एकोनचत्वारिंशः सर्गः ३९
श्रीवसिष्ठ उवाच ।
सञ्जाताकृत्रिमक्षीणसंसृतिप्रत्ययः पुमान् ।
असङ्कल्पो न सङ्कल्पं वेत्ति तेनासदेव सः ॥ १ ॥
प्रबुद्धात्मनि विश्रान्तो यद्रूपः परिशिष्यते ।
जगच्च तस्य यद्रूपं तत्सम्यगिह वर्ण्यते ॥
विदुषः शास्त्रानुसारनियमे तन्नियामकसङ्कल्पस्यामि प्रसक्तिमाशङ्क्याह -
सञ्जातेति । सञ्जातो यथाभूतार्थगोचरत्वादकृत्रिमः क्षीणा
संसृतिर्यस्मात्तथाविधः प्रत्ययः साक्षात्कारो यस्य तथाविधः पुमान्
शास्त्रीयव्यवहारनियमेऽप्यसङ्कल्प एवावतिष्ठते । यतोऽयं
तत्तद्व्यवहाराभासहेतुसङ्कल्पाभासं स्वात्मैवेति पश्यन् सङ्कल्पं न वेत्ति । न च
वेदनमन्तरेण कस्य चित्सत्ता प्रसिद्धेति स सङ्कल्पाभासोऽसदलीकमेवेत्यर्थः ॥ १ ॥
श्वासान्म्लानिरिवादर्शे कुतोऽप्यहमिति स्थिता ।
विदि साऽकारणन्न् दृष्टा नश्यन्त्याशु न लभ्यते ॥ २ ॥
न सङ्कल्पं वेत्ति इत्युक्तेर्विवरणाय सर्वसङ्कल्पबीजस्याहन्ताध्यासस्य बाधादपि
तस्य न सङ्कल्पप्रसक्तिरित्याशयेनाह - श्वासादिति ।
प्राग्बोधात्कुतोऽप्यनिर्वचनीयान्निमित्तान्निःश्वासोत्था आदर्शे म्लानिरिव अहमित्यहन्ता
स्थिता । सा तत्त्वविदि अकारणमाशु नश्यन्ती दृष्टा यत्नेनान्विष्टापि न लभ्यते ॥ २ ॥
यस्य क्षीणावरणता शान्तसर्वेहतोदिता ।
परमामृतपूर्णात्मा सत्तयैव स राजते ॥ ३ ॥
कामनया हि सङ्कल्पप्रसक्तिः सा च पूर्णकामस्य नास्तीत्याशयेनाह - यस्येति ।
सत्तया निरतिशयानन्दस्वरूपसत्तयैव ॥ ३ ॥
सर्वसन्देहदुर्ध्वान्तमिहिकामातरिश्वना ।
भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ॥ ४ ॥
एकलाभादेव सर्वलाभाल्लब्धव्यविषय इव एकविज्ञानेनैव
सर्वविज्ञानाज्ज्ञातव्यविषयेऽपि भ्रमसंशयाद्यभावात्तदर्थमपि तस्य न
सङ्कल्पप्रसक्तिरित्याशयेनाह - सर्वेति । भास्वती निरावरणात्मकप्रकाशा
धीर्यस्य तेन । अत एव सर्वेषां देहलक्षणानां दुर्ध्वान्तनिमित्तमिहिकानां
मातरिश्वना । तद्देशस्थसर्वजनभ्रमसंशयनिराससमर्थस्य
तत्प्रसक्त्यभावादिति भावः ॥ ४ ॥
विसंसृतिर्विसन्देहो लब्धज्योतिर्निरावृतिः ।
शरदाकाशविशदो ज्ञेयो विज्ञायते बुधः ॥ ५ ॥
यतो बुधस्तत्त्ववित् शिवमद्वैतं चतुर्थन्न् मन्यन्ते स आत्मा स विज्ञेयः
इत्यादिश्रुतिषु ज्ञेय आत्मैवेति विज्ञायत इत्यर्थः ॥ ५ ॥
निःसङ्कल्पो निराधारः शान्तः स्पर्शात्पवित्रताम् ।
अन्तःशीतल आधत्ते ब्रह्मलोकादिवानिलः ॥ ६ ॥
स्पर्शात् प्रणतिशुश्रूषादिना सङ्गमात् । जनानां पवित्रतां निष्पापताम् ।
ब्रह्मलोकादागतः अनिल इव ॥ ६ ॥
असद्रूपोपलम्भानामियन्न् वस्तुस्वभावता ।
यत्स्वर्गवेदनन्न् स्वप्नबन्ध्यापुत्रोपलम्भवत् ॥ ७ ॥
न सङ्कल्पं वेत्ति इत्येतद्विशदीकृत्य तेनासदेव स इति तच्छेषं
विशदीकर्तुमसद्रूपोपलम्भस्य स्वरूपं प्रपञ्चयति - असद्रूपेति चतुर्भिः ॥ ७ ॥
अविद्यमानमेवेदं जगद्यदनुभूयते ।
असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ॥ ८ ॥
असत्येष्वेव संसारेष्वास्तामर्थः कुतो भवेत् ।
सर्गापवर्गयोः शब्दावेव वन्ध्यासुतोपमौ ॥ ९ ॥
स्वप्नबन्ध्यापुत्रोपलम्भवदित्युक्तदृष्टान्तसाम्यं दर्शयति - असत्येष्विति ।
कुतो भवेत् किं सत्यादुतासत्यात् । न तावत्सत्यात् । तस्य कूटस्थत्वात् । न द्वितीयः ।
असत्यादसत्यस्योत्पत्तेरप्यसत्त्वापत्तेः । एवं क्व आस्तां
सत्यस्यासङ्गाद्वयत्वादसत्यस्याधारत्वायोगादिति भावः । अतः असत्येष्वेव
संसारेषु सर्गस्य बन्धस्य तदपवर्गस्य च शब्दावेव यत्र बन्ध्यासुतोपमौ तत्र
दूरे तदर्थसिद्धिरित्यर्थः ॥ ९ ॥
जगद्ब्रह्मतया सत्यमनिर्मितमभावितम् ।
अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ॥ १० ॥
यदा तु जगत्सत्यमिति पक्षस्तदापि स ब्रह्माभेदेनैव निर्वाह्य
इत्युत्पत्तिस्थितितन्निरूपकादिविभागो निरालम्बन एवेत्याह - जगदिति । अभावितं
भावनया अविषयीकृतम् । आधारविशेषे अनिष्ठितं च । अन्यथा
ब्रह्मतानभ्युपगमे तु ॥ १० ॥
आत्मस्वभावविश्रान्तेरियं वस्तुस्वभावता ।
यदहन्तादिसर्गादिदुःखाद्यनुपलम्भता ॥ ११ ॥
असद्रूपोपलम्भस्वभावमुपवर्ण्य
सद्रूपोपलम्भस्वरूपविश्रान्तेर्वस्तुस्वभावन्न् प्रपञ्चयति - आत्मेत्यादिना ।
अनुपलम्भता । निर्विषयचिन्मात्रतेति यावत् ॥ ११ ॥
क्षणाद्योजनलक्षान्तं प्राप्ते देशान्तरे चितः ।
चेतनेऽयस्य तद्रूपं मार्गमध्ये निरञ्जनम् ॥ १२ ॥
चितो निर्विषयताया अप्रसिद्धिमाशङ्कमानं प्रति देशाद्देशान्तरप्राप्तौ इति श्लोके
दर्शितां तत्प्रसिद्धिं स्मारयति - क्षणादिति । शाखादिदेशाच्चन्द्रादिदेशान्तरे
योजनलक्षान्तं चक्षुर्द्वारा प्राप्ते चेतने चाक्षुषवृत्त्यवच्छिन्नचैतन्ये
मार्गमध्ये अयते व्याप्नोतीत्ययस्य चैतन्यस्य यदचेत्यं खकोशाभासचिन्मयं
रूपं सर्वस्य जन्तुजातस्य प्रसिद्धं तत्स्वभावं विदुरिति व्यवहितेन सम्बन्धः ॥ १२
॥
अस्पन्दवातसदृशं खकोशाभासचिन्मयम् ।
अचेत्यं शान्तमुदितं लताविकसनोपमम् ॥ १३ ॥
सर्वस्य जन्तुजातस्य तत्स्वभावं विदुर्बुधाः ।
सर्गोपलम्भो गलति तत्रस्थस्य विवेकिनः ॥ १४ ॥
सुषुप्ते स्वप्नधीर्नास्ति स्वप्ने नास्ति सुषुप्तधीः ।
सर्गनिर्वाणयोर्भ्रान्ती सुषुप्तस्वप्नयोरिव ॥ १५ ॥
सुषुप्तिस्वप्नयोः परस्परविषयशून्यतेव वा तुरीये निर्विषयता चितः
सम्भावनीयेत्याह - सुषुप्ते इति ॥ १५ ॥
भ्रान्तिवस्तुस्वभावोऽसौ न स्वप्नो न सुषुप्तता ।
न सर्गो न च निर्वाणं सत्यं शान्तमशेषतः ॥ १६ ॥
स्वप्नसुषुप्त्यादिविभागोऽपि भ्रान्तौ वस्तुस्वभावभूतः परमार्थो नास्तीत्याह -
भ्रान्तीति ॥ १६ ॥
भ्रान्तिस्त्वसन्मात्रमयी प्रेक्षिता चेन्न लभ्यते ।
शुक्तिरूप्यमिवासत्यं किल सम्प्राप्यते कथम् ॥ १७ ॥
कुतो नास्ति तत्राह - भ्रान्तिरिति ॥ १७ ॥
यन्न लब्धं च तन्नास्ति तेन भ्रान्तेरसम्भवः ।
स्वभावादुपलम्भोन्यो नास्ति कस्य न कस्यचित् ॥ १८ ॥
भ्रान्तिविषयोऽर्थो भ्रान्त्या न लब्धोऽप्युपलम्भान्तरेण लभ्यतां तत्राह -
स्वभावादिति । भ्रान्तेरन्य उपलम्भः प्रमात्मको वाच्यः स च
कस्यचिद्भ्रान्तिगोचरार्थस्य साक्षिस्वब्भावादन्यो नास्तीत्यर्थः ॥ १८ ॥
स्वभाव एव सर्वस्मै स्वदत्ते किल सर्वदा ।
अनानैव हि नानेव किं वादैः संविभाव्यताम् ॥ १९ ॥
एवं च सम्यग्विभावने साक्षिस्वभाव एक एव स्वात्मनि त्रिपुटीकल्पनया प्रथते
नान्यदस्मादणुमात्रमपीत्याह - स्वभाव इति । स्वदते परमप्रेमास्पदतया
प्रथते ॥ १९ ॥
अस्वभावे महद्दुःखं स्वभावे केवलं शमः ।
इति बुद्ध्या विचार्यान्तर्यदिष्टं तद्विधीयताम् ॥ २० ॥
तस्य स्वभावातिरिक्तकल्पनमेव संसारदुःखमकल्पितस्वरूपावस्थितिरेव
कैवल्यसुखमित्याह - अस्वभावे इति । विधीयतां उपादीयताम् ॥ २० ॥
सूक्ष्मे बीजेऽस्त्यगः स्थूलो दृष्टमित्युपपद्यते ।
शिवे मूर्ते जगन्मूर्तमस्तीत्युत्तमसङ्कथा ॥ २१ ॥
तदुपादाने क उपाय इति चेत्तदध्यस्तस्य विश्वस्य
तन्मात्रतादर्शनमेवेत्याशयेनोत्पत्तिप्राक्कालादारभ्य तदपृथक्सत्तां दर्शयति
- सूक्ष्मे इति । अगो वृक्षः । उत्तमानां तत्त्वविदां वेदानां च सङ्कथा
सदुक्तिरित्यर्थः ॥ २१ ॥
रूपालोकमनस्कारबुद्ध्यहन्तादयः परे ।
स्वरूपभूताः सलिले द्रवत्वमिव खात्मकाः ॥ २२ ॥
एवं प्रत्यगात्मन्याध्यात्मिकभावनामप्यपृथक्सत्तैव स्वधर्मताप्रतीतेः
सर्वानुभवसिद्धेत्याह - रूपेति ॥ २२ ॥
मूर्तो यथा स्वसदृशैः करोत्यवयवैः क्रियाः ।
आत्मभूतैस्तथा भूतैश्चिदाकाशमकर्तृ सत् ॥ २३ ॥
एवं तत्पदार्थव्यवहारः सर्गादिस्त्वम्पदार्थव्यवहारश्च चिदात्मा
पृथक्सत्ताकत्वात्तदवयवप्रायैः सर्वपदार्थैः प्रवृत्त इत्याह - मूर्त इति ।
स्वसदृशैः स्वात्मप्रायैः स्वापृथक्सत्ताकैरिति यावत् ॥ २३ ॥
आत्मस्थादहमित्यादिरस्मदादेरसंसृतेः ।
शब्दोऽर्थभावमुक्तो यः पटहादिषु जायते ॥ २४ ॥
अर्थव्यवहार इव शब्दप्रयोगादिव्यवहारोऽप्यपृथक्सत्तया चिदधिष्ठितादेव
देहवागादेर्जायते इत्याह - आत्मस्थादिति । असंसृतेर्जडत्वेन स्वतो
व्यवहारासमर्थादस्मदादेर्वसिष्ठरामादिदेहाद्योऽहमित्यादिरर्थ##-
आत्मस्थाच्चिदात्माधिष्ठितादेव जायते ।
नटीपदक्रमतालाभिज्ञवादकपुरुषाधिष्ठितेषु पटहादिषु यथा
तदभिप्रायानुसारिविचित्रशब्दो जायते तथेति शेषः ॥ २४ ॥
यद्भातं प्रेक्षया नास्ति तन्नास्त्येव निरन्तरम् ।
जगद्रूपमरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ॥ २५ ॥
एवं सर्वजगद्व्यवहारस्य चिदभेदनिर्वाह्यत्वे आत्यन्तिक एवाभेदोऽस्तु
किमर्धजरतीन्यायेनाविचारमात्रसिद्धजाड्यांशभेदोपगमेनेत्याशयेनाह -
यदिति । आपाततो भातम् । प्रेक्षया विचारजन्यतत्त्वज्ञानेन । अतो जाड्यभेदांशरूपं
जगद्रूपमरूपात्म निःस्वरूपमेव । एवं च ब्रह्म ब्रह्मणि स्वस्वभावे संस्थितम् ।
सैवास्य स्वरूपावस्थितिरिति भावः ॥ २५ ॥
येषामस्ति जगत्स्वप्नस्ते स्वप्नपुरुषा मिथः ।
न सन्ति ह्यात्मनि मिथो नास्मास्वम्बरपुष्पवत् ॥ २६ ॥
नन्वसंसारि ब्रह्म ब्रह्म स्वभावे तिष्ठतु नाम तेन संसारिणां को लाभ
इत्याशङ्क्य तेषां पुरुषार्थचिन्ता वन्ध्यायाः
स्वपुत्रराज्यादिलाभचिन्तावद्वृथैवेत्याशयेनाह - येषामिति । मिथः अन्योन्यं
भ्रान्तिदृष्ट्यापि जागरे स्वप्नान्तरे च तत्तदात्मनि च सन्ति मिथः
परमैकान्ततमब्रह्मभूतेष्वस्मासु खपुष्पवन्न नितरां सन्तीत्यर्थः । एवार्थे
हिशब्दः ॥ २६ ॥
मयि ब्रह्मैकरूपं ते शान्तमाकाशकोशवत् ।
वायोः स्पन्दैरिवाभिन्नैर्व्यवहारैश्च तन्मयि ॥ २७ ॥
अस्मासु जडांशे एव ते तद्व्यवहाराश्च खपुष्पवत् सच्चिदंशे तु मयि
ब्रह्मैकरूपत्वात्सन्त्येवेत्याह - मयीति । ते पुरुषाः
वायुस्पन्दवत्स्वाभिन्नैस्तैस्तैः स्वव्यवहारैः सह मयि सन्त्येव । यतस्तदुभयं
शान्तन्न् सद्ब्रह्मात्मैकरूपं तच्च ब्रह्म मयि प्रत्यगात्मस्वभावेऽस्तीत्यर्थः ॥ २७
॥
अहं तु सन्मयस्तेषां स्वप्नः स्वप्नवतामिव ।
ते तु नूनमसन्तो मे सुषुप्तस्वप्नका इव ॥ २८ ॥
अपरं विशेषमाह - अहं त्विति । अप्रबुद्धदृष्ट्या जगत इव वसिष्ठदेहस्यापि
सत्यत्वादिति भावः । ते त्विति । प्रबुद्धदृष्ट्या जगता सह तद्देहादीनां बाधादिति
भावः ॥ २८ ॥
तैस्तु यो व्यवहारो मे तद्ब्रह्म ब्रह्मणि स्थितम् ।
ते यत्पश्यन्ति पश्यन्तु तत्तैरलमलं मम ॥ २९ ॥
अन्नुग्रहोपदेशादिव्यवहारस्तैस्तद्दृष्टिसिद्धसत्यभावैर्मद्व्यवहारैर्मम ।
अलमलमिति वीप्सा आत्यन्तिकनिष्प्रयोजनताद्योतनाय ॥ २९ ॥
अहमात्मनि नैवास्मि ब्रह्मसत्तेयमातता ।
त्वदर्थन्न् समुदेतीव तथारूपैव वागियम् ॥ ३० ॥
अहं आत्मनि वसिष्ठदेहभावे नैवास्मि । इयं वसिष्ठाद्याकारा त्वदर्थं
ब्रह्मसत्तैव समुदेतीव । इयं वागपि तथारूपा त्वदर्थं ब्रह्मसत्ताविवर्तरूपैव
मम दृष्ट्या तु नास्त्येवेत्यर्थः ॥ ३० ॥
अविरुद्धविरुद्धस्य शुद्धसंविन्मयात्मनः ।
न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ॥ ३१ ॥
सर्ववस्तूनामानन्दैकरसात्मतादर्शनादविरुद्धं विरुद्धं दुःखादिकमपि
यस्य तथाविधस्य तत्त्वविदः ॥ ३१ ॥
स्वभावमात्रायत्तेऽस्मिन्बन्धमोक्षक्रमे नृणाम् ।
कदर्थनेत्यहो मोहाद्गोष्पदेऽप्युदधिभ्रमः ॥ ३२ ॥
मोहादविरुद्धनिरतिशयानन्दात्मापरिज्ञानादिति प्रसिद्धा इयं संसारकदर्थना
मोक्षोपायक्रमाभ्यासकदर्थना च ॥ ३२ ॥
स्वभावसाधने मोक्षेऽभावोपशमरूपिणि ।
न धनान्युपकुर्वन्ति न मित्राणि न च क्रियाः ॥ ३३ ॥
अभावस्यासत एव दुःखस्योपशमरूपिणि ॥ ३३ ॥
तैलबिन्दुर्भवत्युच्चैश्चक्रमप्पतितो यथा ।
तथाशु चेत्यसङ्कल्पे स्थिता भवति चिज्जगत् ॥ ३४ ॥
अप्सु पतितः अप्पतितस्तैलबिन्दुर्यथा नानावर्णं चक्रं भवति ॥ ३४ ॥
जाग्रति स्वप्नवृत्तान्तस्थितिर्यादृग्रसा स्मृतौ ।
तादृग्रसाहन्त्वजगज्जालसंस्था विवेकिनः ॥ ३५ ॥
ज्ञानबाधितं तु जगत् स्वप्नवत्स्मृतिमात्रयोग्यतामापद्यत इत्याह - जाग्रतीति ।
स्मृतौ प्रतिभासमाना यादृग्रसा यादृग्विधा ॥ ३५ ॥
तेनैवाभ्यासयोगेन याति तत्तनुतां तथा ।
यथा नाहं न संसारः शान्तमेवावशिष्यते ॥ ३६ ॥
तेन प्रागुक्तेनैव भूमिकाभ्यासयोगेन । तत् जगज्जालम् । तनुतामपक्षयम् ॥ ३६ ॥
यदा यदा स्वभावार्कः स्थितिमेति तदा तदा ।
भोगान्धकारो गलति न सन्नप्यनुभूयते ॥ ३७ ॥
प्रत्यक्प्रवणदृष्ट्या परीक्षणे इदानीमपि तदपक्षयो बाधश्चानुभवितुं शक्य
इत्याशयेनाह - यदा यदेति । गलति अपक्षीयते आत्यन्तिकबाधेन । न सन् कालत्रयेऽपि
नास्तीत्यप्यनुभूयते ॥ ३७ ॥
मोहमहत्तारहितः स्फुरति मृतौ भवति भासते च तथा ।
बुद्ध्यादिकरणनिकरो यस्माद्दीपादिवालोकः ॥ ३८ ॥
एवं भोगान्धकारस्य मृतौ विनाशे सति बुद्ध्यादिकरणनिकरो
मोहेनात्मावरणेनाज्ञानेन महत्तया स्थूलदेहाद्यध्यासेन च रहितो भवति । तथा
ब्रह्माकारवृत्तीद्धेन बोधेन स्फुरति । यस्मात्फुरणाद्दीपात्प्रसृत आलोक इव
सर्वतो व्याप्य ब्रह्मीभूतो भासते चेत्यर्थः ॥ ३८ ॥
इत्यार्षे श्रीवा० वाल्मीकीये दे० मो० नि० उत्तरार्धे वसिष्ठगीतासु
खभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
खभावविश्रान्तियोगोपदेशो नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥