०४३

त्रिचत्वारिंशः सर्गः ४३

श्रीवसिष्ठ उवाच ।

अहन्तादिजगच्चेदं परिज्ञानादसत्यताम् ।
याति सानुभवो मोहात्सत्यमेवान्यथाधियाम् ॥ १ ॥

मनोयक्षपुरप्राये जगत्यज्ञानकल्पिते ।
बोधमात्रेण निर्मृष्टे ब्रह्मैकस्थितिरीर्यते ॥

आन्तरमहन्तादिबाह्यमिदं जगच्च भोक्तृभोग्यरूपं सर्व
तदनुभवरूपभोगतत्त्वपरिज्ञानादसत्यतां याति । चिदवसानो हि भोगः स हि
भोक्तुर्भोग्यसम्बन्धानुभवः तेनानुभवेन हि
मोहादात्मविनिमयेनान्यथाधियां भोक्तर्येवात्मबुद्धिमतां मूढानामात्मा
सानुभवो न स्वत इति सत्यं ब्रह्मैव स इत्यर्थः ॥ १ ॥

अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः ।
एतदेव भवेच्चिह्नं यद्भोगाम्बु न रोचते ॥ २ ॥

अत एव तत्त्वविदां भोग्यवर्गेष्वरुचिरित्याह - अज्ञानेति ॥ २ ॥

अलमन्यैः परिज्ञानैर्वाच्यवाचकविभ्रमैः ।
अनहंवेदनामात्रं निर्वाणं तद्विभाव्यताम् ॥ ३ ॥

एवं भोग्येषु विरक्तानां भोक्तर्यहङ्कारांशत्यागमात्रेण
चिन्मात्रपरिशेषात्मकं निर्वाणं सिद्धमित्याह - अलमिति । वाच्यं रूपं
वाचकं नाम तद्विषयभ्रान्तिरूपैः ॥ ३ ॥

परिज्ञाता यथा स्वप्ने पदार्था रसयन्ति नो ।
न च सन्ति तथैवास्मिन्नहं जगदिदम्भ्रमे ॥ ४ ॥

भोगाम्बु न रोचते इत्येतद्विशदयति - परिज्ञातेति । स्वप्ने दृष्टाः पदार्था यथा
जागरूकं पुरुषं न रसयन्ति न रञ्जयन्ति न सन्ति च तथैवाहन्न् जगदिदमिति भ्रमे
दृष्टाः पदार्था अपि तत्त्वज्ञमित्यर्थः ॥ ४ ॥

यथा स्वभावनाद्यक्षस्तरौ सस्वजनं पुरम् ।
पश्यत्यसत्यमेवैवं जीवः पश्यति संसृतिम् ॥ ५ ॥

अरण्ये यक्षो गन्धर्वमायाकल्पितं नगरं वाऽत्र दृष्टान्त इत्याह - यथेति ।
यक्षतनौ इति पाठे यक्षविद्यानिपुणमनुष्यः स्वभावनाकल्पितयक्षतनौ स्थित्वा
स्वजनसहितं पुरं यथा कल्पयित्वा पश्यतीति व्याख्येयम् ॥ ५ ॥

विभ्रमात्मा यथा यक्षो यक्षलोकश्च ते मिथः ।
सद्रूपौ सुस्थितौ मिथ्या तथाहन्त्वजगद्भ्रमौ ॥ ६ ॥

तत्र यक्षो विभ्रमात्मा भ्रान्तिकल्पितभोक्तृस्वरूपः यक्षलोकस्तन्नगरं च
भ्रान्तिकल्पितभोग्यरूपमित्युभयन्न् नास्त्येव तथापि तौ मिथ
उपभोगलक्षणार्थक्रियाकारितया यथा सद्रूपाविव स्थितौ तथेत्यर्थः ॥ ६ ॥

अनावरणतोऽरण्ये यक्षा विभ्रमरूपिणः ।
यथा स्फुरन्ति भूतानि तथेमानि चतुर्दश ॥ ७ ॥

दृष्टान्ते दार्ष्टान्तिके चासतोऽपि सत्यतया प्रतिभासे अनावृतसाक्षिण्यध्यास एव
निमित्तमित्याशयेनाह - अनावरणत इति । भुवनोपाधिसङ्ख्यया चतुर्दश ॥ ७ ॥

भ्रममात्रमहं मिथ्यैवेति बुद्ध्वा विभावयन् ।
यक्षोऽयक्षत्वमायाति चित्तं चित्तत्त्वतामिदम् ॥ ८ ॥

यक्षस्य स्वकल्पितदेहनगराद्युपसंहार इव जगद्भ्रमबाधेऽपि
तन्मिथ्यात्वदर्शनमेव हेतुरित्याह - भ्रममात्रमिति । चित्तत्त्वतां
चिद्रूपतात्त्विकभावम् ॥ ८ ॥

निरस्तकलनाशङ्कं त्यागग्रहणवर्जितम् ।
अविसारिसमस्तेच्छं शान्तमास्व यथास्थितम् ॥ ९ ॥

चत्वारि क्रियाविशेषणानि ॥ ९ ॥

असत्तासम्भवन्न् दृश्यं द्रष्ट्रात्मकमिदं ततम् ।
अथवा नैव द्रष्ट्रात्म सदवाच्यं किमास्यते ॥ १० ॥

तत्त्वतो विमर्शे दृश्यस्य द्रष्ट्टमात्रता तुच्छता वा पर्यवस्यतीत्याह - असत्तेति
। न विद्यते सत्तायाः सम्भव उत्पत्तिर्यस्मिंस्तथाविधं नैव वा द्रष्ट्रात्म । कुतः
सत् परमार्थचिद्रूपं द्रष्ट्ट तत्त्वमवाच्यं तुच्छं दृश्यरूपं किमास्यते
स्थाप्यते । न हि सतोऽसद्रूपता केनचित्सम्पादयितुं शक्येत्यर्थः ।
आसेरण्यन्तकर्तुर्ण्यन्ते गतिबुद्धि - इति कर्मत्वे कर्मणि लः ॥ १० ॥

वसन्तरसपूरस्य यथा विटपगुल्मता ।
स्वरूपमात्रभरितसंविदः सर्गता तथा ॥ ११ ॥

द्रष्टुर्दृश्यात्मत्वाभावेऽपि व्यवहारे दृश्यसत्तास्फूर्तिन्निर्वाहकता
सम्भवत्येवेति दृष्टान्तेन दर्शयति - वसन्तेति ॥ ११ ॥

यदिदं जगदाभासं शुद्धं चिन्मात्रवेदनम् ।
कात्रैकता द्विता का वा निर्वाणमलमास्यताम् ॥ १२ ॥

परमार्थे तु द्रष्ट्रैक्यादिसम्भावनापि नास्तीत्याह - यदिदमिति ॥ १२ ॥

भूयतां चिन्मयव्योम्ना पीयतां परमो रसः ।
स्थीयतां विगताशङ्कं निर्वाणानन्दनन्दने ॥ १३ ॥

इदानीं भगवान्वसिष्ठः सर्वान्प्रति दयया हितमुद्घोषयन्नपदिशति -
भूयतामित्यादिना । परमो रसो निरतिशयानन्दः रसो वै सः इति श्रुतेः ।
निर्वाणानन्दलक्षणे नन्दने स्वर्वने ॥ १३ ॥

किमेतास्वतिशून्यासु संसारारण्यभूमिषु ।
मानवा वातहरिणा भ्रमथो भ्रान्तबुद्धयः ॥ १४ ॥

वातहरिणा वातप्रम्य इवेति शेषः । भ्रमथ उ इति च्छेदः ॥ १४ ॥

जगत्त्रयमरीच्यम्बु विप्रलब्धान्धबुद्धयः ।
मा धावत गतव्यग्रमाशयोपहताशयाः ॥ १५ ॥

आशया तृष्णया उपहताशयाः सन्तो गतव्यग्रं प्राप्तवैयग्र्यन्न् यथा स्यात्तथा
मा धावत ॥ १५ ॥

रूपालोकमनस्कारमृगतृष्णाम्बुपायिनः ।
व्यर्थमायासमायूंषि मा मा क्षपयतैणकाः ॥ १६ ॥

रूपालोका बाह्यभोगा मनस्कारा आभिमानिकभोगास्त एव मृगतृष्णाम्बूनि ।
आयासं प्राप्येति शेषः ॥ १६ ॥

जगद्गन्धर्वनगरगुरुगर्वेण नश्यथ ।
सुखरूपाणि दुःखानि नाशनायैव पश्यथ ॥ १७ ॥

जगद्रूपे गन्धर्वनगर इव विवेकहारी यो गर्वस्तेन नश्यथ । मा इत्यनुषज्यते ॥ १७ ॥

जगत्केशोण्ड्रकभ्रान्त्यै मा महाम्बरमध्यगम् ।
अवलोकयताभ्रान्ते स्वरूपे परिणम्यताम् ॥ १८ ॥

महाम्बरं ब्रह्माकाशस्तन्मध्यगमज्ञाननैल्यं मा अवलोकयत किन्त्वभ्रान्ते
यथार्थतो दृष्टे स्वरूपे परिणम्यताम् ॥ १८ ॥

मानवा वातलोलोच्चपत्रप्राप्ताम्बुभङ्गुर ।
मानवासु न चास्वन्धगर्भशय्यासु सुप्यताम् ॥ १९ ॥

हे मानवाः वातैर्लोलानि उच्चेषूर्ध्वशाखास्थितेषु पिप्पलपत्रेषु प्राप्तानि
स्कन्नान्यवश्यायाम्बूनीव भङ्गुरा मानवा मनुष्यदेहा यासु आसु
संसारलक्षणास्वन्धगर्भशय्यासु मा सुप्यताम् ॥ १९ ॥

अविराममनाद्यन्ते स्वभावे शान्तमास्यताम् ।
द्रष्ट्टदृश्यदशादोषादस्वभावाद्विनश्यताम् ॥ २० ॥

अविराममखण्डितम् । स्वभावे पारमार्थिकब्रह्मभावे ।
द्रष्ट्रादिदशादोषलक्षणादस्वभावात्स्वरूपविनिमयान्मा विनश्यताम् ॥ २० ॥

अज्ञावबुद्धः संसारः स हि नास्ति मनागपि ।
अवशिष्टं च यत्सत्यं तस्य नाम न विद्यते ॥ २१ ॥

त्रोटयित्वा तु तृष्णायःशृङ्खलावलितं बलात् ।
संसारपञ्जरं तिष्ठ सर्वस्योर्ध्वं मृगेन्द्रवत् ॥ २२ ॥

तृष्णालक्षणया अयःशृङ्खलया वलितं वेष्टितं संसारपञ्जरं
ज्ञानबलात्त्रोटयित्वा मृगेन्द्रः सिंहस्तद्वत्सर्वस्योर्ध्वमुत्कर्षकाष्ठायां
तिष्ठ ॥ २२ ॥

आत्मात्मीयग्रहभ्रान्तिशान्तिमात्रा विमुक्तता ।
यथा तथा स्थितस्यापि सा स्वसत्तैव योगिनः ॥ २३ ॥

आत्मात्मीयग्रहः अहम्ममेत्यभिमानस्तल्लक्षणभ्रान्तिशान्तिमात्रा
तावन्मात्रस्वरूपा विमुक्तता नान्या काचिदस्ति । सा च योगिनः स्वात्मसत्तैवेत्यर्थः ॥ २३

निर्वाणताऽवासनता पराऽपतापताज्ञता ।
संसाराध्वनि खिन्नस्य शान्ता विश्रामभूमयः ॥ २४ ॥

तामेव संसाराध्वखिन्नविश्रान्तिभूमिभेदत्वेन कल्पयित्वाह - निर्वाणतेति ।
अवासनतेति च्छेदः । परा उत्कृष्टा अपतापता अपगतत्रिविधतापता । एताः
पञ्चम्याद्यास्तिस्रो भूमिकाः ॥ २४ ॥

तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् ।
विद्यते जगदर्थोऽसाववाच्यार्थमयो मिथः ॥ २५ ॥

मिथः अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगदिति प्रागुक्तमेवेति ॥ २५ ॥

विश्वता भ्रान्तिसंशान्तौ संस्थितैव न लभ्यते ।
महार्णवाम्बुवलिता पुत्रिकेव पयोमयी ॥ २६ ॥

गङ्गागोदानर्मदेत्यादिरूपा पयोमयी पुत्रिका आकारभेदकल्पना यथा
महार्णवाम्बुवलिता सती तद्रूपेण संस्थितैवार्णववासिभिर्न लभ्यते
तद्वद्भ्रान्तिसंशान्तौ ज्ञानिभिर्विश्वतापीत्यर्थः ॥ २६ ॥

भ्रान्तिशान्तौ प्रबुद्धस्य विनिर्वाणस्य विश्वता ।
यथास्थितैव गलिता विद्यते च यथास्थितम् ॥ २७ ॥

तदेव स्पष्टमाह - भ्रान्तीति ॥ २७ ॥

निर्दग्धतृणभस्माली क्वापि याति यथानिलैः ।
सतां स्वभावविश्रामैः क्वापि याति तथा जगत् ॥ २८ ॥

जगद्ब्रह्मपदार्थस्य सन्निवेशः स तूत्तमः ।
ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्यभाक् ॥ २९ ॥

ब्रह्मपदस्य बृंहणरूपो योऽर्थस्तस्य सन्निवेश आकारविशेषः स तु
ब्रह्मशब्दस्य मुख्यार्थरूपो निर्विकल्पस्वप्रकाशनिरतिशयानन्दप्रत्यगात्मा
चेदुत्तमः । गच्छति षड्विधविकारैः परिवर्तत इति जगदिति
जगच्छब्दप्रवृत्तिनिमित्तविकारकार्यभाक्चेन्नोत्तम इत्यर्थः ॥ २९ ॥

अविज्ञातस्य बालस्य पदार्था यादृशा इमे ।
विदुषस्तादृशा एव तिष्ठतः क्षीणवासनम् ॥ ३० ॥

जगति निर्विकल्पानुभवः शिशोरपि प्रसिद्ध इति तत्साम्यमाह - अविज्ञातस्येति । न
विद्यते विज्ञातं विशेषज्ञानं यस्य बालस्य शिशोः ॥ ३० ॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ३१ ॥

तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् इत्युक्तिमुपपादितां
भगवद्वचनेन संवादयति - या निशेति ॥ ३१ ॥

स्थितमेवाऽविरामी यज्जाग्रदस्य सुषुप्तवत् ।
चित्रावलोकित इव जाग्रत्योऽस्य रसैषणाः ॥ ३२ ॥

तदिदं व्याचष्टे - स्थितमेवेत्यादिना यद्यस्माद्धेतोः
सर्वजनानामज्ञानान्धकारावृतत्वात्सुषुप्तवत्स्थितमेवात्मतत्त्वमस्य तत्त्वविदः
अविरामी विरामशून्यो जाग्रत् जागरस्तस्मात् या निशा सर्वभूतानां तस्यां जागर्ति
इत्युच्यत इत्यर्थः । यस्माच्चास्य जाग्रत्यो मूढजनजाग्रत्त्वेन प्रसिद्धा रसैषणा
इन्द्रियैः शब्दादिविषयास्वादाश्चित्रावलोकितनृत्ययुद्धादिरिव पुरोगता अपि न सन्ति
तस्मात् यस्यां जाग्रति भूतानि स निशा पश्यतो मुनेः इत्युच्यत इत्यर्थः ॥ ३२ ॥

जात्यन्धरूपानुभवसमं भुवनवेदनम् ।
भ्रान्तप्रायमसद्रूपं ज्ञस्य भाति न भाति च ॥ ३३ ॥

उत्तरार्धं पुनर्व्याचष्टे - जात्यन्धेति । भाति चेन्निशास्वप्नवन्न भाति
चेन्निशासुषुप्तवदिति भावः ॥ ३३ ॥

विमूढदुःखं त्रिजगद्विमूढविषयं न सत् ।
स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनःक्रियाः ॥ ३४ ॥

विमूढानां दुःखत्वेन प्रसिद्धं त्रिजगद्विमूढविषयमेव न प्रबुद्धविषयं
यतो न सदित्यर्थः । ननु ज्ञस्य यदि विषयोपभोगो नास्ति तर्हि केन स तृप्तो जीवति
तत्राह - स्वप्ने इत्यादिना ॥ ३४ ॥

न स्वन्दन्ते यथा तद्वज्जाग्रत्स्वप्ने स्फुरन्तु मा ।
निर्विभागः समाश्वस्तोऽविरोधं परमगतः ॥ ३५ ॥

जाग्रत्स्वप्ने जाग्रत्स्वप्नभोगा मा स्फुरन्तु नाम तथापि ज्ञो निर्वाण
आशीतलान्तःकरणोऽवतिष्ठते इति परेणान्वयः ॥ ३५ ॥

आशीतलान्तःकरणो निर्वाणो ज्ञोऽवतिष्ठते ।
तज्ज्ञस्याकृष्टमुक्तस्य समं ध्यानं विना स्थितिः ॥ ३६ ॥

आकृष्टानि भोगवासनाभिश्चित्तस्य बहिराकर्षणानि तैर्मुक्तस्य वर्जितस्य तज्ज्ञस्य
ध्यानन्न् चित्तनिरोधयत्नं विनैव समं स्थितिर्भवति ॥ ३६ ॥

निम्नं विनैव तोयस्य न सम्भवति काचन ।
अर्थ एव मनस्कारो मन एवार्थरञ्जनम् ॥ ३७ ॥

तद्दृष्टान्तेनोपपादयति - निम्नमिति । यथा तडागादितोयस्य
कुल्यादिनिम्नमार्गं विना काचन प्रवाहादिक्रिया न सम्भवति तद्वदित्यर्थः । ननु
तत्त्वज्ञानेन बाह्यार्थबाधे बहिरिन्द्रियाणि न प्रवर्तन्तां मनस्कारनिरोधस्तु
कथं सिद्ध्येत्तत्राह - अर्थ एवेत्यादि ॥ ३७ ॥

एष एवैष आभासः सबाह्याभ्यन्तरात्मकः ।
आसमुद्रं नदीवाहशतसङ्घमयात्मकम् ॥ ३८ ॥

एष मनस्कार एवैषोऽर्थाभासः । यथा तरङ्गिणामासमुद्रं
नदीप्रवाहाद्यनन्तभेदात्मकं प्रसिद्धं सर्वमम्बु एकत्र श्लेषे एकपिण्डात्मकं
जलसामान्यमेव स्फुरति तथा सबाह्याभ्यन्तरं सर्वार्थाकारं मन एव स्फुरतीति
परेणान्वयः ॥ ३८ ॥

यथैकश्लेषपिण्डात्म वहत्यम्बु तरङ्गिणाम् ।
सबाह्याभ्यन्तराकारमर्थानर्थमयात्मकम् ॥ ३९ ॥

मन एव स्फुरत्यर्थनिर्भासं व्याततं तथा ।
नास्त्यर्थमनसोर्द्वित्वं यथा जलतरङ्गयोः ॥ ४० ॥

एकाभावे द्वयोः शान्तिः पवनस्पन्दयोरिव ।
नूनमेकोपशान्त्यैव निःसारे परमार्थतः ॥ ४१ ॥

अस्त्वेवं किं ततस्तत्राह - एकेति । तत्त्वज्ञानेनार्थबाधे मनोऽपि बाधितमेवेति न
मनस्कारप्रसक्तिरित्यर्थः ॥ ४१ ॥

एकत्वादर्थमनसी सममेवाशु शाम्यतः ।
अर्थः सङ्कल्परूपात्मा नेहितव्यो विजानता ॥ ४२ ॥

मनश्च सम्यग्ज्ञानेन शान्तिरेवं भवेत्तयोः ।
अनष्टे नश्यतश्चैते ज्ञस्यार्थमनसी स्वतः ॥ ४३ ॥

अयं च तयोर्बाधः स्वाप्नव्याघ्रनाशवदनष्टनाश इत्याह - अनष्टे इति ॥ ४३ ॥

मृन्मये द्विषति ज्ञानाद्द्विषद्भावभये यथा ।
यथासंस्थं स्थिते एव ज्ञस्यार्थमनसी सदा ॥ ४४ ॥

यथा मृन्मये प्रतिमायां भ्रान्तिकल्पिते द्विषति स्ववैरिणि ज्ञानाद्बाध्यमाने
तस्मिन्द्विषद्भावस्तत्प्रयुक्तभयं च नश्यतस्तद्वदित्यर्थः । यथासंस्थं
पारमार्थिकब्रह्मस्वभावेन स्थितम् ॥ ४४ ॥

किमप्यपूर्वमेवान्यत्सम्पन्ने भावरूपिणि ।
संहितार्थजगत्कालोऽप्यज्ञोऽज्ञविषयोऽप्यसत् ॥ ४५ ॥

अन्यत्सांसारिकदशाप्रसिद्धरूपादन्यत्पूर्णानन्दरूपं सम्पन्ने भावरूपिणि
परमार्थसद्रूपिणि संहिते हेतुफलभावेन घटिते अर्थः
सुखदुःखभोगस्तत्साधनं जगत् त्रैलोक्यं च येन तथाविधः संसारकालः
अपिशब्दात्कालकृताः पदार्थानां जन्मादिविकारास्तद्भोक्ता अज्ञस्तद्विषयः
शब्दादिविषयोऽपीति सर्वं तत्त्वज्ञदृष्ट्या असत् ॥ ४५ ॥

पार्श्वसुप्तनरस्वप्न इव क्लीबाग्रयक्षवत् ।
ज्ञस्य साज्ञं जगन्नास्ति वीरस्येव पिशाचधीः ॥ ४६ ॥

तत्र दृष्टान्तावाह - पार्श्वेति । क्लीबपदेन अधीरो बालादिर्लक्ष्यते तदग्रे
भासमानयक्षवच्च ॥ ४६ ॥

ज्ञमज्ञो भावयत्यज्ञं चिरं वन्ध्यापि वर्धते ।
विनैव ज्ञातशब्दार्थमर्थभावमिवागतम् ॥ ४७ ॥

वन्ध्यापि पुत्रपौत्रादिविस्तारेण वर्धते तद्दृष्ट्येति शेषः । तत्त्वज्ञास्तर्हि
जगत्स्वभावं कीदृशं विदुस्तमाह - विनैवेति । ज्ञातशब्दस्यार्थो
ज्ञानविषयत्वम् तं विनैव स्वप्रकाशत्वादेवार्थाभासमिव स्थितं
भासमानमनाद्यन्तन्न् बोधं ब्रह्मैवेति विदुरित्यर्थः ॥ ४७ ॥

स्थितं बोधमनाद्यन्तं स्वभावं सर्गगं [सर्वगं इति पाठः ।]
विदुः ।
मनः शब्दार्थरहितं विभागान्तविवर्जितम् ॥ ४८ ॥

बाह्यार्थेषूक्तवेदनप्रकार आन्तरेषु मानसेष्वपि बोध्य इत्याह - मनः शब्देति
॥ ४८ ॥

बोधवारिमनोबुद्धितरङ्गमिव निर्मलम् ।
क्व सम्भवत एवान्तः के वार्थमनसी किल ॥ ४९ ॥

निर्मलं विदुरित्यनुषज्जते । एवं
प्रपञ्चितयोरज्ञतत्त्वज्ञजगद्बोधप्रकारयोर्मध्ये द्वितीय एवोपादेयो
यथार्थत्वान्नाद्य इत्याह - क्वेति ॥ ४९ ॥

निरर्थिकैव विभ्रान्तिः स्वभावमयमास्यताम् ।
शुद्धबोधस्वभावस्थैराकाशमिव शारदैः ॥ ५० ॥

स्वभावस्थितौ निरूढायामवस्थात्रयस्य
तुरीयबोधमात्रतासम्पत्तेर्मन्तव्याभावान्मनसो मनस्त्वमप्यपैतीत्याह -
शुद्धेति । शारदैः पद्मैर्ज्योतिर्भिर्जनैर्वा ॥ ५० ॥

जाग्रत्स्वप्नसुषुप्तान्तैर्मनस्त्वं नानुभूयते ।
विधूयानन्तनानात्वमसद्भावमनामये ॥ ५१ ॥

जाग्रत्स्वप्नसुषुप्तलक्षणैरन्तैरवस्थापरिच्छेदैः अनन्तानि नानात्वानि
यस्मिंस्तथाविधमशेषं ज्ञेयन्न् विधूयाध्यस्तसर्पं विधूय रज्जुरिवानामये
स्वभावे तिष्ठ ॥ ५१ ॥

ज्ञेयं रज्जुरिवाशेषं स्वभावे तिष्ठ चिद्घने ।
ज्ञप्तिरेवान्तरं बाह्यं चार्थत्वमधितिष्ठति ॥ ५२ ॥

अधितिष्ठति धत्ते ॥ ५२ ॥

बीजं शाखाफलानीव क्वातोऽर्थमनसी वद ।
ज्ञेयासम्भवतो ज्ञप्तिरप्यनाख्यं पदं गता ॥ ५३ ॥

ज्ञप्तिर्बुद्धिवृत्तिः ॥ ५३ ॥

शान्ताशेषविशेषात्मा तेन शेषोऽस्ति सत्स्वभाः ।
अर्थ एव मनस्कारः स चाभावात्मको भ्रमः ॥ ५४ ॥

स्वभाः स्वप्रकाशः । अर्थमनसोः परस्पराधीननिरूपणत्वादभेदे द्वयोरपि
भ्रान्तिमात्रता पर्यवस्यतीत्याह - अर्थ एवेति ।
बाह्यस्यान्तरभावात्मकत्वादान्तरस्य बहिरभावात्मकत्वाच्चेति भावः ॥ ५४ ॥

मन एवार्थसंस्कारः स चाभावात्मको भ्रमः ।
सर्वात्मत्वादजस्यैतदप्यकारणकं मनः ॥ ५५ ॥

अर्थ इव संस्क्रियत इत्यर्थसंस्कारः । घञन्तत्वात्पुमान् घञवन्तः
इत्यजहल्लिङ्गः । तर्ह्यर्थो मनश्च तत्त्वतः किं तत्राह - सर्वात्मत्वादिति । अजस्य
ब्रह्मणः सर्ववस्तूनामात्मत्वान्मन इति रूपेणापि तदेव भासते ।
तन्निष्कृष्टरूपेऽपि तुच्छमेवेति भावः ॥ ५५ ॥

भ्रमानुभवतोऽर्थश्च मिथ्यैवास्तीव भासते ।
अकारणकमेवार्थनिर्भासं भासते मनः ॥ ५६ ॥

ब्रह्म मनोरूपेणेव मनोऽप्यर्थरूपेण निष्कारणमेव भासत इत्याह -
भ्रमानुभवत इति ॥ ५६ ॥

विद्युद्विलसिताकारमस्थिरं तरलायते ।
त्वं मनस्कारमात्रात्मा संसृतौ विभ्रमायसे ॥ ५७ ॥

स्वभावैकपरिज्ञानान्नासि नापि भ्रमायसे ।
मनसैव हि संसार आत्मबोधेन शाम्यति ॥ ५८ ॥

शुक्तिरूप्यभ्रमाकारो जनो मिथ्यैव ताम्यति ।
अभावभावस्तु परं बोधरूपमसंसृतिः ॥ ५९ ॥

अभावभावो बोधः ॥ ५९ ॥

निर्वाणादितरा सत्ता दुःखायाहमिति भ्रमः ।
मृगतृष्णाम्बुरूपोऽहमसच्छून्यस्वरूपकः ॥ ६० ॥

केनोपायेन तर्हि इतरा अहमिति सत्ता शाम्यति तमाह - मृगतृष्णेति ।
अहमहङ्कारो मृगतृष्णाम्बुसदृशः शून्यस्वरूपक इत्येव शाम्यति ॥ ६० ॥

इत्येवात्मपरिज्ञानादहमित्येव शाम्यति ।
ज्ञात्वा ज्ञानमयो भूत्वा सबाह्याभ्यन्तरार्थताम् ॥ ६१ ॥

कुत एवं तत्राह - ज्ञात्वेति । यस्तद्ब्रह्मसर्गादौ सर्वज्ञतया स्वात्मभूतमेव
स्रष्टव्यपदार्थं ज्ञात्वा तादृशज्ञानमयो हिरण्यगर्भः स्वयं भूत्वा
तत्सङ्कल्पानुसारेण स्वयमेव सबाह्याभ्यन्तरार्थतां स्वरूपमत्यजदेव
गतमित्यर्थः ॥ ६१ ॥

गतं स्वमत्यजद्रूपं तरङ्गत्वं यथा पयः ।
मूलशाखाग्रपर्यन्ता सत्ता विटपिनो यथा ॥ ६२ ॥

अस्त्वेव किं ततस्तत्राह - मूलेति । इदमतः सिद्धम् - यथा विटपिनो
मूलाच्छाखाग्रपर्यन्ता एकैव सत्ता तथा ज्ञातृज्ञानज्ञेयरूपे
जगत्यप्यलमत्यन्तं निर्विकारं स्थिता ज्ञेयान्ताएकैव सत्ता भासते न सत्तान्तरमस्तीति
॥ ६२ ॥

निर्विकारमलं ज्ञप्तेर्ज्ञेयान्तैकैव भासते ।
यथा योजनलक्षाभमेकमेवामलं नभः ॥ ६३ ॥

सत्तैक्ये दृष्टान्तान्तरमपि सत्तैक्यमुपपादयति - यथेत्यादिना ॥ ६३ ॥

एकमेव तथा ज्ञानं ज्ञेयान्तं भात्यखण्डितम् ।
शून्यत्वादेकममलं यथा सर्वगमेव खम् ॥ ६४ ॥

तस्य नैर्मल्येऽप्ययमेव दृष्टान्त इत्याशयेनाह - शून्यत्वादिति ॥ ६४ ॥

तथैकममलं ज्ञात्वा ज्ञानज्ञेयदशास्वपि ।
घृतेनात्मा घनीभूय पाषाणीक्रियते यथा ॥ ६५ ॥

चिता चेत्यतयात्मैव स्वचित्तीक्रियते तथा ।
देशकालं विनैवात्मा बोधाबोधेन चित्तताम् ॥ ६६ ॥

बोधरूपस्य स्वतत्त्वस्याबोधेन ॥ ६६ ॥

अबुद्धो नीयते न्यायैरेकमेवैष सुस्थितः ।
अत्र यद्यप्यबोधादेः सम्भवो नास्ति कश्चन ।
तथापि कल्प्यतेऽत्रैव बोधनाय परस्परम् ॥ ६७ ॥

तदात्मानं स्वयमकुरुत इति श्रुतिदर्शितैर्लाघवतर्कानुगृहीतन्यायैः शङ्कते

  • अत्रेति । अत्र शुद्धे चिदात्मनि । परिहरति - तथापीति । अत्रैव
    अस्यामबोधदशायामेव न तत्त्वत इत्यर्थः । तथा चोक्तं वार्तिके -
    अविद्यास्तीत्यविद्यायामेवासित्वा प्रकल्प्यते । ब्रह्मदृष्ट्या त्वविद्येयं न कथञ्चन
    युज्यते इति ॥ ६७ ॥

महानुभावा विगताभिमाना विमूढभावोपशमे गलन्ति ।
निर्भ्रान्तयोऽनन्ततयैव शान्ता नित्यं समाधानमया भवन्ति ॥ ६८ ॥

असम्भवद्रूपत्वादेव तत्त्वज्ञानोदयेनाज्ञानेन सह सर्वे गलन्तीत्युपसंहरति ##-
विमूढभावस्य मूलाज्ञानस्य ज्ञानेनोपशमे घृतकाठिन्यवत्स्वात्मन्येव
गलन्ति । तद्गलनाच्चानन्ततया निरतिशयानन्दपूर्णभावेन शान्ताः सन्तो निर्भ्रान्तयो
निर्विक्षेपा नित्यमनवरतमेव समाधानन्न् समाधिविश्रान्तिस्तत्परा भवन्तीत्यर्थः
॥ ६८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाण० उ०
ब्रह्मैकतानतोपदेशो नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्मैकतानतोपदेशो नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥