चतुस्त्रिंशः सर्गः ३४
श्रीवसिष्ठ उवाच ।
प्राप्तेषु सुखदुःखेषु यो नश्यति स नश्यति ।
यो न नश्यत्यनाशोऽसावलं शास्त्रोपदेशनैः ॥ १ ॥
दृष्टसृष्टिर्जगत्तस्यादर्शनादेव सङ्क्षयः ।
इति यत्प्रस्तुतं तस्य वर्ण्यन्तेऽत्रोपपत्तयः ॥
वेदनोत्थं जगदहं चिति शाम्यत्यवेदनात् इति यदुक्तं
तत्रोपपत्तीर्विवक्षुर्भगवान्वसिष्ठः प्रथमं नश्वरीभ्यः
सुखदुःखानुभवत्रिपुटीभ्यः पृथक्कृत्यानश्वरमात्मानं
दर्शयंस्तद्दर्शनादेव सर्वशास्त्रोपदेशानां चरितार्थतेत्याह - प्राप्तेष्विति ॥
१ ॥
यस्य चेच्छोदयस्तस्य सन्त्यवश्यं सुखादयः ।
ते चेत्सम्यक्चिकित्स्यन्ते पूर्वमिच्छैव मुच्यताम् ॥ २ ॥
यस्त्विच्छादिमान् स नित्यदुःखी नात्मा
किन्त्विच्छात्यागाद्युपायचिकित्सनीयसंसृतिरोगकोटावेवेत्याशयेनाह - यस्य चेति
॥ २ ॥
अहं जगदिदं भ्रान्तिर्नास्त्येव परमे पदे ।
इदं शान्तमनालम्बं सर्वं निर्वाणमव्ययम् ॥ ३ ॥
यस्त्वविनाश्यात्मा तत्रेच्छाद्यभिमानी तदभिमन्तव्यं जगच्च न
सम्भाव्यमेवेत्याह - अहमिति ॥ ३ ॥
अहं ब्रह्म जगच्चेति शब्दसम्भ्रमविभ्रमः ।
सर्वस्मिञ्छान्त आकाशे केन नामोपकल्पितः ॥ ४ ॥
एवं चाहमादिशब्दास्तत्र निर्विषया इत्याह - अहमिति ॥ ४ ॥
नेहास्त्यहं न च जगन्न च ब्रह्मादिशब्दकाः ।
शान्तस्यैकस्य सर्वत्वात्कर्ता भोक्तेह कः कुतः ॥ ५ ॥
तदभावे दूरापास्तैव कर्तृभोक्त्रादिकथेत्याह - नेहेति ॥ ५ ॥
उपदेश्यातिशायित्वात्सर्वापह्नव एव च ।
कृतोऽयं स च सत्यात्मा त एवाहं विशिष्यते ॥ ६ ॥
ननु सर्वापह्नवे उपदेशादिरप्यपह्नूयेत । तथा च तद्बोधोपायो न लभ्येत इति चेदस्तु
नामैवम् । उपदेश्यस्य ब्रह्मणः
सर्वापह्नवेऽप्यनपह्नवादपह्नूयमानानृतसर्वार्थेभ्यः
पारमार्थिकसत्यप्रत्यगात्मस्वरूपातिशयवत्त्वाच्चापह्नवोपायेन
तद्बोधानन्तरमुपदेशाद्युपायस्यानपेक्षणा चेत्याशयेनाह - उपदेश्येति ।
विशिष्यते परिशिष्यते अतिशय्यते च ॥ ६ ॥
अग्रस्थसिद्धसञ्चारो ज्ञायते नापि दारुणः ।
यथैकपार्श्वसंसुप्तनरः स्वप्नाभ्रगर्जितम् ॥ ७ ॥
अस्त्वेवं तथापि कथमदर्शनमात्रेण दृश्योपशमस्तत्राह - अग्रस्थेति । यथा
पुरोभागेऽपि स्थितानामन्तर्धानशक्त्या अन्तर्हितानां सिद्धानां पिशाचादीनां च
सञ्चारो व्यवहारो दारुणो भयङ्करोऽपि न ज्ञायते । यथा वा एकशय्याप्रदेशे
सुप्तस्य नरान्तरस्य स्वप्ने प्रसिद्धानामभ्राणां गर्जितं दारुणमपि न ज्ञायते
तच्चास्मद्दृष्ट्या नास्त्येव तद्वदित्यर्थः ॥ ७ ॥
ज्ञप्तौ नास्ति यतस्तेन सिद्धाचारो न लक्ष्यते ।
स्वभाव इति सर्वेण ज्ञप्तिस्थो ह्यनुभूयते ॥ ८ ॥
तदेवाह - ज्ञप्ताविति । सर्वेणापि द्रष्ट्रा स्वज्ञप्तिस्थोऽनुभूयते इति स्वभावो हि
प्रसिद्ध इत्यर्थः ॥ ८ ॥
ज्ञप्तिरप्यात्मभूतैव सर्वं भाति हि तन्मयम् ।
तस्मात्साहं जगत्सर्वमभिन्नं परमात्मनः ॥ ९ ॥
अस्त्वेवं किं ततस्तत्राह - ज्ञप्तिरपीति ॥ ९ ॥
ज्ञप्तिर्जगत्तया भाति सङ्कल्पस्वप्नयोरिव ।
अनानावयवोदेति जलमूर्मितया यथा ॥ १० ॥
अनानावयवापि ज्ञप्तिर्नानावयवजगत्तया भाति ॥ १० ॥
एकात्मैवोदये ज्ञप्तेर्नानातामिव चागतः ।
अज्ञानात्स त्ववस्तुत्वात्प्रेक्षितो नोपलभ्यते ॥ ११ ॥
नानातामिवागत एक आत्मैव ज्ञप्तेरज्ञानाद्विवर्तरूप उदयः । स
तूदयोऽवस्तुत्वात्तत्त्वदृशा प्रेक्षितो नोपलभ्यते ॥ ११ ॥
यथा स्वावयवानेव सर्वानवयवी भवेत् ।
नित्यानवयवं शान्तं ब्रह्मैवेदं तथा जगत् ॥ १२ ॥
यथाऽयमनवयवोऽपि जीवः स्वान् हस्तपादाद्यवयवान्
कल्पयन्स्वप्नमनोरथादाववयवी भवेत्तथा ब्रह्मापीत्यर्थः ॥ १२ ॥
भाण्डलक्षाणि धत्तेऽन्तश्चिद्रूपकनकेष्टिका ।
यदेव सा चेतयते जगदादीव वेत्ति तत् ॥ १३ ॥
चिद्रूपा कनकेष्टिका कुलाली चेतयते स्मरति ॥ १३ ॥
ब्रह्मैव कचतीवेदं सत्तयाच्छजगत्तया ।
चिद्रूपत्वाद्द्रवात्मत्वात्तरङ्गादितयाब्धिवत् ॥ १४ ॥
यद्यच्चेतयतेऽन्तस्तु जगदादीव पश्यति ।
अरूपमपि रूपं स्वं यन्न चेतयते न तत् ॥ १५ ॥
यन्न चेतयते नाध्यस्यति न तत्पश्यति ॥ १५ ॥
चेतनाचेतनत्वोक्ती तस्येशत्वात्स्वदेहगे ।
उपदेशार्थमेवोक्ते न सद्विषयमर्थतः ॥ १६ ॥
ईशत्वान्मायाशबलत्वेन सर्वशक्तिसम्पन्नत्वात्स्वदेहभूतमायागते । इदं तु
वचनमर्थतः सद्विषयं परमार्थगोचरं नेत्यर्थः ॥ १६ ॥
न जगत्सन्न चैवासद्भासते चेतनाच्चिति ।
अचेतनान्न कचति क इवार्थग्रहोऽत्र नः ॥ १७ ॥
अचेतनं चेतनं च स्पन्दास्पन्दवदात्मनः ।
स्वायत्ते न कदर्थस्थे स्वस्थपाषाणवत्स्थिते ॥ १८ ॥
अस्त्वेवं किं ततस्तत्राह - अचेतनमिति । स्वायत्ते स्वाधीने न कदर्थस्थे
यत्नश्रमसाध्ये । यथा स्वस्थस्य निश्चलस्य स्फटिकपाषाणस्य
स्वान्तर्गतप्रतिबिम्बसहस्रस्पन्दास्पन्दे न यत्नसाध्ये तद्वत्स्थिते ॥ १८ ॥
यस्येक्षितस्य नो सत्ता नाधारो न च कारणम् ।
सोऽहमित्येव यो यक्षो न जाने कुत उत्थितः ॥ १९ ॥
सर्वकल्पनामूलस्यैकस्याहङ्कारस्यैव परीक्षणेन मिथ्यात्वावधारणे
सर्वजगन्मिथ्यात्वं सिद्धमित्याशयेनाह - यस्येति ॥ १९ ॥
यस्याहमिति यक्षस्य सत्तैवास्ति न सत्यतः ।
अहो नु चित्रं तेनेमे भवन्तो विवशीकृताः ॥ २० ॥
सत्यतो वस्तुतः । सत्ता विद्यमानता ॥ २० ॥
काकतालीयवद्भ्रान्तमहं ब्रह्मणि भासते ।
स्वमेव रूपं दृग्भ्रान्तौ केशोण्ड्रकमिवाम्बरे ॥ २१ ॥
काकतालीयवदाकस्मिकम् ॥ २१ ॥
ब्रह्मैवाहं जगच्चात्र कुतो नाशसमुद्भवौ ।
अतो हर्षविषादानां किन्त्वेव कथमास्पदम् ॥ २२ ॥
एवं च यत्फलितं तदाह - ब्रह्मैवेति । किमास्पदं विषय आश्रयश्च ॥ २२ ॥
सर्वेश्वरत्वादीशस्य विभातीदं प्रचेतितम् ।
अचेतितं च नो भाति तेनाचेतितमस्तु ते ॥ २३ ॥
वर्णितां दृष्टसृष्टिकल्पनाममूद्य तत्फलमाह - सर्वेश्वरत्वादिति । ते तव
अचेतितं जगददर्शनमस्तु । तदेव सर्वदृश्यमार्जनरूपा मुक्तिः फलमित्यर्थः ॥
२३ ॥
काकतालीयवच्चित्त्वाज्जगतो भाति ब्रह्म खम् ।
स्वप्नसङ्कल्पपुरवत्तत्तस्माद्भिद्यते कथम् ॥ २४ ॥
वर्णितरीत्या जगतोऽपि चित्त्वाद्ब्रह्म खमेव
स्वप्नसङ्कल्पपुरवत्काकतालीयवदकस्मादन्यथा भाति । वस्तुतस्तु
तज्जगत्तस्मात्कथं भिद्यते तद्भेदे सत्तास्फूर्त्यलाभेनालीकत्वप्रसङ्गादित्यर्थः ॥
२४ ॥
यथोर्म्यादि जले वृक्षे यथा वा शालभञ्जिका ।
यथा घटादयो भूमौ तथा ब्रह्मणि सर्गता ॥ २५ ॥
स्तिमिते जले यथा ऊर्म्यादि । अनुत्कीर्णे वृक्षकाष्ठे शालभञ्जिका । भूमौ
चानुद्भूता घटादयस्तथेत्यर्थः ॥ २५ ॥
अनाकृतावसंस्थाने स्वच्छे यदनुभूयते ।
तत्तदेवात उदितं किन्नामाहं जगन्ति किम् ॥ २६ ॥
संस्थाने निरवयवे । दृष्टान्ते यथाभ्रे इति वक्ष्यति ॥ २६ ॥
मरुतः स्पन्दवैचित्र्यं सत्तयैव यथा तथा ।
ब्रह्मणो निःस्वभावस्य जगदाद्यहमादि च ॥ २७ ॥
सत्ताभेदादर्शनादपि तन्मात्रत्वमित्याह - मरुत इति । निःस्वभावस्य निरविद्यस्य
॥ २७ ॥
यथाभ्रे लक्ष्यते वृक्षगजवाजिमृगादिता ।
असन्निवेशाकृतिनि सर्गाहन्ते तथापरे ॥ २८ ॥
गजवाजिमृगादिता तत्तदाकारः तादृशसन्निवेशाकृतिशून्ये अभ्रे आकाशे नीहारे
वा ॥ २८ ॥
सर्गोऽवयववद्भाति सर्व एव परे शिवे ।
एवं तदुपमां विद्धि कार्यकारणवद्यथा ॥ २९ ॥
अवयववत् वृक्षशाखावत् । कार्यं वटादिः कारणं तद्बीजादिस्तद्वद्यथा लोके
सूक्ष्मार्थोपमानानि प्रसिद्धानि एवं तयोः सर्गब्रह्मणोरप्युपमां विद्धि ॥ २९ ॥
अन्तःशान्तमनायासमनुपाधि गतभ्रमम् ।
जगत्यसम्भवादेव व्योमवत्सममास्यताम् ॥ ३० ॥
वर्णितरीत्या जगत्याः जगतः स्वव्यतिरिक्तस्यासम्भवादेव व्योमव्त्समं
निर्विक्षेपमास्यताम् ॥ ३० ॥
न भवन्तो न च वयं न जगन्ति न खादयः ।
सन्ति शान्तमशेषेण ब्रह्मेदं निर्भरं स्थितम् ॥ ३१ ॥
निर्भरमतिवेलम् । पूर्णमिति यावत् ॥ ३१ ॥
अशेषेष्वविशेषेषु शान्ताशेषविशेषता ।
सत्या सैवाहमित्याशुत्यक्त्वा मोक्षाय भाव्यताम् ॥ ३२ ॥
चिदतिरिक्तरूपानिरूपणादशेषेषु पदार्थेष्वविशेषेषु सत्सु विशेषभ्रमं त्यक्त्वा
शान्ताशेषविशेषता परमार्थसत्या सा चिदेवाहमिति भाव्यताम् ॥ ३२ ॥
वेदनं बन्धनं विद्धि विद्धि मोक्षमवेदनम् ।
यथास्थितं यथाचारं भव शान्तमवेदनम् ॥ ३३ ॥
यथाचारं विद्वदाचारं भूमिकाभ्यासमनतिक्रम्य ॥ ३३ ॥
द्रष्टा न दृश्यतां याति चितिर्नायाति चेत्यताम् ।
चेत्याभावादजगति कः किं चेतयते कथम् ॥ ३४ ॥
तत्त्वबोधदार्ढ्ये जडार्थचेतनप्रसक्तिरेव नास्तीत्याह - द्रष्टेति ॥ ३४ ॥
द्रष्ट्टदृश्यदशाभावाज्जाग्रत्येव सुषुप्तिवत् ।
शरदाकाशकोशाभमसत्तोपममास्यताम् ॥ ३५ ॥
असत्तोपमं शून्यकल्पं न तु शून्यमेव ॥ ३५ ॥
तथैकब्रह्मचिद्रूपे पवनस्पन्दने यथा ।
अत्राचिद्बोधता सर्गो मोक्षो ब्रह्मैकबोधता ॥ ३६ ॥
ब्रह्मण्यज्ञानात्पवनस्पन्दवद्भेददर्शनम् । तथा च चिदचिद्भेददर्शनमेव
सर्गः ऐक्यदर्शनमेव तन्मोक्ष इति निष्कर्ष इत्यर्थः ॥ ३६ ॥
चित्स्पन्दो ब्रह्ममरुतो यत्र सर्ग इति स्मृतः ।
नात्र चित्स्पन्दनन्न् यत्स्यान्निर्वाणं तदुदाहृतम् ॥ ३७ ॥
बीजमन्तर्यथा वेत्ति स्वरूपं पल्लवादिकम् ।
तथा महाचिदन्तस्थं स्वरूपं वेत्ति सर्गताम् ॥ ३८ ॥
भेददर्शनस्यैव सर्गतां दृष्टान्तैरुपपादयति - बीजमित्यादिना ॥ ३८ ॥
पत्रादिवेदनाद्बीजं यथा पत्रादि तिष्ठति ।
परा चित्सर्गसंवित्तिस्तथा भवति सर्गता ॥ ३९ ॥
वेदनसमकालमेव तद्भावस्थितावप्येतादृश एव दृष्टान्त इत्याह - पत्रादीति
॥ ३९ ॥
यथा भावविकाराभाश्चित्पराः सर्गतास्तथा ।
सर्वे बीजानि दृष्टान्तास्तद्रूपा एव तन्मयाः ॥ ४० ॥
वृक्षस्य षड्भावविकारा अप्यत्र दृष्टान्ता इत्याह - यथेति ।
भावविकाराणामाभाः क्रमिकप्रतिभासाः बीजादिरूपेण स्थितायाश्चित एव
विकारत्वात्तन्मयाः ॥ ४० ॥
निर्विकारपरब्रह्ममयं सर्वमिदं जगत् ।
निर्विकारमनाद्यन्तमेवं विद्धि निरामयम् ॥ ४१ ॥
निजसङ्कल्पमात्रात्मा निजसङ्कल्पनात्क्षयी ।
द्वैताद्वैतविकारोऽयं सङ्कल्पनगरं यथा ॥ ४२ ॥
शून्यत्वाकाशयोर्भेदो यादृशोऽवगतस्त्वया ।
भेदं निरात्मकं विद्धि तादृशं ब्रह्मसर्गयोः ॥ ४३ ॥
महाचिद्रूपिणी शान्ता या सत्ता ब्रह्मणः पुरा ।
स्वतः सेयमहन्त्वं च मानवोऽस्मीत्यबोधतः ॥ ४४ ॥
पुरा पूर्वसिद्धा सैव अबोधतो मानबोऽस्मीत्याकारेणाहन्ता चाज्जगत्ता च
भवतीत्यर्थः ॥ ४४ ॥
ब्रह्मण्यस्मिञ्जगद्रूपे न किञ्चिदपि जायते ।
जातमप्यथ नष्टं च न नश्यत्यम्बुवीचिवत् ॥ ४५ ॥
जातमपि न जायते । नष्टमपि न नश्यति ॥ ४५ ॥
पदार्थब्रह्मरूपेण ब्रह्मैवात्मनि तिष्ठति ।
अवयवीवावयवे खे खं वारीव वारिणि ॥ ४६ ॥
पदार्थरूपेण ब्रह्मरूपेण च स्थितं ब्रह्म आत्मन्यविकृतस्वभावे तिष्ठति । यथा
वृक्षः स्वावयवे ॥ ४६ ॥
निमेषादर्धभागेन देशाद्देशान्तरस्थितौ ।
यद्रूपं संविदो मध्ये स स्वभाव उपास्यताम् ॥ ४७ ॥
वास्तवी स्थितिस्तु चितो निर्विषयैवेत्याह - निमेषादिति । प्राग्व्याख्यातमेतत् ॥ ४७ ॥
सङ्क्षुब्धमक्षुब्धमिति द्विरूपं संवित्स्वरूपं प्रवदन्ति सन्तः ।
श्रेयः परं येन समीहसे त्वं तदेकनिष्ठो भव माऽमतिर्भूः ॥ ४८ ॥
हे राम सन्तो विवेकिनः शास्त्रज्ञाः । संवित्स्वरूपमेकं सङ्क्षुब्धं
सविवर्तमज्ञानुभवसिद्धमपरमक्षुब्धन्न् निर्विवर्तं
कूटस्थपूर्णानन्दैकरसमिति द्विरूपं प्रवदन्ति । तयोर्मध्ये येन त्वं परं
श्रेयः परमपुरुषार्थं समीहसे तदेकनिष्ठो भव । अपरीक्ष्य यत्किञ्चिद्ग्राही
अमतिरविवेकी मा भूरित्यर्थः ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
परमार्थयोगोपदेशो नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थयोगोपदेशो नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥