०३२

द्वात्रिंशः सर्गः ३२

श्रीवसिष्ठ उवाच ।

यदा चितिः प्रसरति तदाहन्ताजगद्भ्रमः ।
असदेवाभ्युदेतीव स्पन्दादपि च वायुता ॥ १ ॥

साधुसङ्गमसच्छास्त्रविचाराभ्यासशालिनः ।
मोक्षोऽत्रावश्यभावित्वात्स्वायत्त उपपाद्यते ॥

विद्याविद्याभ्यां बन्धमोक्षयोः स्वायत्तत्वं वर्णयिष्यन् प्रथममविद्यया
चित्प्रसरणाधीनं स्वायत्तं बन्धं दर्शयति - यदेति । स्पन्दादपि चेति
दृष्टान्तार्थम् । इव चेति पाठः स्पष्टः ॥ १ ॥

उदितोऽपि न खेदाय ब्रह्मरूपत्ववेदनात् ।
परमाय त्वनर्थाय जगच्छब्दार्थभावनात् ॥ २ ॥

रूपानुभवमादत्ते चक्षुःप्रसरणाद्यथा ।
चितिः प्रसरणात्तद्वज्जगद्विभ्रममास्थिता ॥ ३ ॥

यासौ प्रसरति व्यर्थन्न् चेत्याभावान्न सा सती ।
असत्कथं प्रसरति वन्ध्यापुत्रः क्व नृत्यति ॥ ४ ॥

उदितोऽपि न खेदाय इति यदुक्तं तदुपपादयति - यासाविति । कूटस्थचितो
बाह्यार्थोपसर्पणलक्षणं प्रसरद्रूपं विषयाभावात्स्वतश्च नास्त्येवेति विद्यया
बाधान्न खेदायेति भावः ॥ ४ ॥

अयन्न् त्वनुभवादेव मुधैवानुभवन्स्थितः ।
असदेवाननुभवन्स्वयमर्भकयक्षवत् ॥ ५ ॥

अयं चित्प्रसरोऽनुभवादेव सिद्ध्येत् । स चानुभवो विद्यया
बाध्यमानोऽसदर्थमननुभवन्नेवर्भकयक्षानुभववन्मुधैव स्थित इत्यर्थः ॥
५ ॥

अहम्भावोऽपि दुःखार्थमहमित्येव वेदनात् ।
अवेदनान्नाहमतः स्वायत्ते बन्धमुक्तते ॥ ६ ॥

उक्तो न्याय आन्तरे अहम्भावात्मकप्रसरेऽपि तुल्य इति दर्शयन् बन्धमोक्षयोः
स्वायत्तता सिद्धेत्याह - अहम्भाव इति ॥ ६ ॥

तद्ध्यानं स समाधिर्वा यदवेदनमासितम् ।
अजडानां जडमिव समं शान्तमनामयम् ॥ ७ ॥

मोक्षस्य स्वायत्ततामुपपादयति - तदित्यादिना । विद्यया
मूलजाड्यापहाराच्चिदात्मैकरस्यापत्त्या अजडानां मनोबुद्ध्यादिसर्ववस्तूनां
जडं पाषाणादीव निश्चलं यदवेदनं
वेद्यवेदनभावनिर्मुक्तमासितमवस्थानं तदेव ध्यानं समाधिर्वा ।
तदुपलक्षिता मुक्तिरिति यावत् ॥ ७ ॥

द्वैताद्वैतसमुद्भेदैर्वाक्यसन्दर्भविभ्रमैः ।
मा विषीदत दुःखाय विबुधा अबुधा इव ॥ ८ ॥

अयमेव विश्रान्तिहेतुः सिद्धान्तः । अन्यथाकल्पने तु वादिनां
कलहमात्रपर्यवसानेन वृथा कण्ठशोषः स्यादित्याशयेन तान्सम्बोध्याह ##-
द्वैतादिनानाविकल्पसमुद्भेदैर्बहुविधकलहात्मकवाक्यसन्दर्भविभ्रमैर्मा
विषीदत वृथा कण्ठशोषणलक्षणं विषादं माप्नुत । इममेव
परमपुरुषार्थहेतुं सिद्धान्तमवलम्बध्वमित्यर्थः ॥ ८ ॥

असदाश्रयते दुःखं स्वप्नवद्घनवासनः ।
रूपालोकमनस्कारान्सङ्कल्परचितानिव ॥ ९ ॥

घनवासनस्य बहिर्मुखस्यासदपि रूपादिदर्शनमिव दुःखमपि दृढतरं
दुर्वारम् । तनुवासनस्यान्तर्मुखस्य तु तद्वदेव प्रारब्धप्रसञ्जितमपि
दुःखमापाततो भुज्यमानं स्वानन्दानुभवतिरोहितत्वादमुक्तप्रायमेव
भवतीत्याह - असदिति द्वाभ्याम् । आश्रायते भुङ्क्ते ॥ ९ ॥

दुःखं सदेव नाश्नाति सुप्तवत्तनुवासनः ।
रूपालोकमनस्कारान्सङ्कल्परहितानिव ॥ १० ॥

अप्यर्थे एवकारः । सत् प्रारब्धप्रसञ्जितमपि दुःखं नाश्नाति न भुङ्क्ते । सुप्तो
निद्रासुखपरवशचित्तो यथा मशकमत्कुणादिदंशनदुःखं नानुभवति तद्वत् ॥
१० ॥

अत्यन्ततनुतामेस्य वासनैवैति मुक्तताम् ।
देशकालक्रियायोगात्पदार्थे भावनामिव ॥ ११ ॥

अतो वासनानामेवोपचयात्संसारानुभव इवापचयो देशकालक्रमेण
मुक्ततानुभवोऽपि सिध्यतीत्याह - अत्यन्तेति ॥ ११ ॥

अत्यन्ततनुतां याता वासनैवैति मुक्तताम् ।
पराणुपरिणामेन खतां खेऽभ्रादिका यथा ॥ १२ ॥

अपक्षयक्रमप्राप्तेन परेणाणुना सूक्ष्मतमेन चरमपरिणामेन ।
आदिपदान्नोहारधूमादिपरिग्रहः ॥ १२ ॥

अहम्भावनया बोधे वासना घनतानवा ।
विपश्चित्सङ्गमाभ्यासात्पाण्डित्यमिव मूढता ॥ १३ ॥

वासनातानवे तर्हि क उपायस्तमाह - अहम्भावनयेति । ब्रह्माहम्भावनया
बोधे अभिवृद्ध्यमाने वासना दिने दिने घनं निरूढं तानवं सौक्ष्म्यं
यस्यास्तथाविधा सती मुक्तिः सम्पद्यते । यथा विपश्चितां पण्डितानां
सङ्गमाद्विद्याभ्यासाद्वर्धमानान्मूढता घनतानवं प्राप्य पाण्डित्यं
सम्पद्यते तद्वदित्यर्थः ॥ १३ ॥

नाहमस्तीह मद्युक्त्या निश्चयोऽन्तः शमात्मकः ।
जीवतोऽजीवतश्चास्ति रूढबोध इति स्मृतः ॥ १४ ॥

कियत्कालं बोधो वर्धनीय इति चेद्रूढबोधतापर्यन्तमित्याशयेन
रूढबोधलक्षणमाहनाहमिति । मद्युक्त्या अहम्ब्रह्मेति भावनालक्षणेन
प्रत्यगात्मयोगेनाभ्यस्यमानेनेह जीवतो योगिनोऽजीवतः परलोकं गतस्य वा
अहंशब्दार्थो जीवो नास्तीति शमात्मको निश्चयोऽन्तर्यस्यास्ति स रूढबोध इत्यर्थः ॥ १४

वायौ द्वन्द्वमिवात्रेदं जगदादि च भासते ।
कोऽहं कथमिदं चेति विचारेणैव शाम्यति ॥ १५ ॥

द्वन्द्वं द्रव्य क्रियेति च कल्प्यमानम् । स्पन्द इति पाठे स्पष्टम् । आदिपदाज्जीवः ॥ १५ ॥

नाहमित्येव निर्वाणं किमेतावति मूढता ।
सत्सङ्गमविचाराभ्यामेतदाश्ववगम्यते ॥ १६ ॥

क्षीयते तत्त्ववित्सङ्गादहमित्येव बन्धनम् ।
आलोकेनेव तिमिरं दिवसेनेव यामिनी ॥ १७ ॥

कोऽहं कथमिदं दृश्यं को जीवः किं च जीवनम् ।
इति तत्त्वज्ञसंयोगाद्यावज्जीवं विचारयेत् ॥ १८ ॥

जीवनं प्राणादिधारणं किम् । यावज्जीवग्रहणमामोक्षोपलक्षणम् ॥ १८ ॥

जीवितं भुवनं भाति ततोऽहमिति नश्यति ।
तत्त्वमेकेन तज्ज्ञार्कसेवनात्स निषेव्यताम् ॥ १९ ॥

स च विचारो गुरुसेवनाच्छीघ्रं फलपर्यन्तः सिध्यतीत्याशयेनाह - जीवितमिति ।
यतस्तज्ज्ञस्तत्त्ववित् तल्लक्षणस्यार्कस्य सेवनात्सम्पर्काद्भुवनं जगदेव
बोधेनोज्जीवितं भाति । अहमिति सर्वपदार्थतत्त्वावरणं तमो नश्यति वस्तुतत्त्वं च
एकेन क्षणेन प्रथते अतः स तज्ज्ञार्को निषेव्यतामित्यर्थः ॥ १९ ॥

यो यो बोधातिशयवांस्तं तं पृथगुपास्व भो ।
सङ्गमे कथयोदेति तेषां वादपिशाचिका ॥ २० ॥

यदा तु बहुषु विद्वत्सु तार्किकेषु च सत्स्वयं तत्त्वज्ञोऽयं नेति निर्धारणे
असमर्थोऽहं तदा किं कुर्या तत्राप्याह - यो य इत्यादिना । ननु पृथगुपास्वेति
किमर्थमुच्यते समुदितोपास्तौ को दोषस्तमाह - सङ्गमे इति । कथया
परस्परविरुद्धयुक्तिकथनेन । मुण्डे मुण्डे मतिर्भिन्ना तुण्डे तुण्डे सरस्वती इति
न्यायादिति भावः ॥ २० ॥

वादयक्षेऽप्यभ्युदिते बालस्येव विपश्चितः ।
युक्तियुक्तमलं मुख्यमुदेत्यहमिति भ्रमः ॥ २१ ॥

उदेतु नाम वादपिशाचिका को दोषस्तत्राह - वादयक्षे इति । वादलक्षणे यक्षे
पिशाचेऽभ्युदिते सति विवेकिनोऽपि श्रोतुरश्रौतमपि [अपयुक्तिभिः इति पाठः ।]
युक्तिभिस्तर्कैर्युक्तं तार्किकैः प्रतिपाद्यमानमहं प्रत्यक्तत्त्वं मुख्यं
तदेवालं पर्याप्तं ममेति भ्रम उदेति । तथा चान्धगोलाङ्गूलन्यायेन
तदालम्बनेऽनर्थ एव स्यादिति भावः ॥ २१ ॥

अतः प्रत्येकमेकान्ते प्राज्ञः सेवेत पण्डितम् ।
एकीकृत्य तदुक्तांस्तानर्थान्बुद्ध्या विचारयेत् ॥ २२ ॥

सेवेत सेवाद्युपचारेण वशीकृत्य पृच्छेत् ॥ २२ ॥

विचारयेत्तदुक्त्यर्थन्न् बुद्ध्या बुद्धिविवृद्धये [विशुद्धये इति पाठः
साधुः ।] ।
सर्वसङ्कल्पमुक्तं यत्तत्सत्तन्मयतां व्रजेत् ॥ २३ ॥

श्रुतियुक्तिस्वानुभवविद्वदन्तरसंवादैर्विचारयेद्रत्नतत्त्वमिव परीक्षेत
सर्वसन्देहोच्छेदेन बुद्धेः शुद्धये । एवं मननेन बुद्धिशुद्धौ निदिध्यासनं
कार्यमित्याह - सर्वसङ्कल्पमुक्तमिति । तत् सत्परमार्थस्तन्मयतां
निर्विकल्पसमाधितस्तदैकरस्यम् ॥ २३ ॥

विपश्चित्सङ्गमैर्बुद्धिं नीत्वा परमतीक्ष्णताम् ।
अज्ञानलतिका सैका कणशः क्रियतामलम् ॥ २४ ॥

तेन तत्त्वज्ञानोदयेनाज्ञानोच्छेदं दर्शयति - विपश्चिदिति ॥ २४ ॥

एषोऽर्थः सम्भवत्येव तेनेदं कथयाम्यहम् ।
स्वानुभूतं वयन्न् बाला नासमञ्जसवादिनः ॥ २५ ॥

तदसम्भवशङ्का न कार्येत्याह - एषोऽर्थ इति ॥ २५ ॥

व्योम्नोऽम्बुवाहादिविजृम्भयेव तरङ्गभङ्ग्येव महाजलस्य ।
न युज्यते नापि च नश्यतीह नाशोदयौ निर्मननस्य किञ्चित् ॥ २६ ॥

सर्वसङ्कल्पमुक्तं यत्तदेव सत् तन्मयताप्राप्तौ सर्वजगद्व्यवहारैरपि विदुषो न
कश्चिदिष्टनाशोऽनिष्टोदयो वेत्याह - व्योम्न इति । यथा व्योम्नः
अम्बुवाहनीहारातपादिविजृम्भया यथा वा महाजलस्य समुद्रस्य
तरङ्गादिभङ्ग्या किञ्चिदनिष्टं न युज्यते नापि किञ्चिदिष्टं नश्यति
तद्वन्निर्मननस्य निःसङ्कल्पस्य योगिनोऽपि नेष्टानिष्टनाशोदयावित्यर्थः ॥ २६ ॥

इदं हि सर्वं मृगतृष्णिकाम्बुवन्निरामये ब्रह्मणि शान्त आतते ।
विचारिते नाहमितीह विद्यते कुतः क्व कस्मान्मननादिविभ्रमः ॥ २७ ॥

आकाशसमुद्रयोः सद्वितीयत्वात्तद्योगवियोगशङ्कापि स्यात् विदुषस्तु
कूटस्थाद्वयब्रह्मरूपत्वान्नाध्यस्तविवर्तैस्तच्छङ्कापीत्याशयेनाह - इदं
हीति । निरामये आतते पूर्णे ब्रह्मणि विचारिते प्रबुद्धे सति इदं सर्वं
मृगतृष्णिकाम्बुवदहमिति च पृथगात्मरूपं न विद्यते । एवं स्थिते इह
तत्त्वविदि मननादिविभ्रमः कुतः क्व कस्मात्स्यादित्यर्थः ॥ २७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
सत्यावबोधनोपदेशो नाम द्वात्रिंशः सर्गः ॥ ३२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सत्यावबोधनोपदेशो नाम द्वातिंशः सर्गः ॥ ३२ ॥