०४६

षट्चत्वारिंशः सर्गः ४६

श्रीवसिष्ठ उवाच ।

परमार्थफले ज्ञाते मुक्तौ परिणतिं गते ।
बोधोऽप्यसद्भवत्याशु परमार्थो मनोमृगः ॥ १ ॥

ध्यानद्रुमफलास्वादे यादृशी मनसः स्थितिः ।
दृढं विषयवैरस्यन्न् यादृक्तदिह वर्ण्यते ॥

ज्ञाते साक्षादनुभूते । बोधश्चरमसाक्षात्कारवृत्तिरपि
स्वोपादानाज्ञानबाधादसद्भवति मनोमृगश्च परमपुरुषार्थरूप आत्मैव
भवतीत्यर्थः ॥ १ ॥

क्वापि सा मृगता याति प्रक्षीणस्नेहदीपवत् ।
परमार्थदशैवास्ते तत्रानन्तावभासिनी ॥ २ ॥

सा प्राक्तनी मृगता विषयतृष्णान्वेषणस्वभावता याति अपैति ॥ २ ॥

ध्यानद्रुमफलप्राप्तौ बोधतामागतं मनः ।
वज्रसारां स्थितिं धत्ते छिन्नपक्ष इवाचलः ॥ ३ ॥

स्थितिरचाञ्चल्यम् ॥ ३ ॥

मनस्ता क्वापि संयाति तिष्ठत्यच्छैव बोधता ।
निर्बाधा निर्विभागा च सर्वाऽखर्वात्मिका [सर्वात्मिका इत्यप्युभयत्र
पाठः ।] सती ॥ ४ ॥

मनस्ता बाह्यार्थमननस्वभावता । सर्वा पूर्णा । अत एवाखर्वात्मिका
[सर्वात्मिका इत्यप्युभयत्र पाठः ।] बोधता चिन्मात्रता तिष्ठति ॥ ४ ॥

सुविविक्ततया चित्तसत्ता बोधतयोदिता ।
अनाद्यन्ता भवत्यच्छप्रकाशफलदायिनी ॥ ५ ॥

चित्ते या सत्ता प्राग्जडदेहाद्यविवेकाज्जडेवाभूत्सैव साम्प्रतं देहादेः सुविविक्ततया
स्थिता बोधतया उदितेव । यतः परमार्थप्रकाशफलदायिनीत्यर्थः ॥ ५ ॥

स्वयमेव ततस्तत्र निरस्तसकलैषणम् ।
अनाद्यन्तमनायासं ध्यानमेवावशिष्यते ॥ ६ ॥

यतो निरस्तसकलैषणमतस्तदनन्यगतिकत्वात्स्वात्मध्यानमेव परिशेषादवगम्यत
इत्यर्थः ॥ ६ ॥

यावन्नाधिगतं ब्रह्म न विश्रान्तं परे पदे ।
तावत्तन्मननत्वेन न ध्यानमवगम्यते ॥ ७ ॥

कदा तर्हि तन्मनो न ध्यानं तदाह - यावदिति । तत् मनः । मननत्वेन
विषयान्तरानुसन्धानत्वेन ॥ ७ ॥

परमार्थैकतामेत्य न जाने क्व मनो गतम् ।
क्व वासना क्व कर्माणि क्व हर्षामर्षसंविदः ॥ ८ ॥

केवलं दृश्यते योगी गतो ध्यानैकनिष्ठताम् ।
स्थितो वज्रसमाधाने विपक्ष इव पर्वतः ॥ ९ ॥

ध्यानवत्तस्य समाधिरप्यर्थसिद्ध इत्याह - केवलमिति द्वाभ्याम् ॥ ९ ॥

विरसाखिलभोगस्य प्रशान्तेन्द्रियसंविदः ।
नीरसाशेषदृश्यस्य स्वात्मारामस्य योगिनः ॥ १० ॥

क्रमेण विगलद्वृत्तेर्बलाद्विश्रान्तिमीयुषः ।
अर्थायातं समाधानं केन नाम विचार्यते ॥ ११ ॥

तावद्विषयवैरस्यं भावयन्त्युचिताशयाः ।
न पश्यन्त्येव तान्यावद्भोगांश्चित्रनरो यथा ॥ १२ ॥

तस्य परवैराग्यमप्यर्थसिद्धमित्याह - तावदिति । चित्रनरश्चित्रलिखितान्पुरुषान् ॥
१२ ॥

अपश्यञ्जागतानर्थान्निर्वासनतयात्मवान् ।
बलाद्वज्रसमाधाने त्वन्येनेव निवेश्यते ॥ १३ ॥

वज्रवदभेद्ये समाधाने समाधावन्येन नियन्त्रेव बलान्निवेश्यते ॥ १३ ॥

प्रावृषीव नदीपूरो यः समाधिरुपस्थितः ।
बलादेव तमायातं भूयश्चलति नो मनः ॥ १४ ॥

यः समाधिराविर्भूतानन्दैकरसः प्रथमवृत्तावुपस्थितस्तं
गुडपिपीलिकान्यायेन वस्तुस्वभावबलादेवैकाग्र्यमायातमास्वादयन्मनस्ततो न
चलति ॥ १४ ॥

सर्वार्थशीतलत्वेन बलाद्ध्याने यदाऽऽगतम् ।
ज्ञानाद्विषयवैरस्यं स समाधिर्हि नेतरः ॥ १५ ॥

ज्ञानाद्बलादागतं यद्विषयान्तरे वैरस्यं स एव समाधिः । न हि रागादिना
दन्दह्यमाने चेतसि समाधानं कदाचिदपि कस्यचित्प्रसिद्धमिति ॥ १५ ॥

दृढं विषयवैरस्यमेव ध्यानमुदाहृतम् ।
तदेव परिपाकेन वज्रसारं भवत्यलम् ॥ १६ ॥

एवं ध्यानोपपत्तिरपि विषयवैरस्ये सत्येव नान्यथेत्याह - दृढमिति ॥ १६ ॥

तदेतद्भोगवैतृष्ण्यं ध्यानमङ्कुरितं हि तत् ।
तदेव पीठबन्धेन बद्धं भवति बन्धुरम् ॥ १७ ॥

तथा च भोगवैतृष्ण्यन्न् बीजमेवाङ्कुरितावस्थं ध्यानं प्ररूढावस्थं
समाधिरित्यभेदेऽपि व्यपदेशभेदः फलित इत्याह - तदेतदिति ॥ १७ ॥

सम्यग्ज्ञानं समुच्छूनं सदैवोज्झितवासनम् ।
ध्यानं भवति निर्वाणमानन्दपदमागतम् ॥ १८ ॥

साक्षात्कारवृत्त्याविर्भूतं ब्रह्मैव अविद्योच्छेदितया ज्ञानं वासनोच्छेदितया
ध्यानन्न् सर्वदुःखोच्छेद्यानन्दरूपतया निर्वाणमिति व्यपदिश्यत इत्याह -
सम्यगिति ॥ १८ ॥

अस्ति चेद्भोगवैतृष्ण्यं किमन्यद्ध्यानदुर्धिया ।
आस्ति चेद्भोगवैतृष्ण्यं किमन्यद्ध्यानदुर्धिया ॥ १९ ॥

सर्वमिदं भोगवैतृष्ण्ये सत्येव सिद्ध्यति नान्यथेति तदेव दृढीकर्तुं
प्रशंसति - अस्ति चेत्यादिना ॥ १९ ॥

दृश्यस्वदनमुक्तस्य सम्यग्ज्ञानवतो मुनेः ।
निर्विकल्पं समाधानमविरामं प्रवर्तते ॥ २० ॥

यस्मै न स्वदते दृश्यन्न् स सम्बुद्ध इति स्मृतः ।
न स्वदन्ते यदा भोगाः सम्यग्बोधस्तथोदितः ॥ २१ ॥

यस्य स्वभावविश्रान्तिः कथं तस्यास्ति भोगिता ।
अस्वभावो हि भित्वं तत्क्षये तत्कथं कुतः ॥ २२ ॥

पूर्णाद्वयस्वभावविरुद्धं भोगित्वमज्ञानकृतस्वभावविपर्ययकालमात्रे
सम्भवति नाज्ञाननाशोत्तरमित्याह - यस्येति ॥ २२ ॥

श्रुतपाठजपान्तेषु समाधिनिरतो भवेत् ।
समाधिविरतः श्रान्तः श्रुतपाठजपाञ्छ्रयेत् ॥ २३ ॥

अभ्यासकाले व्युत्थितेन किं कार्यन्न् कदा वा समाधिः सेव्यस्तत्क्रममाह -
श्रुतेति । श्रुतं गुरुसतीर्थ्यादिभिः सह वेदान्तश्रवणम् । पाठ
उपनिषदाद्यावर्तनम् । जपः प्रणवादेः । तथा चोक्तं स्कान्दे - जपश्रान्तः
पुनर्ध्यायेद्ध्यानश्रान्तः पुनर्जपेत् । जपध्यानाभियुक्तस्य प्रसीदति परः शिवः इति
॥ २३ ॥

निर्वाणमासीत निरस्तखेदं समस्तशङ्कास्तमयाभिरामम् ।
सुषुप्तसौम्यं समशान्तचित्तं शरद्धनाभोगविशुद्धमन्तः ॥ २४ ॥

तत्रापि सदैव समाधिप्रधानेन भाव्यमित्याशयेनोपसंहरति - निर्वाणमिति ।
स्पष्टम् ॥ २४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
साम्यावबोधनो नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
साम्यावबोधनो नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥