०२९

एकोनत्रिंशः सर्गः २९

श्रीवसिष्ठ उवाच ।

नित्यमन्तर्मुखस्तिष्ठ वीतरागो विवासनः ।
चिन्मात्रममलं शान्तं कर्म सर्वत्र भावयन् ॥ १ ॥

व्यवहारे यथा प्राप्तलोकचर्यानुवर्तनम् ।
स्वरूपे तु सदा स्थैर्यं रामायात्रोपदिश्यते ॥

यथाप्राप्तं कर्म सर्वत्र शत्रुमित्रोदासीनपुरुषेषु यथायोग्यं
भावयन्निष्पादयन् ॥ १ ॥

आकाशविशदः प्राज्ञश्चिन्मात्रैकघनस्थितिः ।
समः सौम्यः समानन्दः स ब्रह्माऽऽबृंहिताशयः ॥ २ ॥

स ब्रह्मा ब्रह्मसमरस आबृंहितो विस्तारित आशयो यस्य तथाविधो भव ॥ २ ॥

शोकेष्वापत्सु घोरेषु सङ्कटेष्ववटेषु च ।
यथाप्राप्तेषु सर्वेषु खर्वेषून्नतिमत्सु च ॥ ३ ॥

यथाप्राप्तेषु खर्वेष्वल्पेषु उन्नतिमत्सु महत्सुं च शोकादिषु अन्तरदुःखितः सन्
यथादेशं तत्तद्देशधर्ममनुसृत्य यथाक्रमं वाष्पक्रन्दनादिपर्यन्तं
दुःखं दुःखविडम्बनं शीतोष्णादिद्वन्द्वयुक्तानि
वस्त्रस्रक्चन्दनादिभोगसुखानि च कुर्विति द्वयोरन्वयः ॥ ३ ॥

यथाक्रमं यथादेशं कुरु दुःखमदुःखितः ।
बाष्पक्रन्दादिपर्यन्तं द्वन्द्वयुक्तसुखानि च ॥ ४ ॥

समागमेषु कान्तानामुत्सवेषूदयेषु च ।
आनन्दं भज सौम्यात्मा वासनाक्रान्तमूढवत् ॥ ५ ॥

सङ्क्षेपोक्तार्थमेव प्रपञ्चयति - समागमेष्वित्यादिना ।
भोगवासनाभिराक्रान्ता ये मूढाः कर्मठजनास्तद्वत् ॥ ५ ॥

भूतानि मृत्युकार्येषु सङ्ग्रामादिषु निर्दह ।
दावानलस्तृणानीव वासनाक्रान्तमूढवत् ॥ ६ ॥

भूतान्यधार्मिकाणि दण्ड्यानि ॥ ६ ॥

क्रमागतेष्वखिन्नोऽर्थं बकवच्चिन्तयार्जय ।
अर्थोपार्जनकार्येषु वासनाक्रान्तमूढवत् ॥ ७ ॥

धर्माविरुद्धक्रमागतेष्वर्थोपार्जनकार्येषु । अर्थ धनम् ॥ ७ ॥

बलाद्विदलयाशेषानरीनरिनिषूदन ।
वातो रिक्तानिवाम्भोदान् वासनाक्रान्तमूढवत् ॥ ८ ॥

अरीन् शत्रून् ॥ ८ ॥

जनेषु करुणार्हेषु धैर्यं कुरु महात्मसु ।
आत्माराममना मौनी वासनाक्रान्तमूढवत् ॥ ९ ॥

धैर्यमौदार्यधीरताम् । मौनी अकत्थनः सन् ॥ ९ ॥

मुदितो भव हर्षेषु दुःखेषु भव दुःखितः ।
करुणां कुरु दीनेषु भव वीरेषु वीर्यवान् ॥ १० ॥

हर्षेषु हर्षस्थानेषु ॥ १० ॥

अन्तर्मुखः सदानन्दः स्वात्मारामतयान्वितः ।
यः करोति शमोदारस्तत्र कर्तासि नानघ ॥ ११ ॥

तत्र मूढवत्कर्तृताप्रयुक्तदोषप्रसक्तिं वारयति - अन्तर्मुख इति । त्वमिति
शेषः ॥ ११ ॥

आत्मभावनया साधो नित्यमन्तर्मुखस्थितेः ।
वज्रधारापि ते राम पतिता याति कुण्ठताम् ॥ १२ ॥

इन्द्रप्रयुक्तवज्रस्य धारापि । कुण्ठतां मोघताम् । तस्य ह न देवाश्च नाभूत्या
ईशते इति श्रुतेरिति भावः ॥ १२ ॥

सङ्कल्पकलनोन्मुक्ते स्वसंविन्मात्रकोटरे ।
यस्तिष्ठत्यात्मनि स्वैरमात्मारामो महेश्वरः ॥ १३ ॥

स्वसंविन्मात्रकोटरे हार्दाकाशे ॥ १३ ॥

न तं भिन्दन्ति शस्त्राणि न दहन्ति हुताशनाः ।
न क्लेदयन्ति वारीणि शोषयन्ति न मारुताः ॥ १४ ॥

सुस्तम्भमजमालिङ्ग्य स्वात्मानमजरामरम् ।
तिष्ठावष्टभ्य धीरात्मा सुस्तम्भमिव मन्दिरम् ॥ १५ ॥

चित्तं स्वस्मिन् सुष्ठु स्तभ्नातीति सुस्तम्भं नित्यनिरतिशयानन्दं स्वात्मानम् ।
सुस्तम्भं दृढस्तम्भं मन्दिरमिव धीरात्माऽचलस्तिष्ठ ॥ १५ ॥

जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पराम् ।
संविदं संविदः स्वस्थामास्वान्तर्मुखमच्युतम् ॥ १६ ॥

जगल्लक्षणवृक्षस्य पदार्थौघलक्षणपुष्पाणामामोदश्रियमिव सारभूतां
परां ब्रह्मसंविदमाश्रित्य सर्वा बाह्यसंविदः अच्युतमन्तर्मुखं यथा
स्यात्तथा कृत्वा आस्व ॥ १६ ॥

अन्तर्मुखतया नित्यं कार्यमाहरतां बहिः ।
जीवतामपि नोदेति वासना दृषदामिव ॥ १७ ॥

कार्य व्यवहारम् । दृषदां पाषाणानामिवेति वासनानुदये दृष्टान्तः ॥ १७ ॥

पुनः प्रसरणोन्मुक्तमन्तःसुप्तं मनः कुरु ।
कुर्वन्सर्वाणि कर्माणि कूर्माङ्गवदवृत्तिमान् ॥ १८ ॥

कूर्माङ्गवदवृत्तिमानन्तर्बहिश्च वृत्तिशून्यः ॥ १८ ॥

अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च ।
सुप्तप्रबुद्धप्रायेण कार्यमाचर चेतसा ॥ १९ ॥

तदेवाह - अन्तरिति । सुप्तप्रबुद्धोऽर्धजागरूकः ॥ १९ ॥

बालमूकादिविज्ञानवदन्तस्त्यक्तवासनम् ।
भवतः कुर्वतः कार्यं खवच्चित्तं न लिप्यते ॥ २० ॥

वृत्तित्यागविलीनेन किञ्चित्प्रसरता बहिः ।
अन्तरत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरः ॥ २१ ॥

वृत्तित्यागः सदैव निर्विकल्पसमाधिज्ञानाभ्यासस्तेन विलीनेन बाधितेन ।
किञ्चिद्दग्धपटाकारवत्प्रतिभासमात्रेण प्रसरता । अत्यन्तसुप्तेन मृतेन ॥ २१ ॥

असङ्कल्पकलङ्कायां ज्ञानाच्चित्तक्षयोदये ।
शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ ॥ २२ ॥

सुषुप्तसमया वृत्त्या जाग्रद्व्यवहरन्व्रजन् ।
गृहाण मा किञ्चिदपि मा वा किञ्चित्परित्यज ॥ २३ ॥

जाग्रत् सन् व्यवहरन् व्रजन्नपि त्वं सुषुप्तसमया वृत्त्या मा किञ्चिदिष्टं गृहाण
अनिष्टं वा त्यज ॥ २३ ॥

जाग्रत्यपि सुषुप्तश्चेज्जागर्षि च सुषुप्तके ।
जाग्रत्सुषुप्तयोरैक्यात्तदस्त्यसि निरामयः ॥ २४ ॥

जाग्रदवस्थायामपि स्थूलसूक्ष्मोपाध्यप्ययात्सुषुप्तस्त्वं चेद्भवसि तदा
सुषुप्तकेऽप्यज्ञानावरणाभावाज्जागर्षि ।
जाग्रत्सुषुप्त्योर्भेदकाऽज्ञानतत्कार्ययोर्बाधेनैक्ये सति तत्परिशिष्टं यदस्ति
सन्मात्रं तदसि ॥ २४ ॥

एवमाद्यन्तरहितमभ्यासेन शनैः शनैः ।
पदमासादयाद्वन्द्वमतीतं सर्ववस्तुतः ॥ २५ ॥

न च द्वैतं न चैवैक्यं जगदित्येव निश्चयी ।
परमामेहि विश्रान्तिमाकाशविशदाशयः ॥ २६ ॥

श्रीराम उवाच ।

यद्येवं मुनिशार्दूल तदहम्प्रत्ययात्मकः ।
भवानेवेह किं तावद्वसिष्ठाख्यः स्थितो वद ॥ २७ ॥

सर्वद्वैतापलापे तव वसिष्ठाहम्भावादेरप्यपरिशेषात्कथं
वक्तृत्वादिव्यवहार इत्याशयेन रामः पृच्छति - यद्येवमिति ॥ २७ ॥

श्रीवाल्मीकिरुवाच ।

राघवे गदति त्वेवं वसिष्ठो वदतां वरः ।
तूष्णीमेव मुहूर्तार्धमतिष्ठत्स्पष्टचेष्टितः ॥ २८ ॥

नास्त्येव वसिष्ठाहम्भावादिर्मम श्रोतॄणामज्ञानदृष्ट्यैव
सोवलम्बितस्तेषां तत्त्वज्ञत्वे सम्पन्ने तु मौनमेवोत्तरमित्याशयेन
तूष्णीम्भावमाह - राघवे इति ॥ २८ ॥

तस्मिंस्तूष्णीं स्थिते किं स्यादिति सभ्ये महाजने ।
पतिते संशयाम्भोधौ रामः पुनरुवाच ह ॥ २९ ॥

मुख्याधिकारिणां केषाञ्चिज्ज्ञाने जातेऽपि
सर्वेषामज्ञानानुच्छेदात्संशयाम्भोधौ पतिते सति ॥ २९ ॥

किमर्थं भगवंस्तूष्णीं भवानहमिव स्थितः ।
न सोऽस्ति जगतां न्यायः सतां यो नोत्तरक्षमः ॥ ३० ॥

गुरोर्युक्तिक्षयादेव निरुत्तरतां मन्यमानो राम आह - किमर्थमिति ।जगतां
मध्ये स तादृशो न्यायः शिष्यैरुद्भाव्यस्तर्को नास्ति यः सतां विदुषां गुरूणाम्
॥ ३० ॥

श्रीवसिष्ठ उवाच ।

न मे वक्तुमशक्तत्वाद्युक्तिक्षय उपस्थितः ।
किन्तु प्रश्नस्य कोट्यास्य तूष्णीमेवानघोत्तरम् ॥ ३१ ॥

अस्य प्रश्नस्य कोट्या परमावधित्वेन हेतुना तूष्णीमवस्थानमेवोत्तरम् ॥ ३१ ॥

द्विविधो भवति प्रष्टा तत्त्वज्ञोऽज्ञोऽथवापि च ।
अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ॥ ३२ ॥

कोटित्वमेव दर्शयितुं भूमिकां रचयति - द्विविध इत्यादिना ॥ ३२ ॥

एतावन्तमभूत्कालं भवानज्ञाततत्पदः ।
भाजनं सविकल्पानामुत्तराणां महामते ॥ ३३ ॥

तत्त्वज्ञस्त्वधुना जातो विश्रान्तः परमे पदे ।
योग्यो न सविकल्पानामुत्तराणामसि स्फुटम् ॥ ३४ ॥

यावान्कश्चित्किलोल्लेखो वाङ्मयो वदतां वर ।
सूक्ष्मार्थः परमार्थो वा बहुरल्पतरोऽपि वा ॥ ३५ ॥

वाङ्मय उल्लेखोऽभिलापः ॥ ३५ ॥

प्रतियोगिव्यवच्छेदसङ्ख्यातीतादिविभ्रमैः [अतीतादिभिर्भ्रमैः इति
मुद्रितपाठष्टीकाकर्त्रसम्मतः ।] ।
स च सर्वोऽन्वितः साधो भा इव त्रसरेणुभिः ॥ ३६ ॥

प्रतियोगी निरूपको व्यवच्छेदोव्यावृत्तिः । सङ्ख्या गणना । अतीतस्तत्सर्वमतिक्रान्तः
परमार्थः । आदिपदात्तत्साधनं तदितरबाधकं तद्बोधस्तदुपाया
बोध्यबोधकप्रमाणादयो गृह्यन्ते । तेषां विभ्रमैः कल्पनाकलङ्कैरन्वितः ।
भाः जालान्तरातपः ॥ ३६ ॥

उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर ।
नाकलङ्का च वागस्ति त्वं च तज्ज्ञतरः स्थितः ॥ ३७ ॥

यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया ।
यथाभूतं विदुः काष्ठमौनमन्तविवर्जितम् ॥ ३८ ॥

अन्तेवासिनः शिष्यस्य । अन्तविवर्जितं सर्वपरिच्छेदकलङ्कशून्यम् ॥ ३८ ॥

अविचारात्ससङ्कल्पं मौनमाहुः परं पदम् ।
तदेव तव तज्ज्ञस्य दत्तः सुन्दर उत्तरः ॥ ३९ ॥

अविचारात्तत्त्वज्ञानोदयात्प्रागज्ञानादुपदेशवाक्प्रवृत्तियोग्यताकल्पनया
ससङ्कल्पं वाग्व्यवहारसङ्कल्पविषयमाहुः । विचारेण तु मौनं
वागगोचरमेवाहुः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्यादिश्रुतयो
विद्वांसश्च । तन्मौनमेव ॥ ३९ ॥

यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् ।
ज्ञेयमात्रमयश्चाहं वागतीते पदे स्थितः ॥ ४० ॥

पुरुषो वक्ता । ज्ञेयं तत्त्वसाक्षात्कारगम्यं निर्विकल्पवस्तु तन्मात्रमयः । स्वार्थे
मयट् ॥ ४० ॥

वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् ।
अवाच्यं वच्मि नो तेन वाग्धि सङ्कल्पनाङ्किता ॥ ४१ ॥

हि यस्मात्सर्वा वाक् प्रतियोगिव्यवच्छेदादिसङ्कल्पनाङ्किता ॥ ४१ ॥

श्रीराम उवाच ।

वाचि ये ये प्रवर्तन्ते ताननादृत्य दोषकान् ।
प्रतियोगिव्यवच्छेदिपूर्वकान्वद को भवान् ॥ ४२ ॥

अनादृत्य तात्पर्याविषयीकृत्य भागत्यागलक्षणोपायेन वद । व्यवच्छेदी
व्यावृत्तः । प्रतियोगी तन्निरूपकः ॥ ४२ ॥

श्रीवसिष्ठ उवाच ।

एवं स्थिते राघव हे यथाभूतमिदं शृणु ।
कस्त्वं कोऽहं जगद्वा किमिति तत्त्वविदां वर ॥ ४३ ॥

यथाभूतं यथास्थितम् ॥ ४३ ॥

अहं तावदयं तात चिदाकाशो निरामयः ।
चेत्यसंवेद्यरहितः सर्वसङ्कल्पनातिगः ॥ ४४ ॥

स्वच्छं चिदाकाशमहं भवानाकाशमेव च ।
जगच्चाकाशमखिलं सर्वमाकाशमात्रकम् ॥ ४५ ॥

शुद्धज्ञानैकरूपात्मा शुद्धज्ञानमयात्मनि ।
अन्यसंविद्दृशोन्मुक्तः स्वान्यद्वक्तुं न वेद्म्यहम् ॥ ४६ ॥

स्वान्यत् प्रत्यगात्मव्यतिरिक्तमणुमात्रमपि वक्तुं न वेद्मि न विवक्षामि । तथा च
यत्परः शब्दः स एव शब्दार्थ इति न्यायमाश्रित्याखण्डं निर्विकल्पं वाक्यार्थं
प्रतिपद्यस्वेति भावः ॥ ४६ ॥

स्वपक्षोद्भावनपरा अहन्तात्मैकवर्धनम् ।
मोक्षार्थमप्युद्यमिनो नयन्ति शतशाखताम् ॥ ४७ ॥

कथं तर्ह्यज्ञबोधनाय प्रतिवादिविजयाय च विदुषां
निरहङ्काराणामुद्योगसिद्धिस्तत्राह - स्वपक्षेति । शिष्याणां मोक्षार्थं तेषां
सन्देहवारणाय प्रतिवादिविजयार्थमपि उद्यमिनो विद्वांसः
श्रुतियुक्त्यादिप्रमाणैः स्वपक्षोद्भावनपराः सन्तो
बाधितस्याप्याहार्यारोपेणाहन्तात्मन एकस्यैव वर्धनं कुर्वाणाः
शतशाखतां नयन्ति न त्वज्ञवद्व्यामुह्यन्तीत्यर्थः ॥ ४७ ॥

जीवतोऽप्युपशान्तस्य व्यवहारवतोऽपि च ।
शववद्यदवस्थानं तदाहुः परमं पदम् ॥ ४८ ॥

नैतावतैषां पाण्डित्यप्रकटनव्यवहार एव परमं पदमिति वेदितव्यं
किन्त्वन्य्देवेत्याह - जीवत इति ॥ ४८ ॥

अबहिःसाधनं शान्तमनन्तःसाधनं समम् ।
न सुखं नासुखं नाहं नान्यदित्यादि तं शिवम् ॥ ४९ ॥

परमपदमेव विशिनष्टि - अबहिःसाधनमिति । अन्तर्बहिःसाधनशून्यत्वादेव
नाहङ्कर्तृभोक्तृत्वशून्यमत एव भोग्ये सुखदुःखरहितं
स्वप्रकाशनिरतिशयानन्दभूमात्मकत्वाच्छिवम् ॥ ४९ ॥

मुक्तताया अहन्तेयमभावो भावनं क्व च ।
तयैवान्विष्यते सेति जात्यन्धश्चित्रमीक्षते ॥ ५० ॥

ननु किमर्थं तत्स्वप्रकाशमुच्यते । विषयसुखवद्भोग्यमेव तत्किं न स्यात्तत्राह

  • मुक्तताया इति । इयमहन्तैव मुक्तताया मुक्तेरभावः प्रागभावस्थानीया ।
    तादृशेनाहम्भावेन मुक्तेर्भावनमनुभवः क्व । न ह्यभावेन प्रतियोगी
    अनुभवितुं शक्यः । तर्ह्यस्तु मुक्ततयैव मुक्तिभावनं तत्राप्याह - तयैवेति ।
    पक्षद्वयेऽपि जात्यन्धचित्रदर्शनन्यायः स्यादित्यर्थः ॥ ५० ॥

स्पन्दनेऽस्पन्दने चैव यत्पाषाणवदासितम् ।
अजडस्यैव तद्विद्धि निर्वाणमजरं पदम् ॥ ५१ ॥

तर्ह्यहङ्कारप्राणादिस्पन्दने अस्पन्दने च
वृक्षमृगादिस्पन्दनास्पन्दनयोर्गिरिशिलावदचलतया स्थितत्वात्तद्वज्जडमेव किं
न स्यात्तत्राह - स्पन्दने इति । आसितमवस्थानम् । भावे क्तः ।
यतस्तन्निर्वाणमजरमपक्षयादिविक्रियाशून्यम् । तथा च गिरिशिलायामप्यपक्षयेण
चलनमस्त्येवेति नात्यन्तिकमचलत्वमिति चलेष्वेव जाड्यं न कूटस्थे इति भावः ॥ ५१ ॥

तच्च नान्यो विजानाति स्वयमेवानुभूयते ।
लोकैषणाविरक्तेन ज्ञेन ज्ञत्वमिवात्मनि ॥ ५२ ॥

अतः स्वप्रकाशत्वमेव परिशेषात्सिद्धमित्याह - तच्चेति । लौकिकात्मनि प्रसिद्धं
ज्ञत्वं घटादिस्फूर्तिफलमिव न हि तज्ज्ञानान्तरवेद्यमनवस्थापातादिति भावः ॥
५२ ॥

तत्राहन्ता न च त्वत्त नानहन्ता न चान्यता ।
केवलं केवलीभावो निर्वाणममलं शिवम् ॥ ५३ ॥

तत् तत्र ॥ ५३ ॥

चेत्योन्मुखत्वमेवाहुश्चेतनस्यास्य चेतनम् ।
एष एव च संसारो बन्धः क्लेशाय भूयसे ॥ ५४ ॥

तस्य परप्रकाशतैव संसार इत्याह - चेत्योन्मुखत्वमिति । चेतनं
चेत्यव्याप्तिलक्षणां क्रियाम् ॥ ५४ ॥

चेतनस्याचेतनत्वमचेत्योन्मुखतात्मकम् ।
मोक्षं विद्धि परं शान्तं पदमव्ययमेव च ॥ ५५ ॥

ईदृशचेतनाभावेनाचेतनत्वं तु मोक्षे इष्टमेवेत्याह - चेतनस्येति ॥ ५५ ॥

दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते ।
चेत्यं न सम्भवत्येव कः किं चेतयते कथम् ॥ ५६ ॥

ननु मोक्षेऽपि चेत्यमस्तु तत्राह - दिगिति ॥ ५६ ॥

सङ्कल्पः स्वप्नदृश्येऽन्तः संविन्मात्रात्मतां विना ।
यथान्यवद्भवेद्भूपास्तथैवास्मिन्बहिर्गते ॥ ५७ ॥

एवमन्तर्मुखतामात्रेण स्वतःसिद्धां मुक्तिमुपपाद्य बहिर्मुखतामात्रेण
जगद्विकल्पप्रसरं दर्शयति - सङ्कल्प इति । हे भूपाः इति श्रोतृसम्बोधनम् ।
यथा स्वप्नदृश्ये जगति संविदन्तर्गतस्तत्तद्वासनानुसारिसङ्कल्पः संविन्मयोऽपि
संविदात्मतां विहायान्यवद्भवेत्तथैवास्मिन्नात्मनि बहिर्गते बहिर्मुखे सति
स्वात्मैवान्यवज्जडप्रपञ्चात्मा भवेदित्यर्थः ॥ ५७ ॥

मनोबुद्ध्यादयश्चैते संविन्मात्रानुरूपिणः ।
मनोबुद्ध्यादिशब्दार्थभावितास्तु जडात्मकाः ॥ ५८ ॥

एवं मनोबुद्ध्यादयोऽपि बहिर्मुखतायामेव जडात्मका अन्तर्मुखतायां तु
संविन्मात्रानुसारिणश्चिदेकरसाः ॥ ५८ ॥

संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते ।
अभिन्ने भेदबुद्धिर्वा किमनर्थाय जृम्भते ॥ ५९ ॥

एवमन्तर्बहिश्च सर्वस्य चिदेकरसत्वे चितो बहिर्मुखतालक्षणा भेदबुद्धिरेकैव
व्यर्थोऽनर्थहेतुरित्याह - संविन्मात्र इति ॥ ५९ ॥

संविन्मात्रस्य शुद्धस्य शून्यस्य च किमन्तरम् ।
यच्चान्तरं तद्विबुधा विदन्त्येति न वाग्गतिम् ॥ ६० ॥

सर्वदृश्यापगमेऽवशिष्टं संविन्मात्रं शून्यकल्पमपुरुषार्थ इति तु न
मन्तव्यम् । तस्य निरतिशयानन्दरूपताया विद्वद्भिरनुभूयमानत्वादित्याह -
संविन्मात्रस्येति । वाग्गतिं वाग्गोचरतां नैति । यतो वाचो निवर्तन्ते इत्यादिश्रुतेरिति
भावः ॥ ६० ॥

सदसद्रूप आभासो यथा किमपि लक्ष्यते ।
तमसीक्षितयत्नेन ब्रह्मणीदं तथा जगत् ॥ ६१ ॥

विवेकियौक्तिकदृष्ट्या तर्हि कथं जगत्तदाह - सदसद्रूप इति । ईषितस्य
चक्षुःप्रणिधानस्य यत्नेन तमसि यथा सदसद्रूप आभासो लक्ष्यते तद्वत् ॥ ६१ ॥

अयमाकाशमेवाहं यदि शाम्याम्यवासनम् ।
वासनां तु न बध्नासि स्थित एवासि चिन्नभः ॥ ६२ ॥

त्वमपि वासनां यदि न बध्नासीति सम्बन्धः ॥ ६२ ॥

इति निश्चयवानन्तस्तज्ज्ञोऽज्ञ इव सञ्ज्ञया ।
चिद्वपुर्विद्यमानोऽपि शाम्यत्यसदिव स्वयम् ॥ ६३ ॥

अन्योऽपि पुरुषः अयमाकाश एवाहमिति निश्चयवांस्तज्ज्ञ एव । स सञ्ज्ञया
व्यवहारेणाज्ञ इव विद्यमानोऽपि चिद्वपुरेव सन् सत्यपि देहादावसदिव शाम्यति । तद्यो
यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् इति
श्रुतेरित्यर्थः ॥ ६३ ॥

जीवानां ज्ञप्तिगुप्तेन ज्वलन्नज्ञानवायुना ।
अविद्याग्निः प्रबुद्धानां पुनस्तेनैव शाम्यति ॥ ६४ ॥

ननु जीवानामविद्या किं चिदात्मना शाम्यति उत जडेन । नाद्यः । चिदात्मनः प्रत्युत
तत्साधकत्वेनाविरोधित्वात् । न द्वितीयः । जडमात्रस्याविद्याकार्यत्वेन
तदविरोधित्वादित्यशङ्क्याह - जीवानामिति । अहमज्ञ इति
साक्षिज्ञप्तेरज्ञानसाधकत्वाज्जीवानां
संसारलक्षणोऽविद्याग्निस्तदीयज्ञप्तिरक्षितेनाज्ञानवायुना ज्वलन्नपि पुनरहं
ब्रह्मास्मीति प्रबुद्धानां तेषां चरमसाक्षात्कारवृत्त्यात्मना
परिणतेनान्तर्गतसाक्षिगुप्तेनाज्ञानवायुनैव शाम्यति न तृतीयमपेक्षत इत्यर्थः
॥ ६४ ॥

अजडानां यदज्ञानं स्थाणूनामिव शाम्यताम् ।
तमाद्दुर्मोक्षमक्षुब्धमासितं पदमक्षयम् ॥ ६५ ॥

ननु मुक्तैर्जगज्ज्ञायते न वा । आद्ये संसाराविशेषः । द्वितीये आत्माज्ञानमेकं
परिहरता त्वया जगदज्ञानान्यनन्तानि स्वीकृतानि स्युः । स्थाणुतुल्यानां च कथं
तेषां मुक्तता तत्राह - अजडानामिति ।
अनावृतस्वप्रकाऽसनिरतिशयानन्दात्मरूपत्वादजडानां तेषामज्ञानं
सांसारिकज्ञानशून्यमत एवाक्षुब्धं दुःखक्षोभरहितं यदासितमवस्थानं
तं मोक्षनामानमाहुः । न चानन्ताज्ञानप्रसक्तिरेकविज्ञानेनैव
सर्वविज्ञानात्सर्वाज्ञाननाशात् भ्रान्तिज्ञानाभावस्यात्मरूपतया
तत्त्वज्ञानवैलक्षण्याभावाच्चेति भावः ॥ ६५ ॥

ज्ञत्वेन ज्ञत्वमासाद्य मुनिर्भवति मानवः ।
अज्ञत्वादज्ञतामेत्य प्रयाति पशुवृक्षताम् ॥ ६६ ॥

किं च सति मूलाज्ञाने तद्बलेनैव बाह्यार्थज्ञानाभावानां मौर्ख्यापादकता
तन्नाशे तु मुनित्वसम्पादकतेत्याशयेनाह - ज्ञत्वेनेति ॥ ६६ ॥

अहं ब्रह्म जगच्चेदमित्यविद्यामयो भ्रमः ।
असत्यः प्रेक्ष्या ध्वान्तं दीपेनेव न लभ्यते ॥ ६७ ॥

किं च ब्रह्मज्ञानं जगद्भ्रमश्च सर्वोऽप्यज्ञानमेव न
चाज्ञाननिवृत्तिरज्ञानं येन मुक्तिर्न स्यादित्याशयेनाह - अहमिति ॥ ६७ ॥

समग्रकरणग्रामोऽप्यसङ्कल्पो विवेदनः ।
न किञ्चिदप्यनुभवत्यन्तर्बाह्ये च शान्तधीः ॥ ६८ ॥

तर्हि जीवन्मुक्तानां चक्षुरादिकरणैर्बाह्यज्ञानदर्शनान्मुक्तता न स्यात्तत्राह ##-

सुषुप्तत्व इव स्वप्नः समाधौ प्रविलीयते ।
दृश्यं सर्वं ज्ञबोधेऽन्तः पुनः स्वात्मैव लक्ष्यते ॥ ६९ ॥

समाधौ ज्ञस्य बोधे सकृज्जाते पुनर्यत्सर्वं दृश्यं दृश्यते तत्स्वात्मैव
लक्ष्यते न अनात्मा नाम तेषामणुमात्रमप्यस्तीत्यर्थः ॥ ६९ ॥

नीलत्वं च यथा व्योम्नि तथा पृथ्व्यादिता शिवे ।
भ्रान्तिमात्रादृते नान्यद्यथा व्योम तथा शिवः ॥ ७० ॥

कुतो विलीयत इति चेद्भ्रान्तिमात्रत्वादित्याह - नीलत्वमिति ॥ ७० ॥

वासनाभिरुपेतोऽपि समस्ताभिरवासनः ।
भवत्यसावसत्सर्वमिदमित्येव यस्य धीः ॥ ७१ ॥

अत एव बाधितार्थवासना वासनैव न भवतीत्यवासन एव ज्ञ इत्याह -
वासनाभिरिति ॥ ७१ ॥

सङ्कल्पेष्वद्भुतं भव्य स्वप्नमायेन्द्रजालकम् ।
यद्वत्संसृतयस्तद्वद्दृष्टेऽप्यास्था किमत्र वै ॥ ७२ ॥

ननु विचित्रभुवनैर्देवनरतिर्यगादिभिर्विहितनिषिद्धानेक##-
जगत्कथमसदनृतं सङ्कल्पमात्रमित्याद्युक्तिभिस्त्वया अपलप्यते । न हि
सङ्कल्पमनोरथादिष्वेवंविधार्थाः सन्तीत्याशङ्क्य तत्राप्यद्भुतार्थसत्तां
दर्शयति - सङ्कल्पेष्विति । हे भव्य यथा साङ्कल्पिकार्थेषु
स्वप्नमायेन्द्रजालकं यद्वदद्भुतं तद्वत्संसृतयोऽपि । प्रत्यक्षदृष्टेऽपि
स्वप्नाद्यर्थे किमास्था युक्ता तद्वत्संसृतिष्वपीत्यर्थः ॥ ७२ ॥

न दुःखमस्ति न सुखं न पुण्यं न च पातकम् ।
न किञ्चित्कस्यचिन्नष्टं कर्तुर्भोक्तुरसम्भवात् ॥ ७३ ॥

सतोर्हि कर्तृभोक्त्रोरस्तु सर्वसुखदुःखभोगाय पुण्यपापनियतिस्तयोरेवासम्भवे
का तद्व्यवस्थानियतिरित्याह - नेति ॥ ७३ ॥

सर्वं शून्यं निरालम्बं ममताप्रत्ययोऽप्ययम् ।
द्विचन्द्रस्वप्नपुरवद्यस्यासौ सोऽपि नास्ति नः ॥ ७४ ॥

अयं ममताप्रत्ययो यस्याहङ्कारस्य सोऽपि नास्ति ॥ ७४ ॥

केवलो व्यवहारस्थः काष्ठमौनगतोऽथ वा ।
काष्ठपाषाणवत्तिष्ठन्ब्रह्मतामधिगच्छति ॥ ७५ ॥

केवलः सर्वद्वैतशून्यस्तत्त्वविद्व्यवहारस्थो वाऽस्तु अथवा काष्ठपाषाणवदचलः
समाधौ तिष्ठन्काष्ठमौनगतोऽस्तु सर्वथापि ब्रह्मतामधिमच्छत्येव ॥ ७५ ॥

शान्तत्वे चित्तत्वे नानानानात्मनीह शिवे ।
अवयविनोऽवयवित्वे त्विह युक्तिर्विद्यते नान्या ॥ ७६ ॥

इत्थं मायिकविवर्तवादसिद्धान्तमाश्रित्याध्यारोपितस्य जगतोऽपवादेन तत्त्वविदः
परमपुरुषार्थे प्रतिष्ठा दर्शिता । ये त्वन्ये तार्किका अन्यथान्यथा
सिद्धान्तान्कल्पयन्ति तेषां जगदुत्पत्त्यादिव्यवहारे परमपुरुषार्थलक्षणे
परमार्थे च युक्तिर्नास्तीत्याह - शान्तत्वे इत्यादिना । इहास्मिन्शिवे प्रत्यगात्मनि
प्राणबुद्धिमनोदेहादितादात्म्येन नानात्मनि भिन्नस्वभावे
सांसारिकानर्थशतसङ्कुले प्रत्यक्षं भासमाने तन्निराकरणेन शान्तत्वे
निर्दुःखनिरतिशयानन्दाद्वयरूपपरिशेषणे
वादिनामन्यादर्शिताऽध्यारोपापवादन्यायातिरिक्ता युक्तिर्न विद्यते ।
नित्यशान्तस्वभावे शिवेऽभ्युपगम्यमाने तु तस्य निर्विकारकूटस्थस्य
चलनपरिच्छिन्नस्वभावचित्तरूपत्वे देहेन्द्रियादिनानानानाभावेन संसरणे च
युक्तिरुपपत्तिर्न विद्यते । यदि तु तत्सिद्धये तस्य परिच्छिन्नता परिणामिता सावयवता
चाभ्युपगम्येत तर्ह्यवयविनस्तस्य चेतनैर्जडैर्वा सावयवता चाभ्युपगम्येत
तर्ह्यवयविनस्तस्य चेतनैर्जडैर्वा अवयवैरवयवित्वे युक्तिर्न विद्यते । अवयवानां
चेतनत्वे ऐकमत्यासम्भवेनावश्यम्भाविनि विश्लेषे अवयविनाशप्रसङ्गात्
अचेतनत्वे त्ववयविनोऽप्यचेतनत्वापत्तेरुभयत्राप्यनित्यस्यारब्धस्य
प्राक्तनपुण्यपापासम्भवेन भोगासिद्धेरित्यादियुक्तिसहस्रेभ्यः । एवं
जगत्कारणेऽपि शिवे शान्तत्वे निर्विकारकूटस्थत्वेऽभ्युपगते
जगत्सृष्ट्यनुकूलसङ्कल्पात्मकचित्तत्वे तत्प्रवर्तके नानानानात्मनि प्रपञ्चरूपे
तदन्तर्गतपृथिव्याद्यवयविनोऽवयवित्वे वान्या युक्तिर्न विद्यत इति विवर्तदृष्टिरेव
शरणमित्यर्थः ॥ ७६ ॥

अर्थागतस्वभावस्य च नैव च सम्भवादमले ।
एतस्मिन्सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः ॥ ७७ ॥

नन्वात्मनः शान्तत्वेऽपि प्रलयान्ते लीनानां सर्वपदार्थानां ब्रह्मणि प्रलयकाले
सत्त्वात्तत्प्रयुक्तस्वस्वभाववैचित्र्यबलादेव
चित्तत्वनानात्वाऽनानात्वसावयवत्वादिवैचित्र्ययुक्ताः सर्गादावाविर्भविष्यन्ति तत्राह

  • अर्थागतेति । अर्थवैचित्र्यहेतुः स्वभावः शिवे परमात्मवस्तुन्यर्थेभ्य आगत
    उत स्वतःसिद्धः । तत्रार्थेभ्य आगतस्वभाव इति व्याहतम् । स्वो हि भावः स्वभावः ।
    आगन्तुकोऽन्याधीनश्च कथं स्वभावः स्यात् । तथा असङ्गत्वादद्वयत्वाच्चामले
    परप्रयुक्तस्वभाववैचित्र्यमलसम्बन्धश्च नैव सम्भवति । न चार्थास्ते प्रलये
    स्वातन्त्र्येण सन्ति येन स्वस्वभावबलादेव विचित्रा आविर्भवेयुरिति द्योतनार्थः
    प्रथमश्चकारः । अतः परिशेषादनागन्तुको ब्रह्मण एव स्वस्वभावो वाच्यः ।
    एतस्मिन्सर्वगते ब्रह्मणि वैचित्र्यहेतुस्वभावस्योक्तिसम्भव एव नास्ति । सर्ववस्तूनां
    सर्ववैचित्र्यप्रसङ्गात् । न हि सर्वगते ब्रह्मणि अत्रैवायमेव स्वभाव इति प्रलये
    व्यवस्थापकमस्ति । सर्वत्र सर्ववैचित्र्याभ्युपगमे च वैचित्र्यमेव लुप्येत । न हि
    सर्वसाधारणो धर्मो वैचित्र्यं भवति नापि किञ्चिद्भेदकं सिध्यतीति
    सर्वजगदैकरस्यप्रसङ्गादिति भावः ॥ ७७ ॥

न च नास्तिकोपलम्भात्संवित्तेरस्तिता च नैवाजे ।
ग्राह्यग्राहकदृष्टेरसम्भवादस्ति किञ्चिदपि ॥ ७८ ॥

नन्वेवं सार्वजनीनस्यापि जगद्वैचित्र्यस्य युक्त्यसहत्वादपलापे
तत्संवित्तेरप्यपलापः किं न स्यात् । न हि संवेद्यमन्तरेण संवित्प्रसिद्धेति
शून्यवादः प्रसक्त इति चेत्तत्राह - न चेति । संवेद्यापलापे संवित्तेरप्यस्तिता
नास्तीति न च वक्तुं शक्यम् । संविदपलापिनो नास्तिकात्मन
एवोपलम्भादपलपितुमशक्यत्वात् । स हि स्वातिरिक्ते एव संवित्संवेद्ये अपलपेन्न तु
स्वात्मानम् । यदा सर्वापि संवित्तदात्मैव तदा तत्र संवेद्यमपलपन् संविदं
परिशेषयत्येव । किं च निराधारनिषेधायोगाद्ग्राह्यग्राहकयोरग्राह्यग्राहकात्मनि
स्वयम्प्रकाशे आधारे प्रतिषेधो वाच्यः । स एव तस्यात्मेति तेनाऽजे स्वात्मन्येव
ग्राह्यग्राहकदृष्ट्योरसम्भवप्रतिपादनपर्यवसानात्##-
७८ ॥

शमममलमहार्यमार्यजुष्टं शिवमजमक्षयमासितं समं यत् ।
तदवितथपदं तदास्व शान्तं पिब लल भुङ्क्ष्व भवानयं हि नास्ति ॥ ७९ ॥

हे राम त्वमार्यैर्ब्रह्मविद्भिर्जुष्टं सेवितमहार्यं परैर्हर्तुमशक्यं
यच्छिवमवितथं परमार्थसत्यं पदमासितं नित्यसिद्धं तदेव भूत्वा
परमार्थत आस्व । व्यवहारे चेतरलोकवत्पिब भुङ्क्ष्व लल क्रीडस्व तथापि
भवान्मुक्त एव । हि यस्मादयं दृश्यबन्धस्तव नास्तीत्यर्थः ॥ ७९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे
उत्तरार्धे भावनाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भावनाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥ २९ ॥

प्द्फ़् १८६, प्। ११२६