०४२

द्विचत्वारिंशः सर्गः ४२

श्रीवसिष्ठ उवाच ।

चित्तवत्कचनन्न् शान्ते यत्तत्तस्मान्न भिद्यते ।
अव्याकृतामलतया क्वाऽतः सर्गादिसम्भवः ॥ १ ॥

भूयः प्रपञ्चयते चात्र विश्वविश्वेश्वरैकता ।
विवेकैः पूजनीयश्च स्वात्मैव परमेश्वरः ॥

प्रागुक्तां जगतो ब्रह्ममात्रतामनुभावयितुं जगद्भेदकचनहेतोश्चित्तस्य
चिद्भेदन्न् निरस्यति - चित्तवदिति । शान्ते कूटस्थात्मनि प्रथमं यत् चित्तवत्कचनं
तत्तस्मात्कचनरूपाच्चिदात्मनो न भिद्यते । कुतः । अव्याकृतत्वादमलत्वाच्च । तथा हि
नामरूपभेदाद्धि लोके भेदः प्रसिद्धः । स च
नामरूपव्याकरणात्पूर्वभूतजीवभावान्नुप्रवेशोपाधौ चित्ते न सम्भवति ।
तस्याव्याकृतत्वात् । सूक्ष्मतेजोवन्नात्मकलिङ्गसृष्ट्यनन्तरं हि सेयं देवतैक्षत
हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति
तद्व्याकरणं श्रूयते । तथा अमलत्वाच्च चितो न भिद्यते । चिदप्यमला चित्तमपि । न च
तादृशयोः प्रभाकाशयोरिव भेदः केनचिल्लक्षयितुं शक्यते । चित्तस्य
चिद्भेदनिरासादेव तदधीनो जगद्भेदः सुतरां निरस्त इत्याह - क्वात इति ॥ १ ॥

चित्तदीपे गते यान्ति भ्रान्तिवद्भान्ति [भ्रान्तिवद्भ्रान्तिखे इति
मुद्रितपाठोऽस्वरसः टीकाकर्त्रसम्मतश्च ।] खे स्थिते ।
रूपालोकमनस्कारसंविदोऽम्बुद्रवोर्मयः ॥ २ ॥

इदमेव स्फुटमाह - चित्तदीपे इति । स्थिते कूटस्थे खे प्रत्यगात्माकाशे
रूपालोकमनस्कारसंविल्लक्षणा अम्बुद्रवोर्मयो मृगतृष्णाभ्रान्तिवद्भान्ति । ते
च चित्तलक्षणे दीपयतीति दीपः सूर्यस्तस्मिन्नस्तं गते यान्ति अपगच्छन्तीत्यर्थः ॥ २ ॥

निरस्तकरणापेक्षं मरुतः स्पन्दनं यथा ।
यथा विसरणं भासस्तथा जगदिदं परे ॥ ३ ॥

सत्तायां चिदतिरिक्तकारणनिरपेक्षत्वादपि जगच्चिदेवेति दृष्टान्तैरुपपादयति -
निरस्तेत्यादिना । निरस्ता करणापेक्षा येन । भासः प्रभाया विसरणं प्रसारः ॥ ३ ॥

द्रवत्वमिव कीलाले शून्यत्वमिव चाम्बरे ।
स्पन्दत्वं मरुतीवेदं किमप्यात्ममयं परे ॥ ४ ॥

कीलाले जले । आत्ममयमात्मविवर्तः । किमप्यनिर्वचनीयम् ॥ ४ ॥

महाचिति महाकाशे यदिदं भासते जगत् ।
तच्चित्त्वमेव कचति निर्मलत्वं मणाविव ॥ ५ ॥

प्रतीचि चित्तादीनामवस्थाद्वये कचनमिव ब्रह्मणि मायाधीनं वियदादिकचनमपि
तदभिन्नमेवेत्याशयेन तैरेव दृष्टान्तैरुपपादयति - महाचितीत्यादिना ॥ ५ ॥

यथा द्रवत्वं पयसि यथा शून्यत्वमम्बरे ।
यथा प्रस्पन्दनं वायौ महाचिति तथा जगत् ॥ ६ ॥

वेत्ति वायुर्यथा स्पन्दं तथा वेत्ति जगच्चितिः ।
न द्वैतैक्यादिभेदानां मनागप्यत्र सम्भवः ॥ ७ ॥

स्फूर्तावपि चिदतिरिक्तनिरपेक्षत्वाच्चिदभेद इत्याशयेनाह - वेत्तीति । द्वैतं चैक्यं
च सङ्ख्येयभेदाश्च तेषाम् ॥ ७ ॥

अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् ।
बोधे सदैव सद्रूपमभासुरमभङ्गुरम् ॥ ८ ॥

अविवेकेन भासुरं विवेकेन भङ्गुरम् । परमार्थबोधे तु
ब्रह्ममात्रत्वादुभयशून्यम् ॥ ८ ॥

ज्ञप्तिमात्रादृते शुद्धादादिमध्यान्तवर्जितात् ।
नान्यदस्तीह निर्णीतं महाचिन्मात्ररूपिणः ॥ ९ ॥

बोधेन यन्निर्णीतं तदाह - ज्ञप्तीति ॥ ९ ॥

तत्कस्यचिच्छिवं शान्तं कस्यचिद्ब्रह्म शाश्वतम् ।
कस्यचिच्छून्यतामात्रं कस्यचिज्ज्ञप्तिमात्रकम् ॥ १० ॥

तत्रैव वेदानुसारिणामवेदानुसारिणां च विचारयतां वादिनां
यथार्थायथार्थरूपैः कल्पनाभेदाः प्रवृत्ता इत्याह - तदिति ॥ १० ॥

तदनन्तात्म चिद्रूपं चेत्यतामिव भावयत् ।
स्वसंस्थमेव ज्ञेयत्वमज्ञत्वमिव गच्छति ॥ ११ ॥

तत्रैवानाद्यविद्यादिदृश्याकारताध्यास इत्याह - तदिति ॥ ११ ॥

चित्तया नास्ति सत्ता च चित्तता नास्ति तां विना ।
विना विना यथा वायोर्यथा स्पन्देषु कारणम् ॥ १२ ॥

तत्र चित्त्वबलादेवाध्यस्तस्फूर्तेश्चित्तया विना ज्ञेयस्य सत्ता नास्ति तां सत्तां विना च
तस्य चित्तता चित्तस्य नास्ति । यथा विना शून्यात्मना कूटस्थेनाकाशेन विना वायोः
कारणं नास्ति । वायुं च विना स्पन्देषु कारणं नास्ति तद्वदित्यर्थः ॥ १२ ॥

तथा महाचितोच्छायाः सर्गसंवित्तिवृत्तिषु ।
नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ॥ १३ ॥

तथा नित्यब्रह्मसत्ताधीनसत्ताकासु सर्गभ्रान्तिष्वधिष्ठानमपेक्ष्य नित्यं सत्त्वं
स्वरूपतस्तु नित्यमसत्त्वं चेति द्वेधापि शास्त्रे सदेव सोम्येदं नेह नाना इति च
व्यपदेश इत्यर्थः । अन्यस्य हेतोरनपेक्षणात् । असमर्थसमासश्छान्दसः ॥ १३ ॥

इत्यत्रार्थोऽभविष्यत्स द्वित्वैकत्वास्तितावशात् ।
कोऽत्र कल्पयिता द्वित्वमेकत्वं वा महाम्बरे ॥ १४ ॥

चिज्जडद्वित्वस्य तत्कारणैकत्वस्य च अस्तिता स्वतः सत्ता तद्वशाद्धि अत्र सर्गसंवित्तिषु
इति प्रसिद्धोऽर्थोऽभविष्यत् । कूटस्थाद्वये चिदम्बरे द्वित्वमेकत्वं वा कः कल्पयिता
सत्तास्फूर्तिभ्यान्न् समर्थयिता । जडेषु न कश्चित्तादृशोऽस्तीत्यर्थः ॥ १४ ॥

विष्वग्विश्वमपारैकपरमाकाशकोशता ।
यथा स्पन्दानिलद्वित्वं शाब्दमेव न वास्तवम् ॥ १५ ॥

एवं च आकाशद्वित्वाप्रसिद्धिवत्स्पन्दानिलभेदाप्रसिद्धिवच्च
विश्वविश्वेश्वरद्वित्वस्याप्रसिद्धिरेव फलितेत्याह - विष्वगित्यादिना ॥ १५ ॥

विश्वविश्वेश्वरद्वित्वं तथैवासन्मयात्मकम् ।
सदेवासम्भवद्द्वित्वं महाचिन्मात्रकं च यत् ॥ १६ ॥

विश्वाभासं तदेवेदं न विश्वं सन्न विश्वता ।
देशकालादिमत्त्वेन कदाचिद्धेम्नि सत्यता ॥ १७ ॥

अथवा ब्रह्मदृष्ट्या अनृतस्यापि विश्वस्य
स्वन्यूनदेशकालस्वकार्यापेक्षयाऽधिकदेशकालव्याप्त्या सत्यतामाशङ्क्य
परिहरति - देशकालेति ॥ १७ ॥

कटकत्वस्य भिन्नस्य विश्वस्य च तथा परे ।
द्वित्वैक्यासम्भवे चात्र कार्यकारणता कुतः ॥ १८ ॥

कार्यकारणभेदे सिद्धे तथा स्यात्स एवासिद्ध इत्याह - द्वित्वैक्येति ॥ १८ ॥

स्याच्चेत्तत्कल्पनामात्रमेवैतन्नान्यवस्तुता ।
शून्यता नभसीवात्र द्रवत्वमिव चाम्भसि ॥ १९ ॥

काल्पनिकः कार्यकारणभेदोऽङ्गीक्रियत इति चेन्न काल्पनिकेन तेन सत्यतानिर्वाह इत्याह

  • स्याच्चेदिति ॥ १९ ॥

खे खलेखाप्यभिन्नेव किलास्ति जगदादिता ।
यद्रूपं ब्रह्म तद्रूपं जगत्क्वात्र द्वितैकते ॥ २० ॥

अत्यन्ताभेदेऽपि खलेखेति खे भेदकल्पना दृष्टेति जगदपि तद्वत्स्यादित्याह - खे
इति ॥ २० ॥

यद्रूपं व्योम तद्रूपमेवं शून्यन्न् किलाखिलम् ।
एकात्मनि तते स्वच्छे चिन्मात्रे सर्वरूपिणि ॥ २१ ॥

खस्य लेखेति खाद्भिन्नमिव कल्पितं लेखापदवाच्यं व्योम यद्रूपं तद्रूपं
ब्रह्मणो जगदित्यर्थः । एवं स्थिते ब्रह्मण्यपि जगत्कारणता गतेत्याह -
एकात्मनीत्यादिना ॥ २१ ॥

शिलापुत्रकसेनायां पाषाणत्व इवास्थिते ।
कार्यकारणवैचित्र्यं कथं सम्भवति क्व वा ॥ २२ ॥

कथमव्योमता व्योम्नि द्वितीयासम्भवाद्भवेत् ।
प्रतिभात्मैव भारूपो भाति सर्गो महाचिति ॥ २३ ॥

पुत्रिकेवोपलोत्कीर्णा तन्मयत्वात्तदात्मिका ।
साधो यथास्थितस्यैवं बुद्ध्वा [बुद्धा अस्य स्थितस्येति शेषः ।] विश्वं
प्रलीयते ॥ २४ ॥

यथास्थितस्य वास्तवस्यैव तत्त्वं बुद्ध्वा ॥ २४ ॥

काष्ठमौनदशाभासं संसारमवशिष्यते ।
यथा निमीलिताक्षस्य रूपालोकमनोभ्रमः ॥ २५ ॥

काष्ठमौनं बाह्यमानससर्वचेष्टाशून्यत्वं तादृशया दशया आभासं
स्फुरत् ब्रह्म संसारमवधूय शिष्यते । भावनालक्षणमनःस्पन्दमात्रजन्यः
सर्वः संसारभ्रमो भावनात्यागादस्पन्दावस्थितिमात्रेण विधूयते इत्याह -
यथेत्यादिना ॥ २५ ॥

स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।
तथैवोन्मीलिताक्षस्य रूपालोकमनोभ्रमः ॥ २६ ॥

स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।
भावनोपशमं कृत्वा शिलीभूय यथास्थितम् ॥ २७ ॥

अशिलीभूतमेवान्तः स्वभावं सममास्यताम् ।
आविवेकोपहारेण यथाप्राप्तार्थपूजनैः ॥ २८ ॥

चिदेकरसत्वेन शिलावैलक्षण्यादन्तः अशिलीभूतं स्वभावमवलम्ब्य आस्यताम् ।
तादृशस्थित्यनुकूलविवेकवैराग्यादिसाधनाभ्यास एव परमेश्वरस्यात्मनः
सर्वोत्कृष्टा पूजेत्याह - आविवेकेति । आसमन्तात्सर्वतो यो
विवेकस्तल्लक्षणेनोपहारेणोपचारेण ॥ २८ ॥

बोधाय पूज्यतां बुद्ध्या स्वभावः परमेश्वरः ।
विवेकपूजितः स्वात्मा सद्यः स्फारवरप्रदः ॥ २९ ॥

स्फारं निरतिशयानन्दलक्षणं वरं प्रददातीति स्फारवरप्रदः ॥ २९ ॥

रुद्रोपेन्द्रादिपूजात्र जरत्तृणलवायते ।
विचारशमसत्सङ्गबलिपुष्पैकपूजितः [पुष्पौघपूजित इति पाठः ।] ॥
३० ॥

सद्योमोक्षफलः साधो स्वात्मैव परमेश्वरः ।
सत्यालोकनमात्रैकपूजितोऽनुत्तमार्थदः ॥ ३१ ॥

यत्रास्त्यात्मेश्वरस्तत्र मूढः कोऽन्यं समाश्रयेत् ।
सत्सङ्गशमसन्तोषविवेकापूजितात्मनः ॥ ३२ ॥

अन्यमनात्मभूतं तटस्थमीश्वरम् । अथ योऽन्यां
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेव स देवानाम् इति श्रुतेरिति
भावः । ननु तटस्थेश्वरः पूजनेन प्रसन्न एनं शस्त्राहिविषवह्निप्रभृतिभ्य
उपघातकेभ्यः सर्वतो रक्षिष्यति कूटस्थात्मा किं करिष्यति तत्राह - सत्सङ्गेति ।
आसमन्तात्पूजित आत्मा येन तस्य ॥ ३२ ॥

शिरीषकुसुमायन्ते शस्त्राहिविषवह्नयः ।
देवार्चनतपस्तीर्थदानान्यतिकृतान्यपि ॥ ३३ ॥

किञ्चाऽविवेकिभिः कृतेषु देवतार्चनादिष्वपराधावश्यम्भावेन
नैष्फल्यानर्थयोरवश्यम्भावात्तत्रापि देशकालद्रव्यपात्रकर्त्रादिविशुद्धिविवेकः
श्रद्धाभक्तिशान्तिदान्त्यादयो यद्यावश्यकास्तर्ह्यक्लेशे महाफले आत्मदर्शने
एव ते कुतो नोपयोज्यन्ते इत्याह - देवार्चनेत्यादिना ॥ ३३ ॥

भस्मायन्ते निरर्थत्वादविवेकामहात्मनाम् ।
एतान्यपि विवेकेन क्रियन्ते सफलानि चेत् ॥ ३४ ॥

देशकालपात्राद्यविवेकेन । अमहात्मनां दुरात्मनाम् ॥ ३४ ॥

विवेक एव तत्कस्मात्स्फुटमन्तर्न साध्यते ।
यथाभूतार्थविज्ञानाद्वासनोपरमे परे ॥ ३५ ॥

कोऽसौ विवेको यः साध्य इत्युच्यते तमाह - यथाभूतेति ॥ ३५ ॥

यत्नो विवेकशब्दाख्यो भवत्यात्मप्रसादतः ।
तथा तथा विवेकोऽन्तर्वृद्धिं नेयः शमामृतैः ॥ ३६ ॥

यत्न इति । तथा च वैराग्यादिसर्वसाधनसङ्ग्रह इति भावः । आत्मप्रसादतो
निष्कामानुष्ठितयज्ञदानादिसाध्यचित्तप्रसादात् ॥ ३६ ॥

यथा यथा पुनः शोषमुपयाति न विभ्रमैः ।
देहसत्तामनादृत्य यथा भूतार्थदर्शनात् ॥ ३७ ॥

विभ्रमैर्विषयभ्रान्तिभिः ॥ ३७ ॥

लज्जां भयं विषादेर्ष्ये सुखं दुःखं जयेत्समम् ।
जगदादि शरीरादि नास्त्येवादौ कुतोऽद्य तत् ॥ ३८ ॥

देहसत्तानादरे उपायं विचारं दर्शयति - जगदादीति । शरीरस्य
आदिकारणभूतं जगत् आदिपदात्तत्कारणं च आदौ नास्त्येव । यच्चादौ नास्ति तदद्य
कुतो भवेत् । नासतो विद्यते भावः इति न्यायात् ॥ ३८ ॥

कार्यं चेत्कारणस्यैतत्तथापि ब्रह्ममात्रकम् ।
प्रतिभामात्रमेवाच्छं न तु ज्ञप्तेर्घटादि सत् ॥ ३९ ॥

ननु सदेव सोम्येदमग्र आसीत् इति ब्रह्मात्मना आदौ सदेव कारणस्य ब्रह्मणः
कार्यमस्तु तत्राह - कार्यं चेदिति । तथापि ब्रह्ममात्रकमेव न ततो भिद्यते ।
सद्भेदे असत्त्वापत्तेः । अद्वयकार्यस्य कारणे अद्वयत्वाविघातकत्वेन
भेदप्रतिभासस्य विकल्पमात्रत्वादित्याह - प्रतिभामात्रमेवेति । ज्ञप्तेः
पृथगिति शेषः ॥ ३९ ॥

ज्ञानात्मिकैव प्रतिभा ज्ञप्तिरेवाखिलं जगत् ।
ज्ञप्तिरप्यात्मतत्त्वश्रीः परिज्ञातोपशाम्यति ॥ ४० ॥

विकल्पप्रतिभापि चिदाभासज्ञानात्मिकैवेति सैवाखिलं जगदित्यर्थः । सा
चिदाभासलक्षणा ज्ञप्तिरप्यज्ञातात्मतत्त्वस्यैव दर्पणदृष्टा मुखश्रीरिव
प्रत्यगात्ममात्रत्वेन दृष्टमात्रा भेदकोपाध्यपगमेनोपशाम्यति ॥ ४० ॥

ज्ञेयाभावे त्वनिर्वाच्या शिष्यते शाश्वतं शिवम् ।
अशरीराद्यविश्वात्म सर्वं शान्तमिदं ततम् ॥ ४१ ॥

यत उपाधिभूतज्ञेयाभावे बिम्बात्पृथगिवानिर्वाच्येति पूर्वान्वयि । अनया रीत्या
प्रत्यग्भावे अशरीरादिब्रह्मभावे अविश्वात्मेत्यखण्डं सर्वं पूर्णं शाश्वतं
शिवं शिष्यत इत्यर्थः ॥ ४१ ॥

ज्ञानज्ञेयज्ञप्तिमुक्तं दृषन्मौनमिव स्थितम् ।
शान्तान्तःकरणाः स्वस्थाः शिलापुत्रककोशवत् ॥ ४२ ॥

तद्भावस्थितिरेव भवद्भिः सर्वैः सम्पाद्येत्याह - शान्तेति ॥ ४२ ॥

चलन्तश्चालयन्तश्च ज्ञरूपा एव तिष्ठत ।
अज्ञेयज्ञत्वसद्रूपाः सदसत्साररूपिणः ॥ ४३ ॥

तस्यास्थितौ यथा प्राप्तव्यवहारेऽपि न क्षतिरित्याह - चलन्त इत्यादिना ॥ ४३ ॥

आकाशकोशविशदा भवता भवभूमयः ।
यथास्थितं च तिष्ठन्ति गच्छन्तश्च यथागतम् ॥ ४४ ॥

यथाप्राप्तैककर्माणः सम्पद्यन्ते बुधाः परम् ।
अथवा सर्वसन्त्यागशान्तान्तःकरणोज्ज्वलाः ॥ ४५ ॥

समाधौ वा कामं स्थीयतामित्याह - अथवेति ॥ ४५ ॥

एकान्तेष्वेव तिष्ठन्तु चित्रकर्मार्पिता इव ।
सङ्कल्पशान्तौ सङ्कल्पपुरवत्सर्वदाखिलम् ॥ ४६ ॥

सर्वदा समाधिकाले व्यवहारकाले च प्रबुद्धस्याऽविच्छिन्नप्रबोधस्य पुंसः
सङ्कल्पपुरवत्स्वप्नवच्च सदैव तुच्छत्वादस्तं गतम् ॥ ४६ ॥

स्वप्नवच्च प्रबुद्धस्य सदैवास्तं गतं जगत् ।
सनेत्ररूपानुभवं जातितोऽन्ध इव भ्रमैः ॥ ४७ ॥

प्रबोधश्च सनेत्रस्य रूपानुभववत्परिनिष्ठितः पूर्णानन्दानुभवपर्यन्तो
निर्वाणे उपयुज्यते न जात्यन्धरूपकल्पनातुल्यः परोक्षकल्प इत्याशयेनाह - स
नेत्रेत्यादिना ॥ ४७ ॥

निर्वाणं वर्णयन्नज्ञस्ताप्यतेऽन्तर्न शाम्यति ।
कल्पनांशोपदेशेन लोकोऽविद्यामयात्मना ॥ ४८ ॥

अज्ञः कतिपयवाक्यश्रवणेनैव तत्त्वज्ञोऽहं सम्पन्न इति भ्रमे निर्वाणं वर्णयन्
सनेत्रस्य रूपानुभवन्न् वर्णयन् जात्यन्ध इवान्तर्मानापमानादिभिस्ताप्यते न तु
तत्त्वज्ञवच्छाम्यति । शान्तिसुखमनुभवतीत्यर्थः ।
अन्धगोलाङ्गूलन्यायेनासदुपदेशप्रतारितानामपि कृतार्थताभ्रान्तिर्लोके
प्रसिद्धेत्याह - कल्पनांशेति ॥ ४८ ॥

येन केनचिदज्ञत्वात्कृतार्थोऽस्मीति मन्यते ।
अकृतार्थः कृतार्थत्वं जानन्मौर्ख्यविमोहितः ॥ ४९ ॥

विज्ञास्यत्यकृतार्थत्वं क्षणान्तरकदर्थनैः ।
उपायं कल्पनात्मानमनुपायं विदुर्बुधाः ॥ ५० ॥

तस्मात्कल्पनात्मकं ज्ञानन्न् न निर्वाणोपाय इत्यभिज्ञानुभवेनोपसंहरति -
उपायमिति ॥ ५० ॥

दुःखदत्वान्निमेषेण भावाभावैषणभ्रमैः ।
जगद्भ्रमं परिज्ञाय यदवासनमासितम् ।
विरसाशेषविषयं तद्धि निर्वाणमुच्यते ॥ ५१ ॥

निमेषेण भावाभावैषणभ्रमैर्दुःखदत्वात्कल्पनात्मानमुपायमनुपायं
विदुरिति पूर्वत्रान्वयः । तस्मात्प्रागुक्तं सम्यग्ज्ञानमेव वासनानाशपर्यन्तं
दृढीकार्यं तदेव निर्वाणं पर्यवस्यतीत्याशयेनाह - जगदिति । विरसा अशेषा
हैरण्यगर्भपदान्ता विषया यत्र ॥ ५१ ॥

आख्यायिकार्थप्रतिभानमेत्य संवेत्स्यचिद्वारि भराद्द्रवात्मा ।
अवेद्यचिद्रूपमशेषमच्छं पश्यन्विनिर्वासि जगत्स्वरूपम् ॥ ५२ ॥

अत एव हे राम त्वं मदुपदिष्टमर्थमाख्यायिका उपलब्धार्था लौकिकी पौराणिकी वा
कथा तदर्थ इव परोक्षः कल्पनामात्ररूपः प्रतिभासो यस्य तथाविधमेत्य
बहिर्मुखतया अधिगम्य न कृतार्थो भविष्यसि किन्तु
भराद्वासनामात्रपूरातिशयात् द्रवात्म परितः प्रवहत्स्वरूपं
जगत्स्वरूपमचिद्वारि संवेत्सि पश्यस्येव । प्रत्यग्दृष्ट्या
पूर्णमच्छमवेद्यचिद्रूपं पश्यन्साक्षादनुभवन् विनिर्वासि निर्वाणविश्रान्तो
भविष्यसीत्यर्थः ॥ ५२ ॥

जात्यन्धरूपानुभवानुरूपं यदागमैर्बुद्धमबोधरूपम् ।
अधस्पदीकृत्य तदान्तरेऽस्मिन्बोधे निपत्यानुभवो भवाभूः ॥ ५३ ॥

तदेतद्द्रढयन्नाह - जात्यन्धेति । आगमैरुपदेशवाक्यैर्बहिर्मुखतया
जात्यन्धरूपानुभवसदृशं यद्बुद्धं तदबोधरूपमेव । अपरोक्षे वस्तुनि
परोक्षज्ञानस्य भ्रान्तिमात्रत्वात् । अतस्तादृशबोधमधस्पदीकृत्य
पादेनाक्रम्येव तिरस्कृत्य । अधःशिरसी पदे इति सत्वं च्विः । आन्तरे प्रत्यगात्मरूपे
अस्मिन्नित्यापरोक्षे बोधे साक्षादनुभवेन निपत्य अभूर्जन्मादिशून्यः सोऽनुभव एव
त्वं भव । तदेव ते निर्वाणमित्यर्थः ॥ ५३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
निर्वाणोपदेशो नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणोपदेशो नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥