त्रयस्त्रिंशः सर्गः ३३
श्रीवसिष्ठ उवाच ।
स्वपौरुषेण स्वधिया सत्सङ्गमविकासया ।
यदि ना नीयते ज्ञत्वं तदुपायोऽस्ति नेतरः ॥ १ ॥
इहोपवर्ण्यते भ्रान्तिकल्पना प्रतिकल्पना ।
परलोकचिकित्सा च संवित्प्रसरवारणात् ॥ १ ॥
तत्रादौ प्रतिकल्पनां वक्तुं प्रस्तावं रचयति - स्वपौरुषेणेति । ना
अधिकारयोग्यशरीरं प्राप्तः पुरुषो यदि ज्ञत्वं तत्त्वज्ञानन्न् नीयते प्राप्यते ।
नयतेर्द्विकर्मकात् प्रधाने नीहृकृष्वहाम् इति प्रधाने कर्मणि लः । तत्तर्हि नेतरो
नान्यथेत्यर्थः ॥ १ ॥
स्वं कलितं कल्पितं च प्रतिकल्पनया स्वया ।
तदेवान्यत्वमादत्ते विषत्वममृतं यथा ॥ २ ॥
कीदृशं तत्पौरुषं येन ज्ञत्वं नीयते तदाह - स्वं कल्पितमिति । स्वं
स्वाभाविकमशास्त्रीयम् । कल्पितं कल्पितमिति वीप्सा । सर्वं कल्पितं चात्तन्मूलं
वासनाविद्यादि च स्वया स्वीयया शास्त्रीयया प्रतिकल्पनया तदेवान्यत्वं
बन्धहेतुतामपहाय मोक्षोपयोगित्वमादत्ते । यथा स्वभावतो मरणहेतुरपि विषं
रसायनशास्त्रोक्तोपायप्रतिकल्पनया विषत्वं विहायामृतममरणसाधनं
रसायनं भवति तद्वत् ॥ २ ॥
कल्पना चाकल्पनान्ता मुक्तता यदकल्पनम् ।
एतच्च भोगसन्त्यागपूर्वं सिध्यति नान्यथा ॥ ३ ॥
किमत्कालं प्रतिकल्पना कार्येति चेत्सर्वकल्पनानिवृत्तिपर्यन्तमित्याह - कल्पनेति ।
अकल्पनं सर्वकल्पनानिवृत्तिरन्तोऽवधिर्यस्याः सा यद्यस्माद्धेतोरकल्पनमेव
परिशिष्टस्यात्मनो मुक्तता । तत्रावश्यकीं वैराग्यलक्षणां सन्न्यासलक्षणां च
प्राथमिकीं प्रतिकल्पनां दर्शयति - एतच्चेति । पूर्वमादौ भोगसन्त्यागात्
त्यजतैव हि तज्ज्ञेयन्न् त्यक्तुः प्रत्यक्परं पदम् इति श्रुतेरिति भावः ॥ ३ ॥
वचसा मनसा चान्तः शब्दार्थावविभावयन् ।
य आस्ते वर्धते तस्य कल्पनोपशमः शनैः ॥ ४ ॥
ततः श्रवणमननाभ्यामात्मतत्त्वं निश्चित्य वाङ्मनसनिरोधलक्षणा
प्रतिकल्पना कार्येत्याह - वचसेति ॥ ४ ॥
वर्जयित्वाहमित्येव नाविद्यास्तीतरात्मिका ।
शान्ते त्वभावनादस्मिन्नान्यो मोक्षोऽस्ति कश्चन ॥ ५ ॥
ततोऽनहम्भावलक्षणा सा कार्येत्याह - वर्जयित्वेति ।
अभावनात्सर्वभावनानिवर्तकतत्त्वसाक्षात्कारात् । अस्मिन्नहङ्कारे शान्ते बाधिते सति ॥
५ ॥
अहम्भावमथादेहं किञ्चिच्छ्रयसि नश्यति ।
जगदादिरुचिस्तस्मिंस्त्यक्ते शाम्यसि सिध्यसि ॥ ६ ॥
अथ तत्त्वसाक्षात्कारोत्तरमपि प्राक्तनजगज्जीवभावे रुचिर्यस्य तथाविधः सन् आदेहं
स्थूलदेहपर्यन्तं किञ्चिदल्पमप्यहम्भावं यदि श्रयसि
तदैवापरिच्छिन्नपूर्णानन्दस्वरूपविस्मरणान्नश्यसीव । संसारदुःखे
पतसीत्यर्थः । तस्मिन्नहम्भावे त्यक्ते तु शाम्यसि सर्वदुःखनिवृत्तिं लभसे ।
निरतिशयानन्दस्वभावेन सिध्यसि च ॥ ६ ॥
अचेतनादिदं सर्वं सदेवासदिव स्थितम् ।
शान्तं यस्योपलस्येव नमस्तस्मै महात्मने ॥ ७ ॥
अचेतनाद्बहिर्मुखवृत्त्या अदर्शनात् ॥ ७ ॥
अचेतनादिदं सर्वमुपलस्येव शाम्यति ।
शून्याख्यातः परालीनचित्तस्य चित्त्वभावनात् ॥ ८ ॥
परस्मिन्ब्रह्मणि आलीनचित्तस्यात एवोपलस्येव
बहिरचेतनादन्तश्चित्त्वभावनात्साधकाभावाद्बाधकसत्त्वाच्चेदं सर्वं
दृश्यं शाम्यति ॥ ८ ॥
इदमस्त्वथवा मास्तु चेतितं दुःखवृद्धये ।
अचेतितं सुखायान्तरचेतनमचेतनात् ॥ ९ ॥
सुखदुःखयोर्दृश्यसत्त्वासत्त्वे नोपयुज्येते किन्तु तद्दर्शनादर्शने एवेति
तच्चेतनाय प्रवृत्तं चित्तमेव निरोद्धव्यमित्याशयेनाह - इदमिति ।
दृश्यस्यचेतनमदर्शनं तु अचेतनाच्चित्तक्रियानिरोधेन
ब्रह्माकारतापादनान्तप्रतिकल्पनावशादेवेत्यर्थः ॥ ९ ॥
द्वौ व्याधी देहिनो घोरावयं लोकस्तथा परः ।
याभ्यां घोराणि दुःखानि भुङ्क्ते सर्वैर्हि पीडितः ॥ १० ॥
परलोकचिकित्सां वर्णयितुमुपक्रमते - द्वाविति । सर्वैराध्यात्मिकादिभावैः ॥ १० ॥
इहलोके यतन्ते ज्ञा व्याधौ भोगैर्दुरौषधैः ।
आजीवितं यथाशक्ति चिकित्सा नापरामये ॥ ११ ॥
इहलोके प्रसिद्धे क्षुत्तृषादिव्याधावन्नपानादिभोगलक्षणैर्दुरौषधैर्यथाशक्ति
यतन्ते । अपरामये पारलौकिकनरकजन्मपरम्परादिव्याधौ भोगैश्चिकित्सा न जायत
इत्यर्थः ॥ ११ ॥
परलोकमहाव्याधौ प्रयतन्ते चिकित्सनम् ।
शमसत्सङ्गबोधाख्यैरमृतैः पुरुषोत्तमाः ॥ १२ ॥
चिकित्सनं कर्तुमिति शेषः ॥ १२ ॥
परलोकचिकित्सायां सावधाना भवन्ति ये ।
मोक्षमार्गमहेच्छायां शमशक्त्या जयन्ति ते ॥ १३ ॥
अपथ्यभोगत्यागे सत्सङ्गाद्यौषधसेवने च सावधानाः । शमाख्यस्यौषधस्य
शक्त्या ॥ १३ ॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥ १४ ॥
ननु परलोकव्याधेस्तत्रैव चिकित्सा करिष्यते किमत्र तच्चिन्तया तत्राह - इहैवेति ।
निरौषधं साधुसङ्गमसच्छास्त्राद्यौषधशून्यं नरकस्थावरादिस्थानम् ॥ १४
॥
इहलोकचिकित्साभिर्जीवितं यातु मा क्षयम् ।
आत्मज्ञानौषधैरज्ञाः परलोकश्चिकित्स्यताम् ॥ १५ ॥
हे अज्ञाः ॥ १५ ॥
आयुर्वायुचलत्पत्रलवाम्बुकणभङ्गुरम् ।
परलोकमहाव्याधिर्यत्नेनाशु चिकित्स्यताम् ॥ १६ ॥
परलोकमहाव्याधौ यत्नेनाशु चिकित्सिते ।
इहलोकमयो व्याधिः स्वयमाशूपशाम्यति ॥ १७ ॥
इह लोकव्याधिचिकित्सार्थ पृथग्यत्नो न कार्य इत्याह - परलोकेति ॥ १७ ॥
संविन्मात्रं विदुर्जन्तुं तस्य प्रसरणं जगत् ।
परमाणूदरेऽप्यस्ति तच्छैलशतविस्तरम् ॥ १८ ॥
परलोकव्याधेस्तपस्तीर्थयज्ञदानप्रायश्चित्तादिचिकित्सा यद्यपि सन्ति तथापि ता
नात्यन्तिकतदुच्छेदहेतवः किन्त्वात्मज्ञानमेव । तच्च
श्रवणादिपूर्वकसमाध्यभ्यासलक्षणसंवित्प्रसरनिरोधादेवेत्याशयेन
तदुपायान्वक्तुं भूमिकां रचयति - संविन्मात्रमिति । तज्जगत्परमाणूदरेऽपि
संविदः पूर्णत्वादस्त्येव ॥ १८ ॥
यत्संविदः प्रसरणं रूपालोकमनांसि तत् ।
व्योमन्येवानुभूयन्ते नातः सत्यो जगद्भ्रमः ॥ १९ ॥
प्रसरणं बहिर्मुखतया विवर्तनं तदेव रूपालोका बाह्यार्थो मनांसि
कामसङ्कल्पाद्याभ्यन्तरा इत्यर्थः । व्योमनि चिदाकाशे ॥ १९ ॥
प्रलयेष्वपि दृष्टेषु जगद्दृश्याख्यविभ्रमः ।
न नश्यति न जायेत भ्रान्तिमात्रैकरूपिणः ॥ २० ॥
मिथ्यात्वादेव प्रलयसहस्रैरपि नास्य निवृत्तिः सृष्टिसहस्रैरपि न सत्ता
किन्त्वात्मज्ञानादेवेत्याशयेनाह - प्रलयेष्वपीति । न जायेत सृष्टिषु
दृष्टेष्वपीति शेषः । तत्र हेतुमाह - भ्रान्तीति । भ्रान्तिमात्रैकरूपित्वादित्यर्थः
॥ २० ॥
भोगपङ्कार्णवे मग्न आत्मा नोत्तार्यते यदि ।
स्वपौरुषचमत्कृत्या तदुपायोऽस्ति नेतरः ॥ २१ ॥
आत्मज्ञाने तर्हि के उपाया इति चेत्प्रथमं वैराग्यमेवेत्याह - भोगेति ॥ २१ ॥
अजितात्मा जनो मूढो रूढो भोगैककर्दमे ।
आपदां पात्रतामेति पयसामिव सागरः ॥ २२ ॥
जीवितस्य यथा बाल्यं दृष्टं प्राथमकल्पिकम् ।
निर्वाणस्य तथा भोगसन्त्यागो रागशान्तिदः ॥ २३ ॥
जीवितस्य आयुषः ॥ २३ ॥
तज्ज्ञस्य जीवितनदी सकल्लोलाप्यसम्भ्रमा ।
समं वहति सौम्यैव चित्रसंस्थेन नीरसा ॥ २४ ॥
रागशान्तिद इति विशेषणस्य तात्पर्यं तज्ज्ञाज्ञजीवितनदीवैलक्षण्यवर्णनेन
दर्शयति - तज्ज्ञस्येत्यादिना ॥ २४ ॥
अज्ञजीवितनद्यास्तु [नद्यस्तु इति पाठः ।] रसनात्यन्तभीषणाः ।
आवर्ता वृत्तिविक्षोभकल्लोलाः सहवाहिनः ॥ २५ ॥
रसनाः आक्रन्दध्वनयस्ताभिरत्यन्तभीषणाः ॥ २५ ॥
सर्गवर्गाः प्रवल्गन्ति संवित्प्रसरलेशकाः ।
द्विचन्द्रबालवेतालमृगाम्बुस्वप्नमोहवत् ॥ २६ ॥
अज्ञानामविचारादेव सर्गादिप्रतिभासविक्षेपरूपाः संवित्प्रसरलेशा इत्याह -
सर्गेति । प्रवल्गन्ति प्रसरन्ति ॥ २६ ॥
संविद्वारितरङ्गौघा भान्ति सर्गाः सहस्रशः ।
विचारितास्त्वसत्यास्ते सत्यास्त्वनुभवभ्रमात् ॥ २७ ॥
अनुभवभ्रमाद्भ्रान्तानुभवात् ॥ २७ ॥
जगन्त्याकाशकोशेऽपि संवित्प्रसरणभ्रमात् ।
सन्तीवाप्यनुभूयन्ते न तु सत्यानि तानि तु ॥ २८ ॥
प्रसिद्धे आकाशकोशेऽपि गन्धर्वनगरादि जगन्ति सन्तीवानुभूयन्ते ॥ २८ ॥
संविद्विकासपयसो बुद्बुदः सर्गविभ्रमः ।
अहमित्यादिसद्भावविकाराकाररूपवान् ॥ २९ ॥
अहमित्यादिभिः सद्भिर्भावविकाराकारै रूपवान् ॥ २९ ॥
संविन्निर्वाणमजगत्संविदुन्मीलनं जगत् ।
नान्तर्न बाह्यं नासत्यं न सत्यं सर्वमेव तत् ॥ ३० ॥
संविदो निर्वाणमप्रसरः । अजगत् सर्वजगन्निवृत्तिः । उन्मीलनं प्रसरः ॥ ३० ॥
चिद्रूपमजमव्यक्तमेकमव्ययमीश्वरः ।
स्वत्वभावत्वरहितं ब्रह्म शान्तात्मखादपि ॥ ३१ ॥
स्वप्रसरनिरोधयोः स्वयमेवेष्टे इति ईश्वरो ब्रह्मेत्यर्थः ॥ ३१ ॥
ब्रह्मणो निःस्वभावस्य सर्गसंवेदने स्वतः ।
स्पन्दने पवनस्येव कारणं नोपयुज्यते ॥ ३२ ॥
स च स्पन्दो मिथ्याभूताविद्याविवर्त एव न तु सत्यब्रह्मस्वभावज इत्याह -
ब्रह्मण इति ॥ ३२ ॥
स्वप्नानुभववद्भ्रान्तिर्ब्रह्माब्धौ ब्रह्मवीचयः ।
सर्गता वस्तुतस्त्वत्र न स्वप्नो न च सर्गता ॥ ३३ ॥
आविद्यकत्वे च विवर्तरूपा एव सर्गताः ब्रह्मणो वीचयो भ्रान्तिरेव । वस्तुतस्तु न स्वप्नो
नापि सर्गतेत्यर्थः ॥ ३३ ॥
एकमेव निराभासमचित्त्वमजडं समम् ।
न सन्नासन्न सदसदिदमव्ययमद्वयम् ॥ ३४ ॥
परमार्थतस्तर्हि ब्रह्म कीदृशं तदाह - एकमेवेति । अचित्त्वं
चित्त्वाख्यधर्मान्तरशून्यम् ॥ ३४ ॥
यथास्थितस्यैव सतो यस्यासंवेदनात्मकम् ।
संवित्प्रशमनं जातं तमाहुर्मुनिसत्तमम् ॥ ३५ ॥
तादृशब्रह्मभावेन स्थितिरेव योगिनः संवित्प्रशमनं मुनित्वं चेत्याह -
यथास्थितस्येति ॥ ३५ ॥
सतोऽपि मृन्मयस्येव यस्यासंवेदनात्मकम् ।
साहं जगद्विगलितं तमाहुर्मुनिसत्तमम् ॥ ३६ ॥
साहं जीवभावसहितम् ॥ ३६ ॥
यथा शाम्यत्यसङ्कल्पात्सङ्कल्पनगरं तथा ।
वेदनोत्थन्न् जगदहं चिति शाम्यत्यवेदनात् ॥ ३७ ॥
सङ्कल्पसृष्टेरसङ्कल्पनमिव दृष्टसृष्टेरस्या अदृष्टिरेव निवृत्तिरित्याह ##-
स्वभाववर्जं शब्दार्थाः सर्व एव सहेतुकाः ।
स्वभावस्य तु यो हेतुर्मुक्तिस्तदनुभावनम् ॥ ३८ ॥
सर्वजडवस्तुष्वनुगतः स्वभावो जाड्यं सैव मूलाविद्या तामेकां वर्जयित्वा सर्वे
एव शब्दार्था नामरूपाणि सहेतुकास्तद्धेतुकाः । तस्य स्वभावस्यापि यो हेतुः
साक्षितया साधकस्तदनुभावनं स्वात्मनस्तन्मात्रतापादनं मुक्तिरित्यर्थः ॥ ३८ ॥
न कस्यचित्पदार्थस्य स्वभावोऽस्तीह कश्चन ।
महाचिदम्बुद्रवताः सर्वा एवानुभूतयः ॥ ३९ ॥
अविद्यापगमे न कस्यचिदपि जाड्यं परिशिष्यत इति चिदेकरसं योगिनो जगदित्याह -
चिदित्यादिना ॥ ३९ ॥
महाचिदनिलस्पन्दा एता एवानुभूतयः ।
एतास्ता ब्रह्मगगनशून्यता इति बुध्यताम् ॥ ४० ॥
वातस्पन्दाविभाभिन्नौ ब्रह्मसर्गौ विभिन्नता ।
तयोस्त्वसत्या स्वभ्रान्तौ स्वप्ने स्वमरणोपमा ॥ ४१ ॥
भ्रान्तिस्तु तावत्तत्त्वार्थविचारो यावदस्फुटः ।
विचारे तु स्फुटे भ्रान्तिर्ब्रह्मतामेव गच्छति ॥ ४२ ॥
कियत्कालं स भ्रान्तिस्तत्राह - भ्रान्तिस्त्विति ॥ ४२ ॥
भ्रान्तिस्त्वसत्या वस्त्वेव प्रेक्षयातो न लभ्यते ।
शशशृङ्गवदत्यच्छमतो ब्रह्मैव शिष्यते ॥ ४३ ॥
ननु भ्रान्तिः कथं ब्रह्मतां गच्छति तत्राह - भ्रान्तिस्त्विति । भ्रान्तौ यः
सत्तास्फूर्त्यंशः स ब्रह्मतां गच्छति अन्यस्तु नास्त्येवेति न तदभिप्रायेणोक्तमिति
भावः ॥ ४३ ॥
अनादिमध्यान्तमनन्तमच्छं समं शिवं शाश्वतमेकमेव ।
सर्वां जरामोहविकारभारभ्रान्तिं विमुच्याम्बरभावमेहि ॥ ४४ ॥
सर्वभ्रान्तिबाधपरिशिष्टं ब्रह्म दर्शयन् रामं तद्भावस्थितौ स्थापयति -
अनादीति । हे राम त्वं देहप्रसङ्गप्रसक्तां [देहप्रसक्तां इत्यपि पाठः ।]
सर्वां जरामोहादिविकारभारभ्रान्तिं विमुच्य ब्रह्माकाशभावमेहि ।
प्राप्नुहीत्यर्थः ॥ ४४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० सत्यार्थोपन्यासयोगो
नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सत्यार्थोपन्यासयोगो नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥