०३५

पञ्चत्रिंशः सर्गः ३५

श्रीवसिष्ठ उवाच ।

देशाद्देशान्तरं दूरं प्राप्तायाः संविदः क्षणात् ।
यद्रूपममलं मध्ये परं तद्रूपमात्मनः ॥ १ ॥

सप्रपञ्चाप्रपञ्चात्मवस्त्वखण्डैक्यदृष्टये ।
सत्यानृतोभयाभासं ब्रह्मरूपं प्रपञ्च्यते ॥

सङ्क्षुब्धमक्षुब्धमिति द्विरूपं ब्रह्म विरोधाभासोक्तिभिः
प्रपञ्चयिष्यन्नक्षुब्धरूपं प्रथमं प्रागुक्तोपायपरिचितं
तन्निष्ठताविधानाय स्मारयति - देशादिति । क्रमिकविषयद्वयान्तरालकाले
यन्निर्विषयं रूपं तत्परमक्षुब्धमित्यर्थः ॥ १ ॥

गच्छञ्छृण्वन्स्पृशञ्जिघ्रन्नुन्मिषन्निमिषन्हसन् ।
नूनन्न् निरामयत्वाय नित्यमेतन्मयो भव ॥ २ ॥

एतन्मयो निर्विषयचिन्मात्रनिष्ठो नूनमवश्यं भव ॥ २ ॥

तत एव निराभासात्सत्यान्निर्वासनैषणात् ।
यथास्थितं यथाचारमचलाऽमरशैलवत् ॥ ३ ॥

यथास्थितं जीवन्मुक्तस्थितिमनतिक्रम्य यथाचारं स्वकुलाचारमप्यनतिक्रम्य
व्यवहरन्नपि ततस्तादृशनिष्ठायाः सकाशादचला नचलैव । नञर्थोऽयमकारो न
नञ् । अचला तन्निष्ठतैव विद्येत्यर्थः ॥ ३ ॥

एतद्रूपमविद्यायाः प्रेक्षिता यन्न लभ्यते ।
प्रेक्षिता लभ्यते चेत्सा तद्विद्यैव पराभवत् ॥ ४ ॥

वक्ष्यमाणोपयोगितया तद्विरुद्धामविद्यां लक्षयति - एतदिति । प्रेक्षिता
प्रमाणैर्विमृष्टा ॥ ४ ॥

अविद्यासम्भवाच्चेत्यचित्त्वे सम्भवतः क्व किम् ।
चेत्यते कथमेवान्तः शान्तिरेव बलोदिता ॥ ५ ॥

चेत्यचित्त्वे चिच्चेत्यभेदौ । भेदासम्भवे च स्वान्तरेव कथं चेत्यते चेतनाय
व्याप्रियते । अतो विमर्शे शान्तिर्निर्वेद्यवेदनचिन्मात्रस्थितिरेव बलादुदितेत्यर्थः ॥ ५ ॥

सत्यं ब्रह्म जगच्चैकं स्थितमेकमनेकवत् ।
सर्वं वाऽसर्ववद्भाति शुद्धन्न् चाशुद्धवत्ततम् ॥ ६ ॥

विद्याविद्यामिश्रितया आन्तरालिकभूमिकारूढविवेकिदृष्ट्या तु ब्रह्म
नियतैकरूपमप्यनियतविरुद्धनानास्वभावमिव तिष्ठतीति विरोधाभासैः
प्रमाणयुक्त्यनुभवादिभिश्चासर्गसमाप्तेस्तत्प्रपञ्चयति - सत्यमित्यादिना ।
ब्रह्म जगच्च सत्यं परमार्थत एकमेव तदेकमेव अनेकवत्तद्विरुद्धरूपेण
स्थितमिति योज्यम् । एवमग्रेऽपि । सर्वं पूर्णम् ॥ ६ ॥

अशून्यं शून्यमिव च शून्यन्न् वाऽशून्यवत्स्फुटम् ।
स्फारमस्फारमिव तदस्फारं स्फारसन्निभम् ॥ ७ ॥

शून्यमिव प्रलये । अशून्यवत्सर्गे । कालतो देशतस्तु स्फारम् ॥ ७ ॥

अविकारं विकारीव समं शान्तमशान्तवत् ।
सदेवासदिवादृश्यं तदेवातदिवोदितम् ॥ ८ ॥

अदृश्यं द्रष्टुमशक्यमित्यसदिव ॥ ८ ॥

अविभागं विभागीव निर्जाड्यं जडवद्गतम् ।
अचेत्यन्न् चेत्यभावीव निरंशं सांशशोभनम् ॥ ९ ॥

सांशमिव शोभनं शोभमानम् ॥ ९ ॥

अनहं सोऽहमिव तदनाशमिव नाशवत् ।
अकलङ्कं कलङ्कीव निर्वेद्यं वेद्यवाहिवत् ॥ १० ॥

नाशवदिव । वेद्यं वहति प्रथनेन निर्वहति तच्छीलमिव ॥ १० ॥

आलोकि ध्वान्तघनवन्नववच्च पुरातनम् ।
परमाणोरपि तनु गर्भीकृतजगद्गणम् ॥ ११ ॥

आलोकि स्वप्रकाशम् । राहोः शिर इतिवद्भेदकल्पनादिभिः ॥ ११ ॥

सर्वात्मकमपि त्यक्तदृष्टं कष्टेन भूयसा ।
अजालमपि जालाढ्यं चाशेषवदनेकधा ॥ १२ ॥

भूयसा यज्ञदानतपश्चित्तशुद्धिवैराग्यश्रवणमननादिना कष्टेन
पुरुषप्रयत्नेन त्यक्तं दृष्टं दृश्यजातं येन । अनेकधा स्थितमप्यशेषवत्
द्वितीयपरिशेषशून्यम् ॥ १२ ॥

निर्मायमपि मायांशुमण्डलामलभास्करम् ।
ब्रह्म विद्धि विदान्नाथमपामिव महोदधिम् ॥ १३ ॥

मायालक्षनस्यांशुमण्डलस्य रश्मिजालस्यामलभास्कररूपम् । वित्
वेदनमात्रस्वरूपमपि । अप्यर्थे हिशब्दः । विदां सर्ववेदनानां नाथं
स्वामिभूतमिव सर्वज्ञम् ॥ १३ ॥

जगद्रत्नमहाकोशं तुलायां तूलकाल्लघु ।
मायामरीचिशशिनमपि नेक्षणगोचरम् ॥ १४ ॥

ब्रह्माण्डात्मना जगद्रत्नमहाकोशम् । गुरुतममपि विवेकतुलायां तोलने
गुरुत्वमात्रस्यानृतत्वात्तूललवादपि लघु ॥ १४ ॥

अनन्तमपि निष्पारं न च क्वचिदपि स्थितम् ।
आकाशे वनविन्यासनगनिर्माणतत्परम् ॥ १५ ॥

अनन्तं कालतः निष्पारं देशतः । तथापि क्वचिद्देशे काले वा नावस्थितम् । आकाशे
शून्यदेशेऽपि ॥ १५ ॥

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १६ ॥

अकर्तृकर्मकरणमकारणमकारकम् ।
अन्तःशून्यतयैवैतच्चिराय परिपूरितम् ॥ १७ ॥

परिपूरितं कर्त्रादिकारकैः ॥ १७ ॥

जगत्समुद्गकमपि नित्यं शून्यमरण्यवत् ।
अनन्तशैलकठिनमप्याकाशलवान्मृदु ॥ १८ ॥

प्रत्येकं प्रत्यहं प्रायः पुराणं पेलवं नवम् ।
आलोकमन्धकाराभन्न् तमस्त्वालोकमाततम् ॥ १९ ॥

प्रत्येकं प्रतिवस्तु । प्रत्यहं प्रतिकालम् । जगत्तिरोभावकत्वात्तमः । अप्यर्थे तु
शब्दः ॥ १९ ॥

प्रत्यक्षमपि दुर्लक्ष्यन्न् परोक्षमपि चाग्रगम् ।
चिद्रूपमेव च जडं जडमेव चिदात्मकम् ॥ २० ॥

अहमेवानहम्भावमनहं वाऽहमेव च ।
अन्यदेव तदेवाहमहमेवान्यदेव तत् ॥ २१ ॥

अनहन्न् युष्मदर्थः । अन्यत् इदमर्थं इत्यपौनरुक्त्यम् ॥ २१ ॥

अस्य पूर्णार्णवस्यान्तरिमे त्रिभुवनोर्मयः ।
स्फुरन्त इव तिष्ठन्ति स्वभावद्रवतात्मकाः ॥ २२ ॥

उक्तेष्वर्थेषु मायामात्रत्वमभिप्रेत्योपपत्तीराह - अस्येत्यादिना ॥ २२ ॥

बिभर्ति सर्वमङ्गस्थं तुषारमिव शुक्लताम् ।
भाति सर्वस्त्वनेनैव तुषारेणेव शुक्लता ॥ २३ ॥

अदेशकालावयवोऽप्येष देवो दिवानिशम् ।
असज्जगत्तनोतीव यथा वारितरङ्गकम् ॥ २४ ॥

एतस्मिन्विकसन्तीमा विपुलाकाशकानने ।
जगज्जरठमञ्जर्यः प्रसरत्पत्रपञ्चकाः ॥ २५ ॥

प्रसरन्ति दलस्थानीयानि पञ्चभूतलक्षणपञ्चकानि यासाम् ॥ २५ ॥

एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया ।
अत्यन्तनिर्मलाकारः स्वयं मुकुरतां गतः ॥ २६ ॥

स्वप्रतिबिम्बस्य वर्णितस्य जीवजगद्रूपस्याकारान्तरस्य । मुकुरतां दर्पणताम् ।
अपरिच्छिन्नब्रह्मसंविदि वृक्षो गगनोदुम्बरस्तदीयफलकल्पस्य ब्रह्माण्डस्य
स्वेच्छाकल्पिते त्रैलोक्यावयवे उज्ज्वला दीप्यमानाश्चन्द्रसूर्यादयस्तेभ्य
उद्यच्चक्षुरादिकरणजालं च जीवभूतस्यात्मनः सर्गोपलम्भे रूपादिदर्शने
उपकरणतया चमत्कुर्वन्तीत्यर्थः ॥ २६ ॥

व्योमवृक्षफलस्यास्य स्वेच्छावयव उज्ज्वलाः ।
सर्गोपलम्भ उद्यच्च चमत्कुर्वन्ति संविदि ॥ २७ ॥

अन्तस्थेन बहिष्ठेन नानानानातयात्मनि ।
एष सोऽन्तर्बहिर्भाति भावाभावविभावया ॥ २८ ॥

स एष परमात्मा अन्तस्थेन वासनामयप्रपञ्चेन बहिष्ठेन भुवनात्मना
जाग्रत्स्वप्नयोर्नानातया सुषुप्तावनानातया च भावाभावविभावनया
स्वयमेवान्तर्बहिश्च भाति नान्यदतोऽणुमात्रमप्यस्तीत्यर्थः ॥ २८ ॥

एतद्रूपा पदार्थश्रीरेतस्मिन्नेतदिच्छया ।
चमत्करोत्येतदर्थं जिह्नेव स्वास्यकोटरे ॥ २९ ॥

एतदेव प्रपञ्चयति - एतद्रूपेत्यादिना ॥ २९ ॥

अस्याम्भसो द्रवत्वं यत्तदिदं जगदुच्यते ।
संवित्स्वादूपलम्भाङ्गं भुवनावर्तवृत्तिमत् ॥ ३० ॥

संविदैव स्वादु यथा स्यात्तथा उपलभ्यन्त इत्युपलम्भान्यङ्गानि
रूपरसाद्येकदेशा यस्य ॥ ३० ॥

शाम्यत्यत्र पदार्थश्रीः सर्वासामेव भास्वति ।
एतस्मादेव चोदेति स्वालोक इव तेजसः ॥ ३१ ॥

सर्वासामेव सूर्यचन्द्राग्निकरणादिभासां रूपादिपदार्थश्रीरत्रास्मिन्नेव भास्वति
सुषुप्तप्रलययोः शाम्यति जाग्रत्स्वप्नयोश्चैतस्मादेवोदेति ।यथा सूर्यादितेजसः
स्वालोकः प्रभामण्डलम् ॥ ३१ ॥

इदमेव जगत्सर्वं शुक्लत्वं तुहिने यथा ।
अतए एताः प्रवर्तन्ते विद इन्दोरिवांशवः ॥ ३२ ॥

इदं ब्रह्मा । अतोऽस्या विदश्चिद्रूपब्रह्मणः सकाशात् । एताः पदार्थश्रियः । ३२ ॥

एतस्माद्रङ्गतोऽनङ्गाज्जगच्चित्रमिदं स्थितम् ।
विद्ध्यभावविकारादिशान्तमेतन्मयं ततम् ॥ ३३ ॥

अनङ्गान्निरवयवाद्रङ्गतो रञ्जकद्रव्यात् ।
जन्मादिभावविकारैरादिपदात्स्वगतवैचित्र्यैश्च शून्यम् । एतन्मयं चिन्मयमेव
विद्धि ॥ ३३ ॥

अस्माद्वनतरोरेताः स्वरूढा गगनाङ्गणे ।
दृश्यशाखाः प्रवर्तन्ते जगज्जालगुलुच्छकाः ॥ ३४ ॥

व्ययोदयवती नूनमत्र दृश्यतरङ्गिणी ।
नानातानन्तकुसुमा वहत्यविचलाचले ॥ ३५ ॥

अत्र एतस्मिन्नविचले अचले पर्वते व्ययोदयौ ह्रासवृद्धी तद्वती दृश्यलक्षणा
तरङ्गिणी यदी वहति ॥ ३५ ॥

अस्मिन्व्योमात्मके रङ्गे भुवनाभिनयभ्रमैः ।
नृत्यत्यविरतारम्भं वारैर्नियतिनर्तकी ॥ ३६ ॥

वारैः कल्पभेदरूपैर्वासरैर्नियतोत्सववासरैश्च ॥ ३६ ॥

जगत्कोटिमहाकल्पकल्पोन्मेषनिमेषणः ।
विताने नाट्यते भूयो जन्यते कालबालकः ॥ ३७ ॥

तया नियतिनर्तक्या ब्रह्मरङ्गमायाविताने काललक्षणः स्वबालकः पुत्रो
भूयोभूयो नाट्यते उपसंहृत्य च भूयो जन्यते । स कीदृशः । जगतां
ब्रह्माण्डानां कोटयो महाप्रलया अवान्तरप्रलयाश्च नेत्रोन्मेषनिमेषणे यस्य
तथाविधः ॥ ३७ ॥

उद्यत्स्वपि जगत्स्वेष शान्तमेवावतिष्ठते ।
अनिच्छ एव मुकुरः प्रतिबिम्बशतेष्विव ॥ ३८ ॥

अनिच्छ इच्छादिविक्रियाशून्यः ॥ ३८ ॥

भूतानां वर्तमानानां सर्गाणां सम्भविष्यताम् ।
एषोऽकारणकं बीजं सर्गाणामिव कारणम् ॥ ३९ ॥

भौतिकसर्गाणां कारणं भूतपञ्चकमिव ॥ ३९ ॥

अस्योन्मेषो जगल्लक्ष्मीर्निमेषः प्रलयागमः ।
अनुन्मेषनिमेषोऽसावात्मन्येवावतिष्ठते ॥ ४० ॥

उन्मेषो निमेषश्च समा यस्य । निर्मायस्त्वसौ अनुन्मेषनिमेषः । अत एव
स्वात्मन्येवावतिष्ठते ॥ ४० ॥

उद्यन्त्यमूनि सुबहूनि महामहान्ति सर्गागमप्रलयजन्मदशा जगन्ति ।
सर्वाणि तान्ययमपारस्वरूप एव प्रस्पन्दनानि मरुदेव यथास्व शान्तम् ॥ ४१ ॥

परिमाणतो महान्ति च तानि कालसङ्ख्यावैभवादितो महान्ति च महामहान्ति जगन्ति
ब्रह्माण्डास्तेषां तदन्तर्गतपदार्थानां च सर्गः अगमनमगमः स्थितिः
प्रलयश्च तत्र प्राणिनां जन्म देहपरिग्रहः बाल्यादिदशा जाग्रदादिदशा
उत्कर्षापकर्षदशाश्चेत्यमूनि चिदाकाशे उद्यन्ति तानि
सर्वाण्यपारोऽपरिच्छिन्नस्वरूपश्चिदाकाश एव यथा मरुत्प्रस्पन्दनानि मरुदेव न
वस्त्वन्तरमिति बुद्ध्वाशान्तमास्वेत्यर्थः ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
परब्रह्मस्वरूपवर्णनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परब्रह्मस्वरूपवर्णनं नाम पञ्चत्रिंशः सर्गः ॥ ३५ ॥