्वम् ॥ ४९

वर्णितं कूटस्थस्य जगद्भावं सङ्गृह्योपसंहरति - आकाशेति ।
अङ्गरहितस्य निरवयवस्यास्य यदाकाशकालपवनादिपदार्थजातरूपमङ्गं
वर्णितं तदपि मिथ्यात्वादधिष्ठानमात्रपरिशेषाच्चानङ्गं निरवयवमेव ।
एवं सकलभावविकारशून्यमप्येतदजरमात्मतत्त्वं सर्वाध्यारोपेण
सर्वात्मकं श्रुतय आहुरित्यर्थः ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
ब्रह्मस्वरूपवर्णनं नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्मस्वरूपवर्णनं नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥