पञ्चाशः सर्गः ५०
श्रीवसिष्ठ उवाच ।
इमे ये जीवसङ्घाता दृश्यन्ते दश दिग्गताः ।
नरनागसुरागेन्द्रगन्धर्वाद्यभिधानकाः [(देव) (भूत)
इति चेद्वरं ।] ॥ १ ॥
वासनादार्ढ्यशैथिल्यभेदवैचित्र्यकल्पितम् ।
इह बोधाय जीवानां साप्तविध्यं प्रपञ्च्यते ॥
सर्व एव समा जीवा वासनामन्तरेण चेत्यन्ते यज्जीवानां वासनावैचित्र्यमात्रेण
वैचित्र्यमुक्तं तत्साप्तविध्येन लक्षणैर्निरूपयितुं प्रतिजानीते - इमे इति ।
नरनागादिदेहवैचित्र्यैर्ये दृश्यन्ते ते इति सम्बन्धः ॥ १ ॥
ते स्वप्नजागराः केचित्केचित्सङ्कल्पजागराः ।
केचित्केवलजाग्रत्स्थाश्चिराज्जाग्रत्स्थिताः परे ॥ २ ॥
घनजाग्रत्स्थिताश्चान्ये जाग्रत्स्वप्नास्तथेतरे ।
क्षीणजागरकाः केचिज्जीवाः सप्तविधाः स्मृताः ॥ ३ ॥
श्रीराम उवाच ।
एतेषां भगवन्भेदो बोधाय मम कथ्यताम् ।
जीवानां सप्तरूपाणां जलानामर्णवेष्विव ॥ ४ ॥
अर्णवेषु क्षीरादिरसभेदवासितानां जलानामिव ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
कस्मिंश्चित्प्राक्तने कल्पे कस्मिंश्चिज्जगति क्वचित् ।
केचित्सुप्ताः स्थिता देहैर्जीवा जीवितधर्मिणः ॥ ५ ॥
तत्राद्यान् जीवटोपाख्यानदर्शितन्यायमवलम्ब्य लक्षयति - कस्मिंश्चिदित्यादिना ।
देहैर्जीवितधर्मिणो जीवन्तः सन्तो ये स्वप्नमभिपश्यन्तीति परेणान्वयः ॥ ५ ॥
ये स्वप्नमभिपश्यन्ति तेषां स्वप्नमिदं जगत् ।
विद्धि ते हि खलूच्यन्ते जीविकाः स्वप्नजागराः ॥ ६ ॥
क्वचिदेव प्रसुप्तानां यः स्वप्नः स्वयमुत्थितः ।
विषयः सोऽयमस्माकं तेषां स्वप्ननरा वयम् ॥ ७ ॥
तेषां स्वयमुत्थितो यः स्वप्नप्रपञ्चः सोऽयं
समानकर्मवासनोद्भववशादस्माकं यदा विषयोभवति तदा वयं तेषां
स्वप्ननरा इत्यर्थः । उपपादितो ह्यमर्थः प्राग्लीलोपाख्याने ॥ ७ ॥
तेषां चिरतया स्वप्नः स जाग्रत्त्वमुपागतः ।
स्वप्नजागरकास्ते तु जीवास्ते तद्गताः स्थिताः ॥ ८ ॥
तेषु स्वप्नजागरकशब्दमुपपादयति - तेषामिति । उपागतो यतोऽत इति शेषः ॥ ८ ॥
सर्वज्ञत्वात्सर्वगस्य सर्वं सर्वत्र विद्यते ।
येन स्वप्नवतां तेषां वयं स्वप्ननराः स्थिताः ॥ ९ ॥
तेषां स्वप्ननरा वयम् इति यदुक्तं तदप्युपपादयति - सर्वज्ञत्वादिति ।
नन्वस्मदीयदेहादिप्रपञ्चो यदि वासनात्मना तच्चित्ते स्यात्तदा स एव तेषां स्वप्ने
उद्भूत इति तदन्तर्गतानामस्माकं तदीयस्वप्ननरत्वं स्यात् । न त्वेतत्सम्भवतीति
चेन्मैवम् । येन हेतुना सर्वं सर्वत्र विद्यते सर्वसत्ताप्रदस्य
मायाशबलब्रह्मणः सर्वगस्य सर्वत्र सर्वज्ञत्वात् । अतो वयं तेषां
स्वप्ननरास्तदन्तःकरणे वासनात्मना स्थिता एव तत्स्वप्ने
कर्मसाम्याद्युगपदभिव्यक्ता इत्यर्थः ॥ ९ ॥
श्रीराम उवाच ।
येषु कल्पेषु ते जाताः क्षीयन्ते कल्पकल्पनाः ।
यदि तास्तत्कथं तेषां प्रबुद्धानामवस्थितिः ॥ १० ॥
अस्तु दैशिकी सर्वत्र सर्वस्थितिः कालिकी तु न सम्भवति । अतीतकल्पेषु
वर्तमानवस्तुस्थित्ययोगादन्यथा सर्वकल्पानां यौगपद्यापत्त्या
भेदाभावप्रसङ्गादित्याशयेन रामः पृच्छति - येष्विति । प्राग्येषु कल्पेषु ते
अस्मत्प्रपञ्चस्वप्नद्रष्टारो जीव जाता जन्म प्राप्तास्तेषां कल्पानां कल्पनाः सह
तद्देहैः साम्प्रतं यदि क्षीयन्ते नष्टास्तर्ह्येतस्मात्स्वप्नात्प्रबुद्धानां तेषां
पुनरतीते कल्पे नावस्थितिः सिद्ध्यति । न ह्यद्यतनस्वप्नात्प्रबुद्धेन पूर्वेद्युस्तनोऽपि
जागरोऽनुभवितुन्न् शक्यः दूरे पूर्वकल्पस्थः स इति भावः ॥ १० ॥
श्रीवसिष्ठ उवाच ।
इह स्वप्नभ्रमान्ते ते मुच्यन्ते वा विनिद्रताम् ।
प्राप्य सङ्कल्पतो देहांस्तथैवान्यान्श्रयन्त्यलम् ॥ ११ ॥
ते जीवा यद्यस्मत्प्रपञ्चात्मके स्वप्ने तत्त्वज्ञानं दैवाल्लभन्ते तर्हि मुच्यन्त एवेति
नैतद्दोषप्रसक्तिः यदि तु तन्न लभन्ते तर्हि न तत्कल्पशेषस्तेषामतीत इत्यग्रे
उद्भविष्यत्येव । अन्यकल्पनाकल्पितानामेवात्ययात् । तच्चेतसि
प्रातिस्विकतत्कल्पशेषकल्पनाया अग्रेऽप्यैन्दवोपाख्यानन्यायेनोपपत्तेरित्याशयेन
वसिष्ठः समाधत्ते - इहेति । अन्यान्श्रयन्ति इत्युक्त्या दृष्टसृष्टिवादमालम्ब्य
प्रत्यहं जागरे देहान्तरकल्पनायामपि संस्कारवशादेव प्रत्यभिज्ञेत्यपि
दर्शितम् ॥ ११ ॥
तथैवान्यम्प्रपश्यन्ति जगत्कल्पं च कल्पितम् ।
कल्पनाभासनभसो न हि सङ्कटता भवेत् ॥ १२ ॥
सङ्कटता निरवकाशता ॥ १२ ॥
सङ्कल्पनात्मकजगज्जीर्णोदुम्बरकीटकाः ।
स्वप्नजागरकाः प्रोक्ताः शृणु सङ्कल्पजागरान् ॥ १३ ॥
आद्यजीवानां निरूपणमुपसंहृत्य द्वितीयान्वक्तुमुपक्रमते - शृण्विति ॥ १३ ॥
कस्मिंश्चित्प्राक्तने कल्पे कस्मिंश्चिज्जगति क्वचित् ।
अनिद्रालव एवान्तः सङ्कल्पैकपराः स्थिताः ॥ १४ ॥
अनिद्रालवस्त्यक्तनिद्रा एवैन्दववत्सङ्कल्पपराः ॥ १४ ॥
ध्यानाद्विलुठिता वाथ मनोराज्यवशानुगाः ।
सङ्कल्पदार्ढ्यमापन्ना गलिताग्रानुभूतयः ॥ १५ ॥
अथवा जीवटोपाख्यानोक्तभिक्षुवद्ध्यानाद्विलुठिताश्चलिताः । गलिता अग्रानुभूतिः
पूर्वावस्थानुसन्धानं येषाम् ॥ १५ ॥
सङ्कल्प एव जाग्रत्त्वं येषां चिरतयांशतः ।
तत्रास्तमितचेष्टानां ते हि सङ्कल्पजागराः ॥ १६ ॥
येषां जीवानां सङ्कल्प एव चिरानुवृत्त्या घनीभूते जाग्रत्त्वं जागराभिमानः
तत्र साङ्कल्पिकार्थेष्वेवास्तमिता न पूर्वापरप्रतिसन्धानक्षमा मनश्चेष्टा
येषाम् ॥ १६ ॥
सङ्कल्पोपशमे भूयस्तमन्यं वा श्रयन्ति ते ।
देहे तेषां वयमिमे सङ्कल्पपुरुषाः स्थिताः ॥ १७ ॥
तं प्राक्तनं व्यवहारमन्यं तद्विलक्षणं वा । तेषां दृष्ट्या तु वयं
सङ्कल्पपुरुषा एव तुल्यसङ्कल्पोद्भवादित्यर्थः ॥ १७ ॥
सङ्कल्पजागराः प्रोक्ता एते सङ्कल्पशायिनः ।
जीवा जीवितगा लोकाः शृणु केवलजागरान् ॥ १८ ॥
एते जीवाः । तेषां सङ्कल्पजीवितं गच्छन्ति प्रविशन्ति तथाविधा अस्मदादिलोकाश्च
तद्दृष्ट्या सङ्कल्पजागरा एव । तृतीयान् श्रावयति - शृण्विति ॥ १८ ॥
प्राथम्येनावतीर्णास्ते ब्रह्मणो बृंहितात्मनः ।
प्रोक्ताः केवलजागर्याः प्रागुत्पत्त्यविकासिनः ॥ १९ ॥
सृष्टिसङ्कल्पेन बृंहितात्मनो ब्रह्मणो वक्ष्यमाणरुपादस्मिन्कल्पे
प्राथम्येनावतीर्णा लब्धशरीरास्तस्मिञ्जन्मनि
स्वप्नपूर्वकत्वाभावात्केवलजागर्याः । यथा प्रागुक्ता दामव्यालकटाः । यतस्ते
प्रागुत्पत्तिविकाशलक्षणस्वप्नशून्याः कल्पान्तरीयजाग्रत्संस्कारस्य
जाग्रज्जननेनैवोपक्षीणस्यैतत्कल्पीयस्वप्नहेतुत्वाकल्पनादिति भावः ॥ १९ ॥
भूयो जन्मान्तरगतास्त एव चिरजागराः ।
कथ्यन्ते प्रौढिमायाताः कार्यकारणचारिणः ॥ २० ॥
चतुर्थानाह - भूय इति । जन्मान्तरेषूत्तरोत्तरजन्मपरम्परासु गताः
कार्ययोर्जाग्रत्स्वप्नयोः कारणे सुषुप्तौ च सञ्चरणशीलाः ॥ २० ॥
त एव दुष्कृतावेशाज्जडस्थावरतां गताः ।
घनजाग्रत्तया प्रोक्ता जाग्रत्सु घनतां गताः ॥ २१ ॥
पञ्चमाṁल्लक्षयति - त एवेति । जाग्रत्सु जाग्रद्दशासु घनतामज्ञाननिबिडताम् ।
जाग्रत्स्विति विशेषणात्स्वप्ने स्थावराणामपि कदाचिन्मनुष्यभावादिदर्शनमस्त्येवेति
गम्यते । इति पञ्चधा भिन्ना बद्धजीवाः ॥ २१ ॥
ये तु शास्त्रार्थसत्सङ्गबोधिता बोधमागताः ।
पश्यन्ति स्वप्नवज्जाग्रज्जाग्रत्स्वप्ना भवन्ति ते ॥ २२ ॥
अवशिष्टं भेदद्वयं जीवन्मुक्तेषु दर्शयिष्यन् षष्ठानाह -ये त्विति ।
चतुर्थपञ्चमषष्ठभूमिकास्था इति यावत् ॥ २२ ॥
ये तु सम्प्राप्तसम्बोधा विश्रान्ताः परमे पदे ।
क्षीणजाग्रत्प्रभृतयस्ते तुर्यां भूमिकां गताः ॥ २३ ॥
सप्तमभूमिकारूढा एव सप्तमा इत्याशयेनाह - ये त्विति ॥ २३ ॥
इति सप्तविधो भेदो जीवानां कथितस्तव ।
समुद्राणामिव मया बुद्ध्वा श्रेयःपरो भव ॥ २४ ॥
श्रेयः परः उत्तरोत्तरश्रेष्ठभूमिकातत्परः ॥ २४ ॥
भ्रान्तिं परित्यज जगद्गणनात्मिकां त्वं बोधैकरूपघनतामलमागतोऽसि ।
शून्यत्ववर्जितमशून्यतया च मुक्तं तेन द्वयैक्यकविमुक्तवपुस्त्वमाद्यम्
॥ २५ ॥
हे राम त्वं जगतो गणना द्वितीयादिवस्तुबुद्ध्या दर्शनं तदात्मिकां भ्रान्तिं
परित्यज । यतः अलं बोधैकरूपघनतामागतोऽसि । तेन द्वितीयाद्यभावेन
तद्व्यावृत्तैक्यस्याप्यसम्भवेन द्वयैक्यकाभ्यां विमुक्तवपुः अत एव
शून्यत्ववर्जितमप्यशून्यताख्यधर्मेणापि मुक्तम् । आद्यन्न् सर्वकल्पनाभ्यः
प्राथमिकमधिष्ठानसन्मात्रमेव त्वं शिष्ट इत्यर्थः ॥ २५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो निर्वाणप्रकरणे उत्तरार्धे
जीवसप्तकप्रकारवर्णनं नाम पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जीवसप्तकप्रकारवर्णनं नाम पञ्चाशः सर्गः ॥ ५० ॥