दृश्योपदेशयोगो नाम सप्तत्रिंशः सर्गः ३७
श्रीवसिष्ठ उवाच ।
इच्छाविषविकारस्य वियोगं योगनामकम् । शान्तये शृणु भूयोऽपि पूर्वमुक्तमपि स्फुटम् ॥ १ ॥
यथेच्छैव न जायेत जातापि ब्रह्म केवलम् । तथोपपत्तिभिर्भूयो ज्ञानयोगोऽत्र वर्ण्यते ॥
वियोगफलकत्वाद्वियोगम् । इच्छामूलकसर्वानर्थशान्तये ॥ १ ॥
आत्मनो व्यतिरिक्तं चेद्विद्यते तदिहेच्छया । इष्यतामसति त्वेतत्स्वात्मान्यत्वं क्रिमिष्यते ॥ २ ॥
इच्छया इष्यताम् । यथेच्छमिच्छा प्रवर्ततामित्यर्थः । इच्छतां [इच्छतामिति पाठे विकरणव्यत्यय आर्षः ।] इति पाठेऽप्ययम्र्वार्थः । तथा च यावदात्मा न ज्ञायते तावदेव द्वितीयवस्तुसत्यताभ्रान्त्या इच्छोदय इत्यात्मज्ञानयोग एव विषयापहारद्वारा तन्निवृत्त्युपाय इति भावः ॥ २ ॥
निर्भागावयवा सूक्ष्मा व्योम्नः शून्यतरैव चित् । सैवाहंजगदाकारा सती किं तत्तयेष्यते ॥ ३ ॥
यदि तु ज्ञानेन जगत्सत्यं ब्रह्मैव संपन्नमिति न मिथ्येति मन्यसे तदाप्यत्यन्ताभेदे एषित्रादित्रिपुटीघटितेच्छाया असिद्धिरित्याह - निर्भागेति । निर्गतो भागस्त्रिपुटीविभाजकोपाधिभेदो विभजनीयावयवभेदश्च यस्याः । अहमाकारा जगदाकारा च सैव सती ॥ ३ ॥
सा व्योमरूपा व्योमैव व्योमात्मवेद्यवेदिका । व्योमात्मजगदाभासमत्रेच्छाविषयोऽस्ति कः ॥ ४ ॥
ग्राह्यग्राहकसंबन्धः कुतश्चिदिति तन्न नः । विद्यतेऽसौ प्रशान्तानां येषामस्ति न वेद्मि तान् ॥ ५ ॥
बुद्ध्या अगृहीते विषये इच्छानुदयाद्ग्राह्यग्राहकसंबन्धाभावे ग्रहणस्यासिद्धेरपि विदुषां नेच्छाप्रसक्तिरित्याह - ग्राह्येति । प्रशान्तानां नः असः अज्ञदृष्टिप्रसिद्धो ग्राह्यग्राहकसंबन्धः कुतश्चिदपि निमित्तात्प्रमाणाद्वा न विद्यते इत्येतस्माद्धेतोरपि किमिष्यते इत्यन्वयः । येषामज्ञानामस्ति तान्न वेद्मि । तेऽपि तत्त्वदृशा अत्यन्ताप्रसिद्धा इत्यर्थः ॥ ५ ॥
ग्राह्यग्राहकसंबन्धः स्वनिष्ठोऽपि न लभ्यते । असतस्तु कथं लाभः केन लब्धोऽसितः शशी ॥ ६ ॥
त्वर्थे अपिशब्दः । असितः श्यामः ॥ ६ ॥
एषैव ग्राहकादीनां सत्ता यन्नात्मनिष्ठता । स्वभावावेक्षया सत्या न जाने क्व प्रयान्ति ते ॥ ७ ॥
ग्राहकादीनां सर्वत्रिपुटीनामेषैव सत्ता । कैषा यन्नात्मनिष्ठता तात्त्विके आत्मन्यविश्रान्तिः । अज्ञानमिति यावत् । ते च ग्राहकादयः स्व्भावोऽशास्त्रीयदृष्टिस्तदपेक्षया सत्याः शास्त्रीयतत्त्वदृष्ट्युदये क्व प्रयान्तीति न जाने ॥ ७ ॥
एष एव स्वभावो यद्द्रष्ट्टदृश्यक्षयोऽखिलः । ज्ञात्वाऽसत्या विनिर्वाणमहंतात्मनि गच्छति ॥ ८ ॥
तत्त्वज्ञानस्याप्येष एव स्वभावो यदसत्या अहंता शास्त्रतः स्वतत्त्वं ज्ञात्वा तस्मिन्नात्मनि गच्छत्यपैति । स एवाखिलो द्रष्ट्टदृश्यक्षयो विशिष्टं निर्वाणं चेत्यर्थः ॥ ८ ॥
निर्वाणे नास्ति दृश्यादि दृश्यादौ नास्ति निर्वृतिः । मिथोऽनयोरनुभवो न च्छायातपयोरिव ॥ ९ ॥
दृश्यनिर्वाणयोः परस्परासहभावोऽपि स्वभावत एवेत्याह - निर्वाण इति । मिथोऽनुभवः सहानुभवः ॥ ९ ॥
उभे एते मिथोऽसत्ये असत्ये च न निर्वृतिः । यतो निर्वाणमजरमदुःखमनुभूयते ॥ १० ॥
कुतो न सहानुभवोऽपीति तत्राह - उभे इति । यदि मिथः सह स्यातां तदा उभे परस्परबाधितत्वादसत्ये स्याताम् । स्ताम् असत्ये को दोषस्तत्राह - असत्ये चेति । तथा च विद्वदनुभवविरोध इत्याह - यत इति ॥ १० ॥
भ्रमभूतं च दृश्यादि नित्यं नात्र सुखप्रदम् । असच्च तद्भाव्यतां मा निर्वाणे स्थीयतामजे ॥ ११ ॥
ननु तर्हि सर्वजनप्रसिद्धं दृश्यादिमहाकौतुकं निर्वाणे दुर्लभं स्यादित्यनाश्वासं परिहरन्नाह - भ्रमभूतमिति । असत् चादनर्थरूपं च तद्दृश्यादि मा भाव्यतां न चिन्त्यताम् ॥ ११ ॥
शुक्तिकारूप्यसदृशं प्रेक्षितं यन्न लभ्यते । अर्थकार्यपि तन्नास्ति किमत्रापह्नवेन च ॥ १२ ॥
तत् अर्थकारि पुरुषार्थसंपादकं नास्त्येव । अत्र ईदृशे दृश्ये अपह्नवेन किं कौतुकं गतमित्यर्थः ॥ १२ ॥
तत्सद्भावान्महदुःखमसद्भावान्महत्सुखम् । अभावः सोपपत्तिस्तु दृढतां याति भावनात् ॥ १३ ॥
अभावः शाब्दज्ञानकृतो बाधः सोपपत्तिर्मननसहितो बावनान्निदिध्यासनात् ॥ १३ ॥
तत्किमात्मनि बन्धाय विदग्धं न मुधाधमाः । स्पष्ट एवोपचयादेर्वस्तुन्यस्तमिताऽपदे ॥ १४ ॥
इदानीं परमकारुणिको भगवान्वसिष्ठो दृश्यकौतुकासक्तानधमाधिकारिणः श्रोतॄन्बलान्निर्भर्त्स्य दृश्यासक्तिं त्याजयन्नाह - तत्किमिति । हे अधमाः यूयमुपचयादेर्विकारजातस्य अपदे परमार्थवस्तुनि स्वप्रकाशत्वाच्छास्त्राचार्योपदेशाच्च करतलामलकवत्स्पष्टे एव स्फुरति सत्यस्तमदर्शनं किं इत प्राप्नुत । भवद्भिस्तद्दृश्यजातं किमात्मनि बन्धनाय न विदग्धम् । किं बन्ध एवाभिलक्षितोऽस्ति येन दृश्यासक्तिं न मुञ्चतेत्यर्थः ॥ १४ ॥
कार्यकारणभावादि ब्रह्मैव सकलं यदा । तदा तु ब्रह्मता ह्यस्मिन्संविन्मात्रात्मके तते ॥ १५ ॥
यदा कार्यकारणभावादि सर्वं ब्रह्मैव भवति तदैव तु देहादिपरिच्छेदापगमात्तते विस्तारं प्राप्ते चिन्मात्रात्मके प्रतीचि ब्रह्मता सिद्ध्यति नाणुमात्रमपि दृश्यपरिशेषे ॥ १५ ॥
मार्गयन्ति प्रबोधाय तैर्मृगैरलमस्तु नः । व्योमरूपे किलैकस्मिन्सर्वात्मनि तते सति ॥ १६ ॥
अत एव व्योमरूपे सर्वात्मनि पूर्णेऽपि कार्यकारणतादिदृश्यमङ्गीकृत्य ये ब्रह्मप्रबोधाय साधनानि मार्गयन्ति मृगयन्ते तैर्वादिमृगैस्तार्किकैः शिष्यमृगैर्वा अलमस्तु । प्रयोजनं नास्तीत्यर्थः ॥ १६ ॥
कार्यकारणताढ्यानामुक्तीनामेव कः क्रमः । यो हेतुः स्पन्दने वायोर्द्रवत्वे सलिलस्य च ॥ १७ ॥
यदि चावश्यं हेतुर्वाच्यस्तर्हि सर्वस्वभावरूपा स्वाविद्यैवेत्याशयेनाह - य इति ॥ १७ ॥
शून्यत्वे नभसः सौम्य सर्गादित्वे चिदात्मनः । कार्यकारणभावादि ब्रह्मैव सकलं यदा ॥ १८ ॥
अत एव विदुषां तद्बाधात्सर्गादिहेतुनिरूपणे निर्लज्जतादोष इत्याह - कार्येति ॥ १८ ॥
तदा ब्रह्मणि सर्गाणां कारणार्था विलज्जता । न दुःखमस्ति न सुखं शान्तं शिवमयं जगत् ॥ १९ ॥
कारणप्रतिपादनार्था उक्तिर्विलज्जता निर्लज्जता ॥ १९ ॥
नास्ति चिन्मात्रतान्यत्वमत इच्छोदयः कुतः । मृद्देहयोधसेनायां न मृन्मात्रेतरद्यथा ॥ २० ॥
न सज्जगदहंतादौ दृश्ये ब्रह्मेतरत्तथा ।
श्रीराम उवाच ।
एवं चेत्तदुदेत्विच्छा मा वोदेतु मुनीश्वर ॥ २१ ॥
यदि सर्वं ब्रह्मैव तर्हि इच्छापि सुतरां ब्रह्मेति तदुत्पत्तौ का क्षतिरिति विद्वद्दृष्ट्या रामः शङ्कते - एवं चेदिति ॥ २१ ॥
सा तु ब्रह्मैव कोऽर्थः स्यादस्या विधिनिषेधने ।
श्रीवसिष्ठ उवाच ।
ज्ञातायां संप्रबुद्धायामिच्छा ब्रह्मैव नेतरत् ॥ २२ ॥
इच्छानुत्पादने यत्नः क्रियतां किं वृथाभ्रमैः इत्यादि प्रागुक्तयत्नविधिनिषेधने निवारणे सत्यं विदुष इच्छोदयेऽपि न काचित्क्षतिः । विद्याबाधितायास्तस्या उदय एव दुर्लभ इत्युत्तरमाह - ज्ञातायामित्यादिना ॥ २२ ॥
यथा संबुद्धवान्राम तत्सत्यं किं त्विदं शृणु । यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा ॥ २३ ॥
वस्तुस्वभावादुदयत्यादित्ये यामिनी यथा । शाम्यत्येव न तूदेति ज्ञप्ताविच्छादि तत्तथा ॥ २४ ॥
इटकिटकटी गतौ इत्यत्र ई इति प्रश्लिष्टस्य धातोः शत्रन्तस्य सप्तम्येकवचने अयतीति रूपं न त्वयतेः । तस्यात्मनेपदित्वात् ॥ २४ ॥
यथा यथोदयो ज्ञप्तेर्द्वैतशान्तिस्तथा तथा । वासनाविलयश्चैव कथमिच्छोदयो भवेत् ॥ २५ ॥
तस्या विद्योपशान्तेयं निर्मला मुक्ततोदिता । अशेषदृश्यवैरस्याद्यस्येच्छोदेति न क्वचित् ॥ २६ ॥
मूलोच्छेदादपि विदुषो नेच्छोदयसंभव इत्याशयेनाह - तस्येति ॥ २६ ॥
विरक्ततास्य नो दृश्ये नोदेत्यत्रास्य रक्तता । केवलं द्रष्ट्टदृश्यश्रीः स्वदते न स्वभावतः ॥ २७ ॥
न स्वदते न रोचते ॥ २७ ॥
काकतालीययोगेन परप्रेरणयानया । यदि किंचित्कदाचिच्च सम्यगिच्छति वा न वा ॥ २८ ॥
सम्यक् शास्त्रानिषिद्धं देहधारणमात्रसाधनमन्नदानादि ॥ २८ ॥
तदस्य सेच्छा नेच्छा वा ब्रह्मैवात्र न संशयः । इच्छा न जायते ज्ञस्यावश्यमेवानु वा नवा ॥ २९ ॥
तत्तदा अस्य विदुषः सा इच्छा नेच्छाऽनिच्छा वा उभयं ब्रह्मैव । अथवा ज्ञस्य विदुषो नवा अभिनवभोगचमत्कारविषया इच्छा अवश्यं न जायते एव । प्रागभ्यस्तमनुसृत्य तु वा अनियतेत्यर्थः ॥ २९ ॥
ज्ञता चेदुदिता जन्तोस्तदिच्छास्योपशाम्यति । नैतयोः स्थितिरेकत्र प्रकाशतमसोरिव ॥ ३० ॥
ज्ञता तत्त्वज्ञानम् । तत् तदा ॥ ३० ॥
प्रतिषेधविधीनां तु तज्ज्ञो न विषयः क्वचित् । शान्तसर्वैषणेच्छस्य कोऽस्य किं वक्ति किंकृते ॥ ३१ ॥
अत एव रागतः प्रसक्तनिषिद्धक्रियाप्रतिषेधशास्त्रे नीरागोऽयं नाधिकारीत्याह - प्रतिषेधेति । किंकृते कस्मै प्रयोजनाय । न ह्यनन्धस्य कूपे न पतनीयमित्यन्धेन वक्तव्यमस्तीति भावः ॥ ३१ ॥
एतदेव ज्ञताचिह्नं यदिच्छास्वतितानवम् । ह्लादनं सर्वलोकानामथानुभव एव वा ॥ ३२ ॥
बाह्येच्छानिवृत्तिः स्वानन्दानुभवतृप्तिश्च तत्त्वबोधोदयचिह्नमित्याह - एतदेवेति । सर्वलोकानामभयदानेन ह्लादनम् ॥ ३२ ॥
दृश्यंन् विरसतां यातं यदा न स्वदते क्वचित् । तदा नेच्छा प्रसरति तदैव च विमुक्तता ॥ ३३ ॥
बोधादनैक्यमद्वैतं यः शान्तमवतिष्ठते । इच्छानिच्छादयः सर्वे भावास्तस्य शिवात्मकाः ॥ ३४ ॥
बोधादस्तमितद्वैतमद्वैतैक्यविवर्जितम् । यः स्वच्छो विगतव्यग्रः शान्त आत्मन्यवस्थितः ॥ ३५ ॥
अद्वैतं द्वैतध्वंसरूपं वस्त्वन्तरम् ऐक्यं मेलनमेकत्वसंख्या च तैर्विवर्जितं यथा स्यात्तथा य आस्ते तस्येति परेणान्वयः ॥ ३५ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३६ ॥
अर्थव्यपाश्रयः प्रयोजनलाभः ॥ ३६ ॥
नानिच्छया नेच्छयाथ न सता नासता सदा । नैवात्मना न चान्येन नैतैर्मरणजीवितैः ॥ ३७ ॥
नानिच्छयेति । अर्थव्यपाश्रय इति सर्वत्रानुषज्यते ॥ ३७ ॥
इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः । यदि चोदेति तस्येच्छा ब्रह्म शाश्वतमेव सा ॥ ३८ ॥
न दुःखमस्ति न सुखं शान्तं श्वमजं जगत् । इति योऽन्तः शिलेवास्ते तं प्रबुद्धं विदुर्बुधाः ॥ ३९ ॥
दुःखं सुखं भावनया कुर्वन्विषमिवामृतम् । इति निश्चित्य धीरात्मा [घोरात्मा इति पाठः ।] प्रबुद्ध इति कथ्यते ॥ ४० ॥
इति प्राग्वर्णितमात्मतत्त्वं निश्चित्य दुःखं सुखं च निरतिशयानन्दात्मभावनया विषममृतमिव कुर्वन् ॥ ४० ॥
तत्स्थितं व्योमनि व्योम शान्ते शान्तं शिवे शिवम् । शून्ये शून्यं सति च सद्यद्ब्रह्मणि जगत्स्थितम् ॥ ४१ ॥
तद्बोधानुसारिणी स्थितिरेव सर्ववस्तूनामविपर्यस्तस्थितिर्नाज्ञप्रसिद्धेत्याह - तदिति । तत् तदा ॥ ४१ ॥
असंवेदनसंवित्खे ततेऽविश्वमिति स्थिते । सौम्ये समसमे शान्ते शिवेऽहंताभ्रमः क्षयी ॥ ४२ ॥
इति उक्तरीत्या अबिश्वं निर्जगत्कं यथा स्यात्तथा स्थिते सति ॥ ४२ ॥
यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् । तत्सर्वं शान्तमाकाशं परचिन्तापुरोपमम् ॥ ४३ ॥
चिन्तापुरं मनोराज्यनगरं तदुपमम् ॥ ४३ ॥
परचिन्तापुरोमध्ये गतविघ्नं गमागमौ । यथान्तस्तव शून्यत्वात्तथैवास्मिञ्जगद्भ्रमे ॥ ४४ ॥
परः पुरुषान्तरं तदीयमनोराज्यकल्पितायाः पुरो नगर्या मध्ये तव यथा अन्तर्गमागमावविघ्नं कुड्यादिप्रतिबन्धशून्यंन् सिध्यतस्तथा विदुषोऽप्यस्मिन् जगद्भ्रमे सिध्यत इत्यर्थः ॥ ४४ ॥
अब्धिद्यूर्वीनदीशैलशोभाशून्यतरात्मनि । जृम्भते द्रष्ट्टकरणं मृगतृष्णाम्बुवीचिवत् ॥ ४५ ॥
तत्कुतस्तत्राह - अब्धीति । यतः अब्ध्यादिशून्यतरात्मनि द्रष्टुरन्तःकरणमेवाब्ध्यादिशोभात्मना जृम्भते । तथा तृषितश्रान्तपुरुषस्य चक्षूरूपं करणमम्बुशून्ये पुरोदेशे मृगतृष्णाम्बुवीच्यात्मना जृम्भते तद्वदित्यर्थः ॥ ४५ ॥
स्वप्ननिर्माणपुरवद्बालवेतालतालवत् । यदिदं दृश्यते तत्र किं किलासत्यतेतरत् ॥ ४६ ॥
असत्यताया इतरत् सत्यत्वं किं किल ॥ ४६ ॥
असत्यमेवाहमिति भासते सत्यमेव च । भ्रान्तिभाजं विनैवेयं भ्रान्तिः स्फुरति सा सती ॥ ४७ ॥
भ्रान्तिभाजो मिथ्यात्वादपि भ्रान्तेर्मिथ्यात्वमित्याह - असत्यमेवेति । यतः सत्यं ब्रह्मैवाहमिदमिति चासत्यमेव भासते अत इयं भ्रान्तिर्भ्रान्तिभाजंन् विनैव स्फुरतीत्यसतीत्यर्थः ॥ ४७ ॥
न सन्नासन्न सदसत्किमपीदमतीन्द्रियम् । अवाच्यं जगदित्येव भात्यवक्षुभितं खवत् ॥ ४८ ॥
अत्यन्तासत्त्वे शून्यवादिमतप्रवेशः । अत्यन्तं सत्त्वे अद्वैतश्रुतिविद्वदनुभवविरोधः । उभयरूपत्वं तु विरोधादसंभवीत्यनिर्वचनीयतायति पुंस्त्ववदस्य परिशेषादित्याह - न सदिति । अतीन्द्रियं इन्द्रियानवधार्यतत्त्वम् । खवत् इन्द्रियवत् । गन्धर्वनगराद्याकारावक्षुब्धाकाशवद्वा ॥ ४८ ॥
इहेच्छानिच्छते ज्ञस्य शाम्यतां यदलं समे । तथापि श्रेयसे मन्ये नन्वनिच्छोदयं स्फुटम् ॥ ४९ ॥
ज्ञस्य तत्त्वविदस्तत्त्वबोधबलादेवालं शाम्यतां विषयाणां यत् यद्यपि इच्छानिच्छते समे तुल्यफले तथाप्यनिच्छोदयमेव स्फुटं निर्विक्षेपसुखाभिव्यक्तिहेतुं श्रेयसे मन्ये । नन्विति रामसंबोधने ॥ ४९ ॥
अहं जगदिति ज्ञप्तिः खे खस्येवेयमास्थिता । चिदात्मनो यथा वायोः स्पन्दो नात्रास्ति कारणं ॥ ५० ॥
यथा अविकृते एव खे आकाशाद्वायुरित्यादिऽस्रुत्युक्तक्रमेणाहं जगदिति ज्ञप्तिरास्थिता तद्वदज्ञानावृतचिदात्मनोऽपि । नात्र कारणान्तरं मृग्यमित्यर्थः ॥ ५० ॥
चितश्चेत्योन्मुखत्वं यत्तच्चित्तं सैव संसृतिः । सेच्छा तन्मुक्तता मुक्तिर्युक्तिं ज्ञात्वेति शाम्यताम् ॥ ५१ ॥
तथा च चिदात्मनो बहिःप्रवणतैवेच्छा चित्तं संसारश्च अन्तःस्वरूपे स्थितिरेव मुक्तिरिति फलितमित्याह - चित इति ॥ ५१ ॥
इच्छा भवत्वनिच्छा वा सर्गो वा प्रलयोऽथवा । क्षतिर्न कस्यचित्काचिन्न च किंचिदिहास्ति हि ॥ ५२ ॥
तथा चेश्वरस्य सर्गप्रलययोरिव विदुष इच्छानिच्छयोर्न कश्चिल्लाभः क्षतिर्वेत्याह
- इच्छेति । अस्ति फलमिति शेषः ॥ ५२ ॥
इच्छानिच्छे सदसती भावाभावौ सुखासुखे । इत्यत्र कलना व्योम्नि संभवन्ति न काश्चन ॥ ५३ ॥
इच्छानां तानवं यस्य दिनानुदिनमागतम् । विवेकशमतृप्तस्य तमाहुर्मोक्षभागिनम् ॥ ५४ ॥
तत्रोपपत्तिमाह - इच्छानिच्छे इति । कलनाः कल्पनाः । अत्र तत्त्वविद्रूपे व्योम्नि चिदाकाशे ॥ ५३ ॥ ५४ ॥
इच्छाक्षुरिकया विद्धे हृदि शूलं प्रवर्तते । जयन्ति यत्र नैतानि मणिमन्त्रौषधानि च ॥ ५५ ॥
इच्छालक्षणया क्षुरिकाया क्षुरप्रबाणशल्येन । शूलं शोकमोहादिवेदना । यत्र यस्मिन् शूले एतानि लोकप्रसिद्धानि मणिमन्त्रौषधानि न जयन्ति । कुण्ठीभवन्तीति यावत् ॥ ५५ ॥
यान्कार्यकरणव्यूहान्कृतवान्पूर्वमेव तान् । संप्रेक्षया न पश्यामि मिथ्याभ्रमभरादृते ॥ ५६ ॥
विधाता प्राणिदुःखविचिकित्सार्थं यान् औषधमन्त्रयन्त्रादिकाकरणग्रामान् कृतवास्तान् पूर्वमेव बहुशः परीक्षणार्थं संप्रेक्षया यतमानोऽहं मिथ्याभ्रमभरेण आदृते पुंसि तच्चिकित्सासमर्थान्न पश्यामि ॥ ५६ ॥
भ्रमभूतेन कुर्मश्चेद्व्यवहारमवस्तुना । तत्कस्मात्परचित्ताद्रिः कम्बलत्वं [कवलनं इति पाठः ।] न नीयते ॥ ५७ ॥
ननु भ्रान्तिसिद्धेनैव केनचिदुपायेन तच्चिकित्सादिव्यवहारोऽस्तु तत्राह - भ्रमभूतेनेति । भ्रमो भ्रान्तिज्ञानं तेन भूतेन सिद्धेन । अस्मद्भ्रान्तिसिद्धोपायेन परभ्रान्तिसिद्धदुःखनिवारणे अस्मन्मनोरथकल्पितबहुयोजनविस्तृतमुखेन परकीयस्वप्नशैलादेः कवलनप्रसङ्ग इत्यर्थः ॥ ५७ ॥
असता व्यवहारश्चेत्प्रेक्षामात्रविनाशिना । क्रियते शशशृङ्गेण तत्कथं छाद्यते न खम् ॥ ५८ ॥
भ्रान्तिसिद्धस्यासत्त्वादपि न पारमार्थिके परदुःखनिवारणे सामर्थ्यमित्याह - असतेति । क्रियते इति पूर्वान्वयि । तस्मात्तदीयं तत्त्वज्ञानाभिव्यक्तं परमार्थसत्यं ब्रह्मैव तदीयसर्वभ्रमदुःखनिवारणोपायो नान्य इति भावः ॥ ५८ ॥
अहंभावाच्चिदाकाशो जाड्यातिशयतः क्षणात् । पाषाणतां जलमिव मनस्त्वाद्याति देहताम् ॥ ५९ ॥
नन्वमूर्तमनोभ्रान्तिमात्रं जगच्चेत्कथं मूर्तदेहादिभावं याति तत्राह - अहंभावादिति । देहाद्याकाराहंभावात् । जलं जाड्यातिशयतः पाषाणतां करकाभावमिव ॥ ५९ ॥
चित्त्वादनुभवत्येतामसत्यामेव देहिताम् । अविनष्टैव चिच्छक्तिः स्वप्ने स्वमरणं यथा ॥ ६० ॥
कल्पिते चितः स्वमरणतुल्ये जडदेहभावेऽपि वास्तवचिद्रूपमक्षतमेवेति तेन तामनुभवतीत्याह - चित्त्वादिति ॥ ६० ॥
व्योम्न्यसत्यमवस्तुत्वात्सत्यं चानुभवाद्यथा । नीलत्वं तद्वदीशेऽस्मिन्सर्गो नासन्न सन्मयः ॥ ६१ ॥
प्रातिभासिकजडभावः प्रतिभासाधीनसत्ताकत्वादनिर्वचनीय इत्याह - व्योम्नीति ॥ ६१ ॥
यथा शून्यत्वनभसोर्यथा स्पन्दनभस्वतोः । भेदो नास्ति तथा सर्गब्रह्मणोरेकरूपयोः ॥ ६२ ॥
अत एव जगद्ब्रह्मसत्तयोरैक्याद्भेदो नास्तीत्याह - यथेति ॥ ६२ ॥
नेह संजायते किंचिज्जगदादि न नश्यति । स्वप्नो निद्रागतस्येव केवलं प्रतिभासते ॥ ६३ ॥
प्रातिभासिकार्थस्य स्वाप्नार्थवत्प्रतिभासातिरिक्तमुत्पत्त्यादिकमप्रसिद्धमित्याह ##-
अविद्यमाने पृथ्व्यादौ प्रतिभामात्ररूपिणि । सर्गे क इव संरम्भस्त्यागादानैश्चिदम्बरे ॥ ६४ ॥
अत एव तत्त्यागादानयोरभिनिवेशो न युक्त इत्याह - अविद्यमाने इति ॥ ६४ ॥
न देहः प्रतिभातोऽस्ति पृथ्व्यादिकारणान्वितः । केवलं ब्रह्मचिन्मात्रमेवात्मन्येव संस्थितम् ॥ ६५ ॥
देहार्थ हि पृथ्व्याद्यर्थस्य त्यागादाने स्याताम् । यदा तदुभयं प्रतिभासमात्रत्वादसत्तदा ते अप्यसती इत्याशयेनाह - नेति । प्रतिभातः प्रतिभासमात्रत्वात् ॥ ६५ ॥
बुद्ध्यादेः कारणत्वं च द्वैतैक्यासंभवान्न सत् । अनेनेदं क्रियत इत्यस्यार्थं याति संभवात् ॥ ६६ ॥
एवं बुद्ध्यादेरपि स्वप्रतिभासकचैतन्यापेक्षया द्वैतैक्ययोर्भेदाभेदयोरसंभवादनेनेदं क्रियत इत्यस्य व्यवहारस्य कारणत्वमप्यसत्सदर्थ परमार्थवस्त्वेव याति । तस्यैव संभवादित्यर्थः ॥ ६६ ॥
अहेतुरक्रमं भाति चिति कल्पक्रियागणः । क्षणेनैव यथा स्वप्ने मृतिजन्मादि सत्वराः ॥ ६७ ॥
एवं ब्रह्माण कल्पमहाकल्पादयस्तत्रत्यक्रियागणाश्च निर्हेतुका निष्क्रमा एव सहेतुसंक्रमवत्प्रतिभासन्त इत्याह - अहेतुरिति । मृतिजन्मादयः सत्वरा दीर्घकालरहिताः ॥ ६७ ॥
खमेव पृथ्वी खं शैलाः खमेव दृढभित्तयः । खमेव लोकाः स्पन्दः खं सर्गसंवेदनं चितेः ॥ ६८ ॥
तथा च सर्वं चिदाकाश एवेति फलितमित्याह - खमेवेति । यतश्चितेः स्वात्मन्येव सर्गसंवेदनं नान्यत्रेत्यर्थः ॥ ६८ ॥
व्योमभित्तौ जगच्चित्रं चिद्रङ्गमयमाततम् । नोदेति नास्तमायाति न शाम्यति न ताम्यति ॥ ६९ ॥
चिद्वारिणि जगत्तुङ्गतरङ्गद्रवरूपिणि । किं नु वा कथमुत्पन्नं किं शान्तं च कदा कथम् ॥ ७० ॥
न ताम्यति न ग्लायति ॥ ६९ ॥ ७० ॥
शान्ते महाचिदाकाशे जगच्छून्यत्वशालिनि । चेत्यासंभवतः सन्ति नोदयास्तमयौ कुतः ॥ ७१ ॥
स्तां तर्हि चित एव जगदात्मना उदयास्तमयौ नेत्याह - शान्ते इति । चेत्यासंभवतो यदा जगन्त्येव न सन्ति तदात्मना चित उदयास्तमयौ कुतः । कस्मात्सिध्यत इत्यर्थः ॥ ७१ ॥
पर्वता गगनायन्ते गगनं पर्वतायते । संवेदनप्रयोगेण ब्रह्मणः सर्गता स्थितौ ॥ ७२ ॥
यदि तु मायाविलासदृशा दृश्यते तदा सर्वस्य सर्वरूपता यथेच्छमुपपद्यत इत्याह - पर्वता इति । संवेदनस्य वासनावैचित्र्यानुसारिकल्पनालक्षणेन प्रयोगेण संकल्पेन ॥ ७२ ॥
संविच्चूर्णप्रयोगेण निमेषार्धेन योगिनः । कुर्वन्ति जगदाकाशमाकाशं त्रिजगन्ति च ॥ ७३ ॥
अत एव योगसिद्धानामैच्छिकी विरुद्धकल्पना क्षणात्सिध्यतीत्याह - संविदिति । संविल्लक्षणं यत्सिद्धौषधचूर्ण तत्प्रयोगेण ॥ ७३ ॥
सिद्धसंकल्पनगराण्यसंख्यानि यथाम्बरे । तथा सर्गसहस्राणि सन्ति तानि तु चिन्नभः ॥ ७४ ॥
यथा प्रसिद्धे अम्बरे आकाशे अनन्तानि सिद्धसंकल्पकल्पितानि नगराणि परस्परमसंलग्नान्यन्तर्हितानि सन्ति तथा ब्रह्मणि सर्गसहस्राणि सन्ति ॥ ७४ ॥
महार्णवे यथावर्ता अन्योन्यमपि मिश्रिताः । पृथगेवावतिष्ठन्ते पयसोऽन्ये च नैव ते ॥ ७५ ॥
तत्र दृष्टान्तमाह - महार्णवे इति ॥ ७५ ॥
महाचिति महासर्गा अन्योन्यमपि मिश्रिताः । पृथगेवावतिष्ठन्ते व्यतिरिक्ता न ते ततः ॥ ७६ ॥
सर्गात्सर्गान्तरालोके या प्रबुद्धस्य योगिनः । सिद्धलोकान्तरे प्राप्तिः सैवेति विबुधोक्तयः ॥ ७७ ॥
अन्योन्यमन्तर्हितानामपि सिद्धलोकान्तराणामिच्छयालोकने योगिनो या स्वोपाधेर्मूलचिति प्रविलापनेन परचित्तानुप्रवेशद्वारा तल्लोकानुप्रवेशलक्षणा प्राप्तिः सैव स्वसर्गात्सर्गान्तरालोकनेऽपीति विबुधानां विदुषामुक्तयः । तथैव लीलोपाख्यानादौ वर्णनादिति भावः ॥ ७७ ॥
अविनाशिनि भूतानि स्थितानि परमे शिवे । व्योम्नीव शून्यतोल्लासाः सर्गवर्गा निरर्गलम् ॥ ७८ ॥
एवं च सर्वप्राणिनां तद्भोग्यसर्गाणां च शाश्वते ब्रह्मण्येव विवर्तरूपा स्थितिः फलितेत्याह - अविनाशिनीति ॥ ७८ ॥
परमार्थनिजामोदाः सहजाः सर्गविभ्रमाः । नोद्यन्ति नोपशाम्यन्ति लेखा इव शिलोदरे ॥ ७९ ॥
तथा च परमार्थचिदाकाशस्य निजामोदकल्पाः सर्गविभ्रमास्तत्स्वरूपा एवेति नोत्पत्त्यादिरेषामस्तीत्याह - परमार्थेति । स्फटिकशिलोदरे दृश्यमाना लेखा रेखा इव ॥ ७९ ॥
अन्योन्यंन् कुसुमामोदा मिलिता [मिश्रिता अप्यमिश्रिता इति पाठः ।] अप्यमीलिताः । व्योमरूपास्तथा सर्गा अन्योन्यंन् सिद्धभूमयः ॥ ८० ॥
सिद्धभूमय इवेति शेषः ॥ ८० ॥
संकल्पाकाशरूपत्वात्सर्वानुभववत्स्थितेः । तनुसंकल्पमोहानां सत्याश्च मननोक्तयः ॥ ८१ ॥
अत एव प्रपञ्चस्य स्थूलसंकल्पमोहानां पामराणां दृष्ट्या स्थूलानुभववत्स्थितिः सूक्ष्मसूक्ष्मतरसूक्ष्मतमसंकल्पमोहानां योगिभेदानां दृष्ट्या सूक्ष्मादिभावेन स्थितिरिति सर्वानुभवाननुसारित्वात्स्वस्वानुभवानुसारिण्यः सर्वेषामुक्तयः सत्या इत्याह ##- मननपूर्विका जगत्सौक्ष्म्योक्तयश्च सत्याः न पामरानुभवविरोधेनासत्या मन्तव्या इत्यर्थः ॥ ८१ ॥
न ज्ञानवादिता सत्या न बाह्यानर्थवादिता । यथावेदनमेतानि वेदनानि फलन्ति वः ॥ ८२ ॥
अत एव वादिभेदानां नानाविधकल्पना अपि तत्तद्वासनासंकल्पानुसारेणैव सत्याः न सर्वसंकल्पानुसारेण परमार्थतो वेति तान्संतोष्याह - नेति । ज्ञानवादिता आन्तरविज्ञातमात्रपरमार्थवादिता । बाह्या दृश्या ये अनर्था दुःखहेतवो द्रव्यगुणकर्मादिसप्तपदार्थास्तन्मात्रवादितापि सत्या । यथावेदनं यथासंकल्पं तत्तदर्थक्रियासमर्थतया फलन्ति ॥ ८२ ॥
चिति चित्त्वं यदस्त्यन्तर्जगदित्येव भाविते । भेदो द्रवत्वपयसोरिव नात्रोपपद्यते ॥ ८३ ॥
कस्तर्हि प्रामाणिकः पक्षस्तमाह - चितीति । चित्त्वं त्रिपुटीप्रकाशनशक्तिः । सबाह्याभ्यन्तरो ह्यजः इत्यादि श्रुतेरिति भावः ॥ ८३ ॥
कालो जगन्ति भुवनान्यहमक्षवर्गस्त्वं तानि तत्र च तथेति च सर्वमेकम् । चिद्व्योम शान्तमजमव्ययमीश्वरात्म रागादयः खलु न केचन संभवन्ति ॥ ८४ ॥
उक्तमनूद्य प्रकृते योजयन्नुपसंहरति - काल इति । सर्वाधारः कालस्तदन्तर्गतानि जगन्ति ब्रह्माण्डास्तदन्तर्गतानि चतुर्दशभुवनानि तदन्तर्गता अहंत्वमित्यादयो भोक्तारस्तेषां भोगोपकरणभूतोऽक्षवर्गस्तानि शब्दस्पर्शादिभोग्यानि तत्र च तथा विचित्रो भोगश्चेत्येतत्सर्वमीश्वरात्म मायिकसार्वज्ञ्यसर्वशक्त्यादिसंपन्नं परमार्थतः शान्तमेकं चिद्व्योमैव । एवं खलु निश्चिते केचन रागादयो न संभवन्त्येवेत्ययमेवेच्छादिसर्वदोषजये मुख्योपाय इत्यर्थः ॥ ८४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० उत्तरार्धे दृश्योपदेशयोगो नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे दृश्योपदेशयोगो नाम सप्तत्रिंशः सर्गः ३७