अष्टत्रिंशः सर्गः ३८
श्रीवसिष्ठ उवाच ।
चित्पश्यति जगन्मिथ्या स्ववेदनविबोधिता ।
व्योम्नि मायाञ्जनासिक्ता दृगिवाचलतान्तरम् ॥ १ ॥
इह चिच्चेत्यसंसर्गभेदभ्रमनिरासतः ।
चिदेव जगदित्येतत्सत्तर्कैरुपपाद्यते ॥
चेत्यस्य सर्वजगतश्चिन्मात्रतां तर्कैरुपपादयिष्यन् भूमिकां रचयति - चिदिति ।
मिथ्या स्ववेदनं स्वस्या अब्रह्मताभ्रमस्तेन विबोधिता विक्षिप्ता । यथा माया
दर्शनहेतुनाञ्जनविशेषषेणासिक्ता दृक् चक्षुर्व्योम्नि अचलतां पर्वतभावं
तदान्तरं नितम्बप्रस्थशिखरदरीवनकुञ्जादि च पश्यति तद्वदित्यर्थः ॥ १ ॥
ब्रह्मसर्गश्चित्तसर्गो द्वावेतौ सदृशौ मतौ ।
परमार्थस्वरूपत्वादक्षुब्धत्वात्सदैव च ॥ २ ॥
भ्रान्तिकल्पितस्त्वयं सर्गश्चित्रसर्गवन्मनःकल्पनयैव क्षुब्धवद्भाति न वस्तुत
इत्याह - ब्रह्मेति ॥ २ ॥
ज्ञानरूपतयाबाह्यं बाह्यं चानुभवात्तथा ।
सत्यरूपमतः सत्यां विद्धि बाह्यार्थरूपताम् ॥ ३ ॥
अस्त्वेवं किं ततस्तत्राह - ज्ञानेति । यथा भित्तिस्थश्चित्रसर्गो वास्तवभित्तिरूपेण
भित्तेरबाह्यो भ्रान्तानुभवात्मना तु तद्बाह्यस्तद्वज्ज्ञाने कल्पितः सर्गोऽपि
वास्तवज्ञानरूपतया अबाह्यो भ्रान्तानुभवात्मना तु बाह्य इति सिद्धे ज्ञानं
सत्यरूपमित्यतो हेतोर्बाह्यार्थरूपतामपि तदात्मना सत्यां विद्धीत्यर्थः ॥ ३ ॥
बाह्यार्थवादविज्ञानवादयोरैक्यमेव नः ।
वेदनात्मैकरूपत्वात्सर्वदा सदसंस्थितेः ॥ ४ ॥
एवं चास्मन्मतं न बाह्यार्थवादेन नापि विज्ञानवादेन विरुध्यते ।
अत्रोभयोरैकरस्यात् । सर्वदा चिदतिरिक्तस्यान्तरविज्ञातस्य बाह्यप्रपञ्चस्य चासतः
असंस्थितेः । अनभ्युपगमादित्यर्थः ॥ ४ ॥
अक्षुब्धखानिलालोकजलभूशान्तिशालिनी ।
तता शून्या महारम्भा ब्रह्मसत्तैव सर्वतः ॥ ५ ॥
सर्वस्य चिदैक्ये चितः सदैवाक्षुब्धत्वान्निर्विशेषत्वाच्च क्षुब्धानां
खादिपञ्चभूतानां शान्तिरर्थसिद्धेति पूर्णब्रह्मसत्तामात्रपरिशेषः सिद्ध
इत्याह - अक्षुब्धेति ॥ ५ ॥
तस्मै सर्वं ततः सर्वं तत्सर्वं सर्वतश्च तत् ।
तच्च सर्वमयं नित्यं तस्मै सर्वात्मने नमः ॥ ६ ॥
तदेवं सर्वकारकक्रियाफलात्मकं जगद्ब्रह्मीभूतं नमस्यति - तस्मै इति ॥ ६ ॥
चिन्मयत्वाद्यदा चेत्यमेति द्रष्टचितैकताम् ।
तदा दृश्याङ्गयैवैतच्चेत्यते नान्यथा चिता ॥ ७ ॥
व्यवहारकालेऽपि चेत्यस्य चिदैक्यापत्तिबलादेव सत्तास्फूर्ती नान्यथेत्याह -
चिन्मयत्वादिति । घटादि चेत्यं ब्रह्म चिन्मयत्वादेव द्रष्ट्टचिता
चाक्षुषवृत्त्यवच्छिन्नप्रमातृचैतन्येन यदा वृत्तिव्याप्तिद्वारा एकतामेति तदा
दृश्यमङ्गं शरीरं यस्यास्तथाविधयैव तया चिता एतद्घटादि चेत्यते
नान्यथेत्यर्थः ॥ ७ ॥
यदा चिन्मात्रमेवेयं द्रष्ट्टदर्शनदृश्यदृक् ।
तदानुभवनं तत्र सर्वस्य फलितं स्थितम् ॥ ८ ॥
एवं द्रष्टा तद्दर्शनसाधनन्न् दृक् तत्फलं चेत्येतत्सर्वं
चिदैक्याधीनसिद्धिकत्वाद्यदा चिन्मात्रमेव तदा सर्वस्य जगतोऽनुभवनमात्रमेव
स्वरूपं परमार्थतः स्थितं फलितमित्यर्थः ॥ ८ ॥
द्रष्ट्टदृश्ये न यद्येकमभविष्यच्चिदात्मके ।
तद्दृश्यास्वादमज्ञः स्यान्ना दृष्ट्वेक्षुमिवोपलः ॥ ९ ॥
द्रष्ट्टदृश्ययोरैक्यसाधनानुग्राहकं तर्कमाह - द्रष्ट्टदृश्ये इति ।
द्रष्ट्टदृश्ये चिदात्मके साक्षिणि यद्येकं नाभविष्यत् तत्तर्हि क्षुभक्षणे
प्रवृत्तो ना पुरुष इक्षुं दृष्ट्वा चोषयन्नपि उपल इव दृश्यस्यास्वादं
तन्माधुर्यमज्ञोऽननुभवन् स्यात् न हि जडो रसमनुभवितुं शक्नोति न वा जडो
रसस्तं प्रति स्फुरिष्यति येनानुभवेदित्यर्थः ॥ ९ ॥
चिन्मयत्वाच्चितौ चेत्यं जलमप्स्विव मज्जति ।
तेनानुभूतिर्भवति नान्यथा काष्ठयोरिव ॥ १० ॥
तयोश्चिन्मयत्वाभ्युपगमे त्वनुभवितृचितौ चेत्यमनुभवनीयम् । अप्सु पतितो
जलबिन्दुरिव तदनुप्रवेशेन मज्जति तेन हेतुना क्षुमाधुर्यमास्वादयामीति त्रिपुट्याः
स्फुरणानुप्रवेशोनानुभूतिर्भवति । सिद्ध्यतीत्यर्थः ॥ १० ॥
सजातीयैकताभावाद्यद्वत्काष्ठं न चेतते ।
दारु तद्वदपि द्रष्टा दृश्यं नाज्ञास्यदाजडम् ॥ ११ ॥
व्यतिरेके काष्ठयोरिवेत्युक्तदृष्टान्तसाम्यं दार्ष्टान्तिके उपपादयति - सजातीयेति
। काष्ठं कर्तृ दारुद्वितीयं काष्ठं कर्म यथा काष्ठत्वेन सजातीयत्वेऽपि
चिदैक्याभावाद्यद्वन्न चेतते तथा द्रष्टापि आजडं सर्वथा चिदैक्यशून्यं
दृश्यं नाज्ञास्यत् ॥ ११ ॥
यादृक्सत्तानि काष्ठानि तादृग्रूपं त्वचेतनम् ।
जानन्ति नेतरत्तस्माद्दृश्यं चिद्दृश्यचेतनम् ॥ १२ ॥
न च द्रष्ट्टदृश्ययोर्जडत्वे काष्ठद्वयाद्विशेषं केचिज्जानन्तीत्याह -
यादृगिति । यादृशी सत्ता स्थितिर्येषां तानि । इतरद्वैलक्षण्यं तु न जानन्ति
केचिदपीत्यर्थः । तस्मादुक्ततर्कबलाद्दृश्यं सर्व चिद्रूपेणैव द्रष्टा दृश्यं
चेतनं चिदभिन्नं चेति सिद्धमित्यर्थः । कर्मधारयः ॥ १२ ॥
महाचिदात्मनैवास्ति जलानिलधराश्मतम् ।
नैतेषु स्पन्दबुद्ध्यादि प्राणजीवाद्यभावतः ॥ १३ ॥
एवं द्रष्ट्टदृश्ययोश्चिद्रूपत्वे दृश्ये जगति
धरानिलजलादिभेदापगमाद्द्रष्टरि च स्पन्दबुद्धिप्राणादिभेदापगमात्सर्वस्य
जगतो ब्रह्मैक्यमेव सिद्धमित्याह - महाचिदात्मनेति । अश्मतान्ते
समाहारद्वन्द्वे नपुंसकह्रस्वः ॥ १३ ॥
प्राणबुद्ध्यादयः सत्तां भावनावशतो गताः ।
भावना चिच्चमत्कारः स यथेच्छमुदेति च ॥ १४ ॥
भावनाकल्पितत्वादपि प्राणादिभेदानां मिथ्यात्वमित्याह - प्राणेति ॥ १४ ॥
जगत्तया शान्ततया ब्रह्मसत्तावतिष्ठते ।
पुंस्तया गत एवात्मा रेतोवटकबीजयोः ॥ १५ ॥
ब्रह्मसत्ताविवर्तमात्रत्वादपि जगद्भेदानां मिथ्यात्वमित्याह - जगत्तयेति ।
शान्ततया सुषुप्तिप्रलयात्मना । एवेत्यत्र आ इवेति च्छेदः । पुंस्तया प्रसवशक्ततया
आगत आक्रान्तः । वट एव वटकः ॥ १५ ॥
सर्वाग्राणुमये बीजे योऽस्मादग्रगतोऽणुकः ।
स स तत्तद्भवत्यग्रं बीजं [बीजं स्वात्मनि संस्थित इति पाठः ।] च
स्वात्मनि स्थितः ॥ १६ ॥
तत्र वटबीजे पुंस्त्वाक्रान्तं सूक्ष्ममविकृतं ब्रह्मसत्ताकं भागं तत्र
वटादिविवर्त च दर्शयति - सर्वाग्रेति । अग्रशब्दः सारपरः । यो
योऽग्रगतोऽणुकोऽतिसूक्ष्मः स सः परमात्मा । स एवाङ्कुरकाण्डशाखादौ
तत्तदुत्तरोत्तरकार्ये पुरोभूयाग्रं बीजं च भवतीत्यर्थः ॥ १६ ॥
ब्रह्म सर्वपराण्वात्मा यो यस्मादर्थतोऽणुकः ।
स स तत्तद्भवेद्वस्तु वस्तुब्रह्मैव तिष्ठति ॥ १७ ॥
तत्र यो यो यस्मात्सूक्ष्मः कारणतया प्रसिद्धः स स ब्रह्मकोटौ यश्च स्थूलः
कार्यात्मना प्रसिद्धः स मायाकोटौ मिथ्येत्युपलक्षयेदित्याशयेनाह - ब्रह्मेति ।
एवमुपलक्षिते सर्वत्र वस्तुब्रह्म तिष्ठति नान्यदित्यर्थः ॥ १७ ॥
द्रव्यमेव यथा द्रव्यं तिर्यगूर्ध्वमधस्तथा ।
सर्वमेव तथा ब्रह्म येन तेन यथा तथा ॥ १८ ॥
यथा घटाद्यैकैकद्रव्यमामूलाग्रं तदेव द्रव्यन्न् नाणुमात्रमपि तदन्यदस्ति
तथा सर्व जगदामूलाग्रं येन येन पुरुषेण यथा यथा परीक्ष्य दृष्टं
सन्मात्ररूपं ब्रह्मैव नाणुमात्रमपि तदन्यदस्तीत्यर्थः ॥ १८ ॥
हेमत्वमेव नान्यत्वं हेमरूपशते यथा ।
शान्तत्वमेव शान्तस्य सर्गाहट्वगणे तथा ॥ १९ ॥
अविकारित्वेऽपि दृष्टान्तमाह - हेमत्वमिति । सर्गो जगद्भावः अहन्त्वं
जीवभावस्तद्गणे ॥ १९ ॥
पार्श्वस्थस्वप्नमेघौघा यथा तव न काश्चन ।
सर्गप्रलयसंरम्भास्तथा खात्मान एव मे ॥ २० ॥
तस्य विवर्तैरलोपमाह [अलेप इति पाठः ।] - पार्श्वस्थेति ॥ २० ॥
पङ्कता कल्पिता व्योम्नो या पुत्रकपताकिनी ।
सा यथा शान्ततामात्रं खमेवेदं तथा जगत् ॥ २१ ॥
व्योम्नो या पङ्कता मलिनता कल्पिता या च गन्धर्वपुत्रकाणां पताकिनी सेना सा
यथा खमेव ॥ २१ ॥
सङ्कल्पभ्रम एवान्तः पुष्पीभूय जगत्स्थितम् ।
जलावनितलक्लिन्नबीजं कल्प इव द्रुमः ॥ २२ ॥
हृदयान्तः पुष्पीभूय बहिर्जगत्फलं स्थितम् । यथा जलेनावनितले
क्लिन्नमाद्रीम्भूतं वटादिबीजं कल्पते छायाश्रयादिना प्राण्युपकारसमर्थो
भवतीति कल्पो महान्वटादिद्रुमः सम्पद्यते तद्वत् ॥ २२ ॥
अनहन्तात्मनो ज्ञस्य सत एकत्वमासतः ।
जरत्तृणलवायन्ते ननु नामाऽणिमादयः ॥ २३ ॥
ननु यदि परमसूक्ष्मं ब्रह्म तद्भावस्थितिरेव मोक्षस्तर्ह्यणिमादिसिद्धिभिरसौ
तुल्य इत्याशङ्कां वारयति - अनहन्तात्मन इति ।
अहन्तादिप्रतिबन्धनिरासेनाविर्भूतनिरतिशयानन्दस्य ज्ञस्य दृष्ट्येत्यर्थः ॥ २३ ॥
त्रैलोक्ये तन्न पश्यामि सदेवासुरमानुषम् ।
एकरोमांशविश्वस्य यल्लोभाय महात्मनः ॥ २४ ॥
एको रोमाम्श इव विश्वं यस्य तथाविधस्य महात्मनः ॥ २४ ॥
यथा तथा स्थितस्यापि यत्र तत्र गतस्य च ।
द्वैतसङ्कल्पसन्दोहा न सन्त्यधिगतात्मनः ॥ २५ ॥
विश्वमेव नभो यस्य शून्यं सर्वं महात्मनः ।
कुतः कस्य कथं तस्य भवत्विच्छा निरात्मनः ॥ २६ ॥
निरात्मनो निःस्वरूपाद्भोगादिनिमित्तात् ॥ २६ ॥
शान्ताशेषविशेषस्य निरेषणविशेषतः ।
सत्तामसत्तां सदृशौ क आकलयितुन्न् क्षमः ॥ २७ ॥
सत्तां विभवं असत्तां दारिद्र्यं च सदृशौ समे पश्यतः क आकलयितुं क्षमो
महिमानमिति शेषः ॥ २७ ॥
मारैर्न किञ्चिन्म्रियते जीवैः किञ्चिन्न जीवति ।
शुद्धसंविन्मयस्यास्य समालोकस्य खस्य च ॥ २८ ॥
बन्धुपुत्रादिमरणजीवनादिनापि नास्य हर्षविषादप्रसक्तिरित्याशयेनाह -
मारैरिति । मारैर्मरणहेतुभिर्जीवैर्जीवहेतुभिः ॥ २८ ॥
मिथ्या लोकस्य कचतो भ्रान्त्या मरणजन्मनी ।
असत्यपि भ्रान्तिभाजि मृगतृष्णानदीतटे ॥ २९ ॥
लोकस्याज्ञजनस्य भ्रान्त्या मृगतृष्णानदीतटप्राये भ्रान्तिभाज्यात्मनि मिथ्यैव
मरणजन्मनी कचतः ॥ २९ ॥
सम्यक्परीक्षितं यावन्न भ्रान्तिर्न परीक्षकाः ।
न नाम जन्ममरणे केवलं शान्तमव्ययम् ॥ ३० ॥
यावदस्माभिः सम्यक्परीक्षितं तावन्न भ्रान्तिर्न वा परीक्षका न वा जन्ममरणे
सन्तीत्यर्थः ॥ ३० ॥
दृश्याद्यो विरतिं यात आत्मारामः शमं गतः ।
स सन्नेवासदाभासः परितीर्णभवार्णवः ॥ ३१ ॥
न परीक्षका इति कथमुच्यते तत्त्वविदः परीक्षकस्याबाधात्तत्राह - दृश्यादिति ।
ब्रह्मभावेन सन्नपि देहेन्द्रियादिसहितपरीक्षकात्मना असदाभास इत्यर्थः ॥ ३१ ॥
दीपनिर्वाणनिर्वाणमस्तङ्गतमनोगतिम् ।
आत्मन्येव शमं यातं सन्तमेवामलं विदुः ॥ ३२ ॥
ब्रह्मात्मना सन्तमेव दीपनिर्वाणमिव निर्वाणं विदुः ॥ ३२ ॥
आबुद्ध्यादि जगद्दृश्यन्न् यस्मै न स्वदते स्वतः ।
आकाशस्येव शान्तस्य तमाहुर्मुक्तमुत्तमाः ॥ ३३ ॥
अत एव तस्य न संसारः स्वदते इत्याह - आबुद्ध्यादीति ॥ ३३ ॥
अहमस्त्यविचारेण विचारेणाहमस्ति नो ।
अभावादहमर्थस्य क्व जगत्क्व च संसृतिः ॥ ३४ ॥
तत्त्वज्ञश्चेद्दीपवन्निर्वाणस्तर्हि त्वं वसिष्ठः कथमसि तत्राह - अहमिति ॥ ३४ ॥
संवित्संवेदनादेव बुद्ध्याद्याकारवत्स्थितम् ।
रूपालोकमनोरूपं जगद्वेत्ति चिदम्बरम् ॥ ३५ ॥
अभावः कुतस्तत्राह - संविदिति । वास्तवं चिदम्बरमेव
स्वसंविदोऽन्यथासंवेदनादेव बुद्ध्याद्याकारवत्स्थितं सत् ॥ ३५ ॥
सर्वार्थरिक्तमनसः सतः सर्वात्मनस्तव ।
सर्वथा सर्वदा सर्वं सर्वमाचरणं शिवम् ॥ ३६ ॥
ममेव यथार्थसंवेदनेन भ्रान्तिनाशे सर्वार्थरिक्तमनसस्तवापि निर्वाणरूपैव
स्थितिः सेत्स्यतीत्याह - सर्वार्थेति ॥ ३६ ॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि हंस्येषि तत्सर्वं शिवमव्ययम् ॥ ३७ ॥
सर्वमाचरणन्न् प्रपञ्चयति - यदिति ॥ ३७ ॥
यदहं यत्त्वमाशा यद्यत्क्रियाकालखादयः ।
यल्लोकालोकगिरयस्तच्चिद्व्योम शिवं ततम् ॥ ३८ ॥
आचरणग्रहणं जगन्मात्रोपलक्षणमित्याशयेनाह - यदिति । आशा इच्छा
दिशश्च ॥ ३८ ॥
यद्रूपालोकमननन्न् यत्कालत्रितयं जगत् ।
यज्जरामरणार्त्यादि तन्महाचिन्नभः शिवम् ॥ ३९ ॥
निश्चिकित्सो निराभासो निरिच्छो निर्मना [निर्मम इति पाठः ।] मुनिः ।
भूत्वा निरात्मा निर्वाणस्तिष्ठ सन्तिष्ठसे यथा ॥ ४० ॥
निश्चिकित्सो दुःखप्रशमोपायान्वेषणशून्यो निर्विचिकित्सो वा । निर्विकल्प इति पाठः
स्पष्टः । यथा निर्वाणः सन्तिष्ठसे तथा तिष्ठ ॥ ४० ॥
गतेच्छमननं शान्तमनन्तस्थमभावनम् ।
व्यवहारोऽस्तुते मा वा स्पन्दास्पन्दैर्यथानिलः ॥ ४१ ॥
यथा आनिलः अनिलसम्बन्धी स्पन्दास्पन्दैर्व्यवहारस्तथा ते तवाप्यस्तु ॥ ४१ ॥
निर्वासना निष्कलना शान्ता पुरुषतास्तु ते ।
शास्त्रेण यन्त्रवाहेन वाह्या दारुमयी यथा ॥ ४२ ॥
पुरुषता पुरुषोचितचेष्टा ते शास्त्रलक्षणेन यन्त्रवाहेन वाह्या निर्वाह्यास्तु ॥ ४२ ॥
भूतालोकस्तु माश्नेहो मा वाऽस्नेहश्च बाह्यगः ।
अनिर्देशधरालोकश्चित्रदीपवदास्यताम् ॥ ४३ ॥
हे राम तव बाह्यगो मातृपितृबन्धुजनादिभूतानामालोकनमालोक आस्नेहः
स्नेहबहुलो मा भूत् अस्नेहो वा मा भूत् किन्तु अनिर्देशधरः अस्तिनास्तीति
परीक्षकैर्निर्देष्टुमशक्य आलोकः प्रकाशो यस्य तथाविधोऽस्तु । एवं च त्वया
चित्रदीपवदास्यतां स्थीयताम् । तस्यापि हि
चित्रलिखिततैलपूर्णत्वात्परमार्थतस्तैलाभावाच्च भूतानां
प्राणिनामालोकनमालोक आस्नेहः स्नेहबहुलः अस्नेहस्तच्छून्यश्च न भवति । आलोकः
प्रकाशश्च चित्रलिखितः अस्तिनास्तीति निर्देशार्हो न भवतीति साम्यादित्यर्थः ॥ ४३ ॥
निर्वासनस्य विरसस्य निरेषणस्य शास्त्रादृते क इव तत्त्वविनोदहेतुः ।
शास्त्रार्थसज्जनमतोऽप्यमलस्य तस्य संवेदनेष्वनभिसन्धिमतः स्वरूपम्
॥ ४४ ॥
निर्वासना निष्कलना इति श्लोकार्थमेव पुनरनुवादेन दृढीकुर्वन्नुपसंहरति -
निर्वासनस्येति । वर्तमानभोगेषु विरसस्य । भाविषु निरेषणस्य । शास्त्रात्सच्छास्त्रात् ।
तत्त्वे खसुखे विनोदो विश्रान्तिस्तद्धेतुः । आदेहधारणमवश्यभावित्वादवर्जनीये
व्यवहारे सच्छास्त्रानुसरणे एव चित्तदोषनिर्हरणेन विवेकाद्युद्बोधनेन च
तत्त्वज्ञानप्रतिष्ठासिद्धेरिति भावः । अतः अनभिसन्धिमतः अत एवामलस्यापि तस्य
तत्त्वविदः संवेदनपूर्वकव्यवहारेषु शास्त्रार्थे स्वस्ववर्णाश्रमोचिताचारे
शमदमादौ च सज्जनन्न् सम्यगनुवर्तनमेव स्वरूपमसाधारणन्न् लक्षणन्न्
न यथेष्टाचरणमित्यर्थः । तथा चाहुर्वृद्धाः विदितब्रह्मतत्त्वस्य
यथेष्टाचरणन्न् यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ इति ॥ ४४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे
उत्तरार्धे निर्वाणवर्णनन्न् नामाष्टत्रिंशः सर्गः ॥ ३८ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणवर्णनन्न् नामाष्टत्रिंशः सर्गः ॥ ३८ ॥