सप्तचत्वारिंशः सर्गः ४७
श्रीवसिष्ठ उवाच ।
संसारभारसुश्रान्तः सङ्कटेषु लुठत्तनुः ।
योऽभिवाञ्छति विश्रान्तिं तस्य क्रममिमं शृणु ॥ १ ॥
भूयोऽपि विस्तरान्मुक्तिसाधनक्रमवर्णने ।
प्रस्तुते दृढवैराग्यप्राप्त्यन्तमिह वर्ण्यते ॥
बहुकृत्वोऽपि पथ्यं वदितव्यमिति न्यायमाश्रित्य परमकारुणिको वसिष्ठः पूर्व
ध्यानवृक्षोत्पादनपरिपालनफलोन्मुखीकरणमनोहरिणकाश्रयण##-
शुभेच्छादिमोक्षसाधनभूमिकाक्रमं पुनः कुत्र कुत्र कियद्गुणसम्पल्लाभ
इत्येतत्प्रतिपादनप्रकारेण स्पष्टं मन्दाधिकारिप्रबोधनाय
वर्णयिष्यंस्तच्छ्रवणाय शिष्यमभिमुखीकरोति - संसारेति ।
मरणमूर्च्छादिसङ्कटेषु लुठन्ति तन्वो यस्य । क्रमं तत्र तत्र
गुणप्रकर्षलाभक्रमम् ॥ १ ॥
पूर्वं विवेककणिका यदा स्वहृदि जायते ।
संसारनिर्वेदमयी कारणाद्वाप्यकारणात् ॥ २ ॥
तत्र विवेकाङ्कुरोदये येषां गुणानां लाभस्तान्दर्शयति - पूर्वमित्यादिना ।
कारणादैहिकयज्ञतपोदानादिपापक्षयकारणात् । अकारणात्तदभावात् ।
जन्मान्तरानुष्ठितसत्कर्मभिरेव क्षीणपापानां बाल्यात्प्रभृत्येव
विनैवैहिककारणन्न् विवेकोदयदर्शनादिति भावः । यदैव निर्वेदमयी विवेककणिका
जायते तदैव साधुत्वेन सुष्ठु विशालिनो विस्तीर्णा वक्ष्यमाणगुणास्तं श्रयन्तीति
परेणान्वयः ॥ २ ॥
तदा श्रयन्ति सच्छायान्साधुत्वसुविशालिनः ।
अध्वश्रमहरांस्तापतप्ता मार्गतरूनिव ॥ ३ ॥
तत्र दृष्टान्तः - तापतप्ताः पुरुषाः सच्छायान्मार्गतरूनिवेति ॥ ३ ॥
दूरे परिहरत्यज्ञान्यज्ञयूपानिवाध्वगः ।
स्नानदानतपोयज्ञान्करोति विबुधानुगः ॥ ४ ॥
तत्राज्ञजनसङ्गत्यागो यज्ञदानादिपरता देवताराधनादिगुणाः
प्रथममुद्यन्तीत्याह - दूरे इति । एवमग्रेऽपि गुणा योज्याः ॥ ४ ॥
पेशलं चानुरूपं च व्यवहारमकृत्रिमम् ।
लोक्यमाह्लादनं धत्ते चन्द्रबिम्बमिवामृतम् ॥ ५ ॥
लोकेभ्यः परिणामे हितं लोक्यं सद्यश्चाह्लादनम् । चन्द्रबिम्बं कर्तृ । अमृतं
कर्म ॥ ५ ॥
परप्रज्ञानुगो भव्यः परार्थपरिपूरकः ।
पवित्रकर्मरसिकः कोऽपि सौम्यः प्रवर्तते ॥ ६ ॥
स्वपक्षरागलोभाभिमानाद्यभावात्परहितकारित्वाच्च परप्रज्ञानुगः । अत एव
सर्वजनप्रियो भवतीति भव्यः । पवित्रेषु शास्त्रानिषिद्धेषु कर्मसु रसिकः कोऽपि
सर्वजनोत्कृष्टः सौम्यः सन् प्रवर्तते व्यवहरति ॥ ६ ॥
नवनीतस्थलीवाऽच्छा स्निग्धा मृद्वी मनोहरा ।
जनं सुखयति स्वाद्वी तदीया नवसङ्गतिः ॥ ७ ॥
नवनीतस्य स्थली मुख्याश्रयो दधिमण्ड इवाच्छा स्निग्धेत्यादिसाधारणम् ।
नवसङ्गतिः प्रथमसमागमः । मथनविवेचनपरिपाकक्रमेण
चिरसङ्गतेरुत्तरोत्तरसारत्वात्स्वादुतरार्थलाभहेतुत्वसूचनाय नवेति विशेषणम् ॥ ७ ॥
शीतलानि पवित्राणि चरितानि विवेकिनः ।
इन्दोरिवांशुजालानि जनं शीतलयन्त्यलम् ॥ ८ ॥
न तथोद्यानखण्डेषु पुष्पप्रकरहारिषु ।
विश्राम्यते वीतभयं यथा साधुसमागमे ॥ ९ ॥
मन्दाकिनीपयांसीव सङ्गतानि विवेकिनाम् ।
प्रक्षालयन्ति पापानि प्रयच्छन्ति विशुद्धताम् ॥ १० ॥
विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु ।
जनः शीतलतामेति हिमहारगृहेष्विव ॥ ११ ॥
हिमैर्हारैश्च रचितेषु गृहेष्विव ॥ ११ ॥
ननु नामरतोदारा या विवेकिनि विद्यते ।
सुरगन्धर्वकन्यासु मानवीषु न विद्यते ॥ १२ ॥
न विद्यते सेति शेषः ॥ १२ ॥
प्रज्ञा प्रसादमायाति क्रमादुचितकर्मणः ।
अन्तःकरोति शास्त्रार्थमर्थं मुकुरभूरिव ॥ १३ ॥
क्रमादनुष्ठितादुचितान्निष्कामकर्मणो हेतोः प्रज्ञा वृद्धिः प्रसादं
विशुद्धिमायाति । तच्छद्ध्या च विविदिषोदये गुरुमुखश्रुतं शास्त्रार्थमन्तःकरोति
। हृदि स्थापयतीत्यर्थः । मुकुरभूर्दर्पणतलं स्वप्रतिबिम्बितार्थमिव ॥ १३ ॥
सत्प्रज्ञोन्नतिमायाति शास्त्रार्थरसशालिनी ।
विवेकिनि विलासेन कदलीव महावने ॥ १४ ॥
विवेकिनि विवेकवति हृत्स्थाने । विलासेन मूलप्ररोहादिविस्तारेण ॥ १४ ॥
अन्तरेवानुभवति सर्वार्थान्प्रतिबिम्बितान् ।
आदर्शवदशेषेण प्रज्ञा नैर्मल्यशालिनी ॥ १५ ॥
सा विवेकिप्रज्ञा सर्वार्थानन्तर्मनोविलासमात्रतया अनुभवति ॥ १५ ॥
साधुसङ्गमशुद्धात्मा शास्त्रार्थपरिमार्जितः ।
प्राज्ञो भात्युद्धृतं वह्नेरग्निशौचमिवांशुकम् ॥ १६ ॥
अग्नावेव शौचं मालिन्यदाहाद्विशुद्धिर्यस्य तथाविधमंशुकं वस्त्ररत्नमिव ।
तद्धि दिव्यं सिद्धाम्बरं मलदाहोत्तरं वह्नेरुद्धृतं विद्युत्पुञ्जमिव
भास्वरतरं भातीति शास्त्रप्रसिद्धम् ॥ १६ ॥
कचत्काञ्चनकान्तेन विमलालोककारिणा ।
भुवनं भास्करेणेव भाति साधुः स्वतेजसा ॥ १७ ॥
साधुर्विवेकी । स्वतेजसा आन्तरेणात्मप्रकाशेन ॥ १७ ॥
तथानुगच्छति प्राज्ञः शास्त्रसाधुसमागमौ ।
यथात्यन्तानुषङ्गेण तावेवानुभवत्यसौ ॥ १८ ॥
शास्त्रमभ्यासेन साधोर्गुरोः समागमं च सेवादिना तथा अनुगच्छति
निरन्तरमनुसरति यथा अत्यन्तन्न् तदुपदिष्टार्थाभिनिवेशलक्षणेन तदनुषङ्गेण
स्वप्नेऽपि तच्चिन्तनतच्छुश्रूषापरस्तावेवानुभवति न तदनुषङ्गेण स्वप्नेऽपि
तच्चिन्तनतच्छुश्रूषापरस्तावेवानुभवति न तदतिरिक्तं स्वशरीरादिकमपीत्यर्थः ॥
१८ ॥
क्रमात्सज्जनतामेत्य शास्त्रार्थभरभावितः ।
भाति भोगानधःकुर्वन्पञ्जरादिव निर्गतः ॥ १९ ॥
रागद्वेषलोभप्रमादादिदोषक्षयमैत्र्यादिगुणसञ्चयक्रमात्सज्जनतां
निर्दोषगुणवज्जनताम् ॥ १९ ॥
भोगाभिगमदौर्भाग्यं दिनानुदिनमुज्झता ।
तेन तत्कुलमाभाति ताराचक्रमिवेन्दुना ॥ २० ॥
भोगान्प्रति व्यसनितया विषयाभिमुख्येन गमनं भोगाभिगमस्तल्लक्षणं
दौर्भाग्यम् । कुलं वंशस्तद्घटितसमाजश्च आभाति ॥ २० ॥
अभोगकृपणा कापि न चैवास्य प्रवर्तते ।
मुखे कान्तिरपूर्वैव चन्द्रे राहुमृते यथा ॥ २१ ॥
अभोगकृपणा भोगकार्पण्यनिर्मुक्ता अभिनवैव कापि कान्तिरस्य मुखे प्रवर्तते ।
राहुं ऋते विना । राहुनिर्मुक्ते यथेति यावत् ॥ २१ ॥
तृणीकृतत्रिजगतां महतामभिधेयताम् ।
स याति कल्पविटपी नभसीव दिवौकसाम् ॥ २२ ॥
अभिधेयतां प्रशंसनीयताम् । नभसि स्वर्गे ॥ २२ ॥
भोगानां द्वेषणेनान्तर्लज्जमानो मनस्यपि ।
भोगानामप्यसम्पत्त्या परमं परितुष्यति ॥ २३ ॥
प्राप्तभोगानां परित्यागे तुष्यन्नपि त्यक्तसर्वद्वेषेण मया भोगेषु द्वेषः कथं
कृत इति मनसि लज्जमानोऽपि कदाचिद्भवतीति न तथा परितुष्यति । भोगानामसम्पत्त्या
अलाभेन तु लज्जाप्रसक्त्यभावात्परमं परितुष्यतीत्यर्थः । त्वर्थेऽपिशब्दः ॥ २३ ॥
स्वा एवोपहसत्यन्तस्तरुणीस्तरलक्रियाः ।
खेदस्मेरमुखो जातीर्जातिस्मर इवाधमः ॥ २४ ॥
प्राक्तनीस्तरुणीः रागादिप्रौढाः स्वाः स्वीया एव भोगौत्सुक्यतरलाः क्रियाः
साम्प्रतं स्मरन् खेदेन स्मेरमुखः सन्नन्तरुपहसति यथा
अधमश्चाण्डालादिर्दैवाज्जातिस्मरः सन् स्वा एव जातीरन्तरुपहसति तद्वदित्यर्थः ॥ २४
॥
अथ तं द्रष्टुमायान्ति सौहार्देनैव साधवः ।
भूमाविवोदितं चन्द्रं विस्मयोत्फुल्ललोचनाः ॥ २५ ॥
तादृशं तं द्रष्टुम् । साधवः सिद्धाः ॥ २५ ॥
नित्यानादृतभोगोऽसौ ततोऽप्युचितया धिया ।
प्राप्तमप्युचितारम्भं भोगं न बहुमन्यते ॥ २६ ॥
ततस्तेभ्यः सिद्धेभ्यः प्रसन्नेभ्यः प्राप्तमुचितारम्भमनिषिद्धमपि
सिद्ध्यादिभोगं स न बहुमन्यते ॥ २६ ॥
पूर्वं संसृतिवैरस्यमन्तरेवोदितात्मनः ।
जायते जीर्णजाड्यस्य पाकादिव शरत्तरोः ॥ २७ ॥
कुतो न बहुमन्यत इति चेद्गुरुशास्त्रसम्पर्कात्पूर्वमेव वैराग्यादिसाधनानां
दृढाभ्यस्तत्वादित्याशयेनोक्तमेव गुणोदयक्रमं पुनरनुक्रामति -
पूर्वमित्यादिना ॥ २७ ॥
ततः सज्जनसम्पर्कमुदर्कश्रेयसे स्वयम् ।
करोति स्वस्थतागृध्रुर्भिषगाश्रयणं यथा ॥ २८ ॥
तेनोदारमतिर्भूत्वा शास्त्रार्थेषु निमज्जति ।
महान्महाप्रसन्नेषु सरःस्विव महागजः ॥ २९ ॥
सज्जनो हि समुत्तार्य विपद्भ्यो निकटस्थितम् ।
नियोजयति सम्पत्सु स्वालोकेष्विव भास्करः ॥ ३० ॥
परस्वादानविरतिः पूर्वमेव प्रवर्तते ।
विवेकिनो निजार्थेषु सन्तोषश्चोपजायते ॥ ३१ ॥
परस्वादानविरतः सन्तोषामृतनिर्भरः ।
विवेकी क्रमशः स्वार्थानप्युपेक्षितुमिच्छति ॥ ३२ ॥
स्वार्थानप्युपेक्षमाणः परार्थं कुतः स्पृहयेदिति भावः ॥ ३२ ॥
ददाति कणपिण्याकशाकाद्यपि हि याचते ।
तेनैवाभ्यासयोगेन स्वमांसानि ददात्यसौ ॥ ३३ ॥
तेनैव त्यागाभ्यासयोगेन स्वमांसान्यपि याचमानेभ्यो ददाति ॥ ३३ ॥
नूनं विलयचित्तानां विवेकमनुधावताम् ।
मौर्ख्यन्न् लघुत्वमायाति धावतामिव गोष्पदम् ॥ ३४ ॥
विवेकानुसरणक्रमेण विलीयमानचित्तानां दिने दिने ज्ञानप्रचयेनाज्ञानन्न् क्षीयत
इत्याह - नूनमिति । मौर्ख्यमज्ञानम् । लघुत्वमपक्षयेणाल्पताम् । यथा
धावतामश्वादीनां गोष्पदमनायासोल्लङ्घ्यत्वलक्षणं क्षुद्रत्वमायाति तद्वत् ॥
३४ ॥
परार्थादानविरतिं [परस्वादान इति टीकानुगुणः पाठः ।]
पूर्वमभ्यस्य यत्नतः ।
आहर्तव्या विवेकेन ततः स्वार्थेष्वरक्तता ॥ ३५ ॥
परेषां स्वं धनादि तस्य आदानाद्विरतिं निवृत्तिम् ॥ ३५ ॥
ततो भोगनिरासेन सह स्वार्थनिराकृतिः ।
परमायै सुविश्रान्त्यै क्रियते कृतिभिः क्रमात् ॥ ३६ ॥
न तादृशं जगत्यस्मिन्दुःखन्न् नरककोटिषु ।
यादृशं यावदायुष्कमर्थोपार्जनशासनम् ॥ ३७ ॥
अर्थोपार्जनप्रयुक्तं शासनं दण्डनम् । ऐहिकपारलौकिकदुःखजातमिति यावत् ॥ ३७ ॥
आसने शयने याने गमने रमणे जने ।
आधिचिन्तापरा [अर्थचिन्ता इति पाठः ।] एव ननु मूढा विदन्तु ताम् ॥ ३८ ॥
तत्र मूढानां पारलौकिकदुःखास्मरणेऽपि ऐहिकं सर्वप्रसिद्धं स्मारयति -
आसने इति । विदन्तु स्मरन्तु ॥ ३८ ॥
नन्वर्था विततानर्थाः सम्पदः सन्ततापदः ।
भोगा भवमहारोगा विपरीतेन भाविताः ॥ ३९ ॥
अर्जनरक्षणव्ययादौ राजचोरादिभ्यश्चार्थार्थिनामनर्थसहस्रस्य
प्रसिद्धत्वाद्विततानर्थाः रागविपरीतेन विवेकेन भाविताः पर्यालोचिताश्चेदित्यर्थः ।
अथवा भावप्रधानो निर्देशः । अनर्थरूपा अप्येते मोहाज्जनैस्तद्वैपरीत्येन भाविता
इत्यर्थः ॥ ३९ ॥
तावन्नायाति वैरस्यं चिन्ताविषयजृम्भणैः ।
यावदर्थमहानर्थो न कदर्थार्थमर्थ्यते ॥ ४० ॥
यावत्कदर्थार्थमर्थलक्षणोऽनर्थः पुरुषेण नार्थ्यते नाभिलष्यते तावत्स पुरुषो
वैरस्यं तापत्रयप्रयुक्तशोषं नायाति ॥ ४० ॥
अनुत्तमसुखं यस्मै चिराय परिरोचते ।
जगत्तृणशिखादृष्ट्या सोऽर्थं पश्यतु शाम्यतु ॥ ४१ ॥
यस्मै पुरुषाय मोक्षाख्यमनुत्तमं सुखं रोचते स पुमानर्थं धनं
जगल्लक्षणस्य तृणस्य शिखेव तुच्छतरमिति दृष्ट्या पश्यतु । धनस्पृहात्याग
एव मुख्यो मोक्षोपायस्तस्येत्यर्थः ॥ ४१ ॥
भूरिभावविकाराणां जरामरणकर्मणाम् ।
दैन्यदौरात्म्यदाहानामर्थः सार्थ इति स्मृतः ॥ ४२ ॥
तुच्छतामेव द्रढयितुं पुनःपुनर्धनं निन्दति - भूरीति ।
चिन्ताशोकमोहादिभावविकाराणां जरामरणयोर्दुष्कर्मणां दैन्यादीनां च अर्थ
एव सार्थः समूह इत्यर्थः । अजन्तुविषयेऽपि जन्तुवदुपचारात्सार्थशब्दः ॥ ४२ ॥
अस्मिञ्जगति जन्तूनां जरामरणशालिनाम् ।
अजरामरणं कर्तुं सन्तोषोऽस्ति रसायनम् ॥ ४३ ॥
सन्तोष एव वैराग्यप्रतिष्ठापनेन सर्वदुःखहारीति तं प्रशंसति - अस्मिन्निति ॥
४३ ॥
वसन्तो नन्दन्नोद्यानमिन्दुरप्सरसः स्मृताः ।
इत्येकतः समुदितं सन्तोषामृतमेकतः ॥ ४४ ॥
सर्वसुखहेतुरपि स एवेत्याह - वसन्त इत्यादिना । एकतः स्मृता इत्यन्वयः ॥ ४४ ॥
सरसः प्रावृषेवान्तः सन्तोषेणैव पूर्णता ।
गम्भीरां शीतलां हृद्यां प्रसन्नां रसशालिनीम् ॥ ४५ ॥
पूर्णता पुरुषस्य भवतीति शेषः । शिष्टमुत्तरान्वयि ॥ ४५ ॥
साधुरोजस्वितामेत्य सन्तोषेणैव राजते ।
सुपुष्पितवनाकारो वसन्तेनेव पादपः ॥ ४६ ॥
साधुः सन्तोषेणैव ओजस्वितामेत्य सुपुष्पितवनाकारो राजते ॥ ४६ ॥
पादपीठपरामर्शपिष्टकीटवदीहते ।
दीनप्रकृतिरर्थार्थी दुःखाद्दुःखान्तरं व्रजेत् ॥ ४७ ॥
असन्तुष्टस्त्वर्थार्थी सन् पादपीठेन पादुकया परामृष्टो दैवादास्कन्दितो
निष्पिष्टश्च यः कीटस्तद्वद्दीनप्रकृतिः सन् ईहते चेष्टते ॥ ४७ ॥
कल्लोलविकलाः क्षुब्धसमुद्रपतिता इव ।
नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयोऽर्थिनः ॥ ४८ ॥
अर्थिनो धनलिप्सवः ॥ ४८ ॥
सम्पदः प्रमदाश्चैव तरङ्गोत्तुङ्गभङ्गुराः ।
कस्तास्वहिफणच्छत्रच्छायासु रमते बुधः ॥ ४९ ॥
तासु तल्लक्षणास्वहिफणच्छत्रच्छायासु बुधः को रमते । न कश्चिदित्यर्थः ॥ ४९ ॥
अर्थोपार्जनरक्षाणां जानन्नपि कदर्थनाम् ।
यः करोति स्पृहां मूढो नृपशुं तं न संस्पृशेत् ॥ ५० ॥
मनसो बाह्यमारम्भमान्तरं च लुनाति यः ।
समं वैतृष्ण्यदात्रेण तस्य क्षेत्रं प्रकाशते ॥ ५१ ॥
बाह्यमारम्भमिन्द्रियानुधावनलक्षणमान्तरं सङ्कल्पादिलक्षणं वा क्षेत्रं
ज्ञानबीजोद्भवस्थानन्न् मुक्तिनिधानस्थानं वा हृदयम् ॥ ५१ ॥
जगत्त्वमज्ञसम्बुद्धं ज्ञो विदन्नसदेव यत् ।
सतीव तत्र स्फुरति तदनभ्यासजृम्भितम् ॥ ५२ ॥
अनुक्रान्ता दृढवैराग्यान्ता गुणा अभ्यस्ता एव ज्ञानं प्रतिष्ठापयन्ति न हेलया
सेविता इत्याशयेनोपसञ्जिहीर्षुराह - जगत्त्वमिति । अज्ञैः सम्बुद्धं जगत्त्वं
जगदाकारवैचित्र्यं तत्साक्षिण्यसदेवेति विदन्नपि ज्ञः अपक्वज्ञानतया तत्र
जगद्वैचित्र्ये सतीव सत्यार्थ इवाज्ञवद्यत्स्फुरति व्यवहरति
तत्प्रस्तुतवैराग्यान्तगुणानभ्यासविजृम्भितमित्यर्थः ॥ ५२ ॥
संसारनिर्वेददशामुपेत्य सत्सङ्गमं शास्त्रमुपेत्य तेन ।
शास्त्रार्थभावेन निरस्य भोगान्वैतृष्ण्यदार्ढ्यात्परमार्थमेति ॥ ५३ ॥
प्रथमं संसारे निर्वेददशामुपेत्य तेन सत्सङ्गमं शास्त्राभ्यासं चोपेत्य
तदर्थदृढभावनया सर्वान्भोगान्निरस्य
दर्शितलक्षणाद्वैतृष्ण्यदार्ढ्यात्परमार्थं स्वतत्त्वं
भूमिकापरिपाकक्रमेणैतीत्यर्थः ॥ ५३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० न्निर्वाण० उ०
मुमुक्षुप्रथमोपक्रमो नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मुमुक्षुप्रथमोपक्रमो नाम सत्पचत्वारिंशः सर्गः ॥ ४७ ॥