अष्टचत्वारिंशः सर्गः ४८
श्रीवसिष्ठ उवाच ।
रूढे संसारनिर्वेदे स्थिते साधुसमागमे ।
शास्त्रार्थे भाविते बुद्ध्या भोगवैतृष्ण्य आगते ॥ १ ॥
निरूढे परवैराग्ये पुंसो यैर्लक्षणैः स्थितिः ।
यैश्च ज्ञानप्रतिष्ठायां वर्ण्यन्ते तानि विस्तरात् ॥
तत्रादावष्टमिर्वैराग्यप्रतिष्ठायां सत्यां यानि लक्षणानि भवन्ति तान्याह -
रूढे इत्यादिना ॥ १ ॥
जाते विषयवैरस्ये सज्जनत्वे तथोदिते ।
प्रकाशे सोन्मुखीभूते हृदये कलितोदये ॥ २ ॥
श्लोकद्वयं प्रागुक्तानुवादः ॥ २ ॥
धनानि नाभिवाञ्छ्यन्ते तमांसीव विवेकिना ।
त्यज्यन्ते विद्यमानानि संशुष्कामेध्यपर्णवत् ॥ ३ ॥
संशुष्काण्यमेध्यान्यपवित्राण्युच्छिष्टादिपर्णानि यथा गृहान्निरस्यन्ते तद्वत् ॥
३ ॥
भाराय पान्थदृष्ट्येव दृश्यन्ते दारबन्धवः ।
यथाशक्ति यथाकालमुपचर्यन्त एव च ॥ ४ ॥
यथा पान्थानां दृष्ट्या उपयुक्ता अपि भाण्डोपस्करा वोढुमशक्त्या हातुं
भाराय दृश्यन्ते तद्वद्विरक्तेनापि दाराश्च बन्धवश्च दृश्यन्त इत्यर्थः ।
क्रियार्थोपपदस्य च कर्मणि इति चतुर्थी । लकारेण
दृशिक्रियानिरूपितकर्मशक्तेरभिधानेऽपि गम्यमानजहातिक्रियानिरूपितायास्तस्या
अनभिधानात् । तर्हि किं सहसैव त्यज्यन्ते नेत्याह - यथाशक्तीति ॥ ४ ॥
इन्द्रियेष्वपि संलग्ना इन्द्रियार्थाः पुनःपुनः ।
न भोगा अनुभूयन्ते नूनं शान्तमनस्तया ॥ ५ ॥
एकान्तेषु दिगन्तेषु सरःसु विपिनेषु च ।
उद्याने पुण्यदेशेषु निजेष्वेव गृहेषु वा ॥ ६ ॥
तदेव प्रपञ्चयति - एकान्तेष्वित्यादिना ॥ ६ ॥
सुहृत्केलिविलासेषु शुभोद्यानाशनादिषु ।
शास्त्रतर्कविचारेषु न तथा स्थीयते चिरम् [स्थिरं इति पाठः ।] ॥ ७ ॥
आस्थीयते आस्थावता भूयते आसक्त्यभावाच्चिरं न स्थीयत इति वा ॥ ७ ॥
उपशान्तेन दान्तेन स्वात्मारामेण मौनिना ।
ज्ञातैवान्विष्यते ज्ञेन विज्ञानैकान्तवादिना ॥ ८ ॥
दैवादास्थितेनापि तत्र तत्र ज्ञाता तत्त्वविदेव ज्ञानदार्ढ्यायान्विष्यते । अथवा
ज्ञाता देहेन्द्रियबुद्ध्यादीनां साक्षाद्द्रष्टा प्रत्यगात्मैव चेतसान्विष्यते न
तद्व्यतिरिक्तं किञ्चिदित्यर्थः ॥ ८ ॥
एवमभ्यासवशतः परे विश्रम्यते पदे ।
निम्नेवाम्भसि शान्तेन स्वयमेव विवेकिना ॥ ९ ॥
एवं निरन्तरान्वेषणेऽवश्यं स्वात्मदर्शनेन विश्रान्तिः सिद्ध्यतीत्याह - एवमिति
॥ ९ ॥
सबाह्याभ्यन्तरं शान्ता ज्ञतैवार्थतयोदिता ।
न सम्भवति भिन्नोऽर्थ इत्येव परमं पदम् ॥ १० ॥
कीदृशं तत्पदं यत्रास्य विश्रान्तिः कीदृशनिश्चयात्मिका च सा तदाह -
सबाह्याभ्यन्तरमिति । अज्ञता स्वाज्ञानमेवाऽर्थतया दृश्यवर्गाकारेणोदिता सा च
भिन्नोऽर्थो न सम्भवतीति शान्ता सा शान्तिरेव परमं पदमित्यर्थः । अथवा
सबाह्याभ्यन्तरं भिन्नोऽर्थो न सम्भवतीत्येव निश्चयरूपा ज्ञता
चरमसाक्षात्कारवृत्तिरेव दग्धेन्धनाग्निवच्चिदात्मनि शान्ता चेत्तदेव परमं
पदमित्यर्थः ॥ १० ॥
नार्थोपलब्धिर्नो शून्यमस्ति बोधात्मतां विना ।
इत्यन्तरनुभूतिस्थमाहुस्तत्परमं पदम् ॥ ११ ॥
इति अनुभूतौ स्वानुभवे सर्वबाधावधित्वेन स्थितं यत्तदेव परमं पदमित्यर्थः
॥ ११ ॥
एकबोधातिसम्बन्धपरिणामान्न बोधता ।
न शून्यता नार्थतेति विद्धि तत्परमं पदम् ॥ १२ ॥
तस्य परमपदस्य न बोधता न शून्यता नाप्यर्थतेति विद्धि । कुतः । सर्वस्य
वस्तुजातस्यैकेनाद्वयेन बोधेनैवातिशयितः सम्बन्धोऽतिसम्बन्ध आत्यन्तिकैकरस्यं
तथा परिणामात् । न हि बोध्याभावे तद्व्यावृत्ता बोधताप्यपदेष्टुं शक्या नापि
तदर्थता तस्यैव व्यपदेष्टुं शक्या नाप्यर्थशून्यतामात्रेण बोधस्य
शून्यताप्रसक्तिरिति भावः ॥ १२ ॥
स्वसंविन्मात्रविश्रामवताममनसां सताम् ।
न स्वदन्ते हि विषयाः पयांसि दृषदामिव ॥ १३ ॥
तद्विश्रान्तावात्यन्तिकं विषयवैरस्यन्न् सिद्ध्यतीत्याह - स्वेति । यथा अमनसां
दृषदां क्षीराणि न स्वदन्ते तद्वत् ॥ १३ ॥
निरोधपदमापन्नो निर्मना मौनमन्थरः ।
स्वभावे स्थित एवास्ते चित्रे कृत इवात्मवान् ॥ १४ ॥
बहिर्मुखचित्तानां स्वात्मप्रवणतां स्वात्मविश्रान्तानां च बहिर्मुखतां
निरुणद्धीति निरोधस्तथाविधं पदम् । चित्रे कृतो लिखित इव निश्चलः ॥ १४ ॥
सर्वार्थमर्थरहितं महदेव पराणुवत् ।
अशून्यमेव शून्यात्म हृदयं वेद्यवेदिनः ॥ १५ ॥
कीदृशं तदा तस्य मनो भवति तदाह - सर्वार्थमिति ।
वेद्यमवश्यवेदनीयमात्मतत्त्वं वेदितुं शीलं यस्य तथाविधस्य तस्य हृदयं
मनः अर्थरहितमेव सत्सर्वार्थं भवति । सर्वस्य तत्त्वतस्तन्मात्रत्वात् । तथा
अपरिच्छिन्नब्रह्माकारत्वान्महदेव सत्तद्व्यतिरेकेण
दुर्लक्ष्यत्वात्परमाणुवद्भवति ॥ १५ ॥
अहन्त्वं जगदीहादि दिक्कालकलनादि च ।
ज्ञस्य ज्ञानादि शून्यादि स्थितमेव न विद्यते ॥ १६ ॥
अशून्यमेव शून्यात्म इति शेषं व्याचष्टे - अहन्त्वमिति । यतो ज्ञानादि
अतस्तत्तया स्थितमेव यतश्च शून्यादि अतो न विद्यते - नासतो विद्यते भावो
नाभावो विद्यते सतः इति न्यायादिति भावः ॥ १६ ॥
ज्ञेनामलपदस्थेन दीपेनेव निरस्यते ।
तमो हार्दं तथा बाह्यं रागद्वेषभयादि च ॥ १७ ॥
भयादि यत्तच्च निरस्यते ॥ १७ ॥
रजोरहितसर्वाशं सत्त्वात्पारमुपागतम् ।
असम्भवत्तमोरूपं प्रणमेत्तं नृभास्करम् ॥ १८ ॥
पक्षद्वयेऽपि विशेषणानि स्पष्टानि । अज्ञाननिशातिरोहितत्वेऽपि सत्त्वात्पारं
तमोब्धिपारम् ॥ १८ ॥
भेदप्रविलये जाते चित्ते चादृश्यतां गते ।
या स्थितिः प्राप्तबोधस्य न वाग्गोचरमेति सा ॥ १९ ॥
ददात्येतन्महाबुद्धे निर्वाणं परमेश्वरः ।
अहर्निशं परमया चिरं भक्त्या प्रसादितः ॥ २० ॥
एतद्वर्णितं परमपदलक्षणं निर्वाणं परमेश्वरो ददाति ।
तपःप्रभावाद्देवप्रसादाच्च इत्यादिश्रुतेरिति भावः ॥ २० ॥
श्रीराम उवाच ।
ईश्वरः को मुनिश्रेष्ठ कथं भक्त्या प्रसाद्यते ।
एतन्मे तत्त्वतो ब्रूहि सर्वतत्त्वविदां वर ॥ २१ ॥
रामप्रश्नः स्पष्टः ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
ईश्वरो न महाबुद्धे दूरे न च सुदुर्लभः ।
महाबोधमयैकात्मा स्वात्मैव परमेश्वरः ॥ २२ ॥
तस्मै सर्वं ततः सर्वं स सर्वं सर्वतश्च सः ।
सोऽन्तः सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ २३ ॥
ईश्वरता हि ईश्यविषये सर्वथा स्वातन्त्र्यम् । तच्च सर्वं प्रति सर्वप्रकारेण स्वात्मन
एव सम्भवतीत्युपपत्तिमाह - तस्मै इति । अचेतनं हि सर्वं रथगृहप्रासादादि
चेतनार्थम् । न च तदतिरिक्तोऽन्यश्चेतनधातुरस्ति । नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतेः ।
अनेन सर्वोपभोक्तृतास्वातन्त्र्यमुक्तम् । कर्तृतादिस्वातन्त्र्यमपि तस्यैवेत्याह -
तत इति । तृतीयापञ्चमीषष्ठीसप्तमीविभक्तयन्तात्सार्वविभक्तिकस्तसिः
कर्तृकरणनिमित्तस्वाम्यादिभावेनापि स्वातन्त्र्यद्योतनार्थो बोध्यः । स
सर्वमित्युपादानाधिष्ठानतादिस्वातन्त्र्यप्रदर्शनाय । एवं सर्वत इत्यपि
सर्वशक्तिनिरूपकतास्वातन्त्र्यद्योतनाय बोध्यम् ।
सौक्ष्म्यसर्वगतत्वपरिणामादिस्वातन्त्र्यमपि तस्यैव सम्भवतीत्याह - सोऽन्तः
सर्वमय इति । इत्थन्न् सर्वथा सर्वदा सर्वात्मनस्तस्यैव सर्वथापि सर्वोत्कर्षात्स
एवेश्वर इति नमस्कार्य इत्याह - तस्मै इति ॥ २३ ॥
तस्मादिमाः प्रसूयन्ते सर्गप्रलयविक्रियाः ।
अकारणं कारणतो गतयः पवनादिव ॥ २४ ॥
अत एव श्रुतिप्रसिद्धं जन्मादिहेतुतालक्षणं तस्येत्याशयेनाह - तस्मादिति ॥ २४ ॥
अनिशं पूजयन्त्येताः सर्वाः स्थावरजङ्गमाः ।
यथाभिमतदानेन सर्वे [सर्वे ते इति न साधु सर्वास्ता इति सुवचम् ।] ते
भूतजातयः ॥ २५ ॥
सर्वाराध्यतापि तस्यैव प्रसिद्धेत्याह - अनिशमिति ॥ २५ ॥
सुबहून्येष जन्मानि यथाभिमतयेच्छया ।
यदा सम्पूजितस्तेन प्रसादमधिगच्छति ॥ २६ ॥
प्रसन्नः स महादेवः स्वयमात्मा महेश्वरः ।
बोधाय प्रेरयत्याशु दूतं पूतं शुभेहितैः ॥ २७ ॥
स एव महादेवः शुभेहितैः सुकृतैः प्रसन्नः सन् बोधाय तत्त्वज्ञानाधानाय
पूतन्न् विशुद्धतमं वक्ष्यमाणं दूतन्न् प्रेरयति प्रेषयति ॥ २७ ॥
श्रीराम उवाच ।
आत्मना परमेशेन को दूतः प्रेर्यते मुने ।
स दूतो बोधनं वापि करोति वद मे कथम् ॥ २८ ॥
कथं करोति तन्मे वद ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
आत्मसम्प्रेरितो दूतो विवेको नाम नामतः ।
हृद्गुहायां सदानन्दस्तिष्ठतीन्दुरिवाम्बरे ॥ २९ ॥
तेनात्मना देवेन सम्प्रेरितो विवेको नाम दूतः प्रागुक्ताधिकारिणो
हृद्गुहायामागत्य तिष्ठति यावज्ज्ञानप्रतिष्ठं स्थिरीभवति ॥ २९ ॥
स एष वासनात्मानं जन्तुन्न् बोधयति क्रमात् ।
संसारसागरादस्मात्तारयत्यविवेकिनम् ॥ ३० ॥
स विवेकदूतः यद्बोधयति तदेव तस्य तारणमित्याशयः ॥ ३० ॥
बोधात्मैषोऽन्तरात्मैव परमः परमेश्वरः ।
अस्यैव वाचको नाम प्रणवो वेदसम्मतः ॥ ३१ ॥
एष सर्वजगत्प्रथाहेतुत्वेन प्रसिद्धो बोधात्मैवान्तरात्मा न वासनात्मा । स एव
परमः परमेश्वरः । प्रणवोऽस्यैव वाचकः सन्नाम भवति ॥ ३१ ॥
जपहोमतपोदानपाठयज्ञक्रियाक्रमैः ।
एष प्रसाद्यते नित्यं नरनागसुरासुरैः ॥ ३२ ॥
द्यौर्मूर्धा पृथिवी पादौ तारका रोमराजयः ।
भूतान्यस्थीनि हृदयं व्योमास्य परमेश्वरः ॥ ३३ ॥
तस्य स्थूलप्रपञ्चोपहितं वैश्वानररूपमात्मभेदभ्रमनिरासायोपास्यन्न्न्
दर्शयति - द्यौरिति । तथा च श्रुतिः - अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः
श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयन्न् विश्वमस्य पद्भ्यां
पृथिवी ह्येष सर्वभूतान्तरात्मा इति ॥ ३३ ॥
सर्वत्रैष चिदात्मत्वाद्याति जागर्ति पश्यति ।
तेनैष सर्वतोलक्ष्यकरकर्णाक्षिपादभृत् ॥ ३४ ॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् इत्यादिश्रुतीनामप्यत्रैव
सामञ्जस्यमित्याशयेनाह - सर्वत्रेति । सर्वतो लक्ष्यन्न् करकर्णाक्षिपादं
बिभर्ति तथाविधः ॥ ३४ ॥
विवेकदूतमुद्बोध्य हत्वा चित्तपिशाचकम् ।
आत्मनः पदवीं स्फारां जीवः कामपि नीयते ॥ ३५ ॥
नीयते अनेनेति शेषः ॥ ३५ ॥
त्यक्त्वा सर्वविकल्पौघान्विकारानर्थसङ्करान् [ग्राहगहने इति पाठः ।
] ।
पौरुषेणात्मनैवात्मा स्वयमेव प्रसाद्यताम् ॥ ३६ ॥
भ्रमन्मनःपिशाचेऽस्मिन्कल्लोलजलदाकुले ।
संसाररात्रितिमिरे स्वात्मैवापूर्णचन्द्रमाः ॥ ३७ ॥
कल्लोलाः षडूर्मयस्तल्लक्षणैर्जलदैराकुले संसारलक्षणरात्रेस्तिमिरे स्वात्मैव
आसमन्तात्पूर्णश्चन्द्रमाः । साह्लादप्रकाश इत्यर्थः ॥ ३७ ॥
अगाधमरणावर्तकल्लोलाकुलकोटरे ।
तृष्णातरङ्गतरले स्वमनश्चण्डमारुते ॥ ३८ ॥
विवेकस्यैवोत्तारणत्वं वक्तुं संसारं समुद्रतया रूपयति - अगाधेति
द्वाभ्याम् ॥ ३८ ॥
महाजडलवाधारे संसारविषमार्णवे ।
इन्द्रियग्रामगहने [ग्राहगहने इति पाठः ।] विवेकः पोतको महान् ॥ ३९ ॥
महतां स्थावरजङ्गमभूताद्यात्मनां जडलवानां जलकणानामाधारे ॥ ३९ ॥
पूर्वं यथाभिमतपूजनसुप्रसन्नो दत्वा विवेकमिह पावनदूतमात्मा ।
जीवं पदं नयति निर्मलमेकमाद्यं
सत्सङ्गशास्त्रपरमार्थपरावबोधैः ॥ ४० ॥
उक्तं प्रश्नोत्तरं सङ्क्षिप्योपसंहरति - पूर्वमिति । स्पष्टम् ॥ ४० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ०
विवेकमाहात्म्यं नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विवेकमाहात्म्यन्न् नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥