पञ्चचत्वारिंशः सर्गः ४५
श्रीवसिष्ठ उवाच ।
इति विश्रान्तवानेष मनोहरिणकोऽरिहन् ।
तत्रैव रतिमायाति न याति विटपान्तरम् ॥ १ ॥
वर्ण्यते मनसो ध्यानपादपारोहणक्रमः ।
आरोहतः सुखोत्कर्षोऽप्युत्तरोत्तरभूमिषु ॥
हे अरिहन् । तत्र ध्यानकल्पतरावेव ॥ १ ॥
एतावताथ कालेन स विवेकद्रुमः फलम् ।
अन्तस्थन्न् परमार्थात्म शनैः प्रकटयत्यलम् ॥ २ ॥
एतावता प्राग्वर्णितेन गुच्छारम्भान्तेन मनोमृगविश्रान्त्यन्तेन च कालेन स
वर्णितो विवेकसहितध्यानद्रुमोऽन्तस्थं पञ्चकोशान्तस्थं गुच्छान्तस्थं च
परमार्थात्म पारमार्थिकस्वस्वरूपं कैवल्यफलं
शनैर्वक्ष्यमाणभूमिकारोहणक्रमेण परिपच्यमानं प्रकटयति
साक्षादनुभावयति ॥ २ ॥
ध्यानद्रुमफलं पुण्यौ तदसौ स्वमनोमृगः ।
अधःस्थितः प्रान्तगतं तस्य पश्यति सत्तरोः ॥ ३ ॥
तत्रादावसम्भावनादोषस्येषत्क्षयान्मन्दान्धकारे घटादेरिव
सम्भावनाप्रायन्न् साक्षात्कारं चतुर्थभूमिकाद्वारं दर्शयति - ध्यानेति ।
प्रान्तगतं शाखाग्रसंलग्नम् ॥ ३ ॥
आरोहति नरो वृक्षं तदास्वादयितुं फलम् ।
अन्यवर्गपरित्यागो वितताध्यवसायवान् ॥ ४ ॥
प्राक्तनमृगरूपकस्य वृक्षारोहणे अनुपयोगाच्चापलपशुभावादिनिवृत्तेश्च
नर इत्युक्तिः ॥ ४ ॥
विवेकवृक्षपान्नाम वृत्तीस्त्यजति भूगताः ।
उन्नतं पदमासाद्य भूयो नाधः समीहते ॥ ५ ॥
कथमारोहति तदाह - विवेकेति । विवेकवृक्षे दृढप्रतिष्ठितः पादो यस्य
तथाविधो नाम प्रथमं भूत्वा प्राक्तनीः संसारभूगता
देहादिष्वहम्ममतादिवृत्तीस्त्यजति । पादस्य लोपोऽहस्त्यादिभ्यः इति लोपः समासान्तः ।
नाधः समीहते आरोढव्यावलम्बनीयवृक्षभागेष्वेव
सावधानदृष्टिचित्तनिवेशनादिति भावः ॥ ५ ॥
तेनोत्तमफलार्थेन संस्कारान्प्राक्तनानसौ ।
विवेकपादपारूढस्त्यजत्यहिरिव त्वचम् ॥ ६ ॥
संस्कारांस्त्यजति । न किञ्चित्पूर्वतनं स्मरतीति यावत् ॥ ६ ॥
हसत्युच्चैः पदारूढमात्मानमवलोकयन् ।
एतावन्तमहं कालं कृपणः कोऽभवं त्विति ॥ ७ ॥
कदाचिद्दैवात्स्मरन्नपि हसति । कृपणो विषयसुखकणप्रार्थनया दीनः ॥ ७ ॥
करुणादिषु तेष्वस्य भ्रमञ्छाखान्तरेषु सः ।
लोभव्यालमधः कुर्वन्सम्राडिव विराजते ॥ ८ ॥
करुणा सर्वभूतदया आदिपदात् अभयन्न् सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
इत्याद्या दैव्यः सम्पदो गृह्यन्ते । तल्लक्षणेषु अस्य वृक्षस्य शाखान्तरेषु
भ्रमन् व्युत्थानकाले विहरन्सम्राडिव पूर्णकामः ॥ ८ ॥
हृदयेन्दोर्गलश्रेणी दुःखाब्जतिमिरावलिः ।
कृष्णायःशृङ्खलातृष्णा दिनानुदिनमुज्झति ॥ ९ ॥
हृदयेन्दोः सद्बुद्धिचन्द्रस्य गलत्यस्मिन्निति गलः कलाक्षयहेतुर्दर्शस्तस्य श्रेणी
पङ्क्तिभूता दुःखलक्षणस्य अब्जस्य चन्द्रस्य बहुत्वभ्रान्तिहेतुस्तिमिरं
नेत्ररोगविशेषस्तदावलिः कृष्णायः अयोजाति भेदस्तन्निर्मिता शृङ्खलेव
प्राणिनां बन्धनहेतुः ईदृशी तृष्णा शुभेच्छारम्भदिनमारभ्य
दिनानुदिनं क्षीयमाणा चतुर्थभूमिकायां निःशेषमुज्झति । रसोऽप्यस्य परं
दृष्ट्वा निवर्तते इति भगवद्वचनादिति भावः ॥ ९ ॥
उपेक्षते न सम्प्राप्तं नाप्राप्तमभिवाञ्छति ।
सोमसौम्यो भवत्यन्तः शीतलः सर्ववृत्तिषु ॥ १० ॥
शास्त्रार्थपल्लवेष्वेव निषण्णात्मावतिष्ठते ।
उन्नतावनतायाताअधः पश्यञ्जगद्गतीः ॥ ११ ॥
शास्त्रमध्यात्मशास्त्रं तदर्थाः शमदमसन्तोषादयस्तल्लक्षणेषु पल्लवेषु
किसलयेषु । इतरशास्त्रानुसारिप्रवृत्तौ प्राणिनां ब्रह्मलोकपर्यन्तमुन्नताः
स्वाभाविकप्रवृत्तौ निरयान्तमवनताश्च जगद्गतीरधः अज्ञदशायामेवेति
पश्यन् ॥ ११ ॥
भीमद्रुमलतोत्कीर्णपुष्पप्रकरदन्तुराः ।
प्राक्तनीः स्वाः स्थलीः पश्यन्हसत्यन्तर्वराकताम् ॥ १२ ॥
भीमा भयानका विषद्रुमलतास्तत्रोत्कीर्णैर्विषपुष्पप्रकरैर्दन्तुराः
प्रकटितोन्नतदन्ता इव स्थिताः स्थलीः प्राग्वर्णिताः सप्त अज्ञानभूमिकाः
पश्यन्स्मरन् ॥ १२ ॥
तेषु तत्स्कन्धदेशेषु तथोड्डीनविडीनया ।
हारिण्या विहरञ्जात्या राजेव परिराजते ॥ १३ ॥
तस्य ध्यानतरोः
स्कन्धदेशेषूत्तरोत्तरभूमिकाभेदेष्वभ्यासदशायामारुह्यावतरणादुड्डीनविडी
नप्रायया अत एव विहरञ्जात्या चित्तवृत्त्या ॥ १३ ॥
पुत्रदारसमग्राणि मित्राणि च धनानि च ।
जन्मान्तरकृतानीव स्वप्नजानीव पश्यति ॥ १४ ॥
रागद्वेषभयोन्मादमानमोहमहत्तया ।
नटस्येवास्य दृश्यन्ते शीतलामलचेतसः ॥ १५ ॥
व्यवहारे नटस्येव परानुरञ्जनमात्रप्रधानया कृत्रिमया रागादिमहत्तया अस्य
दृश्यन्ते । व्यवहारा इति शेषः ॥ १५ ॥
उन्मत्तचेष्टिताकारा हसत्यपि पुरोगताः ।
तरङ्गभङ्गुराधाराः संसारसरितो गतीः ॥ १६ ॥
पुरोगता अपि संसारमृगतृष्णासरितो गतीर्मिथ्यात्वबुद्ध्या हसति ॥ १६ ॥
न स चेतयते काश्चिल्लोकदारधनैषणाः ।
अपूर्वपदविश्रान्तो जीवन्नेव यथा शवः ॥ १७ ॥
केवलं केवले शुद्धे बोधात्मनि महोन्नते ।
दत्तदृष्टिः फले तस्मिन्परं समधिरोहति ॥ १८ ॥
परं पञ्चमभूमिकास्थानम् ॥ १८ ॥
स्मृत्वा स्मृत्वापदः पूर्वं सन्तोषामृतपोषितः ।
अर्थानामप्यनर्थानां नाशेषु परितुष्यति ॥ १९ ॥
व्यवहारेषु कार्येषु भोगसम्पादकेष्वपि ।
परमुद्वेगमायाति सनिद्र इव बोधितः ॥ २० ॥
यथा सनिद्रः पुरुषो बोधितः सन्निद्रासुखविच्छेदादुद्वेगमायाति
तद्वदयमवश्यकार्येषु व्यवहारेषु परैर्बोध्यमानः
समाधिसुखविच्छेदादुद्वेगमायातीत्यर्थः ॥ २० ॥
दीर्घाध्वग इवोदारामनारतमबाधिताम् ।
चिरं मौर्ख्यश्रमाक्रान्तो विश्रान्तिमभिवाञ्छति ॥ २१ ॥
प्राक् चिरं मौर्ख्यप्रयुक्तेन जन्ममरणपरम्पराभ्रमश्रमेणाक्रान्त इति
साम्प्रतं समाधिविश्रान्तिमेवाभिवाञ्छतीत्यर्थः ॥ २१ ॥
निःश्वासबोधितोऽप्यग्निरनिन्धन इवात्मनि ।
श्वासमात्रसमोऽप्यन्तरतिष्ठन्नेव शाम्यति ॥ २२ ॥
श्वासमात्रेणेतरजनसमोऽप्यन्तरहम्भावाभिमानेनाऽतिष्ठन्नेवेति पूर्णात्मनि
शाम्यति ॥ २२ ॥
आपतन्तीं बलादेव पदार्थेष्वरतिं शनैः ।
न शक्नोति निराकर्तुं दृष्टिमत्र च्युतामिव ॥ २३ ॥
बाह्यपदार्थेष्वरतिं पूर्वाभ्यासबलादापतन्तीं अत्र बाह्यार्थेषु च्युतां स्खलितां
यथाप्राप्तोपभोगदृष्टिमिव निराकर्तुं न शक्नोति अप्रतिकूलत्वादिति भावः ॥ २३ ॥
तां महापदवीं गच्छन्परमार्थफलप्रदाम् ।
भूमिकामप्युपायाति वचसामप्यगोचराम् ॥ २४ ॥
भूमिकां षष्ठभूमिकाम् ॥ २४ ॥
कुतोऽप्यचेष्टितेष्वेव सम्प्राप्तेषु विधेर्वशात् ।
भोगेष्वरतिमायाति पान्थो मरुमहीष्विव ॥ २५ ॥
अचेष्टितेषु प्रयत्नरहितेष्वेव कुतोऽपि परप्रयत्नादिनिमित्तात्प्राप्तेषु ॥ २५ ॥
घूर्णः क्षीण इवानन्दी सुप्तः संसारवृत्तिषु ।
अन्तःपूर्णमना मौनी कामपि स्थितिमृच्छति ॥ २६ ॥
स तादृग्रूपतामेत्य परमार्थफलस्य तत् ।
क्रमान्निकटमाप्नोति खगोऽगपदवीमिव ॥ २७ ॥
खगः सिद्धः ।अगपदवीं मेरुशिखरमिव पक्षी वृक्षाग्रमिवेति वा ॥ २७ ॥
ततस्तदखिलां बुद्धिं विहाय वियता समः ।
गृह्णात्यथास्वादयति भुङ्क्तेऽथ परितृप्यति ॥ २८ ॥
तस्य सप्तमभूमिकाप्रतिष्ठामाह - तत इति । अखिलां बुद्धिं विहायेत्यनेन
तत्रास्यात्यन्तिकवासनाक्षयमनोनाशौ दर्शितौ । गृह्णाति
भूमानन्दब्रह्मभावफलमिति शेषः । आवरणभङ्गाद्गृह्णाति
निर्विक्षेपस्फुरणादास्वादयति तदेकप्रवणवृत्त्या भुङ्क्ते तद्भावेन पूर्णस्थित्या
परितृप्यतीति चतुर्थ्यादिभूमिकाफलानामत्र लाभो दर्शितः ॥ २८ ॥
सङ्कल्पार्थपरित्यागाद्दिनानुदिनमातता ।
शुद्धस्वभावविश्रान्तिः परमार्थाप्तिरुच्यते ॥ २९ ॥
सर्वभूमिकारोहणोपायरहस्यमाह - सङ्कल्पेति ॥ २९ ॥
भेदबुद्धिर्विलीनार्थाऽभेद एवावशिष्यते ।
शुद्धमेकमनाद्यन्तं तद्ब्रह्मेति विदुर्बुधाः ॥ ३० ॥
तत्राप्युपायमाह - भेदेति । भेदबुद्धिस्त्रिपुटीभेदसाक्षिचित् विलीना
अर्थास्त्रिपुटीभेदा यस्यास्तथाविधा सती अभेद एवावशिष्यते । स च शुद्धं
ब्रह्मैवेत्यर्थः ॥ ३० ॥
लोकैषणाविरक्तेन त्यक्तदारैषणेन च ।
धनैषणाविमुक्तेन तस्मिन्विश्रम्यते पदे ॥ ३१ ॥
तस्याप्युपायमाह - लोकैषणेति द्वाभ्याम् ।
दारैषणात्यागेनैवार्थात्पुत्रैषणात्यागो लभ्यत इत्याशयः ॥ ३१ ॥
परेण परिणामेन मिथश्चित्परमार्थयोः ।
तापेन हिमलेखेव भेदबुद्धिर्विलीयते ॥ ३२ ॥
दृश्यतत्त्वशोधने सन्मात्रं परमार्थः । द्रष्ट्टतत्त्वशोधने चिन्मात्रम् ।
तयोरखण्डैक्यलक्षणेन परेण निरतिशयानन्दात्मना परिणामश्चित्तस्य
चरमसाक्षात्कारवृत्तिस्तेनेत्यर्थः ॥ ३२ ॥
तज्ज्ञस्याकृष्टमुक्तस्य स्वभावेषूपमां विना ।
स्थितिः स्रग्दामकस्येव न सम्भवति काचन ॥ ३३ ॥
ननु आकृष्टमुक्तधनुष इव चित्तस्याखण्डाकारवृत्त्युपरमे पुनः
पूर्वावस्थास्थितिर्दुर्वारेत्याशङ्क्त्याह - तज्ज्ञस्येति । तज्ज्ञस्य
लब्धसाक्षात्कारस्य धनुरादिकठोरोपमां विना कोमलतरस्य स्रग्दामकस्येव
स्थितिः । भूमौ पतितं हि स्रग्दाम ऋजुवक्रादिभावेन यथैवाकृष्य स्थाप्यते
तथैवावतिष्ठते न धनुर्वत्पूर्वावस्थास्थितिस्तस्य सम्भवतीत्यर्थः ॥ ३३ ॥
यथाऽप्रकटिताङ्गान्तःसंस्थिता शालभञ्जिका ।
न सती नासती स्तम्भे तथा विश्वस्थितिः परे ॥ ३४ ॥
किं सा स्वायत्ता ध्यानरूपा नेत्याह - यथेति द्वाभ्याम् । अप्रकटिताङ्गा
अनाविष्कृतावयवा ॥ ३४ ॥
ध्यानं न शक्यते कर्तुं न चैतदुपयुज्यते ।
अबोधेन विबुद्धस्तु स्वयमत्रैव तिष्ठति ॥ ३५ ॥
अस्त्वेवं किं ततस्तत्राह - ध्यानमिति । इत्थं प्राग्बोधात्सप्रपञ्चे ब्रह्मणि
निष्प्रपञ्चस्वभावस्याबोधेन ध्यानं तावत्कर्तुं न शक्यते । साक्षाद्विबुद्धस्तु
स्वयं तत्स्वभावे एव तिष्ठन्कथं तद्ध्यातुं शक्नुयात् । न हि स्वपन् जागरूको वा
अस्वप्नोऽहमस्मीत्यात्मानं ध्यातुं शक्नोतीति भावः ॥ ३५ ॥
आत्यन्तिकी विरसता यस्य दृश्येषु दृश्यते ।
स बुद्धो ना प्रबुद्धस्य दृश्यत्यागे [दृश्यत्यागे हि शक्रता इति पाठः
।] हि शक्तता ॥ ३६ ॥
जागरूकेण स्वाप्नार्थेष्विव तत्त्वविदा प्रपञ्चे तुच्छबुद्ध्या
आत्यन्तिकवैरस्यमात्रं तु कर्तुं शक्यमित्याशयेनाह - आत्यन्तिकीति ॥ ३६ ॥
दृश्यस्य बोधताबोधो यो बोधादपरिक्षयः ।
स समाधानशब्देन प्रोच्यते सुसमाहितेः ॥ ३७ ॥
यदि न ध्यानन्न् तर्हि तदविषये ब्रह्मणि कथं समाधिः
धारणाध्यानसमाधीनामेकविषयत्वनियमात् । तथा हि भगवतः पतञ्जलेः
सूत्राणि देशबन्धश्चित्तस्य धारणा तत्र प्रत्ययैकतानता ध्यानम्
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः त्रयमेकत्र संयमः इति
तत्राह - दृश्यस्येति । यो दृश्यस्य त्रिपुटीलक्षणस्य
जगतस्तत्साक्षिस्वरूपबोधमात्रताबोधः स एव सुष्ठु सम्यग्यथार्थस्वभावे
आहितेः स्थापनाद्धेतोः सम्यगाधानं समाधिरिति विग्रहे समाधानशब्देनोच्यते ।
तादृशबोधस्वभावाद्धि प्रपञ्चोऽपरिक्षयः शाश्वतो भवतीति सम्यक्स्वभावे
तस्याधानं सम्पन्नमित्यक्षरार्थानुगमादित्यर्थः ॥ ३७ ॥
द्रष्ट्टदृश्यैकतारूपः प्रत्ययो मनसो यदा ।
स तदेकसमाधाने तदा विश्राम्यति स्वयम् ॥ ३८ ॥
अर्थमात्रनिर्भासं स्वरूपशून्यमिवेति पतञ्जलिवचनस्यापि
दृग्दृश्यैक्यापादनेन मनसो विलये तात्पर्यं सुवचमित्याशयेनाह -
द्रष्ट्रिति । द्रष्टा साक्षिदृश्या त्रिपुटी तदेकतां रूपयतीति रूपः ॥ ३८ ॥
स्वभावो दृश्यवैरस्यमेव तत्त्वविदो निजः ।
दृश्यस्पन्दनमेवाहुरतत्त्वज्ञत्वमुत्तमाः ॥ ३९ ॥
दृश्यस्य वैरस्यन्न् जाड्यदुःखादिरसताविरुद्धचिदानन्दरसभावः ॥ ३९ ॥
अतज्ज्ञायैव विषयाः स्वदन्ते न तु तद्विदः ।
न हि पीतामृतायान्तः स्वदते कटु काञ्जिकम् ॥ ४० ॥
विषया अचित्स्वभावा अचित्स्वभावदेहाद्यात्मने अतत्त्वज्ञायैव खदन्ते । रुच्यर्थानां
प्रीयमाणः इति सम्प्रदानता । तद्विद इति तस्यैव शेषत्वविवक्षया षष्ठी । काञ्जिकं
मद्यविशेषः ॥ ४० ॥
वितृष्णस्यात्मनिष्ठत्वादेषणात्रयमुज्झतः ।
ज्ञस्याप्यनिच्छतो ध्यानमर्थायातं प्रवर्तते ॥ ४१ ॥
यदि तु पुनः पुनः स्वस्वरूपानुसन्धानमेव ध्यानं मन्यसे तर्हि तज्जागरूकस्य
जाग्रदात्मनीव विदुषः सहजसिद्धमित्याह - वितृष्णस्येति ॥ ४१ ॥
बोधः स्फुरति तृष्णावाः सैव यस्य न विद्यते ।
तस्य स्वरूपमुत्सृज्य क्वासौ तिष्ठति कः कथम् ॥ ४२ ॥
वितृष्णस्येत्युक्तेस्तात्पर्यमुद्घाटयति - बोध इति । बोधः
स्वरूपानुसन्धानलक्षणं ध्यानं तृष्णादिविक्षेपहेतोः स्फुरति सञ्चलतीति
प्रसिद्धम् । यस्य तत्त्वविदः । तथा च परिशेषात्स्वरूपानुसन्धानस्यैव सिद्धिरित्याह
- तस्येति । किंवृत्तानि दृश्यद्रष्ट्टदर्शनत्रिपुटीपरामर्शीनि ॥ ४२ ॥
ज्ञस्यानाराधको ध्येयबोधो नयतु यो भवेत् ।
अनन्ता सा वितृष्णस्य न्निर्विभागोदितः स्वयम् ॥ ४३ ॥
अथवा वितृष्णस्य ज्ञस्य सा तृष्णा अनन्ता अपरिच्छेद्या । यतोऽयं स्वयन्न्
निर्विभागोऽपरिच्छिन्नात्मरूप एवोदितः । अतो ध्येयस्य चिन्तनीयस्य बाह्यार्थस्य बोधो
यो यादृशो भवेत्स तादृशे समाधौ व्यवहारे वा नयतु तथाप्यसौ
तस्याऽनाराधको न तत्तृष्णापूर्तिसमर्थ इत्यर्थः ॥ ४३ ॥
अनन्तमपतृष्णस्य स्वयमेव प्रवर्तते ।
ध्यानन्न् गलितपक्षस्य संस्थानमिव भूभृतः ॥ ४४ ॥
अतो बाह्यार्थेऽपगततृष्णस्य तस्य तादृशतृष्णाया नित्यनिरतिशयानन्दात्मैव
परिशेषाद्रोधक इति तदनुभवलक्षणमनन्तध्यानं स्वयमेव प्रवर्तते न
यत्नमपेक्षत इत्यर्थः ॥ ४४ ॥
शुद्धबोधात्मनि ज्ञत्वादसमाहिततोदिता ।
न जातु सुसमिद्धेऽग्नौ घृतबिन्दोरवस्थितिः ॥ ४५ ॥
अत एव शुद्धबोधोदयपर्यन्तमेव समाधियत्नः । शुद्धबोधात्मनि
साक्षादनुभूते ज्ञत्वविरोधादेवाऽसमाहितत्वं
समाधियत्ननिवृत्तिस्तत्त्वविद्भिरुदितेत्यर्थः । विरोधं दृष्टान्तेन प्रकटयति -
न जात्विति ॥ ४५ ॥
परं विषयवैतृष्ण्यन्न् समाधानमुदाहृतम् ।
आहृतं येन तन्नूनं तस्मै नृब्रह्मणे नमः ॥ ४६ ॥
विक्षेपहेतूनान्न् रागादिदोषाणामात्यन्तिकोच्छेदलक्षणं तु समाधानं
विदुषामेवास्त्यतस्ते नमस्या इत्याह - परमिति । आहृतं सम्पादितम् ॥ ४६ ॥
नूनं विषयवैतृष्ण्ये परिप्रौढिमुपागते ।
न शक्नुवन्ति निर्हर्तुं ध्यानं सेन्द्राः सुरासुराः ॥ ४७ ॥
तृष्णापाशबद्धान्स्वपशून्प्रत्येव देवानां तृष्णोद्दीपनेन
विघ्नसमर्थत्वादिति भावः ॥ ४७ ॥
परं विषयवैतृष्ण्यं वज्रध्यानं प्रसाध्यताम् ।
भेदे विगलिते ज्ञानादन्यध्यानतृणेन किम् ॥ ४८ ॥
विषयवैतृष्ण्यन्न् च ज्ञानेन सर्वविषयबाधपर्यवसितकार्यं तदेव
वज्रवद्दृढं ध्यानमपीति प्रशंसति - परमिति ॥ ४८ ॥
मूर्खस्थो विश्वशब्दार्थो नामूर्खविषयस्तथा ।
तज्ज्ञाज्ञयोस्तयोश्चैव विश्वविश्वेशयोस्तथा ॥ ४९ ॥
अत एव विदुषां विश्वशब्दो बाधितार्थक इत्याह - मूर्खेति ।
तज्ज्ञाज्ञयोरित्याद्युत्तरश्लोकान्वयि । तयोस्तद्विशेषज्ञानाज्ञानयोः ॥ ४९ ॥
यत्रैकीभूय कचनं तत्र विश्राम्यतां बुधाः ।
बोधभूमिषु सिद्धानामर्थानां वा विवेकिनाम् ॥ ५० ॥
यत्र यस्मिन्भूमानन्दे द्वैतबाधाभिप्रायेणैकीभूय कचनमित्युच्यतेन
त्वेकत्वसङ्ख्याभिप्रायेण । यतो विवेकिनामारुरुक्षूणां मननादिबोधभूमिषु
सिद्धानामारूढानां साक्षात्कारादिबोधभूमिषु वा आत्मातिरिक्ते सत्तासत्ते द्वैतैक्ये
च केनचिदपि न निर्णीते इत्यन्वयः ॥ ५० ॥
सत्तासत्ते द्वयैक्ये च निर्णीते नेह केनचित् ।
उपाय एकः शास्त्रार्थो द्वितीयो ज्ञसमागमः ॥ ५१ ॥
तत्र विश्रान्तावुपायानाह - उपाय इति ।
शास्त्रस्याध्यात्मशास्त्रस्यार्थनमादरनैरन्तर्येणाभ्यासः शास्त्रार्थः ॥ ५१ ॥
ध्यानं तृतीयं निर्वाणे श्रेष्ठस्तत्रोत्तरोत्तरः ।
जीवादर्शान्मिथो रूपं गृह्णात्येषा महद्वपुः ॥ ५२ ॥
फलसन्निकर्षाधिक्याच्छ्रेष्ठः । एवं विचारजन्यज्ञानवैराग्ययोरपि
निर्वाणोपायतां परस्पराधीनप्रतिष्ठां च
दर्शयितुमविवेकप्रयुक्तजीवोपाधिपरिच्छेदाधीनरागद्वेषाभ्यां
प्रियाप्रियविषयसङ्घट्टात्साम्यवैषम्यकल्पनां दर्शयति - जीवेति ।
महद्वपुरपरिच्छिन्ना एषा नित्यापरोक्षा ब्रह्मचित् जीवाख्यस्य
स्वप्नप्रतिबिम्बस्यादर्शभूतादन्तःकरणोपाधेर्वशान्मिथः परस्परं विभिन्नं
रूपं गृह्णाति ॥ ५२ ॥
जगत्युदेति सङ्घट्टादाविशेषं समे समे ।
ज्ञातपूर्वापराशेषजगदष्टापदस्थितेः ॥ ५३ ॥
तत्र जगति प्रियाप्रियसङ्घट्टात् आविशेषं
ब्रह्मादिस्तम्बपर्यन्तान्विशेषानभिव्याप्य स्वकर्मवैचित्र्यात्समविषमे शरीरभेदे
उदेतीत्यर्थः । तदेवमनादिकालात्संसरतां जीवानां मध्ये
कस्यचिद्भाग्योदयाज्ज्ञानाधिकारयोग्ये जन्मनि
शास्त्रसज्जनसङ्गाद्युपायलाभाज्ज्ञातपूर्वापराशेषजन्ममरणभ्रमण##-
बोधवैतृष्ण्यरूपयोर्दीपयोरेकसिद्धौ द्वयोरपि सिद्धिरित्यन्वयः ॥ ५३ ॥
एकसिद्धौ द्वयोः सिद्धिर्बोधवैतृष्ण्यदीपयोः ।
मतिवात्याधुतो व्योम्नि दग्धो ज्ञानाग्निनाखिलः ॥ ५४ ॥
ज्ञानाग्निना दग्धो भस्मीभूतोऽखिलो
जगत्तूलश्चिद्व्योम्न्युत्तरभूमिकाभ्यासलक्षणया मतिवात्यया धुत उड्डायितः सन्
क्व गच्छति न जाने ॥ ५४ ॥
जगत्तूलः परे शान्ते न जाने क्वाशु गच्छति ।
चित्राग्निनेव बोधेन तेन जाड्यं न शाम्यति ॥ ५५ ॥
भ्रान्तिनिवारणसमर्थ एव बोधो मूलाज्ञानजाड्योच्छेदहेतुर्न
त्वापातज्ञानमात्रमित्याह - चित्राग्निनेति । जाड्यमज्ञानं शीतं च ॥ ५५ ॥
निर्मूलापि जगद्भ्रान्तिर्येनाशु न विलीयते ।
यथाऽज्ञस्य जगज्ज्ञप्तिरपज्ञानात्प्रदीप्यते ॥ ५६ ॥
अज्ञस्याभिनिवेशलक्षणादपज्ञानाद्यथा संसारभ्रान्तिरभिवृद्ध्या प्रकाशते
तथा तत्त्वज्ञस्य परिज्ञानाभिवृद्ध्या उत्तरोत्तरभूमिष्वज्ञानमधिकं दह्यत
इत्याह - यथेति ॥ ५६ ॥
तथा ज्ञस्य परिज्ञानात्तदज्ञप्तिः प्रदीप्यते ।
तज्ज्ञस्याज्ञजगज्ज्ञप्तिशब्दार्थरहिता स्थिता ॥ ५७ ॥
दह्यमानेऽज्ञाने जगत्कीदृशं तेषां भासते तदाह - तज्ज्ञस्येति ॥ ५७ ॥
यथास्थितैव त्रिजगज्ज्ञप्तिश्चित्र इवोदिता ।
शून्यत्वेनैव रचिता सुप्तत्वेनेव निर्मिता ॥ ५८ ॥
भासते भामयी वाञ्छा जगज्ज्ञप्तिर्ज्ञचेतसि ।
नूनं बोधेऽविमूढस्य नाहन्ता न जगत्स्थितिः ॥ ५९ ॥
अविमूढस्येति च्छेदः ॥ ५९ ॥
भासते परमाभासरूपिणः काप्यवस्थितिः ।
बोधाबोधात्मकं चित्तं भाति शुष्कार्द्रकाष्ठवत् ॥ ६० ॥
अर्धप्रबुद्धस्य तर्हि कीदृशं भाति तदाह - बाधेति ॥ ६० ॥
बोधादेकं जगद्भावैर्जाड्यान्नात्मत्वमागतम् ।
मिथो बोधाद्द्विवदतिमैत्रीं भजति बोधतः ॥ ६१ ॥
द्विवत् उभयस्वभाववत् । बोधतो बोधाधिक्येन सर्वजनेष्वतिमैत्रीं भजति ।
आत्मौपम्येन सुखदुःखे दयया पश्यतीत्यर्थः । अबोधादबोधांशेन विवदति
विवादादिना व्यवहरतीति वा ॥ ६१ ॥
य एवास्याधिको भागस्तन्मयत्वेन तिष्ठति ।
बुधः सतत्त्वं नावैति जगतोऽभावभावयोः ॥ ६२ ॥
यस्तु बुधः परिपक्वज्ञानः स तु जगतः अभावभावयोः सत्त्वासत्त्वयोः सतत्त्वं
याथार्थ्यन्न् नावैत्येव ॥ ६२ ॥
जाग्रत्स्वप्नसुषुप्तानां स्वभावमिव तुर्यगः ।
वासनैव मनः सेयन्न् स्वविचारेण नश्यति ॥ ६३ ॥
यथा तुर्यगः सप्तमभूमिकारूढो जाग्रदादीनां स्वभावं न पश्यति तद्वदिति
भेदकल्पनादुपमा । ननु मनोहरिणकस्य ध्यानतरौ विश्रान्तिः प्रस्तुतेति तस्यैव
रूपान्तरेण तदारोहणे परमपुरुषार्थफलावाप्तिर्वाच्या तत्र मनोनाशलक्षणो
मोक्षः कथं तस्य पुरुषार्थः स्यात्तत्राह - वासनैवेति ॥ ६३ ॥
अवस्तुत्वादतो मोक्षो नात्मनाशे प्रवर्तते ॥ ६४ ॥
अवस्तुत्वादिति । तथा चात्मन एव मायिकमनोहरिणवेषेणानर्थविश्रान्त्यादिवर्णनं
प्रस्तुतमिति भावः ॥ ६४ ॥
ध्यानद्रुमात्स्वयमुपोढमनल्पपाकात्कालेन बोधमुपयातवतः क्रमेण ।
भुक्त्वा रसायनफलं परबोधमाद्यमिच्छन्मनोहरिणको निगडाद्विमुक्तः ॥
६५ ॥
तथा चायं मनोनाशो मनोहरिणवेषेण वर्णितस्यात्मनो निगडमोक्षप्रायः फलित
इत्युपसंहरति - ध्यानेति । इच्छन्मुमुक्षुः प्रस्तुतो मनोहरिणको
वर्णितरूपादङ्कुरकाण्डशाखापल्लवपुष्पफलान्तपरिणामलक्षणानल्प##-
ध्यानद्रुमादाद्यं परबोधोऽखण्डाकारवृत्त्यभिव्यक्तः
परमानन्दस्तल्लक्षणं रसायनफलं भुक्त्वा संसारनिगडाद्विमुक्तो
भवतीत्यर्थः ॥ ६५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
मनोहरणिकोपाख्यानं नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मनोहरणिकोपाख्यानं नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥