षट्त्रिंशः सर्गः ३६
श्रीवसिष्ठ उवाच ।
चमत्कुर्वन्त्यथानर्था आवर्ता इव वारिणि ।
एकस्वभावाः सकला यथा वारितरङ्गकाः ॥ १ ॥
तुच्छस्यानिच्छतो भोगो न बन्धायेति वर्ण्यते ।
इच्छैव परमो बन्धस्तत्त्यागान्मुक्तिरित्यपि ॥
इह सर्वे पदार्था विरुद्धानेकरूपा अविरुद्धैकरूपाश्च भासन्ते तत्र प्रथमं
रूपं रागद्वेषाद्युद्भवेन दुःखहेतुत्वादनर्थरूपं द्वितीयं तु तदुपशमेन
मोक्षोपयोगीति दर्शयति - चमत्कुर्वन्तीति । सकलाः पदार्था वारिण्यावर्ता इव
भिन्नरूपाः प्रथमं चमत्कुर्वन्ति इच्छोत्पादनेन चित्तं भ्रमयन्ति ।
अथानन्तरमनर्था रागद्वेषनरकादिरूपाः पर्यवस्यन्ति । यथा तरङ्गकाः वारि
जलमात्रं तथा एकस्वभावास्तु न चमत्कुर्वन्ति नाप्यनर्था इति भावः ॥ १ ॥
सर्वस्यैवास्य विश्वस्य निर्ज्ऽनेयज्ञेयरूपिणी ।
परमाकाशतारूपं परोपशमसंश्रया ॥ २ ॥
किं तदविरुद्धं रूपं येन रूपेणैकस्वभावास्तद्दर्शयति - सर्वस्यैवेति ।
सर्वस्याप्यस्य विश्वस्य सत्तामात्ररूपा परमाकाशतैव तादृशं रूपं सा च
सर्वेभ्यो ज्ञेयेभ्यो विशेषरूपेभ्यो निष्कृष्य ज्ञेयं यत्सन्मात्रं तद्रूपिणी अत एव
परेण समाधिलक्षणेनोपशमेन संश्रयो यस्यास्तथाविधा ॥ २ ॥
बालचिन्ता पुरोव्योम्नि न किञ्चिदपि मे यथा ।
तथेदं तत्त्वतो विश्वं सत्यं तु शिशुचेतसि ॥ ३ ॥
प्रसिद्धे व्योम्नि बालबुद्धिवेद्यं यक्षपिशाचादिभीषणरूपं प्रौढबुद्धिवेद्यं
तन्निष्कृष्टं शुद्धरूपं च दृष्टान्ततया प्रसिद्धमित्याह - बालेति । बालस्य
चिन्ता चिन्तनकल्पितरक्षःपिशाचादिरूपं प्रौढस्य दृष्ट्या यथा न किञ्चिदस्ति तथा
विदुषो मे दृष्ट्या विश्वं नास्ति ॥ ३ ॥
अरूपालोकमननं शिलापुत्रकसैन्यवत् ।
रूपालोकमनस्कारा भान्ति केवात्र विश्वता ॥ ४ ॥
शिलापुत्रकसैन्यवदरूपालोकमननमेव विश्वं विद्वद्दृशा तत्र विश्वता केव ।
अज्ञदृशा तु रूपालोकमनस्कारा भान्ति ॥ ४ ॥
रूपालोकमनस्कारसारश्चिन्मात्रतां विना ।
न लभ्यतेऽसावपरं व्योमेवात्र क्व विश्वता ॥ ५ ॥
रूपालोकमनस्कारयोरपि तत्त्वतो विमर्शे चिन्मात्रातिरिक्तं रूपं दुर्लभं दूरे
ताभ्यां विश्वतासिद्धिरित्याह - रूपेति ॥ ५ ॥
विदो वित्त्वं जगद्भ्रान्तिरवित्त्वं तु न विभ्रमः ।
वित्त्वावित्त्वे त्वदायत्ते चित्ताचित्ते यथा तव ॥ ६ ॥
तथा च विदो वेदितृपुरुषस्य वित्त्वमेव जगद्भ्रान्तिः अवेदितृत्वमेव न विभ्रमः
सर्वविभ्रमशन्तिरिति फलितम् । तच्च स्मृत्यस्मृतिवत्स्वायत्तमित्यर्थः ॥ ६ ॥
परमाकाशरूपत्वाच्चिद्व्योम्नो वितताकृतेः ।
न स्वभावविपर्यासः कश्चित्सम्भवति क्वचित् ॥ ७ ॥
अपरं व्योमेव इति यदुक्तं तद्विशदयति - परमाकाशेति । न हि चिज्जडीभवति न वा
व्योम मूर्तिर्भवतीति भावः ॥ ७ ॥
तन्मयस्यास्य विश्वस्य न स्वभावविकारिता ।
विद्यते प्रेक्ष्यमाणापि किमु साम्य भविष्यति ॥ ८ ॥
ब्रह्मदर्शनबाध्यत्वादपि जगन्न ब्रह्मविकार इत्याह - तन्मयस्येति । या यत्र
प्रेक्ष्यमाणापि न विद्यते बाध्यते अस्य सा किमु भविष्यति उत्पत्स्यते स्थास्यते वा ।
नैतत्सम्भावितमित्यर्थः ॥ ८ ॥
सर्वं चिद्व्योम चैवेदं न सत्त्वमहमित्यपि ।
विकाराद्यस्ति न ज्ञप्तावज्ञप्तिं न लभेत्क्वचित् ॥ ९ ॥
अभिमन्तव्यविकारनिरासन्यायेनाभिमन्तृविकारोऽपि निरसनीय इत्याह - सर्वमिति ।
विकार आदिपदाद्बाधश्च ज्ञप्तौ चिदात्मनि नास्त्यतः क्वचिदप्यज्ञप्तिं चिद्व्यतिरिक्तम्
॥ ९ ॥
सर्वं शान्तं शिवं शुद्धं त्वमहन्तादिविभ्रमम् ।
न किञ्चिदपि पश्यामि व्योमजं काननं यथा ॥ १० ॥
संविदाकाशशून्यत्वं यत्तद्विद्धि वचो मम ।
इदं त्वत्संविदाकाशे स्वयमात्मनि तिष्ठति ॥ ११ ॥
इत्थं च मदीयमुपदेशवचो यत्तदपि संविदाकाशरूपं शून्यत्वं विद्धि ।
यस्मादिदं वचस्त्वत्संविदाकाशरूपे आत्मन्येव स्वयं तिष्ठति न जडस्वरूपे ।
शब्दतत्त्वस्यापि चिद्रूपस्फोटात्मनैव निष्कर्षे पर्यवसानादिति भावः ॥ ११ ॥
पदमाहुः परं सद्यदनिच्छोदयमासितम् ।
पाषाणपुरुषस्येव चित्रस्थस्येव चासनम् ॥ १२ ॥
एवं मेयमातृमानानां चिन्मात्रत्वे सिद्धे इच्छाविषयादेरभावादनिच्छोदयं
यदासितमवस्थानं तदेव परमं पदमाहुः ॥ १२ ॥
स विश्रान्तमना मौनी यस्य प्रकृतकर्मसु ।
स्पन्दो दारुनरस्येव विगतेच्छमनाकुलम् ॥ १३ ॥
इच्छाभावेऽपि जीवनहेतुव्यवहारसिद्धिमाह - स इति ॥ १३ ॥
अन्तःशून्यं बहिःशून्यं विरसं गतवासनम् ।
जगद्वेणोरिव ज्ञस्य जीवतो भाति जीवनम् ॥ १४ ॥
एवं व्यवहारेण जीवतो ज्ञस्य कथं जगद्भाति तदाह - अन्तरिति ।
वेणोर्वंशनालस्येवान्तर्बहिश्च शून्यम् ॥ १४ ॥
यस्य न स्वदते दृश्यमदृश्यं स्वदते हृदि ।
सबाह्याभ्यन्तरं शान्तः स वितीर्णो भवार्णवात् ॥ १५ ॥
न स्वदते न रोचते ॥ १५ ॥
उच्यन्तां शब्दजालानि वंशवद्गतवासनम् ।
रसेनानङ्गलग्नेन प्रकृतानन्यचोदनैः ॥ १६ ॥
अस्वदनमेव प्रतीन्द्रियविषयं प्रपञ्चयंस्तदुत्तीर्णतां दर्शयति -
उच्यन्तामित्यादिना । प्रकृतः प्रस्तुतः
प्रारब्धशेषक्षयस्तदुपयुक्तान्यशब्दोच्चारणरहितैर्व्यवहारैरनङ्गलग्नेन
व्यवहाराङ्गदेहादावहम्ममतासम्बन्धरहितेन रसेन माधुर्येण
वंशवन्मुरलीवद्गतवासनं यथा स्यात्तथा शब्दजालान्युच्यन्तामुच्चार्यन्तां
वागिन्द्रियेणेत्यर्थः ॥ १६ ॥
स्पृश्यन्तां स्पर्शनीयानि यथाप्राप्तान्यवासनम् ।
कूटागारवदक्षुब्धमनिच्छममनोदयम् [मनोदयमित्यार्षम् ।] ॥ १७
॥
एवं त्वगिन्द्रियेण त्वया नटभटवेश्यादिकूटनिवासगृहेणेवानिच्छममनोदयं
च स्पर्शनीयानि स्रक्चन्दनादीनि स्पृश्यन्ताम् ॥ १७ ॥
स्वाद्यन्तां रसजालानि विगतेच्छाभयैषणम् ।
अपरागाभिलषणं यथाप्राप्तानि दर्विवत् ॥ १८ ॥
दृश्यन्तां रूपजालानि पुनः प्राप्तान्यवासनम् ।
अरसं निर्मनोमानमगर्वं चित्रनेत्रवत् ॥ १९ ॥
अरसमनिच्छम् । निर्मनोमानं मनो मीयते निर्मीयते येन वासनाजालेन तद्रहितम् ।
अगर्वं निरभिमानम् । चित्रलिखितपुरुषादिनेत्रवत् ॥ १९ ॥
जिघ्र्यन्तान्न् गन्धपुष्पाणि विगतेच्छमवासनम् ।
स्पन्दबन्धोपलग्नानि त्यागाय वनवातवत् ॥ २० ॥
जिघ्र्यन्तां घ्रायन्ताम् । अशिति जिघ्रादेशश्छान्दसः । जिघ्नन्तां इति पाठे
विकरणव्यत्ययः । अपानोपनीतं [अपानोपनीतमिति ऊर्ध्वं प्राण उन्नयत्यपानः
प्रत्यगस्यतीति कठवल्लीश्रुत्यनुरोधेनेति ज्ञेयम् ।] गन्धं स्पन्देन
बध्नात्यसङ्गपाप्मनेति स्पन्दबन्धो घ्राणं तदुपलग्नानि । त्यागाय न तु रागाय ॥
२० ॥
इति चेद्विरसत्वेन बोधयित्वा चिकित्सिताः ।
न भोगरोगास्तद्वच्च शान्त्यै नास्ति कथैव च ॥ २१ ॥
इति उक्तरीत्या अनुक्तेष्वपि कर्मेन्द्रियविषयेषु तद्वत्प्राग्वत् चाज्ज्ञानेन्द्रियवत्त
विरसत्वेन निःसारत्वेन मनो बोधयित्वा भोगरोगाश्चेन्न चिकित्सितास्तदा दुःखशान्त्यै
कथैव नास्ति चादनर्थपरम्परोद्भवश्चास्तीत्यर्थः ॥ २१ ॥
यः स्वादयन्भोगविषं रतिमेति दिने दिने ।
सोऽग्नौ स्वमूर्ति ज्वलिते कक्षमक्षयमुज्झति ॥ २२ ॥
तदेवाह - य इति । कक्षं तृणपूलम् । अक्षयमखण्डितम् । अजस्रमिति यावत् । उज्झति
क्षिपति ॥ २२ ॥
निरिच्छत्वं समाधानमाहुरागमभूषणाः ।
यथा शाम्येन्मनोऽनिच्छं नोपदेशशतैस्तथा ॥ २३ ॥
अतो भोगेच्छात्याग एव म् मनःशान्तौ मुख्यो हेतुरिति स्तौति - निरिच्छत्वमिति ॥ २३ ॥
इच्छोदयो यथा दुःखमिच्छाशान्तिर्यथा सुखम् ।
तथा न नरके नापि ब्रह्मलोकेऽनुभूयते ॥ २४ ॥
नापि ब्रह्मलोके इति । तथा चोक्तं ययातिना - यच्च कामसुखं लोके यच्च दिव्यं
महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् । इति ॥ २४ ॥
इच्छामात्रं विदुश्चित्तं तच्छान्तिर्मोक्ष उच्यते ।
एतावन्त्येव शास्त्राणि तपांसि नियमा यमाः ॥ २५ ॥
एतावन्त्येतावन्मात्रपर्यवसितानि ॥ २५ ॥
यावती यावती जन्तोरिच्छोदेति यथा यथा ।
तावती तावती दुःखबीजमुष्टिः प्ररोहति ॥ २६ ॥
यथा यथेच्छा तनुतां याति जन्तोर्विवेकतः ।
तथा तथोपशाम्यन्ति दुःखचिन्ताविषूचिकाः ॥ २७ ॥
यथा यथेच्छा घनतां याति लोकस्य रागतः ।
तथा तथा विवर्धन्ते दुःखचिन्ताविषोर्मयः ॥ २८ ॥
लोकस्य जनस्य ॥ २८ ॥
इच्छा चिकित्स्यते व्याधिर्न स्वयत्नौषधेन चेत् ।
तदत्र बलवन्मन्ये विद्यते नौषधान्तरम् ॥ २९ ॥
तच्चिकित्सायां च धैर्यलक्षणः पुरुषप्रयत्न एवौषधं नान्यदित्याह - इच्छेति
॥ २९ ॥
इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते ।
स्वल्पमप्यनुगन्तव्यन्न् मार्गस्थो नावसीदति ॥ ३० ॥
स्वल्पमपीति । अल्पाल्पेच्छानिरोधाभ्यासक्रमेण सर्वत उपशमोद्युक्तेन
भाव्यमित्यर्थः । मार्गस्थः सन्मार्गप्रविष्टः ॥ ३० ॥
यस्त्विच्छातानवे यत्नं न करोति नराधमः ।
सोऽन्धकूपे स्वमात्मानं दिनानुदिनमुज्झति ॥ ३१ ॥
दिनानुदिनं प्र्तिदिनम् ॥ ३१ ॥
दुःखप्रसवशालिन्या बीजमिच्छैव संसृतेः ।
सम्यग्ज्ञानाग्निदग्धा सा न भूयः परिरोहति ॥ ३२ ॥
आत्यन्तिकेच्छाबाधस्तु ज्ञानेन तन्मूलनाशादेवेत्याह - दुःखेति ॥ ३२ ॥
इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् ।
इच्छानुत्पादने यत्नः क्रियतां किं वृथाभ्रमैः [वृथाश्रमैः
इत्युभयत्र पाठः ।] ॥ ३३ ॥
तस्या अवेदनमसत्त्वापादनम् । विद सत्तायाम् भावे ल्युट् । वृथाभ्रमैर्यत्नान्तरैः
॥ ३३ ॥
शास्त्रोपदेशगुरवः प्रेक्ष्यन्ते किमनर्थकम् ।
किमिच्छाननुसन्धानसमाधिर्नाधिगम्यते ॥ ३४ ॥
इच्छाप्रशमनयत्नाभावे शास्त्रादिवैयर्थ्यमपीत्याह - शास्त्रेति ।
समाधिश्चित्तसमाधानोपायः किं नाधिगम्यते किमर्थं नाश्रीयते ॥ ३४ ॥
यस्येच्छाननुसन्धानमात्रे दुःसाध्यता मतेः ।
गुरूपदेशशास्त्रादि तस्य नूनं निरर्थकम् ॥ ३५ ॥
मतेः स्वविवेकात् ॥ ३५ ॥
इच्छाविषविकारिण्यामन्त एव नृणामलम् ।
दुःखप्रसरकारिण्या हरिण्या जन्म जङ्गले ॥ ३६ ॥
इच्छाविषविकारिण्यं संसृतौ नृणामन्तो मृत्युरेव । यथा हरिण्या
व्याघ्रादिसङ्कुले जङ्गले मृत्युरेव तद्वत् ॥ ३६ ॥
न वालीक्रियते त्वीषदात्मज्ञानाय चेदसौ ।
इच्छोपशान्तिः क्रियतां तयालं तदवाप्यते ॥ ३७ ॥
असौ ना इच्छया चेन्न बालीक्रियते बालवच्चपलो न क्रियते तदा अत्मज्ञानाय तु ईषदेव
प्रयत्नः अत इच्छोपशान्तिरेव क्रियतां तयैव तज्ज्ञानमवाप्यते ॥ ३७ ॥
निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् ।
यथाशक्ति जयेदिच्छां किमेतावति दुष्करम् ॥ ३८ ॥
जरामरणजन्मादि करञ्जखदिरावलेः ।
बीजमिच्छा सदैवान्तर्दह्यतां शमवह्निना ॥ ३९ ॥
सदैवाभ्यस्तेन शमवह्निना दह्यताम् ॥ ३९ ॥
यतो यतो निरिच्छत्वं मुक्ततैव ततस्ततः ।
यावद्गति यथाप्राणं हन्यादिच्छां समुत्थिताम् ॥ ४० ॥
यावद्विवेकवैराग्याद्युपायप्राप्ति । यथाप्राणं यथाधैर्यादिबलम् ॥ ४० ॥
यतो यतश्च सेच्छत्वं बन्धपाशास्ततस्ततः ।
पुण्यपापमया दुःखराशयो विततार्तयः ॥ ४१ ॥
दस्युभिर्लुण्ठकैर्मुषितस्यापहृतसर्वस्वस्येव ॥ ४१ ॥
इच्छानिरासरहिते गते साधोः क्षणेऽपि च ।
दस्युभिर्मुषितस्येव युक्तमाक्रन्दितुं चिरम् ॥ ४२ ॥
यथा यथास्य पुंसोऽन्तरिच्छा समुपशाम्यति ।
तथा तथास्य कल्याणं मोक्षाय परिवर्धते ॥ ४३ ॥
कल्याणं साधनचतुष्टयम् ॥ ४३ ॥
आत्मनो निर्विवेकस्य यदिच्छापरिपूरणम् ।
संसारविषवृक्षस्य तदेव परिषेचनम् ॥ ४४ ॥
विषयोपभोगेनेच्छायाः परिपूरणं यत्तदेव ॥ ४४ ॥
हृद्वृक्षजाः स्वसुखदुःखकुबीजकोशौ
वैरादिवाश्रयकृतादशुभाच्छुभाच्च ।
आसाद्य दुष्कृतकृशानुशिखाः शितान्ता इच्छाश्छमच्छमिति
पुंस्पशुमादहन्ति ॥ ४५ ॥
हृत् हृदयं तल्लक्षणाद्वृक्षादाश्रयादिन्धनाच्च जाताः शितान्ताः निशिताग्ना
इच्छा इच्छारूपा दुष्कृतकृशानुशिखास्तत्रस्थं चिदाभासरूपं पुंस्पशुं
जीवलक्षणं पशुं स्वाश्रये हृदि
कृतादऽसुभात्पापलक्षणाच्छुभात्पुण्यलक्षणाच्च
स्वाश्रयदूषणापराधादुत्पन्नाद्वैरादिव मोहधूमैरन्धीकृत्य
स्नेहपाशैर्दृढं बद्ध्वा च आसाद्य पातयित्वा तदीयौ सुखदुःखकुबीजानां
कोशौ कुसूलस्थानीयौ तद्वृषणौ आसमन्ताद्दहन्ति वार्ताकवद्भर्जयन्ति
[वार्ताकं वृन्ताकम् ।] । छमच्छमितीति तद्वसादाहोत्थशब्दानुकरणम् ।
इच्छाः कर्त्र्यः । दुष्कृतकृशानुशिखाः आसाद्य प्रज्वाल्य तदीयकुबीजकोशौ
दहन्तीति वा । कुबीजकोशौ आसाद्य पुंस्पशुं दहन्तीति वा यथेच्छमन्वयः । पुमः
खय्यमपरे इति रुत्वे सम्पुङ्कानाम् इति सत्वम् । पुम्पशुं इति पाठस्तु च्छान्दसः ॥
४५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे
उत्तरार्धे संसारबीजकथनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
संसारबीजकथनं नाम षट्त्रिंशः सर्गः ॥ ३६ ॥