एकोनपञ्चाशः सर्गः ४९
श्रीवसिष्ठ उवाच ।
परिपुष्टविवेकानां वासनामलमुज्झताम् ।
महत्ता महतामन्तः काप्यपूर्वैव जायते ॥ १ ॥
सुप्ररूढविवेकानां महत्ता यादृशी भवेत् ।
यादृक्च विश्वं भवति स्फुटं तदिह वर्ण्यते ॥
कापि लोकोत्तरा महत्ता जायते ॥ १ ॥
औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् ।
महतां नावगाहन्ते भुवनानि चतुर्दश ॥ २ ॥
तामेव प्रपञ्चयति - औदार्येत्यादिना । औदार्यस्य सर्वलोके तारतम्येन
प्रसिद्धस्य उदारां श्रेष्ठान्न् मर्यादामवधिभूतां गाम्भीर्येण च सुन्दरी
महतां मतिं चतुर्दशापि भुवनानि तद्गतसम्पदो जनाश्च नावगाहन्ते । न
प्रलोभयितुमियत्तया कलयितुं वा शक्नुवन्तीत्यर्थः ॥ २ ॥
चित्तभ्रान्तिर्जगदिति प्ररूढे प्रत्यये सताम् ।
बाह्यश्चान्तश्चरन्नक्रग्रहो मोहश्च शाम्यति ॥ ३ ॥
बहिः शब्दादिलक्षणेष्वतिग्रहेषु भवो बाह्यः अन्तः
सङ्कल्पविकल्पादिरूपैश्चरन्नत एव हृदान्तर्बहिः सञ्चारक्षमनक्रप्रायो ग्रहः
समनस्केन्द्रियादिकलापस्तन्मूलभूतो मोहः अज्ञानं
चकाराद्वासनाकामकर्मादिश्च शाम्यतीत्यर्थः ॥ ३ ॥
द्वीन्दुवत्तापजलवत्केशोण्ड्रकवदम्बरे ।
विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययः कुतः ॥ ४ ॥
भ्रान्तीनां सत्यताभिमानो यावत्कालं तावदेव तद्वासनोपचयः तासां भ्रान्तित्वेन
स्फुरणे तद्वासनानामपि मूलोच्छेदादुच्छेदो लोके प्रसिद्ध इति
दृष्टान्तानुदाहृत्य दर्शयति - द्वीन्दुवदिति । जगद्भ्रान्तौ भ्रान्तिरेवेयमिति
तत्त्वबोधाद्विस्फुरन्त्यां सत्याम् ॥ ४ ॥
वासनाप्रत्यये शून्ये शून्यं व्योमैव शिष्यते ।
साप्यवस्था मनोऽसत्त्वे कुतस्त्याज्या विवेकिना ॥ ५ ॥
सा वासनाशून्या अवस्थापि मनसः असत्त्वे सति सिद्ध्यति । सा निर्वासना
निर्मनस्कावस्था सप्तमभूमिकायां विवेकिना प्राप्ता कुतस्त्याज्या । तत्त्यागे
हेतुर्नास्त्येवेत्यर्थः ॥ ५ ॥
त्रयमेतत्तु यावस्थात्रयेणानेन वर्जिता ।
पश्यन्तीवाप्यपश्यन्ती सावस्था परमोच्यते ॥ ६ ॥
एतत्तु जाग्रदाद्यवस्थात्रयमेव सर्वेषां प्रसिद्धम् । या तु अनेन त्रयेण वर्जिता
सावस्था दर्शनादिव्यवहारमूलबाधादपश्यन्त्यपि
जीवनमात्रहेतुप्रारब्धशेषेण पश्यन्तीवान्यदृशा भाति तद्दृष्ट्या तु परमैव
सोच्यते न दृश्यानुषक्तेत्यर्थः ॥ ६ ॥
विचित्ररत्नरश्म्योघ इव नानात्मकं जगत् ।
आभासमात्रं न त्वात्मा न घनं न च पार्थिवम् ॥ ७ ॥
तादृशां व्युत्थानकालेऽपि जगन्न आत्मा न घनं नापि पृथिव्यादिघटितं किन्तु
विचित्रो रत्नरश्म्योघो निबिडितप्रभापुञ्ज इव घनताद्याभासमात्रमित्यर्थः ॥ ७ ॥
रूपालोकनमात्रं हि शून्यमेव जगत्स्थितम् ।
खे विचित्रमणिव्यूहकरजालमिवोत्थितम् ॥ ८ ॥
नेह सत्यानि भूतानि न जगत्ता न शून्यता ।
इदं ब्रह्माख्यरत्नेशप्रभाजालं विजृम्भितम् ॥ ९ ॥
सृष्टयोऽसृष्टयो ब्राह्म्यो नानाता च न नाशताः ।
अमूर्ता एव भासन्ते कल्पनार्कगणा घनाः ॥ १० ॥
यतो नानाता नास्त्यतः सृष्टयो न सन्ति । यतश्च नाशताः न सन्ति अतः असृष्टयः
प्रलयाश्च न सन्ति किं त्वमूर्ता एव कल्पनार्कगणा घनीभूय भासन्त इत्यर्थः ।
अर्कपदेन तत्किरणा लक्ष्यन्ते ॥ १० ॥
एवं तावद्धनीभूतः पिण्डग्राहो न विद्यते ।
सङ्कल्पिते च व्योम्नीव शून्यतैवावगम्यते ॥ ११ ॥
सङ्कल्पकल्पितमूर्ताकाराणां मनोराज्यादौ शून्यतैव प्रसिद्धा न पिण्डग्रह
इत्याह - एवं तावदिति ॥ ११ ॥
तस्यामवस्तुभूतायां कथं भावनिबन्धनम् ।
भविष्यदाकाशतरौ विश्रान्तः को विहङ्गमः ॥ १२ ॥
शून्यताप्रसाधनस्य फलमाह - तस्यामिति । तस्यां शून्यतायां
अहम्ममतारागद्वेषादिभावनिबन्धनं कथम् । न सम्भवत्येवेत्यर्थः ॥ १२ ॥
पिण्डत्वं नास्ति भूतानां शून्यता च न विद्यते ।
चित्तमप्यत एवास्तं शेषं सत्तन्न चास्थिति ॥ १३ ॥
एवं जगतः पिण्डत्वाद्यपलापे सन्मात्रं सारतया परिशिष्टमित्याह -
पिण्डत्वमिति । तत्तु दुरपह्नवमित्याह - तन्न चास्थितीति ॥ १३ ॥
अनानासममेवास्ते नानारूपो विबोधवान् ।
अन्तरालीननानार्थो यथा कनकपिण्डकः ॥ १४ ॥
अत एव तत्त्वविज्जाग्रत्यपि सुषुप्तस्थो भासमाननानात्वानां
सन्मात्रात्मन्यन्तर्लयादिति सदृष्टान्तमाह - अनानासममेवेति ॥ १४ ॥
यथास्थितस्य साहन्त्वं विश्वं चित्तं विलीयते ।
ज्ञस्यावाच्यमचित्त्वं सत्स्वरूपमवशिष्यते ॥ १५ ॥
ननु ज्ञस्य तत्सन्मात्रमवशिष्टचिद्रूपमेव किं न स्यात् । सति हि चित्ते चिदभिव्यक्तिः
प्रसिद्धा तद्विलये तदसम्भवादित्याशङ्क्याह - यथास्थितस्येति । यदि
अयथास्वभावे जाड्ये स्थितस्यास्य साहन्त्वं विश्वं चित्तं च विलीयेत तदा
जडसन्मात्रपरिशेषो भवेत् । न त्वेवं किन्तु ज्ञस्य यथाभूतचिदेकस्वभावे
स्थितस्य साहन्त्वं विश्वं चित्तं च तत्त्वदर्शनाद्विलीयते तदा तु
परिशिष्टचिदेकरसस्याऽचित्त्वं वक्तुमशक्यमिति चिदेकरससत्परिशेषसिद्धिरित्यर्थः ॥
१५ ॥
क्लिश्यते केवलं बुद्धिरुत्तराधरदर्शनैः ।
स्तोकयाभ्यस्तया युक्त्या सत्योऽर्थोह्यवगम्यते ॥ १६ ॥
यदि तत्स्वरूपमेव तर्हि सर्वेषां कुतो न सुलभमिति चेदुच्चावचविषयेष्वेव
बुद्धेश्चञ्चलतया स्थैर्याभावादित्याह - क्लिश्यत इति ॥ १६ ॥
विराडोजोविरहितं कार्यकारणतादिभिः ।
भूतभव्यभविष्यस्य जगदङ्गस्य सम्भवम् ॥ १७ ॥
कासौ स्तोका युक्तिस्तां दर्शयंस्तदभ्यासफलं ज्ञानलक्षणमित्याह - विराडिति
। येन अधिकारिणा भूतभव्यभविष्यत्सर्ववस्तुलक्षणस्य जगदङ्गस्य सम्भवं
जन्म कार्यकारणतादिभिर्मिश्य वाचारम्भणश्रुतिदर्शितन्यायेन विराजा
स्थूलप्रपञ्चेन ओजसा तद्विष्टम्भकसूत्रात्मकप्रधानेन सूक्ष्मप्रपञ्चेन
विरहितं परिशिष्टसन्मात्ररूपाखण्डबोधात्मना बुद्धं स एव ज्ञस्तत्त्वविदिति
सार्धस्यार्थः ॥ १७ ॥
येन बोधात्मना बुद्धं स ज्ञ इत्यभिधीयते ।
अद्वैतस्योपशान्तस्य तस्य विश्वं न विद्यते ॥ १८ ॥
पूर्वोक्ताः सर्व एवैते उपदेशा विशेषणाः ।
ज्ञस्यानुभवमायान्ति स्वतः साधुकथा इव ॥ १९ ॥
सर्वोपदेशानां तत्तदसम्भावनांशव्यावर्तकानां तादृशानुभवे
पर्यवसानमित्याह - पूर्वोक्ता इति ॥ १९ ॥
पिण्डत्वं नास्ति भूतानां शून्यत्वं चाप्यसम्भवात् ।
अत एव मनो नास्ति शेषं सत्तत्तव स्थितिः ॥ २० ॥
युक्त्यन्तरमाह - पिण्डत्वमिति ।चतुर्विधभूतग्रामाणां
पृथिव्यादिमहाभूतानां चावयवशो गुणशश्च विविच्य दृश्यमानानां
परमाणुभावेऽप्यविश्रान्तेः पिण्डत्वं तावन्नास्ति । नापि च शून्यत्वं
प्रत्यक्षत्वाद्यसम्भवात् । उभयासम्भवे च सर्वविकल्पापगमात्तदधीनस्थितिकं
मनोऽपि नास्तीत्यविकल्पं सन्मात्ररूपं स्फुरणमेव शिष्यत इति शेषं तदेव तव
पारमार्थिकं रूपं स्थितिः प्रतिष्ठेत्यर्थः ॥ २० ॥
चेत्योन्मुखत्वमेवान्तश्चेतनस्यास्य चेतनम् ।
उदितं तदनर्थाय श्रेयसेऽनुदितं भवेत् ॥ २१ ॥
युक्त्यन्तरमाह - चेत्योन्मुखत्वमिति । अन्तश्चेतनस्यास्य
प्रत्यगात्मनश्चेत्योन्मुखत्वमेव चेतनं संसारात्मना बोधः ॥ २१ ॥
उदितं बाह्यतामेति तत्र गच्छति पिण्डताम् ।
स्वयं संवेदनादेव जाड्यादम्ब्विव शैलताम् ॥ २२ ॥
कथमनर्थाय तदाह - उदितमिति । शैलतां करकोपलभावम् ॥ २२ ॥
स्वप्नाद्यर्थवदादत्ते बोधोऽबोधेन पिण्डताम् ।
तद्ग्राहकतया चित्तं भूत्वा बध्नाति देहकम् ॥ २३ ॥
बोधश्चिदात्मा । अबोधेन स्वाज्ञानेन ॥ २३ ॥
एतावतीष्ववस्थासु बोधस्योदेति नान्यता ।
शब्दकल्पनया भेदः केवलं परिकल्पितः ॥ २४ ॥
ईदृशविवर्तसहस्रैरपि चितो चितो नाणुमात्रमपि विकार इति तेषां
वाचारम्भणमात्रत्वमित्याह एतावतीष्विति ॥ २४ ॥
बहिरन्तश्च बोधस्य भात्यात्मैवार्थदृष्टिभिः ।
अन्तस्त्वेन बहिष्ट्वेन नैवास्य मनसो यथा ॥ २५ ॥
यथा स्वप्नस्य मनसा दर्शने मनस एवान्तस्त्वेन बहिष्ट्वेन च मन एव विकृतं
भाति न तथा बोधात्मा अर्थदृष्टिभिर्भासमानोऽपि विकृत इत्यर्थः ॥ २५ ॥
बोधस्याकाशकल्पत्वात्कालाकाशादि तद्वपुः ।
पदार्थाश्चैव स्वात्मानः स्वप्नवन्नार्थरूपि खम् ॥ २६ ॥
कुतो न विकृतस्तत्राह - बोधस्येति । कालाकाशादिवदविकृतमित्यर्थः । अर्थरूपि
अर्थाकारपरिणामि ॥ २६ ॥
बाह्यार्थता नान्तरत्वं तद्वद्बोधवशाद्व्रजेत् ।
नासादृश्यं हि बोधत्वं गन्तुन्न् शक्तं जडं क्वचित् ॥ २७ ॥
चिज्जडबाह्यार्थाकारेण न विक्रियतां जडमेव तत्त्वबोधवशादान्तरचिदाकारत्वेन
विक्रियतां तत्राह - बाह्येति । हि
यस्माज्जडमसादृश्यमत्यन्तविसदृशमित्यर्थः ॥ २७ ॥
बोधो दृश्यदशां नैति प्राप्तो वापि च तां स्थितिम् ।
स यथास्थितमेवास्ते मनागप्येति नान्यताम् ॥ २८ ॥
तां दृश्यस्थितिं विवर्तवशात्प्राप्तोऽपि स बोधो यथास्थितमविकृत एवास्ते ॥ २८ ॥
अत्यर्थं शुद्धबोधैकपरिणामे कृतोदये ।
बोधाबोधार्थशब्दानां श्रुतिरप्यस्तमेष्यति ॥ २९ ॥
सप्तमभूमिकाविश्रान्तिपर्यन्ते परिणामे परिणतौ ॥ २९ ॥
आतिवाहिकदेहानां चित्तानामेव जायते ।
आधिभौतिकताबोधो दृढभावनया स्वया ॥ ३० ॥
दृश्यस्य मनोभावनयैव दृढीभाव इव तयैव शिथिलीभाव इत्याह -
आतिवाहिकेत्यादिना ॥ ३० ॥
आकाऽसविशदैश्चित्तैर्भावितैषातिवाहिकैः ।
आधिभौतिकता मिथ्या नटैरिव पिशाचता ॥ ३१ ॥
नटैः पिशाचवेषनाटनाय कल्पिता पिशाचतेव ॥ ३१ ॥
भ्रान्तिरभ्रमणाभ्यासात्प्रज्ञातैषोपशाम्यति ।
नोन्मत्तोऽस्मीति सम्बोधाच्छाम्यत्युन्मत्तता किल ॥ ३२ ॥
भ्रान्तेः स्वयं परिज्ञानाद्वासना विनिवर्तते ।
स्वप्ने स्वप्नतया बुद्धे कस्य स्यात्किल भावना ॥ ३३ ॥
भावना अर्थसत्यतावासना ॥ ३३ ॥
वासनातानवेनैव संसार उपशाम्यति ।
वासनैव महायक्षिण्येतच्छेदपरा बुधाः ॥ ३४ ॥
एतस्याश्छेदे उच्छेदे परा उद्युक्ताः ॥ ३४ ॥
अज्ञानोन्मत्तता पुंसां यथाभ्यासेन भाविता ।
तथैव बोधात्स्वभ्यासात्सा कालेनोपशाम्यति ॥ ३५ ॥
सा ज्ञानप्रयुक्ता उन्मत्तता ॥ ३५ ॥
आतिवाहिकदेहोऽयमाधिभौतिकतां यथा ।
नीयते भावनां तज्ज्ञैर्बोधसत्ताप्रसादतः ॥ ३६ ॥
बोधस्य सत्ता अभ्यासदृढीकृता स्थितिस्तत्प्रसादतः आतिवाहिकदेहो भावनां
ब्रह्माहम्भाववासनामात्रतां तथा नीयत इत्यर्थः ॥ ३६ ॥
आतिवाहिकदेहोऽपि नीत्वा जीवपदं तथा ।
दृढेन बोधाभ्यासेन नेतव्यो ब्रह्मतामपि ॥ ३७ ॥
भावनां नीत्वा जीवपदं जीवतां नीत्वा ततो ब्रह्मतां नेतव्यः ॥ ३७ ॥
स्ववस्तुवच्चेदुत्पत्तिर्बुध्यते बोधरूपिणी ।
तदातिवाहिकी बुद्धिः कथमित्यपि बुध्यते ॥ ३८ ॥
कथं जीवपदं नेतव्यः कथं च ब्रह्मतां तदाह - स्ववस्तुवदिति । उत्पन्नान् हि
बाह्यानाध्यात्मिकांश्च भावान्प्रति रागाद्युद्भावनेनात्मानमतिवहतीत्यतिवाहो
वासनासङ्घस्तदुद्भवो हि लिङ्गदेह आतिवाहिक इत्युच्यते । तत्र सर्वभावानां
प्रथमो विकार उत्पत्तिः सा चेद्विमृश्य स्ववस्तुवत्कूटस्था बोधमात्ररूपिणी
बुध्यते तदा आतिवाहिकीबुद्धिरपि कथं किन्तत्त्वा इति तुल्यन्यायेन बुध्यते । न
तावत्कस्यचिद्भावस्य कूटस्थबोधस्वभावव्यतिरेकेणोत्पत्तिर्निरूपयितुं शक्या ।
तथा हि । सा हि प्राक्स्वयमुत्पद्य भावान्विशिष्यादनुत्पद्य वा । द्वितीये शृङ्गमपि
शशं विशिष्यात् । आद्ये स्वयमुत्पत्त्यादिभिर्विशेष्यमाणा भाव एव स्यान्न
भावविकारः । एवं तदुत्पत्तिरपीत्यनवस्थादोषाभ्युपगमे निर्विकारभावानवस्थैव
स्यादिति नोत्पत्त्यादिविकाराः कस्यचित्केनचिन्निरूपयितुन्न् शक्या इति कूटस्थबोधरूपा एव
ते इति बुद्धे कः कस्मै कमतिवहेत्किं तदतिवहनं का वा तद्बुद्धिरन्या स्यादिति सापि
तत्त्वतो बुध्यत इत्यर्थः ॥ ३८ ॥
नो चेत्तत्प्रतिवाक्यार्थात्तद्ग्रन्थिर्विन्निवर्तते ।
भूतोत्सादनसूत्रस्य प्रतिपत्तृपदं यथा ॥ ३९ ॥
अनयैव रीत्या तत्त्वम्पदार्थशोधने सर्वमहावाक्यान्यखण्डार्थबोधनेन
सर्वसन्देहग्रन्थिभेदने समर्थानि । अन्यथा तु
भूतोत्सारणमन्त्रगतहुम्फडादिपदवदनर्थकान्येव
श्रवणमात्रबलात्संसारं निवर्तयन्तीति कल्प्यं स्यादित्याह - नो चेदिति । सूत्रस्य
मन्त्रस्य प्रतिपत्तृघटकं हुम्फडादिपदं यथा तथा भवेदिति शेषः ॥ ३९ ॥
जगद्बोधैकतां बुद्ध्वा बोद्धव्या तावदव्रणम् ।
अत्यन्तपरिणामेन यावत्सापि न बुध्यते ॥ ४० ॥
तत्पदार्थशोधाय वाचारम्भणन्यायेन प्रथमं
जगत्कारणेश्वरस्वरूपबोधैकतां बुद्ध्वा तदनन्तरं त्वम्पदार्थशोधाय
प्रत्यक्चिदपि स पर्यगाच्छुक्रमकायमव्रणम् इति श्रुतिदर्शितदिशा असङ्गाद्वया
बोद्धव्या । कियत्कालं पदार्थद्वयशोधनपरेण भाव्यं तत्राह - अत्यन्तेति ।
यावत्पदार्थयोरखण्डैकरसवाक्यार्थरूपेणात्यन्तपरिणामेन सा
अखण्डाकारवृत्तिरपि न बुध्यते तावत्कालमित्यर्थः ॥ ४० ॥
सबाह्याभ्यन्तरे चित्ते शान्ते भाति स्वभावता ।
शीतलां व्योमनिर्भासां तामेवाश्रित्यशाम्यताम् ॥ ४१ ॥
ज्ञानवान्ज्ञानयज्ञस्थो ध्यानयूपं विरोपयन् ।
जगद्विजित्य जयति सर्वत्यागैकदक्षिणः ॥ ४२ ॥
स एव मुख्यो विश्वचिदाख्यो ज्ञानयज्ञ इत्याह - ज्ञानवानिति । विरोपयन्
दृढं निखायोच्छ्रयन्सन् । सर्वत्याग एवैका मुख्या सर्वस्वदक्षिणा यस्य
तथाविधो भूत्वा जगद्विश्वं विजित्य जयति सर्वोत्कर्षेणास्ते ॥ ४२ ॥
पतत्यङ्गारवर्षे च वाति वा प्रलयानिले ।
भूतले व्रजति व्योम्नि सममास्ते ज्ञ आत्मनि ॥ ४३ ॥
सर्वोत्कर्षमेव सर्वविपदप्रकम्प्यत्वेन प्रथमं वर्णयति - पततीति ॥ ४३ ॥
वैतृष्ण्यशान्तमनसो निरोधमलमीयुषः ।
स्थितिर्वज्रसमाधानं विना नान्योपपद्यते ॥ ४४ ॥
वज्रसारवैतृष्ण्यशान्तिसुखोत्कर्षस्थैर्येणापि तं वर्णयति -
वैतृष्ण्यमित्यादिना ॥ ४४ ॥
यथा बाह्यार्थवैतृष्ण्ये नोपशाम्यत्यलं मनः ।
न तथा शास्त्रसन्दर्भैर्नोपदेशतपोदमैः ॥ ४५ ॥
शान्तिसाधनानां मध्ये वैतृष्ण्यस्योत्कर्षमाह - यथेति ॥ ४५ ॥
मनस्तृणस्य सर्वार्थवैतृष्ण्याग्निर्विबोधितः ।
सर्वत्यागानिलैः सम्पदत्यापदिति भावनात् ॥ ४६ ॥
सम्पत्सर्वाप्यत्यापदिति भावनान्मनोलक्षणस्य तृणोच्चयस्य मध्ये
सर्वत्यागलक्षणैरनिलैर्विबोधितः सर्वार्थवैतृष्ण्यलक्षणोऽग्निर्ज्ञात्वा
चरमसाक्षात्कारज्वालात्मना प्रबुध्य बहिरन्तश्च प्रसिद्धो यो मोहान्धकारो यश्च
तत्प्रयुक्तश्चोरयक्षादिकल्पनातुल्यो ब्रह्माण्डभूतभौतिकमूर्तलक्षणपिण्डग्राहो
यच्च तत्प्रयुक्तं चक्षुरादिना शब्दार्थवेदनन्न् तत्सर्वं
ज्ञप्तिश्चिदात्मैवेत्यखण्डाद्वयस्वभावेनैव कचति । यथा वज्रादिमणिः
स्वप्रतिबिम्बितवस्तुजातं स्वैकरस्येन प्रथयन्स्वत एव कचति तद्वदिति द्वयोरन्वयः ॥
४६ ॥
बहिरन्तश्च मोहश्च पिण्डग्राहोऽर्थवेदनम् ।
ज्ञप्तिरेवेति कचति ज्ञात्वा मणिरिवात्मनि ॥ ४७ ॥
नरनागासुरागारगिरिगह्वरदृष्टिभिः ।
चितिरेवेति विसृता धूमोऽम्बुदतयेव खे ॥ ४८ ॥
विसृता विविधन्न् वैचित्र्यं प्राप्ता ॥ ४८ ॥
वेपन्ते चिद्द्रवत्वेन ब्रह्माण्डजडभाण्डगाः ।
स्वविवर्ततरङ्गिण्यो जीवशक्त्याऽऽपतद्रसाः ॥ ४९ ॥
ब्रह्माण्डभाण्डान्तर्गतसर्ववस्तूनान्न् चिद्व्याप्त्यधीनस्पन्दत्वादपि
चिद्विवर्तमात्रत्वमित्याशयेनाह - वेपन्ते इति । जीवशक्त्या प्राणेन आपतद्रसा
सरसाः ॥ ४९ ॥
जीवकाजीर्णशफरी व्योमवारिविहारिणी ।
मोहजालेन वलिता न स्मरत्यात्मनि स्थितिम् ॥ ५० ॥
तत्र चतुर्विधशरीरलक्षणचिद्विवर्ततरङ्गिणीषु जीवशफरीणां मोहजालेन
बन्धात्स्वतत्त्वास्मरणमित्याह - जीवकेति ॥ ५० ॥
घनीभूता घनत्वेन चिद्घना गगनाङ्गणे ।
नानापदार्थरूपेण स्फुरति स्वात्मनात्मनि ॥ ५१ ॥
चिदेव आत्मनि स्वरूपलक्षणे गगनाङ्गणे घना मेघा इव सम्पद्यस्थिता घनत्वेन
भूरादिमूर्ताकारेण नानापदार्थरूपेण स्फुरति ॥ ५१ ॥
सर्व एव समा जीवा वासनामन्तरेण च ।
शुष्कपर्णवदुड्डीना जडाः श्वसनवेणवः ॥ ५२ ॥
तत्र जीवानां तुल्यस्वभावत्वेऽपि वासनावैचित्र्यादेव संसारदुःखवैचित्र्यं
नान्यकृतमित्याह - सर्व एवेति । वासनामन्तरेण विना इतरांशे समाः
वासनावैषम्यादेव शुष्कपर्णवदुड्डीनाः सन्तो विचित्रस्वर्गनरकादिभूविभागेषु
पतन्ति न स्वतः । यतो जडोपाधिसाम्याज्जडाः श्वसनस्य प्राणस्य वेणव इव
ध्वनिवैचित्र्येऽपि वासनाङ्गुलिचेष्टावैचित्र्यमन्तरेण क्षमन्त इत्यर्थः ॥ ५२ ॥
आहृत्य पौरुषबलान्यवजित्य तन्द्रीमुत्थाय तर्जितसमर्जितवासनौघम् ।
संसारपाशघनपञ्जरमञ्जसैव भङ्क्त्वाभ्युदेयमभितोऽज्ञसमेन
भाव्यम् ॥ ५३ ॥
अत एव वासनावज्रपञ्जरभेदनार्थमेव निस्तन्द्रपौरुषप्रयत्नो वर्धनीयस्तत एव
परमपुरुषार्थसिद्धिरित्युपसंहरति - आहृत्येति । आदौ पौरुषबलानि
साधनचतुष्टयश्रवणमननादीन्याहृत्य ततो ध्यानविघ्नभूतां
तन्द्रीमासनप्राणायामाद्यभ्यासेनावजित्य सम्प्रज्ञातसमाधिना
बहिर्दृष्टेरुत्थाय निर्विकल्पासम्प्रज्ञातसमाध्यनुप्रवेशादेव समर्जितं
प्राक्समर्जितवासनौधलक्षणं संसारपाशघनपञ्जरमञ्जसा शीघ्रमेव
तत्त्वसाक्षात्कारेण भङ्क्त्वा अभितः पूर्णानन्दैकरसब्रह्मात्मना उदेयन्न् त्वया
न त्वज्ञसमेन संसारान्तर्वर्तिना भाव्यमित्यर्थः ॥ ५३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त०
सर्वोपशान्तिर्नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सर्वोपशान्तिर्नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥