०३०

त्रिंशः सर्गः ३०

श्रीवसिष्ठ उवाच ।

अहन्तैव पराऽविद्या निर्वाणपदरोधिनी ।
तयैवान्विष्यते मूढैस्तदित्युन्मत्तचेष्टितम् ॥ १ ॥

ययाहन्ताद्यविद्योत्थनानात्वभ्रान्तिशान्तितः ।
स्याद्ब्रह्मणि स्थिरो धीरः सा दृष्टिरिह साध्यते ॥

यावदहन्ता न परित्यक्ता तावद्ब्रह्मविचारोऽपि नावतरति दूरे तल्लाभ इत्याशयेनाह

  • अहन्तैवेति । परा सर्वासां कार्याविद्यानां मूलस्तम्भभूता निर्वाणपदस्य
    रोधिनी आवरणी । तत् निर्वाणपदम् ॥ १ ॥

अहन्तैवालमज्ञानादज्ञत्वस्य निदर्शनम् ।
न हि तज्ज्ञस्य शान्तस्य ममाहमिति विद्यते ॥ २ ॥

अज्ञानादुत्पन्ना अहन्तैवाज्ञत्वस्य निदर्शनं लिङ्गं यथा धूमोऽग्नेः । तस्य
व्यतिरेकव्याप्तिं दर्शयति - न हीति ॥ २ ॥

अहन्तामलमुत्सृज्य निर्वाणः खमिवामलः ।
सदेहमपदेहं वा ज्ञस्तिष्ठति गतज्वरः ॥ ३ ॥

अलं निःशेषं अहन्तालक्षणं मलमिति वा ॥ ३ ॥

न तथा शरदाकाशं न तथा स्तिमितोऽर्णवः ।
पूर्णेन्दुमध्यं न तथा यथा ज्ञः परिराजते ॥ ४ ॥

अहन्तापगमादेव ज्ञस्य नैर्मल्यन्न् निर्विक्षेपं पूर्णतां च वर्णयति - न
तथेति ॥ ४ ॥

चित्रसङ्गरयुद्धस्य सैन्यस्याक्षुब्धता यथा ।
तथैव समता ज्ञस्य व्यवहारवतोपि च ॥ ५ ॥

यथा चित्रलिखिते सङ्गरे युद्धस्य । युधेः गत्यर्थाकर्मक - इति कर्तरि क्तः ।
परस्परं सम्प्रहरतोऽपि सैन्यस्य क्षुब्धताप्रतिभासेऽपि न क्षुब्धता ॥ ५ ॥

निर्वाणैकतया ज्ञस्य वासनैव न वासना ।
लेखादामोपमा त्वब्धेरूर्म्यादि न जलेतरत् ॥ ६ ॥

एवं व्यवहारकार्यलिङ्गेनानुमीयमाना वासनापि बाधेनान्तर्निर्वाणैकतया
दग्धपटतन्तुरेखादामोपमत्वान्न वासना ॥ ६ ॥

तरत्तरङ्गो जलधिर्जलमेव यथाखिलम् ।
दृश्योच्छूनमपि ब्रह्म तथा ब्रह्मैव नेतरत् ॥ ७ ॥

ऊर्म्यादीति दृष्टान्तं विशदयति - तरत्तरङ्ग इति ॥ ७ ॥

अन्तरस्तङ्गतोऽक्षुब्धो बहिरस्तङ्गतः शमी ।
विद्यते चोदितो यस्य स मुक्त इति कथ्यते ॥ ८ ॥

तस्यान्तर्बाह्यसर्ववासनाबाधे किंलक्षणमिति
चेदक्षोभशमादिकमेवेत्याशयेनाह - अन्तरिति । उदितः सदैव प्रसन्नः ॥ ८ ॥

अहट्वसर्गरूपेण संवित्संविन्मये परे ।
स्फुरत्यम्भोम्भसीवत्तो नानातेयन्न् किमात्मिका ॥ ९ ॥

संविन्मये परे अज्ञातात्मनि । स्फुरति विवर्तते ॥ ९ ॥

धूमस्य स्फुरतो व्योम्नि यथा गजरथादयः ।
व्यूहा धूमान्न ते भिन्नास्तथा सर्गाः परे पदे ॥ १० ॥

अभ्रखण्डरूपेण व्योम्नि स्फुरतो नीहारधूमस्य गजरथादिरूपा व्यूढा
आकाररचनाभेदाः ॥ १० ॥

संविद्भ्रान्तिविचारेण भ्रान्त्यलाभविलासिनः ।
विजयध्वं विषादं माऽऽगता ज्ञास्तज्ज्ञता हि वः ॥ ११ ॥

इदानीं भगवान्वसिष्ठः सर्वान्श्रोतॄन्सम्बोध्याह - संविदिति । हे
श्रवणार्थमागताज्ञा अभिज्ञजनाः यूयं विषादं मा कुरुत किन्तु मदुक्तरीत्या
सर्वोपि विषादहेतुः प्रपञ्चः संविदो भ्रान्तिर्विवर्तमात्रमिति विदारेण
भ्रान्तितद्विषयतत्त्वपरीक्षणे भ्रान्तीनां निःस्वरूपतापत्त्या अलाभेन विलासिनो
विलसनशीलाः सन्तो विजयध्वं सर्वोत्कर्षेण वर्तध्वम् । हि यतो मदुपदेशेन वः
तज्ज्ञतैवास्ति न त्वज्ञतेत्यर्थः ॥ ११ ॥

अङ्कुरोऽनुभवत्यन्तर्वृक्षपत्रफलं यथा ।
तथा जगदहन्त्वे ज्ञः स्वात्मा स्वात्मखमप्यलम् ॥ १२ ॥

कीदृशी सा संविद्भ्रान्तिरज्ञेनानुभूयते तदाह - अङ्कुर इति । अज्ञः स्वात्मा
वस्तुतः स्वात्मानं खमाकाशकल्पमपि जगदहन्त्वे अनुभवति ।
प्रगृह्यसन्धिरार्षः । यथा अङ्कुरः स्वात्मनि वासनात्मकं
वृक्षपत्रफलादिभावं तद्वदित्यर्थः ॥ १२ ॥

रूपालोकमनःसत्ता ज्वालार्चिष्विव दण्डता ।
सत्योपि च न सन्त्येता भ्रान्तेश्चित्ताबला इव ॥ १३ ॥

कीदृशस्तत्र विचारस्तमाह - रूपेति । बहिः रूपालोकसत्ता
अन्तर्मनःसत्ताश्चाधिष्ठानात्मना सत्योऽपि स्वरूपेण न सन्ति । यथा
भ्राम्यमाणोल्मुकज्वालार्चिःषु दण्डचक्रतादय इत्यर्थः । चित्ताबलाः
विधुरचित्तकल्पितकामिन्य इव ॥ १३ ॥

यथा सुखं यथारम्भं यथा नाशं यथोदयम् ।
यथा देशं यथा कालमजराः शान्तमास्यताम् ॥ १४ ॥

अतो हे श्रोतारः सर्व जगत् यथा उदेति स्थितं च यथा स्वकार्यमारभते यथा च
सुखदुःखेऽनुभावयति यथा च नश्यति यथा च तदीयौ देशकालौ तथा तथा
उत्पत्तिस्थित्युपशमप्रकरणोक्तयुक्तिभिर्विमृश्य मिथ्येति निश्चित्य शान्तमास्यताम् ॥
१४ ॥

इष्टानिष्टोपलम्भेषु शान्तो व्यवहरन्नपि ।
शववन्नान्यतामन्तर्निर्वाणोऽनुभवत्यलम् ॥ १५ ॥

शववन्निर्वाणः शान्तचित्तः । अतो नानुभवति ॥ १५ ॥

अमनोवासनाहन्ता धत्ते यच्च जगच्चिरम् ।
जीवतोऽजीवतश्चैव चिज्जीवः स परं पदम् ॥ १६ ॥

जीवन्मुक्तानां मनोवासनारहितैवाहन्ता चिरं यावद्देहपातं यज्जगद्धत्ते यश्च
तद्भोक्ता जीवस्तावत्कालं जीवति तदुभयं चिज्जीव एव न जडांशोऽणुमात्रमपि
तत्रास्तीति परमं पदमेव तदित्यर्थः ॥ १६ ॥

सत्तैव जडवाहेन दुःखभाराय केवलम् ।
नृणां पाशावबद्धानां पोतकानामिवार्णवे ॥ १७ ॥

एवं च निष्कर्षे जीवजगतोर्जडप्रवाहात्मना सत्तैवानर्थ इति फलितमित्याशयेनाह ##-
दुःखसदृशपण्यभारवहनायेति योज्यम् ॥ १७ ॥

मोक्षसत्ता श्रयति तं नाज्ञानानुभवादिव ।
मृतेन यत्किल प्राप्यं जीवन्प्राप्नोति तत्कथम् ॥ १८ ॥

अत एव तमज्ञमज्ञानजाड्यानुभवापराधादिव चिदैकरस्यपूर्णतालक्षणा
मोक्षसत्ता न श्रयति । यथा भृगुपातादिना मृतेन प्राप्यं स्वर्गादि जीवन्तं न
श्रयति तद्वदित्यर्थः ॥ १८ ॥

यद्यत्सङ्कल्प्यते तत्तत्सङ्कल्पादेव नाशभाक् ।
न सम्भवति यत्रैतत्तत्सत्यं पदमक्षयम् ॥ १९ ॥

ननु मास्तु मोक्षः साङ्कल्पिकस्वर्गादिफलेष्वेव कश्चिन्नित्यः पुरुषार्थोऽस्तु तत्राह

  • यद्यदिति । तन्नाशे चावश्यं भयमस्तीति भावः । किं तर्ह्यभयमक्षयं च
    तदाह - न सम्भवतीति । एतत्सङ्कल्पनम् ॥ १९ ॥

नान्यो न चाहमस्मीति भावनान्निर्भयो भव ।
सत्यं युक्तं भवत्येतद्विषमप्यमृतं यथा ॥ २० ॥

एतत् अनहम्भावनं अज्ञदृष्ट्या भयावहत्वाद्ग्रहीतुमयुक्तमपि
परमार्थदृशा सत्यमिति युक्तमेव ग्रहीतुम् । यथा मूढेन विषबुद्ध्या
उपेक्षितममृतमभिज्ञेन ग्रहीतुं युक्तमित्यर्थः ॥ २० ॥

जडं देहादि चित्तान्तं विचार्य सकलं वपुः ।
लभ्यते नाहमस्मीति तस्मान्नास्मीति सत्यता ॥ २१ ॥

तत्सत्यतामुपपादयति - जडमिति ॥ २१ ॥

शान्ताशेषविशेषाणामहन्तान्ताविचारणात् [अहन्ताया अन्तो यस्यान्न्
तथाविधा मुक्ततेत्यर्थः ।] ।
केवलं मुक्ततोदेति न तु किञ्चिद्विनश्यति ॥ २२ ॥

अत एवाशेषशान्तेरहन्त्वशान्तिरवधिः सैव मुक्तता । तस्यां च
घृतकाठिन्यविलये घृतस्येव नाणुमात्रमप्यात्मनः किञ्चिन्नष्टमिति न
सर्वनाशोऽयमिति भेतव्यमित्याशयेनाह - शान्तेति ॥ २२ ॥

भोगत्यागविचारात्मपौरुषान्नान्यदत्र हि ।
उपयुज्यत इत्यज्ञाः स्वात्मैवाशु प्रणम्यताम् ॥ २३ ॥

अत्रास्यां मुक्तौ भोगत्यागो विचार आत्मन इन्द्रियमनोनिग्रहपौरुषं चेति
त्रयान्नान्यदुपयुज्यते इति निश्चित्य हे अज्ञा मुमुक्षवः सर्वमनात्मवर्गं परित्यज्य
स्वात्मैव प्रणम्यतां तत्त्वबोधेन शरणीक्रियतामित्यर्थः ॥ २३ ॥

निर्वासनं मननमेवमुदाहरन्ति मोक्षं विना भवति तन्न च जातु बोधात् ।
सन्नो जगद्भ्रम इतीह परः प्रबोधो न प्रत्ययोऽत्र यदतः सुचिराय बन्धः ॥
२४ ॥

एवमहन्तावधिकसर्वद्वैतोपशमेन निर्वासनं सर्ववासनाक्षयोपलक्षितं
यन्मननं मनसो ब्रह्मभावेनावस्थानं तदेव मोक्षं श्रुतयो
विद्वांसश्चोदाहरन्ति । तच्च बोधात्तत्त्वज्ञानाद्विना जातु कदाचिदपि न भवति । स च
परः प्रबोधो जगद्भ्रमः सन् परमार्थो नो न भवत्येव इह मोक्षशास्त्रे प्रसिद्धः
। यद्यस्मात्कारणादर ईदृशे बोधे नेह नानास्ति किञ्चन इत्यादिश्रुत्या जायमानोऽपि
रागादिपुरुषदोषप्राबल्याज्जगत्सत्यताभ्रमदार्ढ्याच्च प्रत्ययो विश्वासो नास्ति । अतो
हेतोः सुचिराय जीवस्य संसारबन्धोऽनुवर्तत् इत्यर्थः ॥ २४ ॥

जगदहमसदित्युपेत्य सम्यग्जनधनदारशरीरनिर्व्यपेक्षः ।
भवति हि स च चेतनस्वरूपः परिमितखं खलु नान्यथास्ति मुक्तिः ॥ २५ ॥

तस्माच्छास्त्रादिविश्वासदार्ढ्याज्जगदित्यहमिति चोभयमप्यसत् नास्त्येवेति सम्यक्
श्रवणमननाभ्यासेनोपेत्य बन्ध्वादिजने धने दारेषु स्वशरीरे च निर्व्यपेक्षः सन्
परमार्थतत्त्वं बुद्ध्वा परिमितखं उपाधिपरिच्छिन्नचिदाकाशरूपः स जीवः चात्
जगच्च चेतनं चिन्मात्रं तत्स्वरूपो भवति सैवास्य मुक्तिरयमेव तदुपाय
इतोऽन्यथास्य मुक्तिर्नास्तीत्यर्थः ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उत्तरार्धे
परमार्थोपन्यासयोगो नाम त्रिंशः सर्गः ॥ ३० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थोपन्यासयोगो नाम त्रिंशः सर्गः ॥ ३० ॥