०३१

एकत्रिंशः सर्गः ३१

श्रीवसिष्ठ उवाच ।

सर्वात्मनि चिदाभासे तदेवाश्वनुभूयते ।
संवेद्यते यदेवान्तरसत्यन्न् वस्त्ववस्तु वा ॥ १ ॥

चिता ग्रस्तमचिद्रूपमसदेव सदेव वा ।
न किञ्चिन्नष्टमित्यत्र निर्वाणस्थितिरीर्यते ॥

नित्यनिरतिशयानन्दपूर्णाद्वयचिदाकाशलक्षणा निर्वाणस्थितिमनुभावयितुं
प्रागुक्तं दृश्यानुभवस्य संवेदनाभ्यासाधीनत्वं स्मारयति - सर्वात्मनीति
॥ १ ॥

तदेवाभ्यासतः पूर्वं बाह्यार्थानुभवात्मना ।
स्फुरतीव बहिष्ट्वेन स्वस्वप्नोऽत्र निदर्शनम् ॥ २ ॥

चिद्रूपं सर्वमेतच्च चिदच्छा गगनादपि ।
चिच्चिनोति चिदेवातो नैतत्किञ्चन कुत्रचित् ॥ ३ ॥

अस्त्वेवं किं ततस्तत्राह - चिद्रूपमिति । सर्वमेतच्चित एव रूपं कल्पितवेषभेदः
वास्तवं तर्हि चितः किं स्वरूपं तत्राह - चिदच्छेति । यतो घृतं स्वात्मनि
काठिन्यमिव चिदेव जगद्वेषं चिनोति अतश्चिदेव ॥ ३ ॥

न नाशो नास्ति नानर्थो न जन्ममरणे न खम् ।
न शून्यता न नानास्ति सर्वं ब्रह्मैव नैव च ॥ ४ ॥

अस्त्वेवं ततोऽपि किं तत्राह - नेति । ततो ब्रह्माद्वैतमिष्टं सिद्धमित्यर्थः ॥ ४ ॥

नाशे जगदहन्त्वादेर्न किञ्चिदपि नश्यति ।
असतः किल नाशोऽपि स्वप्नादेः किं न नश्यति ॥ ५ ॥

ननु जगदहन्तादेर्जडांशस्य तत्त्वबोधेन नाश इष्टः स कथमपलप्यते तत्राह

  • नाशे इति । नाशोऽपि कः इति शेषः ॥ ५ ॥

मिथ्यावभासे सङ्कल्पनगरे कैव नष्टता ।
तथा जगदहन्त्वादौ नाशो नासति विद्यते ॥ ६ ॥

कुतो जगदुपालम्भ इति चेत्तदवस्तुनि ।
न निर्णयः सम्भवति खपुष्पाणां किमुच्यते ॥ ७ ॥

यद्यसदेव जगत्तर्ह्यनर्थरूपत्ववर्णनेन तस्योपालम्भो निन्दा हेयत्वेन निर्णयश्च
शास्त्रेषु कुतः क्रियत इति चेत् सत्यम् । अवस्तुनि नोपालम्भस्तत्फलं विचारो निर्णयो वा न
सम्भवत्येव खपुष्पस्य किमुपालम्भो निर्णयो वा केनचिदुच्यते तद्वदित्यर्थः ॥ ७ ॥

निर्णय एष एवात्र यदशेषमभावयन् ।
यथाशितं यदाचारं पाषाण इव तिष्ठति ॥ ८ ॥

तर्हि किं तच्छास्त्रवैयर्थ्यमेव नेत्याह - निर्णय इति ।
स्वाभाविकस्वरूपस्थितिसिद्ध्यथमेव नेत्याह - निर्णय इति ।
स्वाभाविकस्वरूपस्थितिसिद्ध्यर्थमसदपि सदिव कल्पयित्वा निन्दादिना
वैराग्यविवेकादिस्तत्त्वसाक्षात्कारान्त उपायः कल्पित इति एष एव निर्णयः सिद्धान्त
इत्यर्थः ॥ यथास्थितं यथाशास्त्रं यथाचारं यथासम्प्रदायन्न् च
भूमिकाक्रममभ्यस्येत्यर्थः ॥ ८ ॥

जगत्सङ्कल्पमात्रात्म तत्र तेऽर्थयुतं क्षणात् ।
शाम्यत्यशेषेणेत्येव निर्णयः सर्गविभ्रमे ॥ ९ ॥

अस्त्वेवमात्मतत्त्वे निर्णयः स्वर्गादिजगत्स्वरूपे को निर्णयः सफलस्तमाह -
जगदिति । तत्र प्रागुक्तस्थितौ । अर्थः सांसारिकपुरुषार्थाभासस्तद्युतम् ॥ ९ ॥

सर्गेऽनर्गल एवायं ब्रह्मात्मकतयाक्षयः ।
अन्यथा तु न सर्गोऽयमस्ति नास्ति च सन्ति वा ॥ १० ॥

नौ सर्गः सुषुप्तिप्रलययोः स्वत एव क्षीयते किं तस्य ब्रह्ममात्रतापरिज्ञानेन
तत्राह - सर्वे इति । अनर्गलो मूलोच्छेदात्पुनरुद्भवशून्यः । अन्यथा प्रलयादौ
क्षये तु बीजात्मनाऽस्ति कार्यात्मना नास्ति सन्ति वा प्रलयेऽप्यैन्दवाख्यानोक्तरीत्या
कार्याणि । साङ्कल्पिकस्य परैः क्षेतुमशक्यत्वादित्यर्थः ॥ १० ॥

येषां च विद्यते सर्गः स्वप्नपुंसामिवासताम् ।
स सर्गः पुरुषास्ते च मृगतृष्णाम्बुवीचिवत् ॥ ११ ॥

तर्हि सति सर्गे कथं प्रलयस्तत्राह - येषामिति । प्रलयसङ्कल्पयितुर्दृष्ट्या
तेषामसत्त्वात्स्वसाङ्कल्पिकसर्वनाशादेव तस्य प्रलयव्यवहारादित्यर्थः ॥ ११ ॥

असतामेव सद्भावमिव येषामुपेयुषाम् ।
न वयं निर्णयन्न् विद्मो वन्ध्यापुत्रगिरामिव ॥ १२ ॥

अत एव जीवजगद्रूपाणामनिर्णेयत्वादनिर्वचनीयत्वमुक्तमित्याह - असतामेवेति ॥
१२ ॥

परिपूर्णार्णवप्रख्या काप्यपूर्वैव पूर्णता ।
तज्ज्ञानां द्रष्ट्टदृश्यांशदृष्टौ न हि पतन्ति ते ॥ १३ ॥

अत एव च तत्त्वविदां सदैवाद्वितीयचिदानन्दपूर्णतेत्याह - परिपूर्णेति । हि
यस्मात्ते द्रष्ट्टदृश्यांशदृष्टौ न पतन्ति नाभिनिविशन्ते ॥ १३ ॥

अचला इव निर्वाता दीपा इव समत्विषः ।
साचारा वा निराचारास्तिष्ठन्ति स्वस्थमेव ते ॥ १४ ॥

अचला इवाप्रकम्प्या इति शेषः । साचाराः । इवार्थे वाशब्दः ॥ १४ ॥

आपूर्णैकार्णवप्रख्या काप्यन्तः पूर्णतोदिता ।
अन्तःशीतलता ज्ञप्तिर्ज्ञस्यापूर्वैव लक्ष्यते ॥ १५ ॥

वासनैवेह पुरुषः प्रेक्षिता सा न विद्यते ।
तां च न प्रेक्षते कश्चित्ततः संसार आगतः ॥ १६ ॥

अज्ञपुरुषास्तर्हि किंस्वरूपास्तदाह - वासनैवेति ॥ १६ ॥

अनालोकनसिद्धं यत्तदालोकान्न विद्यते ।
कृष्णाद्यनुपलम्भोऽत्र दृष्टान्तः स्पष्टचेष्टितः ॥ १७ ॥

अनालोकनं प्रकाशास्फूर्तिः । कृष्णं तमः आदिपदात्तत्कार्यचोरयक्षादिस्तस्य
आलोकस्फूर्तावनुपलम्भो दृष्टान्तः । तृष्णा इति पाठे तृष्णा मृगतृष्णा ।
स्पष्टचेष्टितः । अतिस्पष्ट इति यावत् ॥ १७ ॥

भूतानि देहमांसादि तच्चासद्विभ्रमो जडः ।
बुद्ध्यहङ्कारचेतांसि तन्मयान्येव नेतरत् ॥ १८ ॥

किदृशादालोकात्तमाह - भूतानीति । देहमांसादिस्थूलदेहोपादानं
पञ्चीकृतानि भूतान्येव । तथा बुद्ध्यहङ्कारचेतांसि
सूक्ष्मशरीरोपादानोपलक्षणम् । तान्यपि अन्नमयं हि सोम्य मनः
इत्यादिश्रुतेस्तन्मयान्यपञ्चीकृतभूतविकारभूतान्येव ॥ १८ ॥

भूतादिमयतां त्यक्त्वा बुद्ध्यहङ्कारचेतसाम् ।
अत्यन्तं स्थितिरभ्येति यदि तन्मुक्ततोदिता ॥ १९ ॥

अस्त्वेवं किं ततस्तत्राह - भूतादीति । तत्र
बुद्ध्यादिघटितलिङ्गोपाधावहम्भावेन प्रविष्टश्चिदात्मा तद्द्वारा
स्थूलदेहमप्यविद्यया अहमित्यभिमन्यते । तस्य विवेकेन बुद्ध्यहङ्कारचेतसां
भूतादिमयतां वाचारम्भणश्रुतिदर्शितोपायेन त्यक्त्वा अत्यन्तं
स्वप्रकाशचिन्मात्रस्वभावेन या स्थितिर्यद्यभ्येति तत्तर्हि सैव मुक्तया उदिता
आविर्भूता । स एवालोको मयोक्त इत्यर्थः ॥ १९ ॥

चिच्छ्लिष्टा चेत्यनिष्ठत्वात्तादृश्येवात्र कास्तिता ।
तस्मात्केव कुतः कुत्र वासना किंस्व्रूपिणी ॥ २० ॥

एवमात्मालोके प्रसृते वासनापि बाधितैवेति तयापि न बन्धप्रसक्तिरित्याह - चिदिति ।
लिङ्गोपाधावात्मचित् श्लिष्टा तादात्म्याध्यासेन मिलिता
चेत्तस्याश्चेत्योन्मुखत्वात्तादृश्येव वासना अस्तिता प्रसिद्धा । सा चात्र
अस्यामुक्ततायां का ॥ २० ॥

यस्य यैष भ्रमः सोऽसन्प्रेक्षयासन्न लक्ष्यते ।
मृगतृष्णाम्बुवत्तेन संसारः कस्य कः कुतः ॥ २१ ॥

बध्यस्य जीवस्यैव तत्त्वदर्शने अनुपलम्भाच्च केन कस्य बन्धप्रसक्तिरित्याह -
यस्येति । असन् अलीकः । असच्च प्रेक्षया तत्त्वदृष्ट्या न लक्ष्यते ॥ २१ ॥

तदेवं तर्हि तस्य स्यादिति चित्तोदयो हि यः ।
पुनः स एव संसारविभ्रमः सम्प्रवर्तते ॥ २२ ॥

आत्मालोकमान्द्ये तु पुनश्चित्तोदयेन संसारः स्यादेवेति
तद्दार्ढ्यमपुनःस्मरणावधि कार्यमित्याह - तदेवमिति द्वाभ्याम् ।
तत्तस्मादेवमात्मालोके प्रवृत्तस्यापि विषयस्मरणे यश्चित्तोदयः स एव पुनः
संसारः सम्प्रवर्तते सम्प्रवर्तेत ॥ २२ ॥

तस्मात्सर्वमनाश्रित्य व्योमवत्समुपास्यताम् ।
अपुनःस्मरणं श्रेय इह विस्मरणं परम् ॥ २३ ॥

परं विस्मरणं भूमिकाभ्यासेन साधयेदिति शेषः ॥ २३ ॥

नेह द्रष्टा न भोक्तास्ति नाऽस्तिता न च नास्तिता ।
यथास्थितमिदं शान्तमेकं स्पन्दि सदाब्धिवत् ॥ २४ ॥

तदभ्यासपरः कथं पश्येत्तदाह - नेहेत्यादिना ।
स्पन्दिप्रारब्धोपनीतव्याधितव्यवहारनिमित्तम् । सदा अब्धिवत्पूर्णम् ॥ २४ ॥

सर्वं दृश्यं जगद्ब्रह्म सदित्यवगते स्फुटम् ।
जलशोषादिवोदेति बिम्बबिम्बिक्षये शिवम् ॥ २५ ॥

बिम्बनं बिम्बश्चिदाभासः सोऽस्यास्तीति बिम्बी उपाधिस्तदुभयक्षये ॥ २५ ॥

शान्तताव्यवहारो वा रागद्वेषविवर्जितः ।
विश्रान्तस्य परे तत्त्वे दृश्यते समदर्शिनः ॥ २६ ॥

शान्तता समाधिपरता व्यवहारो वेति द्वयमपि दृश्यते ॥ २६ ॥

अथवा शान्ततैवास्य निर्वाणस्यावशिष्यते ।
निर्वासनः किल मुनिः कथं व्यवहरत्वसौ ॥ २७ ॥

यावत्त्वस्य न निर्वाणं परिपोषमुपागतम् ।
तावद्व्यवहरत्यस्तरागद्वेषभयोदयः ॥ २८ ॥

सप्तमभूमिकाविश्रान्तिपर्यन्तं परितोषं नोपागतम् ॥ २८ ॥

वीतरागभयक्रोधो निर्वाणः शान्तमानसः ।
शिलेवाप्यशिलीभूतो मुनिस्तिष्ठति नित्यशः ॥ २९ ॥

कोशेऽस्ति पद्मबीजस्य यथा सर्वाब्जिनी तथा ।
अनन्या स्वप्नविभ्रान्तिरात्मन्यस्ति न बाह्यता ॥ ३० ॥

एवं च ब्रह्मणि स्वाभाविकभावानुसारेण जगद्रूपमस्ति
शास्त्रीयतत्त्वभावनानुसारेण तात्त्विकं रूपमप्यस्तीति यथेच्छमनर्थः पुरुषार्थो
वा सुलभ इत्याशयेनाह - कोशे इत्यादिना । बाह्यता आत्मान्यनिष्ठता जगतो
नेत्यर्थः ॥ ३० ॥

बाह्यताभावनाद्बाह्यमात्मैवात्मत्वभावनात् ।
भवतीदं परे तत्त्वे भावनन्न् तत्तदेव हि ॥ ३१ ॥

बहिरस्तीति प्रतीतिस्त्वात्मन्येव बाह्यताभावनान्नान्याधारत्वादित्याह -
बाह्यताभावनादिति । तथा च तत्तद्भावनात्मकमेव बाह्यत्वमान्तरत्वं चेति
फलितमित्याशयेनाह - भावनमिति ॥ ३१ ॥

यान्तः स्वप्नादिविभ्रान्तिः सैवेयं बाह्यतोदिता ।
मनागप्यन्यता नात्र द्विभाण्डपयसोरिव ॥ ३२ ॥

अत एव स्वप्नजाग्रतोर्न प्रतीतितो भेद इत्याह - येति । भिन्नभाण्डस्थक्षीरयोरिव
अन्यताभेदो विशेषो नास्ति ॥ ३२ ॥

स्थैर्यास्थैर्ये तथैवात्र भ्रान्तिमात्रमेय् तते ।
आधाराधेयते ते द्वे यथा जलतरङ्गते ॥ ३३ ॥

ननु जाग्रत्स्वप्नार्थानां स्थैर्यास्थैर्ये विशेषः प्रत्यक्ष उपलभ्यते तस्य का
गतिस्तत्राह - स्थैर्येति । एवं स्वप्नस्य जाग्रद्देहाधारताप्रत्ययोऽपि न भेदक
इत्याह - आधारेति ॥ ३३ ॥

स्वप्नादावात्मनोऽन्यत्वज्ञानादन्यत्ववेदनम् ।
अनन्यतावबोधे तु तदनन्यन्न चोदयि ॥ ३४ ॥

स्वप्नार्थानां यावदात्ममात्रता नानुसन्धीयते तावदेव भानम् ।
आत्ममात्रतानुसन्धाने तु झटित्येव जागरणाद्बाधादात्मानन्यत्वं प्रसिद्धं
तद्वज्जाग्रदर्थेष्वपि बोध्यमित्याशयेनाह - स्वप्नादाविति । उदयि
पृथगाविर्भाववन्न च ॥ ३४ ॥

कलनारहितं शान्तं यद्रूपं परमात्मनः ।
भवत्यसौ तत्तद्भावादतद्भावान्न तद्भवेत् ॥ ३५ ॥

अत एव वास्तवोऽपि ब्रह्मभावस्तद्भावनाधीन इति यदुक्तं तत्सिद्धमित्याह -
कलनेति ॥ ३५ ॥

स्वप्नादिज्ञानसंशान्तौ यद्रूपं शुद्धमैश्वरम् ।
न तदस्ति न तन्नास्ति न वाग्गोचरमेव तत् ॥ ३६ ॥

अस्तितानिरूपककालदेशाधाराद्यभावान्न तदस्ति । स्वरूपस्याबाधान्न नास्ति । अत एव
वाचामगोचरमित्यर्थः ॥ ३६ ॥

आत्यन्तिकभ्रान्तिलये युक्त एवावगच्छति ।
स्वरूपं नोपदेशस्य विषयो विदुषो हि तत् ॥ ३७ ॥

कथं तर्हि तद्वाचा गुरुणोपदिश्यते तत्राह - आत्यन्तिकेति । युक्तः समाधिस्थः
स्वानुभवेनैवावगच्छति कान्तासम्भोगसुखवन्न परं प्रत्युपदेशस्य
विषयस्तथापि तदुपायप्रदर्शनेन तत्र श्रोतृबुद्ध्यवतारणमेवोपदेशफलमिति
भावः ॥ ३७ ॥

शान्तं निरस्तभयमानविषादलोभमोहात्मदेहमननेन्द्रियचित्तजाड्यम् ।
त्यक्त्वाहमक्षयमपास्तसमस्तभेदं निर्वाणमेकमजमासितुमेव युक्तम् ॥ ३८

अतो हे राम अहमहङ्कारं त्यक्त्वा निरस्तानि जाड्यान्तान्येकादश
यस्मिंस्तथाविधमत एव शान्तमजमक्षयमपास्तसमस्तभेदमेकं निर्वाणं
ब्रह्म भूत्वा सदैव समाधावासितुं युक्तमुचितं न व्यवहारविषयेष्वित्यर्थः ॥ ३८

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ०
निर्वाणयुक्त्युपदेशवर्णनं नामैकत्रिंशः सर्गः ३१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणयुक्त्युपदेशवर्णनं नामैकत्रिंशः सर्गः ॥ ३१ ॥