एकचत्वारिंशः सर्गः ४१
श्रीवसिष्ठ उवाच ।
अस्वभावस्वभावोऽयं सर्वोऽहन्तादिवेदनः ।
स्वभावैकस्वभावेन निर्वाणीक्रियतां स्वयम् ॥ १ ॥
त्रिजगत्पुत्रिकानृत्यमस्वभावस्वभावतः ।
स्वभावैकस्वभावेन निर्वाणं चात्र वर्ण्यते ॥
अस्वभावोऽविद्या तत्स्वभावोऽयमात्मा सर्वजगद्रूपः
सन्नहन्तादिवक्ष्यमाणत्रिजगत्पुत्रिकानृत्यन्न् वेत्तीत्यहङ्कारादिवेदनः सम्पन्नः
। एवमनिर्वाणोऽयमात्मा स्वयं
शास्त्रीयोपायप्रभवविद्याविर्भूतेनाद्वितीयस्वप्रकाशपूर्णानन्दलक्षण##-
यत्रादित्यो भवेत्तत्र यथालोकस्तथा भवेत् ।
परं विषयवैरस्यन्न् तत्र यत्र प्रबुद्धधीः ॥ २ ॥
सा च विद्या विद्वत्समागमविवेकजन्याद्वैराग्यादेव सिध्यतीत्याशयेनाह - यत्रेति
॥ २ ॥
अकर्तृकर्मकरणमदृश्यद्रष्ट्टदर्शनम् ।
जगदग्राह्यसम्भारमभित्तौ चित्रमुत्थितम् ॥ ३ ॥
तत्र वैराग्यार्थमविद्यास्वभावाच्छुद्धे जगच्चित्राध्यासं वर्णयति - अकर्त्रिति ॥
३ ॥
न चोत्थितं किञ्च न वा शान्ते शान्तं यथास्थितम् ।
अनामयं परं ब्रह्म सत्यमव्ययमेव तत् ॥ ४ ॥
विद्यास्वभावेन तदपोह्य निर्वाणस्वरूपं दर्शयति - न चेति ॥ ४ ॥
चिच्चमत्कारमात्रात्मकल्पनारङ्गरञ्जनाः ।
सङ्ख्यातुं केन शक्यन्ते खे जगच्चित्रपुत्रिकाः ॥ ५ ॥
तत्राद्यमस्वभावस्वभावं त्रिजगन्नृत्यदनन्तपुत्रिकात्वेन वर्णयति -
चिच्चमत्कारेत्यादिना । चिच्चमत्कारमात्रात्मानो ये जीवास्तेषां कल्पनामात्रात्मके
रङ्गे नृत्यमण्डपे शृङ्गारादिनानारसरञ्जना यासाम् । जगच्चित्रपुत्रिकाः खे
नृत्यन्तीति परेणान्वयः ॥ ५ ॥
रसभावविकाराढ्यं नृत्यन्त्यभिनयैर्नवैः ।
परमाणुप्रति प्रायः खे स्फुरन्त्यम्बरात्मिकाः ॥ ६ ॥
रसैः शृङ्गारादिभिर्भावैः स्थायिभावैर्विकारैः कम्पस्वेदादिसञ्चारिभावैः
आढ्यं यथा स्यात्तथा । अभिनयैस्तत्तद्वस्त्वाकारव्यञ्जकचेष्टाभिः । परमाणुप्रति
परमाणुमात्रास्वपि विद्यमाने खे चिदाकाशे । प्राय इति सम्भावितत्वद्योतनार्थः ॥ ६
॥
सर्वर्तुशेखरधरा दिग्बाहुलतिकाकुलाः ।
पातालपादलतिका ब्रह्मलोकशिरोधराः ॥ ७ ॥
ब्रह्मलोकः शिरोधरा कन्धरा यासां ब्रह्मलोकरूपाणां शिरसां धरा
धारयित्र्य इति वा ॥ ७ ॥
चन्द्रार्कलोलनयनास्तारोत्करतनूरुहाः ।
सप्तलोकाङ्गलतिकाः परितोच्छाम्बराम्बराः ॥ ८ ॥
तारोत्करास्तनूरुहाणि लोमानि यासाम् । परितो दिक्षु अच्छन्न्
स्वच्छमम्बरमाकाशमेवाम्बरं वस्त्रं यासाम् ॥ ८ ॥
द्वीपाम्बुराशिवलया लोकालोकाद्रिमेखलाः ।
भूतभारचलज्जीवप्रवहत्प्राणमारुताः ॥ ९ ॥
भूतानां भौतिकशरीरादीनां भारेण धारणेन पोषणेन च निमित्तेन चलन्तो जीवा
एव प्रवहन्तः प्राणमारुता यासाम् ॥ ९ ॥
वनोपवनविन्यासहारकेयूरभूषिताः ।
पुराणवेदवचनाः क्रियाफलविनोदनाः ॥ १० ॥
पुराणानि वेदाश्च वचनं यासाम् । तत्तत्क्रियाफलसुखदुःखानि विनोदनानि विलासा
यासाम् । एवंविधा जगत्पुत्रिका नृत्यन्तीति पूर्वत्रान्वयः ॥ १० ॥
त्रिजगत्पुत्रिकानृत्यन्न् यदिदं दृश्यते पुरः ।
ब्रह्मवारिद्रवत्वं तत्तद्ब्रह्मानिलवेपनम् ॥ ११ ॥
अस्वभावस्थितैवास्य कारणं कारणात्मकम् ।
असुषुप्तं स्थिता स्वापे स्वप्नस्येव सतीव सा ॥ १२ ॥
अस्य च नृत्यस्य अस्वभावस्थितैव चित् कारणम् । यतस्तादृशमेव कारणात्मकं
श्रुतिषु प्रसिद्धम् । यथा स्वापे निद्रायामसुषुप्तं स्थिता सा स्वप्नस्य कारणं
तद्वदित्यर्थः ॥ १२ ॥
असुषुप्तसुषुप्तस्थः स्वभावं भावयन्भव ।
जाग्रत्यपि गतव्यग्रो मा स्वप्नमिदमाश्रय ॥ १३ ॥
एवमस्वभावस्वभावमुपवर्ण्येदानीं स्वभावैक्यस्वभावेन निर्वाणीकरणे
उपायमाह - असुषुप्तेति । हे राम त्वं पारमार्थिकस्वभावं भावयन्
जाग्रत्यप्यज्ञाननाशादसुषुप्तन्न् सर्वद्वैतोपसंहारात्सुषुप्तं च तुर्यं पदं
तत्स्थो भव ॥ १३ ॥
यज्जाग्रति सुषुप्तत्वं बोधादरसवासनम् ।
तं स्वभावं विदुस्तज्ज्ञा मुक्तिस्तत्परिणामिता ॥ १४ ॥
रसो रागो वासना च तच्छून्यम् । तत्परिणामिता तत्स्वरूपेण परिनिष्ठितत्वम् ॥ १४ ॥
अकर्तृकर्मकरणमदृश्यद्रष्ट्टदर्शनम् ।
अरूपालोकमननन्न् स्थितं ब्रह्म जगत्तया ॥ १५ ॥
तस्यान्न् परिनिष्ठायां व्यवहारकालेऽपि चिदेकरसं जगद्भातीत्याह -
अकर्त्रित्यादिना ॥ १५ ॥
कान्ते कान्तं प्रकचति पूर्णे पूर्णं व्यवस्थितम् ।
द्वित्वैक्यरहिते भाति द्वित्वैक्यपरिवर्जितम् ॥ १६ ॥
द्वित्वैक्यरहिते शोधिते प्रतीचि द्वैतैक्यपरिवर्जितं शोधितं ब्रह्म अखण्डैकरस्येन
भाति ॥ १६ ॥
सत्यं सत्ये स्थितं शान्तन्न् सर्गात्मन्यात्मनि स्वयम् ।
आकाशकोशसदृशं शिलाजठरसन्निभम् ॥ १७ ॥
सर्गात्मनि स्थितं सत्यं सत्ये आत्मनि शान्तं स्वयमेव स्थितम् ॥ १७ ॥
सुरत्नजठराकारं घनमप्यम्बरोपमम् ।
प्रतिबिम्बमिव क्षुब्धमप्यक्षुब्धमसच्च सत् ॥ १८ ॥
शिलाजठरवदप्रकाशस्वभावताभ्रान्तिं वारयति - सुरत्नेति । अत एव
जगत्प्रतिबिम्बं प्राप्य क्षुब्धमिव स्थितमप्यक्षुब्धम् ॥ १८ ॥
भविष्यन्नवनिर्माणं चेतसीव स्थितं पुरम् ।
ब्रह्म बृंहितभारूपमभेदीकृतमानसम् ॥ १९ ॥
अभेदीकृतमेकरसीकृतं मानसं यत्र ॥ १९ ॥
यथा सङ्कल्पनगरं सङ्कल्पान्नैव भिद्यते ।
तथायन्न् जगदाभासः परमार्थान्न भिद्यते ॥ २० ॥
हेमपीठमिवानेकभविष्यत्सन्निवेशवत् ।
लक्ष्यमाणमपि स्फारं शान्तमव्ययमास्थितम् ॥ २१ ॥
हेमपीठं पीठवच्चतुरस्रो हेमपिण्डः । स्फारं नानाविस्तारं लक्ष्यमाणमपि ॥
२१ ॥
अजस्रनाशोत्पादाढ्यमेकरूपमनामयम् ।
अनाशोत्पादमजरमनेकमिव कान्तिमत् ॥ २२ ॥
कान्तिमत् भास्वरम् ॥ २२ ॥
ब्रह्मैव शान्तिघनभावगतं विभाति सर्गोदयेन विगतास्तमयोदयेन ।
व्योमेव शून्यविभवेन गलत्स्वभावलाब्भन्न् प्रति प्रसभमेव ननु
प्रबुद्धे ॥ २३ ॥
ननु हे राम प्रबुद्धे सति शान्तिघनभावगतं ब्रह्मैव
प्रसभमद्वैतस्वभावबलादेव विगतास्तमयोदयेन सर्गलक्षणेन उदयेन
स्वाराज्यविभवेन भाति । यथा व्योम गलत्स्वभावलाभं बाधितस्वरूपलाभन्न्
केशोण्ड्रकगन्धर्वनगरतलमलिनतादिकं प्रति प्रसभं बलादेव स्फूर्तिनिरासो
भयप्रदेन स्वीयशून्यविभवेन विभाति तद्वदित्यर्थः ॥ २३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ०
स्वरूपविऽस्रान्त्यर्थमुपदेशकरणं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
स्वरूपविश्रान्त्यर्थमुपदेशकरणं नामैकचत्वारिंशः सर्गः ॥ ४१ ॥