०४४

चतुश्चत्वारिंशः सर्गः ४४

श्रीराम उवाच ।

क्रमात्समाधानतरोराजीवफलशालिनीम् ।
सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने ॥ १ ॥

वर्ण्यते वर्धनीयोऽत्र समाधानसुरद्रुमः ।
तले तस्य च विश्रान्त्यै श्रान्तो देहिमनोमृगः ॥

क्रमात् बीजक्षेत्रसेकाङ्कुरीभावपत्रकाण्डशाखापुष्पफलच्छायाविस्तारादि##-
लताः शाखाः कल्पलताश्च तत्सहिताम् । मनोमृगविऽस्रान्तिदाम् । सत्तां स्थितिम् ॥ १ ॥

श्रीवसिष्ठ उवाच ।

आजीवमुद्यदुत्सेधन्न् विवेकिजनकानने ।
पत्रपुष्पफलोपेतं समाधानतरुं शृणु ॥ २ ॥

आजीव्यते सर्वात्मना उपजीव्यत इत्याजीवस्तथाविधम् ॥ २ ॥

यथाकथञ्चिदुदितं दुःखेन स्वयमेव च ।
संसारवननिर्वेदं बीजमस्य विदुर्बुधाः ॥ ३ ॥

शत्रुस्वजनापमानादिजन्यदुःखेन भाग्यवशात्स्वयमेव वा
साधुसुहृज्जनोपदेशादिना निमित्तान्तरेण वा यथाकथञ्चिदुदितं
निर्वेदमुत्कटजिहासात्मकं परवैराग्यमस्य समाधानतरोर्बीजं विदुरित्यर्थः ॥ ३ ॥

शुभजालहलाकृष्टं रसासिक्तमहर्निशम् ।
प्रवहच्छ्वसनाकुल्यं क्षेत्रमस्य विदुर्बुधाः [मनो विदुः इति पाठो
युक्तः ।] ॥ ४ ॥

समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।
चित्तभूमौ विविक्तायान्न् विवेकिजनकानने ॥ ५ ॥

तच्च संसारनिर्वेदरूपं समाधिबीजं विवेकिजनलक्षणे कानने नन्दने विविक्तायां
विवेकपरिष्कृतायां चित्तभूमौ स्वयमेव पतति न वा पापेक्षास्तीत्यर्थः ॥ ५ ॥

स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया ।
सेकैरमीभिर्यत्नेन संसेक्तव्यमखेदिना ॥ ६ ॥

उक्तवैराग्यलक्षणं ध्यानबीजं महाधिया तत्परिवर्धनोद्युक्तदृढधिया
पुरुषेणाऽमीभिर्वक्ष्यमाणलक्षणैः सेकैः संसेक्तव्यं न
प्रसूतिवैराग्यवत्पुनर्भोगासक्त्या नाशनीयमित्यर्थः । अखेदिना कामक्रोधादिवेगः
खेदस्तत्सहिष्णुना ॥ ६ ॥

शुद्धैः स्निग्धैः पवित्रैश्च मधुरैरात्मनोहितैः ।
सत्सङ्गमनवक्षीरैरैन्दवैरमृतैरिव ॥ ७ ॥

तत्र प्रथमं सत्सङ्गमलक्षणैर्नवैः क्षीरैः
पश्चात्तन्मुखावगतशास्त्रामृतैः सेक्तव्यमित्याह - शुद्धैरिति द्वाभ्याम् ॥ ७

अन्तःशून्यप्रदैः पूर्णैः स्वच्छैरमृतशीतलैः ।
विसृतैरमृताकुल्याशास्त्रार्थवरवारिभिः ॥ ८ ॥

नेतिनेतीति सर्वद्वैतनिषेधादन्तःसर्वसंसारशून्यात्मप्रदैः अत एव पूर्णैः
सर्वतापोपशमनादमृतवत्स्वादुशीतलैः । गुरुहृदयस्थस्य ब्रह्मसरसो
व्याख्याद्वार प्रसृतैः ।
अमृतप्रवाहस्यासमन्तात्कुल्यावद्द्वारभूतश्रवणमननादिशास्त्रार्थ##-

स्वचित्तभूमौ पतितं परिज्ञाय महाधिया ।
बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः ॥ ९ ॥

ध्यानस्य बीजं संसारनिर्वेदरूपं रक्ष्यम् ॥ ९ ॥

तपःप्रकारदानेन पदार्थघटनेशितैः ।
तीर्थायतनविश्रान्तिवृतिविस्तारकल्पनैः ॥ १० ॥

के ते यत्नास्तानाह - तप इति । तपोऽत्र भगवदुक्तं देवद्विजगुरुप्राज्ञपूजनं
शौचमार्जवम् इत्यादिकं कायिकं वाचिकं मानसं च त्रिविधं सात्त्विकं
तल्लक्षणेन प्रकीर्यन्त इति प्रकाराः क्षेत्रदोहदास्तद्दानेन । पदार्था
अमानित्वादयस्तेषां घटनेन ईशितैः समर्थितैः । तीर्थायतनादिपुण्यस्थाने
विश्रान्तिर्वासस्तल्लक्षणस्य वृतिविस्तारस्य प्राकारप्राचीनाद्यावरणविस्तारस्य
कल्पनैः ॥ १० ॥

कर्तव्योऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः ।
सन्तोषनामा प्रियया नित्यं मुदितयान्वितः ॥ ११ ॥

एवं सेचनाद्युपायैरङ्कुरितस्य सञ्जाताङ्कुरस्यास्य बीजस्य रक्षणोपायेषु
शिक्षिताशयो निपुणतरो मुदिताख्यया प्रियया पत्न्यान्वितः सन्तोषनामा रक्षिता
परिपालकपुरुषः कर्तव्यः ॥ ११ ॥

पश्चात्स्थिताशाविहगान्परप्रणयपक्षिणः ।
अस्मादापततः कामगर्वगृध्रान्निवारयेत् ॥ १२ ॥

अस्माद्रक्षकाद्धेतोः पश्चात्पूर्ववासनासु स्थितान्
आशालक्षणान्विहगान्परेष्वात्मातिरिक्तेषु पुत्रमित्रधनादिषु
प्रणयोऽनुरागस्तद्रूपान्पक्षिणः कामवर्गादिगृध्रांश्च
ध्यानाङ्कुरविघातार्थमापततो निवारयेत् ॥ १२ ॥

मृदुभिः सत्क्रियाकुन्तैर्विवेकार्कातपैरपि ।
अचिन्त्यालोकदैरस्मान्मार्जितव्यं रजस्तमः ॥ १३ ॥

अहिंसाप्रधानत्वान्मृदुभिर्यमनियमासनप्राणायामेश्वरोपासनादिसत्क्रिया##-
एवमचिन्त्यब्रह्मालोकदैर्विवेकातपैस्तमोऽज्ञानतिमिस्मपि मार्जितव्यम् ॥ १३ ॥

सम्पदः प्रमदाश्चैव तरङ्गा भोगभङ्गुराः ।
पतन्त्यशनयस्तस्मिन्दुष्कृताभ्रसमीरिताः ॥ १४ ॥

तस्मिन्नङ्कुरे ॥ १४ ॥

धैर्यौदार्यदयामन्त्रैर्जपस्नानतपोदमैः ।
विनिवारयितव्यास्ताः प्रणवार्थत्रिशूलिना ॥ १५ ॥

प्रणवमात्राभिर्विराडादिभिः स्थूलसूक्ष्मप्रपञ्चविलापनेन । तद्बोधेनेति यावत् ॥
१५ ॥

इति संरक्षितादस्माद्ध्यानबीजात्प्रवर्तते ।
आभिजात्योन्नतः श्रीमान्विवेकाख्यो नवाङ्कुरः ॥ १६ ॥

आभिजात्येन पुष्टिसौन्दर्यातिशयेनोन्नतः ॥ १६ ॥

तेन सा चित्तभूर्भाति सप्रकाशा विकासिनी ।
भवत्यालोकरम्या च खं यथाभिनवेन्दुना ॥ १७ ॥

तस्मादङ्कुरतः पत्रे उभौ विकसतः स्वयम् ।
एकं शास्त्राभिगमनं द्वितीयं साधुसङ्गमः ॥ १८ ॥

स्तम्भमेष निबध्नाति स्थैर्यं नाम समुन्नतिम् ।
सन्तोषत्वग्विवलितं वैराग्यरसरञ्जितम् ॥ १९ ॥

स्तम्भन्न् काण्डम् स्थैर्यन्न् दृढमूलताम् । समुन्नतिमुच्छ्रायम् ॥ १९ ॥

वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः ।
स्वल्पेनैव स्वकालेन परामेति समुन्नतिम् ॥ २० ॥

शास्त्रार्थसाधुसम्पर्कवैराग्यरसपीवः ।
रागद्वेषकपिक्षोभैर्न मनागपि कम्पते ॥ २१ ॥

अथ तस्मात्प्रजायन्ते विज्ञानालङ्कृताकृतेः ।
लता रसविलासिन्यैमा विततदेशगाः ॥ २२ ॥

विज्ञानं श्रवणावर्तनजं ज्ञानम् । इमा वक्ष्यमाणाः । विततदेशगाः
प्रतानविस्तीर्णा अपरिच्छिन्नात्मप्रदेशगताश्च ॥ २२ ॥

स्फुटता सत्यता सत्ता धीरता निर्विकल्पता ।
समता शान्तता मैत्री करुणा कीर्तिरार्यता ॥ २३ ॥

स्फुटता स्वात्मतत्त्वस्य स्फुटीभावस्तदेकसत्यता । सत्ता तदात्मना स्थितिः । धीरता
तत्राप्यकम्प्यता । समता सर्ववैषम्यनिवृत्तिः ॥ २३ ॥

लताभिर्गुणपत्राभिः स ध्यानतरुरूर्जितः ।
यशःपुष्पाभिरेताभिः पारिजातायते यतेः ॥ २४ ॥

गुणाः शान्त्यादयः पत्राणि यासाम् । यतेः सन्न्यासिनः ॥ २४ ॥

इत्यसौ ज्ञानविटपी लतापल्लवपुष्पवान् ।
भविष्यज्ज्ञानफलदो दिनानुदिनमुत्तमः ॥ २५ ॥

भविष्यज्ज्ञानं मूलाज्ञानोच्छेदक्षमो ब्रह्मसाक्षात्कारः
सप्तमभूमिकाविश्रान्तिपर्यन्तः ॥ २५ ॥

यशःकुसुमगुच्छाढ्यो गुणपल्लवलासवान् ।
वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः ॥ २६ ॥

सर्वाः शीतलयत्याशाः प्रावृषीव पयोधरः ।
सर्गातपं शमयति सूर्यतापमिवोडुपः ॥ २७ ॥

सर्गातपं सांसारिकतापम् ॥ २७ ॥

प्रतनोति शमच्छायां छायामिव घनागमः ।
निरोधमास्फारयति शमोऽनिल इवाम्बुदम् ॥ २८ ॥

निरोधं चित्तस्थैर्यम् ॥ २८ ॥

निबध्नात्यात्मना पीठं कुलाचल इव स्थितम् ।
फलस्य रचयत्यूर्ध्वं घटिकां मङ्गलादिताम् ॥ २९ ॥

पीठं मूलबन्धम् । फलस्य कैवल्याख्यस्य घटिकां घटयित्रीम् । मङ्गलादितां
शान्त्यादिकल्याणगुणश्रियन्न् रचयति ॥ २९ ॥

विवेककल्पवृक्षे तु वर्धमाने दिने दिने ।
छायावितानवलिते पुंसो हृदयकानने ॥ ३० ॥
प्रवर्तते शीतलता तलतापापहारिणी ।
अभ्युल्लसन्मतिलता तुषारोदरसुन्दरी ॥ ३१ ॥

तलस्य मूलभूमेर्हृदयस्य प्रसिद्धानाध्यात्मिकादितापानपहरति तच्छीला ॥ ३१ ॥

यस्यामवान्तरश्रान्तो विश्राम्यति मनोमृगः ।
आजन्मजीर्णपथिकः पथि कोलाहलाकुलः ॥ ३२ ॥

अवान्तरेषु संसारप्रान्तरेषु श्रान्तो मनोमृगो यस्यां छायायां विश्राम्यति ।
तमेव मनोमृगं सर्गोपान्त्यश्लोकस्थमनोहरिणक इत्यन्तं
बहुतरश्रमादिहेतूपपादकैर्विशेषणैर्वर्णयति - आजन्मेत्यादिना । पथि
दैवात्प्राप्ते सन्मार्गेऽपि नानावादिकोलाहलैराकुलो व्यग्रः सन्भ्रंशित इत्यर्थः ॥ ३२ ॥

सत्तामात्रात्मशारीरचर्मार्थं प्रेक्षितोऽरिभिः ।
नानातासारसाकारगोपयज्जर्जरोन्मुखः ॥ ३३ ॥

अरिभिः कामाद्यरिषड्वर्गलुब्धकैः । सत्तामात्रात्मा यः शारीरः
पुरुषस्तल्लक्षणस्य चर्मणोऽपहारार्थे प्रेक्षितः । अनुसृत इति यावत् ।
नानातालक्षणेष्वसारेषु साकारेषु शरीरादिकण्टककुञ्जेषु मुहुर्मुहुर्निलीय स्वं
गोपयंश्चासौ तद्दोषकण्टकैर्जर्जरमूर्ध्वं मुखं यस्य स चेति
बहुव्रीह्युत्तरपदः कर्मधारयः ॥ ३३ ॥

संसारारण्यविसरद्वासनापवनेरितः ।
अहन्तातापसरिता सर्वदा विप्रदारदी ॥ ३४ ॥

अहन्तालक्षणया तापसरिता मृगतृष्णानद्या सर्वदा विप्रधावनेन दारदो
विषभेदः सोऽस्यास्तीति दारदी विषाक्रान्त इवान्तर्दाहतृष्णादिव्याकुल इत्यर्थः ॥ ३४ ॥

दीर्घादरी दूरचितसारसञ्चारजर्जरः ।
पुत्रपौत्रपरामर्शप्रतापात्पतितोऽवटे ॥ ३५ ॥

दीर्घेष्वेव भोगविस्तारेष्वादरोऽस्यास्तीत्यादरी नाल्पसन्तुष्ट इत्यर्थः । अत एव
दूरेऽप्युपचितेषु सारेषु हरिततृणप्रायेषु विषयेषु सञ्चारेण धावनेन जर्जरः
शिथिलितगात्रः । पुत्रपौत्रादीनां परामर्शः परिपालनं
तत्प्रयुक्तादाध्यात्मिकादित्रिविधदावाग्निप्रतापादवटे अनर्थगर्ते पतितः ॥ ३५ ॥

लक्ष्मीलताविलुठनात्सङ्कटैः कुण्ठिताङ्गकः ।
तृष्णाश्रीसरितं गृह्णन्कल्लोलैर्दूरमाहतः ॥ ३६ ॥

लक्ष्मीः सम्पत्तल्लक्षणासु लतासु पादवेष्टनेन
विलुठनाच्छत्रुचोरराजादिप्रयुक्तैर्बन्धनताडनदण्डनादिसङ्कटैः
कुण्ठिताङ्गकः । कल्लोलैः अशनायापिपासाशोकमोहजरामृत्युलक्षणैरूर्मिभिः ॥
३६ ॥

व्याधिदुर्व्याधवैधुर्यपलायनपरायणः ।
अशङ्कितविधिर्व्याधपातादिव कृताकृतिः ॥ ३७ ॥

न शङ्कितः सम्भावितो विधिर्दैवं येन । कृताकृतिः सङ्कुचिताकारः ॥ ३७ ॥

ज्ञेयास्पदसमायातदुःखसायकशङ्कितः ।
वैरिविद्रवणव्यग्रो दृषदाहरणाङ्कितः ॥ ३८ ॥

ज्ञेयानां नेत्रादिज्ञानेन्द्रियास्वाद्यानां
गीतघण्टारावयवाङ्कुरादीनामास्पदेभ्यो निमित्तभूतेभ्यो लुब्धकक्षेत्रकादिभ्यः
समायाताद्दुःखसायकाच्छङ्कितः । दृषद्भिराहरणैः प्रहारैरिव
पूर्वपूर्वदुःखानुभवसंस्कारैरङ्कितः ॥ ३८ ॥

उन्नतानतसम्पातनिपातेनातिघूर्णितः ।
विकारोपलनिर्घातैः पारम्पर्येण चूर्णितः ॥ ३९ ॥

उन्नतानतेषूर्ध्वाधस्तनेषु स्वर्गनरकादिषु क्रमात्सम्पातनिपातेन ।
दृषदाहरणाङ्कित इत्यत्र दृषत्पदार्थं दर्शयति - विकारेति । विकाराः
कामक्रोधभयादयः । पारम्पर्येण नैरन्तर्येण ॥ ३९ ॥

तृष्णाचारुलताजालप्रवेशवशविक्षतः ।
स्वप्रज्ञारचिताचारः परमायास्वशिक्षितः ॥ ४० ॥

इन्द्रियग्राममागत्य प्रपलायनतत्परः ।
सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः ॥ ४१ ॥

सुदुर्ग्रहो गजेन्द्रः कामः ॥ ४१ ॥

विषयाजगरोदारविषफूत्कारमूर्च्छितः ।
कामुकः कामिनीभूमौ रसात्प्रायो विपोथितः ॥ ४२ ॥

विपोथितो विमर्दितः ॥ ४२ ॥

कोपदावानलप्लुष्टपृष्ठविस्फोटदाहवान् ।
सदा गतागतानेकदीर्घदुःखप्रदाहवान् ॥ ४३ ॥

कोपदावानलेन प्लुष्टो दग्धः । अत एव पृष्ठे विस्फोटादिव बहिर्दाहवान् । सदा
गतागतैर्विषयेषु पुनः
पुनर्भ्रमणैरनन्तचिन्ताशोकादिदीर्घदुःखैरन्तःप्रदाहवान् ॥ ४३ ॥

स्वात्मलग्नाभिलाषांशदंशदोषैरुपद्रुतः ।
भोगलोभलसन्मोदशृगालचिरविद्रुतः ॥ ४४ ॥

स्वकर्मकर्तृतोद्भ्रान्तदारिद्र्यद्वीप्यनुद्रुतः ।
व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः ॥ ४५ ॥

दारिद्र्यलक्षणेन द्वीपिना व्याघ्रेणानुद्रुतः । पुत्रकलत्रासक्तिलक्षणया
व्यामोहमिहिकया अन्धत्वे सति कूटेषु कपटेषु गिरिशृङ्गेष्ववटेषु नीचकृत्येषु
गर्तेषु च लुठत्तनुः ॥ ४५ ॥

मानसिंहसमुल्लासहृदयोत्कम्पनातुरः ।
मरणेन रणे येन वृकपुष्पमिवेक्षितः ॥ ४६ ॥

हृदयस्योत्कम्पनं भयं तेनातुरः । येन प्रसिद्धेन मरणेन मृत्युव्याघ्रेण
रणे सम्प्रहारे वर्कन्ते आददते वृश्चन्ति वा कृकाः स्वनखास्तेषां पुष्पमिव
सुखदार्य ईक्षितः ॥ ४६ ॥

गर्वेण गिरणायाशु दूरतोजनसेवितः ।
कामैः समन्ततो दन्तवितानितयवाङ्कुरः ॥ ४७ ॥

गर्वेणार्थादजगरेण निगिरणाय दूरतो जना यस्मात्तद्दूरतोजनं महारण्यं तत्र
सेवितः । चिरं प्रतीक्षित इति यावत् । कामैर्निमित्तैः समन्ततो दैन्ययाब्चादिना
दन्तविकासाद्वितानिता विस्तारिता इव दन्तप्रभा यवाङ्कुरा येन ॥ ४७ ॥

तारुण्यनारीसुहृदा क्षणमालिङ्ग्य वर्जितः ।
दुःसञ्चारेषु [दुःसञ्चारेषूपवनैः इति मुद्रितपाठः
टीकाकर्त्रसम्मतः स्वारस्यविकलश्च ।] पवनैः कुपितैरिव वर्जितः ॥ ४८ ॥

तारुण्यलक्षणेन नार्यर्थं सुहृदा न स्वतः ।
पवनैर्झञ्झापवनसदृशैरिन्द्रियैर्दुःसञ्चारेषु नरकस्थावरादियोनिकान्तारेषु
वर्जितो बहुशः क्षिप्तः ॥ ४८ ॥

कदाचिन्निर्वृतिं याति सशमं च तरौ क्वचित् ।
मनोहरिणको राजन्नाजीवमिव भास्वति ॥ ४९ ॥

हे राजन्निति दशरथस्य भाविवृत्त्या रामस्य वा सम्बोधनम् । ईदृशोऽयं
मनोहरिणकः कदाचिद्बहुजन्मसञ्चितसुकृतपरिपाकभाग्योदयकाले
क्वचिदधिकारिजन्मनि शमादिसाधनसहितं यथा स्यात्तथा वर्णितलक्षणे
ध्यानतरौ निर्वृतिं विश्रान्तिसुखं याति । यथा आसमन्ताज्जीवतीत्याजीवं प्राणिजातं
रात्रौ शीतान्धकारार्तं भास्वति सूर्येऽभ्युदिते निर्वृतिं याति तद्वदित्यर्थः ॥ ४९ ॥

तालीतमालबकुलादिकवृक्षगुल्मविश्रान्तिषु प्रचुरपुष्पविलासहासैः ।
नामापि यस्य न विदन्ति सुखस्य मूढाः प्राप्नोति तच्छमतरोः स्वमनोमृगो
वः ॥ ५० ॥

हे श्रोतारः तालीतमालादिवृक्षमूलविश्रान्तिसदृशेषु
भूम्यादिसत्यलोकान्तलोकवासेषु
प्रचुरपुष्पविलासहाससदृशैरनित्यभोगाभासैर्यस्य निरतिशयस्य भूमाख्यस्य
सुखस्य नामापि मूढा आत्मज्ञानशून्या जना न विदन्ति
तत्तादृशमपुनरावृत्तिमोक्षविश्रान्तिसुखं वः स्वमनोमृगः प्रागुक्तरीत्या
क्षेत्रबीजसेकादिना वर्धिताच्छमतरोर्ध्यानकल्पवृक्षात्प्राप्नोतीत्यर्थः ॥ ५० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ०
मनोमृगविपद्वर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे न्निर्वाणप्रकरणे उत्तरार्धे
मनोमृगविपद्वर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥