एकपञ्चाशः सर्गः ५१
श्रीराम उवाच ।
कथं केवलजाग्रत्त्वमकारणमनर्थकम् ।
पराद्विकसति ब्रह्मन्गगनादिव पादपः ॥ १ ॥
ब्रह्मदृष्टावनुत्पन्नमात्मदृष्टौ मृषोद्भवम् ।
बोधादमूर्तं च जगद्यथा तदिह वर्ण्यते ॥
प्राथम्येनावतीर्णास्ते ब्रह्मणो बृंहितात्मनः । प्रोक्ताः केवलजागर्याः इति
यदुक्तं तदनुपपन्नम् । कूटस्थाद्वयस्य ब्रह्मणः प्राथम्येन जीवतयावतारे
बीजप्रयोजनयोरसम्भवात्कामकर्मवासनादिबीजानां जीवभावोत्तरकालत्वादिति
रामः शङ्कते - कथमिति ॥ १ ॥
श्रीवसिष्ठ उवाच ।
अकारणं महाबुद्धे न कार्यमुपलभ्यते ।
तज्जाग्रतः केवलस्य न कश्चिदिह सम्भवः ॥ २ ॥
अत्यल्पमिदमुच्यते - कूटस्थाद्वयात्केवलजागराख्यजीवावतारो न सम्भवतीति
तन्मूलकजीवान्तराणां जगतश्चावतारस्यानुपपत्तेस्तुल्यत्वात् किन्तु
कूटस्थाद्वयवस्तुनो
जगज्जीवोभयापलापमन्तरेणोपदेष्टुमशक्यत्वात्तदुपदेशार्थं ब्रह्मण एव
जीवजगच्छब्दार्थाकारकलना श्रुतिस्मृतीतिहासपुराणेषु कल्पितेत्युत्तरं वसिष्ठ
आह - अकारणमित्यादिना ॥ २ ॥
तस्यातो सम्भवादन्ये जीवभेदाः सजीवकाः ।
सर्वे न सम्भवन्त्येव कारणाभावविक्षताः ॥ ३ ॥
कारणाभावादेव विक्षताः । निरस्ता इति यावत् ॥ ३ ॥
नेह प्रजायते किञ्चिन्नेह किञ्चन नश्यति ।
उपदेश्योपदेशार्थं शब्दार्थकलनोदयः ॥ ४ ॥
श्रीराम उवाच ।
कः करोति शरीराणि मनोबुद्ध्यादिचेतनैः ।
को मोहयति भूतानि स्नेहरागादिबन्धनैः ॥ ५ ॥
अस्त्वेवं तथापि भोगायतनस्य देहादेः कर्मादिद्वारा साक्षाद्वा कश्चिन्निर्माता
अवश्यं वाच्यः । कार्यमात्रस्य सकर्तृकत्वनियमात् । तत्र च जीवं प्रवेश्य
विषयैर्व्यामोहयिताऽन्यो विनाव्यामोहकं चेतनस्य व्यामोहादर्शनात् । तथा च
व्यामोह्यव्यामोहकौ द्वौ चेतनावन्यौ जीवेश्वराख्यौ
सर्गादिश्रुतियुक्तिप्रामाण्यात्स्वीकार्यावेवेति पुना रामः शङ्कते - कः करोतीति ॥ ५
॥
श्रीवसिष्ठ उवाच ।
न कश्चिदेव कुरुते शरीराणि कदाचन ।
न मोहयति भूतानि कश्चिदेव कदाचन ॥ ६ ॥
भवेतामावश्यकौ यदि शरीरादिकर्तृता व्यामोह्यव्यामोहकभावश्च सत्य इति
श्रुतियुक्तिसिद्धं स्यात् । वाचारम्भणश्रुत्या तत्त्वमस्यादिश्रुतिभिश्च तस्यानृतत्वे
निरूढे प्रतिभासमात्रस्य कूटस्थाद्वयेनापि विवर्तमात्रेण निर्वोढुं शक्यत्वान्न
तयोरावश्यकतेत्याशयेन वसिष्ठ उत्तरमाह - न कश्चिदेवेत्यादिना ॥ ६ ॥
अनाद्यन्तावभासात्मा बोध आत्मनि संस्थितः ।
नानापदार्थरूपेण कमूर्म्यादितया यथा ॥ ७ ॥
कं जलं यथा ऊर्म्यादितया तरङ्गतया स्वात्मनि स्थितं तथा बोधात्मात्मनि
स्थितः ॥ ७ ॥
बाह्यं न विद्यते किञ्चिद्बोधः स्फुरति बाह्यवत् ।
उदेति बोधहृदयाद्बीजादिव वरद्रुमः ॥ ८ ॥
ननु बाह्यार्थस्य कथमान्तरचिदात्मविवर्तता व्याश्रयत्वात्तत्राह - बाह्यमिति ।
आन्तराद्बोधहृदयादेवान्तरेव बाह्यवदुदेति ॥ ८ ॥
बोधस्यान्तरिदं विश्वं स्थितमेव रघूद्वह ।
स्तम्भस्यान्तर्यथा शालभञ्जिका प्रकटीकृता ॥ ९ ॥
बीजाद्द्रुमो बहिरेवोदेतीति विषमो दृष्टान्त इत्याशङ्क्य समं तमाह -
बोधस्येति । अथवा यद्यन्तरुदितं स्यात्तर्ह्यन्तरेव स्थितं स्यात् बहिर्हि विश्वं तिष्ठति
तत्राह - बोधस्येति ॥ ९ ॥
सबाह्याभ्यन्तरात्मैकमनन्तं देशकालतः ।
बोधामोदप्रसरणं जगदेव प्रबुध्यताम् ॥ १० ॥
वस्तुतस्तु चिद्वस्तु नान्तरं न बाह्यं किं त्वनन्तं
तदन्तरेवामोदवदान्तरबाह्योभयविधजगत्कल्पनेत्याह - सबाह्येति ॥ १० ॥
अयमेव परो लोको भाव्यतां वासनाक्षयः ।
शाम्यतां परलोकस्थं काः किलायान्ति वासनाः ॥ ११ ॥
नन्वत्रैव चेज्जगत्कल्पना तर्हि ब्रह्मलोकादिः परलोकोऽर्चिरादिमार्गगम्यो दूरे कथं
प्रसिद्ध इति चेत्तादृशानादिवासनाप्रवाहवशादेव । वासनाक्षये तु स सर्वोऽपि
स्वात्ममात्रतयात्यन्तसन्निहित एवेत्याशयेनाह - अयमेवेति । शाम्यतां विदुषा
परलोकात्मना इहैव स्थितमात्मानं न दूरत्वादिवासनाः समायान्तीत्यर्थः ॥ ११ ॥
देशकालक्रियालोकरूपचित्तात्मसत्पदम् ।
देशकालादिशब्दार्थरहितं न च शून्यकम् ॥ १२ ॥
ननु प्रत्यगात्मैव चेत्परलोकदेशकालादिसर्वात्मा तर्हि देशकालादिबाधे शून्यरूप
एव किं न स्यात्तत्राह - देशेति ॥ १२ ॥
पदे पदविदामेव तस्मिन्बोधगतिर्भवेत् ।
द्रष्टॄणां शान्तदृश्यानामेवान्येषां न राघव ॥ १३ ॥
यदि न शून्यं तर्हि पृथग्जनानामपि प्रपञ्चापलापमात्रेण तस्मिन्पदे कुतो न
बोधगतिस्तत्राह - पदे इति ॥ १३ ॥
ये वै तरलगम्भीरमहन्तागर्तमाश्रिताः ।
पश्यन्ति ते तमालोकं न कदाचन केचन ॥ १४ ॥
चतुर्दशविधानन्तभूतजातसुघुङ्घुमा ।
जगद्दृष्टिरियं ज्ञस्य शरीरावयवोपमा ॥ १५ ॥
तद्दर्शिनस्तर्हि कीदृशी जगद्दृष्टिस्तमाह - चतुर्दशेति ॥ १५ ॥
कारणाभावतः सृष्टिर्नोदिता न च शाम्यति ।
यादृशं कारणं वा स्यात्तादृग्भवति कार्यकम् ॥ १६ ॥
तेषां समाहितदृशा सृष्टिः कीदृशी व्यवहारदृशा च कीदृशी
तामुक्तोपपादनाय पूर्वोत्तरार्धाभ्यामाह - कारणेति ॥ १६ ॥
यदि स्यात्कारणे कार्यं स्थितं कारणतास्य का ।
कार्यमेवोपलम्भात्तदसद्द्वयमवेदनात् ॥ १७ ॥
तत्र पूर्वार्धोक्तं तर्केणोपपादयति - यदीति । कुतो न स्थिता तत्राह -
कार्यमेवेति । कुण्डलब्यतिरिक्तवस्त्वन्तरादर्शनान्न कारणमन्यदस्तीत्यर्थः ॥ १७ ॥
सौम्यस्यान्तर्यथाम्भोधेरूर्म्यावर्तादयः स्थिताः ।
ब्रह्मण्यसम्भवक्षोभे जगच्चित्तादयस्तथा ॥ १८ ॥
उत्तरार्धोक्तमपि दृष्टान्तेनोपपादयति - सौम्यस्येति ॥ १८ ॥
सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् ।
नानाभाण्डात्म हेमैव यथान्तःस्थितरूपकम् ॥ १९ ॥
अन्तर्गतनानाभाण्डात्मा एको मृत्पिण्ड इव ब्रह्म स्थितम् । यथा
अन्तर्गतकटककुण्डलादिरूपकं हेम तथावस्थितम् । पिण्डावस्थाया अपि कार्यत्वेन
कुण्डलादिसाम्यादिति भावः ॥ १९ ॥
स्वप्नकाले स्वप्न एव जाग्रद्व्यग्रापरिग्रहात् ।
जाग्रत्काले जाग्रदेव स्वप्नः सत्यावबोधतः ॥ २० ॥
यथ पिण्डकाले घटः पिण्ड एव घटकाले च पिण्डो घट एवेति व्यवस्थितमेकस्यैव
दर्शनम् एवं प्रपञ्चस्यापि स्वप्नकाले जाग्रत्स्वप्न एव जाग्रत्कालेऽपि स्वप्नो
जाग्रदेवेति व्यवस्थितमेकमेव जगत्तत्त्वज्ञैर्बुध्यत इत्याह - स्वप्नेति । व्यग्रस्य
वासनाविस्ताराभिनिविष्टस्य मनसः अपरिग्रहादनवरोधाद् ॥ २० ॥
चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत्स्थितम् ।
जाग्रत्स्वप्नत्वमायाति विचारविकलीकृतम् ॥ २१ ॥
जाग्रत्कालेऽपि जाग्रच्चित्तमात्रतया पर्यालोचितं स्वप्नतुल्यतामेवति सैव विदुषः
सृष्टेः शरीरावयवोपमतेत्थमुपपादितेत्युपसंहरन्सम्यग्ज्ञाने तस्यापि
समूलं बाधमाह - चित्तमात्रतयेति ॥ २१ ॥
सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह ।
पीठबन्धं विमुञ्चन्ति गतकाल इवाम्बुदाः ॥ २२ ॥
गते वर्षाकाले अम्बुदाः पीठबन्धस्वकारणनीहारभावमपि यथा विमुञ्चन्ति
तद्वदित्यर्थः ॥ २२ ॥
यथा गलितुमारब्धो घनो गगनतामियात् ।
तथा सत्यावबोधेन शाम्येत्सात्मग्रहं जगत् ॥ २३ ॥
आत्मग्रहोऽहङ्कारस्तत्सहितम् । चरमसाक्षात्कारवृत्तिसहितं वा ॥ २३ ॥
शरदभ्रवदालूना मृगतृष्णाम्बुवत्तथा ।
पुनः संस्पृश्यमानैव बोधाद्गलति दृश्यता ॥ २४ ॥
संस्पृश्यमाना स्पर्शादिना अनुभूयमानैव ॥ २४ ॥
यथा दीप्तानले लीनं सुवर्णं घृतमिन्धनम् ।
एकतां याति विज्ञाने तथा भुवनचित्तदृक् ॥ २५ ॥
बोधेन तनुतामेति पिण्डबन्धो जगत्त्रये ।
पिशाचबुद्धिः सदने बोधितस्य यथा शिशोः ॥ २६ ॥
पिण्डबन्धो मूर्ताद्याकारग्रहः । तनुतां क्रमाद्विलयम् ॥ २६ ॥
बोधस्यानन्तरूपस्य स्वयमेवात्मनात्मनि ।
जगच्चित्तादिता भाता पिण्डबन्धः किलात्रकः ॥ २७ ॥
अयं च विलयो न जतुकाठिन्यविलयवन्निमित्तापायादपैति किन्तु
शुक्तिरूप्यवदसत्प्रतियोगिकत्वादपुनरागामीत्याशयेनाह - बोधस्येति ।
अन्तास्त्रिविधपरिच्छेदा रूपाण्याकारभेदाश्च न विद्यन्ते यस्य तथाविधस्य बोधस्य
साक्षिचितः स्वयमेव निर्निमित्तमेव जगच्च तद्विकल्पकं चित्तं च तदाद्यज्ञानं चेति
त्रिरूपता भाता । अत्रास्मिन्बोधे ॥ २७ ॥
बोधाबोधनमेवेदं जगच्चित्तमिवोदितम् ।
तदेवास्तं गतं बोधात्पिण्डबन्धस्य कास्तिता ॥ २८ ॥
तथा चानृतजगच्चित्तभावेनानृतमज्ञानमेव विजृम्भत इति फलितमित्याह -
बोधाबोधनमेवेति ॥ २८ ॥
जहाति पिण्डकाठिन्यन्न् जाग्रत्स्वप्नावबोधतः ।
परां पेलवतामेति हेम द्रुतमिवाग्निना ॥ २९ ॥
एतेन जाग्रदेव स्वप्नकाले स्थौल्यं विहाय सूक्ष्मप्रपञ्चतां याति ।
स्वप्नभ्रान्तिरेव चिराभ्यासाद्घनतया जाग्रत्तामिव गच्छतीत्यादि यत्प्रागुक्तं
तत्सिद्धमित्याह - जहातीत्यादिना ॥ २९ ॥
यथास्थितं बोध एव घनतामिव गच्छति ।
विनैव देशकालाभ्यां तौ विनिर्माय हेमवत् ॥ ३० ॥
तौ जाग्रत्स्वप्नौ ॥ ३० ॥
जाग्रत्येवं विचारेण स्वप्नाभे पेलवे स्थिते ।
क्षीयमाणे शरत्काल इवैति तनुतां रसः ॥ ३१ ॥
रसो भोगरागो जलं च ॥ ३१ ॥
परां पेलवतां याता दृश्यलक्ष्म्यः स्थिता अपि ।
स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः ॥ ३२ ॥
पेलवतां तुच्छताम् ॥ ३२ ॥
क्व किल स्वात्मविश्रान्तिः क्वैतद्विषयवेदनम् ।
सुषुप्तजाग्रतोरैक्यं भ्रान्ताभ्रान्तात्मनोर्भवेत् ॥ ३३ ॥
आत्मसुखतृप्तत्वादपि तस्य विषयेष्वनादर इत्याशयेनाह - क्वेति । यदि
त्वज्ञस्यापि विषया स्वदेरंस्तर्हि सुषुप्तजाग्रतोरैक्यमपि सम्भाव्येत तथा
भ्रान्ताभ्रान्तात्मनोर्मूढतत्त्वज्ञयोश्चैक्यन्न् सम्भाव्येतेत्यर्थः ॥ ३३ ॥
चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते ।
जगतीह पदार्थेभ्यः सत्यबुद्धिर्निवर्तते ॥ ३४ ॥
जगति चित्तमात्रे सम्पन्ने स्वप्नमात्रात्मनि स्थिते सति इह स्रक्चन्दनादिपदार्थेभ्यः
सत्यताबुद्धिर्निवर्तते ॥ ३४ ॥
कस्य स्वदन्तेऽसत्यानि कथमेव महामते ।
मृगतृष्णाजलानीव दृश्यान्यपि पुरःस्थितैः ॥ ३५ ॥
असत्यान्यपि भोग्यानि तस्य स्वदन्तां तत्राह - कस्येति । वार्थे एवकारः । कथं वा
स्वदन्त इत्यर्थः ॥ ३५ ॥
सत्यबुद्धौ विलीनायां जगत्पश्यति शान्तधीः ।
जालद्वीपांशुजालाभमपिण्डात्माम्बरात्मकम् ॥ ३६ ॥
जाले वातायने प्रविष्टस्य दीपांशुजालस्याभेव
प्रकाशरूपमप्यपिण्डात्मकमेवाम्बरात्मकं पश्यति ॥ ३६ ॥
जाग्रतो वस्तुतः शून्यात्परिज्ञातान्निवर्तते ।
चित्तभ्रमात्मनो [चित्तमात्रात्मन इति पाठः सुवचः ।]
भ्रान्तिरूपास्वादनभावना ॥ ३७ ॥
अत एव चित्तमात्रात्मनः स्वाप्नस्रक्चन्दनादेः स्वदनभावना जाग्रतः पुरुषस्य
शून्यत्वेन परिज्ञातात्तस्मान्निवर्तत इति प्रसिद्धमित्यर्थः ॥ ३७ ॥
यदवस्त्विति विज्ञातं तत्रोपादेयता कुतः ।
केन स्वप्नं परिज्ञाय स्वप्नहेमाभिगम्यते ॥ ३८ ॥
स्वप्नहेम उपादातुं केनाभिगम्यते ॥ ३८ ॥
स्वप्नादिव परिज्ञाताद्रसो दृश्यान्निवर्तते ।
द्रष्ट्टदृश्यदशादोषग्रन्थिच्छेदः प्रवर्तते ॥ ३९ ॥
नीरसः शान्तमननो निर्वाणाहङ्कृतिः कृती ।
वीतरागो निरायासः शान्तस्तिष्ठति बुद्धधीः ॥ ४० ॥
रसनिवृत्तावसौ कथमास्ते तदाह - नीरस इति । नीरसो निःस्नेहो बन्ध्वादिषु ।
वीतरागो विषयेषु ॥ ४० ॥
रसे नीरसतां याते वासना प्रविलीयते ।
शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा ॥ ४१ ॥
बोधाद्दीपांशुजालाभमघनं व्योम दृश्यते ।
भ्रान्तिरूपं जगत्कृत्स्नं गन्धर्वनगरं यथा ॥ ४२ ॥
प्राग्भ्रान्तिरूपं कृत्स्नं जगत्तत्त्वबोधाद्दीपांशुजालवत्प्रकाशैकरसमघनं
सद्व्योमतुल्यन्न् दृश्यते ॥ ४२ ॥
नैवात्मानं न चाकाशं न शून्यं न च वेदनम् ।
अत्यन्तपरिणामेन पश्यन्पश्यति तत्पदम् ॥ ४३ ॥
सप्तमभूमिकास्थितिलक्षणेनात्यन्तपरिणामेन तर्हि कथं भवति तदाह - नैवेति
। पश्यंस्तत्त्वज्ञः ॥ ४३ ॥
यत्र नात्मा न शून्यं च न जगत्कलना न च ।
न चित्तदृश्योदयधीः सर्वं चास्ति यथास्थितम् ॥ ४४ ॥
भूम्यादिताऽज्ञसम्बुद्धा ज्ञानादस्तमुपागता ।
ज्ञस्य शून्यैव सम्पन्ना संस्थितापि न विद्यते ॥ ४५ ॥
अज्ञैः पिण्डग्रहेण सम्बुद्धा भूम्यादिता ति ज्ञानादस्तं बाधमुपागता ॥ ४५ ॥
भवत्येकसमाधानसौम्यात्मा व्योमनिर्मलः ।
तिष्ठत्यपगतासङ्गः स्थित एवाप्यसत्समः ॥ ४६ ॥
अस्तङ्गतमना मौनी निरोधपदवीं गतः ।
तीर्णः संसारजलधेः कर्मणामन्तमागतः ॥ ४७ ॥
तनुभुवनगगनगिरिगणकरणपरं परममज्ञानम् ।
विगलति गलिते तस्मिन् सकलमिदं विद्यमानमपि ॥ ४८ ॥
यस्मात्कारणात्तनूनां चतुर्विधशरीराणां तदाधाराणां भुवनानान्न्
तदाधारस्य गगनस्य विहारस्थानानां गिरिगणानां तत्साधनानान्न् करणानां च
परमुपादानकारणं परममज्ञानं मूलाज्ञानमेव नान्यत् । अतः
कारणात्तस्मिन्मूलाज्ञाने ज्ञानेन गलिते सति इदं तनुभुवनादिसकलं
जगदज्ञदृशा विद्यमानमपि विगलति । असद्भवतीत्यर्थः ॥ ४८ ॥
संशान्तान्तःकरणो गलितविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्तस्तिष्ठति विद्वान्निरावरणः ॥ ४९ ॥
एवंरीत्या गलितविकल्पो योगी स्वरूपसारमयः सन्परमशमामृतेन स्वानन्देन
तृप्तो निरावरणभूमानन्दस्वभावस्तिष्ठतीत्यर्थः ॥ ४९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
विश्रान्तियोगोपदेशो नामैकपञ्चाशः सर्गः ॥ ५१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विश्रान्तियोगोपदेशो नामैकपञ्चाशः सर्गः ॥ ५१ ॥