०४०

चत्वारिंशह् सर्गः ४०

श्रीवसिष्ठ उवाच ।

रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् ।
स्वरूपं विदुरम्लानमस्वभावस्य वस्तुनः ॥ १ ॥

न संसृतौ ब्रह्म भाति न ब्रह्मणि च संसृतिः ।
जीवन्मुक्तौ द्वयं भाति पर्यायेणेति वर्ण्यते ॥

तत्रादौ निःस्वभावस्य बाह्याभ्यन्तरवस्तुनस्तत्साक्षिचैतन्यमेव वास्तवं
स्वरूपमिति विद्वदनुभव इत्याह - रूपेति । अम्लानं निर्विकारकलङ्कम् ॥ १ ॥

अस्वभावतनुत्वेन स्वभावस्थितिरातता ।
यदोदेति तदा सर्गो भ्रमाभः प्रतिभासते ॥ २ ॥

तत्र तद्बोधान्वयव्यतिरेकानुविधानलक्षणां युक्तिमाह - अस्वभावेति द्वाभ्याम्
। यदा आतता अपरिच्छिन्ना वास्तवस्वभावस्थितिः अस्वभावस्तत्तिरोधात्री अविद्या
तत्तनुत्वेन तत्कृतपरिच्छेदेन तच्छरीरतया च उदेति तदेत्यन्वयोक्तिः ॥ २ ॥

यदा स्वभावविश्रान्तिः स्थितिमेति शमात्मिका ।
जगद्दृश्यं तदा स्वप्नः सुषुप्त इव शाम्यति ॥ ३ ॥

व्यतिरेकमाह - यदेति । स्वबोधेनेति शेषः ।
बीजशेषवैषम्येऽप्यद्वैतात्ममात्रस्थित्यंशे सुषुप्तदृष्टान्तः ॥ ३ ॥

भोगा भवमहारोगा बन्धवो दृढबन्धनम् ।
अनर्थायार्थसम्पत्तिरात्मनात्मनि शाम्यताम् ॥ ४ ॥

अत एव स्वरूपविश्रान्तिविरोधिनो भोगादयोऽनर्था एवेत्याह - भोगा इति ॥ ४ ॥

अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः ।
भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥ ५ ॥

एवं च स्वायत्तानां स्वभावस्थितौ नानर्थे पातो युक्त इत्याह - भूयतामिति । इह
संसारे । मा ताम्यतां ग्लायताम् ॥ ५ ॥

नात्मानमवगच्छामि न दृश्यं च जगद्भ्रमम् ।
ब्रह्म शान्तं प्रविष्टोऽस्मि ब्रह्मैवास्मि निरामयः ॥ ६ ॥

स्वायत्ततामेव स्वानुभवाभिनयेन दर्शयति - नेति । आत्मानं
द्रष्ट्रादित्रिपुट्यामाद्यं वसिष्ठजीवम् ॥ ६ ॥

त्वमेव पश्यसि त्वन्त्वं सत्त्वं शब्दार्थजृम्भितम्
[शब्दार्थबृंहितं इति पाठः साधुर्व्याख्यानुगुण्यात् ।] ।
पश्यामि शान्तमेवाहं केवलं परमं नभः ॥ ७ ॥

हे राम वसिष्ठस्त्वमिति त्वंशब्दार्थबृंहितं त्वं त्वमपि स तादृशस्त्वमेव
पश्यसि अहं तु शान्तमेव पश्यामि ॥ ७ ॥

ब्रह्मण्येव पराकाशे रूपालोकमनोमयाः ।
विभ्रमास्तव सञ्जातकल्पाः स्पन्दा इवानिले ॥ ८ ॥

तवापि एते शब्दार्थादिरूपालोकमनोमया विभ्रमा न परमार्थतो जाताः किन्तु
सञ्जातकल्पाः ॥ ८ ॥

ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो ।
सुषुप्तो वेत्ति नो स्वप्नं स्वप्नस्थो न सुषुप्तकम् ॥ ९ ॥

मम द्वैतादर्शनं न द्वैतप्रद्वेषात् किन्तु
द्वैताद्वैतयोर्युगपद्दर्शनासम्भवादित्याह - ब्रह्मात्मेति ॥ ९ ॥

प्रबुद्धो ब्रह्मजगतोर्जाग्रत्स्वप्नदृशोरिव ।
रूपं जानाति भारूपं जीवन्मुक्तः प्रशान्तधीः ॥ १० ॥

अत्यन्तादर्शने कथं तदुपदेशप्रसिद्धिस्तत्राह - प्रबुद्ध इति । जीवन्मुक्तस्तु
पर्यायेणोभयं पश्यतीत्युपदेष्टा भवतीत्याशयः ॥ १० ॥

यथाभूतमिदं सर्वं परिजानाति बोधवान् ।
संशाम्यति च शुद्धात्मा शरदीव पयोधरः ॥ ११ ॥

सोऽप्युत्तरोत्तरभूमिकासु क्रमेण द्वैतादर्शनात्प्रशाम्यतीत्याह -
यथाभूतमिति ॥ ११ ॥

स्मृतिस्थः कल्पनस्थो वा यथाख्यातश्च सङ्गरः ।
सदसद्भ्रान्ततामात्रस्तथाहन्त्वजगद्भ्रमः ॥ १२ ॥

तद्दृष्ट्या द्वैतस्योत्तरोत्तरं पेलवतां दृष्टान्ताभ्यामाह - स्मृतिस्थ इति ।
सङ्गरो युद्धम् ॥ १२ ॥

आत्मन्यपि नास्ति हि या द्रष्टा यस्या न विद्यते कश्चित् ।
न च शून्यं नाशून्यन्न् भ्रान्तिरियं भासते सेति ॥ १३ ॥

या परिदृश्यमाना जगन्माया परमार्थसत्ये आत्मनि अपिशब्दादत्यन्तासति शून्ये च
नास्ति । यस्याः कश्चिद्द्रष्टा जीवोऽपि न विद्यते । इति शून्याशून्यविलक्षणेयं
भ्रान्तिरनिर्वचनीयैव भासते इत्यर्थः ॥ १३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० वसिष्ठगीतासु
आत्मविश्रान्तिकथनं नाम चत्वारिंशः सर्गः ॥ ४० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
आत्मविश्रान्तिकथनं नाम चत्वारिंशः सर्गः ॥ ४० ॥