अष्टाविंशः सर्गः २८
श्रीराम उवाच ।
बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् ।
दैवशब्दार्थयुक्तानां तत्त्वं वद विभो पुनः ॥ १ ॥
बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् ।
दैवशब्दार्थयुक्तानां तत्त्वं भूयोऽत्र वर्ण्यते ॥
बीजानामुपादानानामङ्कुराणामुपादेयानां पुरुषाणां कर्तॄणान्न् कर्मणां
तदीयविहितनिषिद्धोदासीनक्रियाणामिति दृष्टसामग्रीणां दैवशब्दार्थेनादृष्टेन
निमित्तेन युक्तानां सर्वेषां जन्मपरम्परालक्षणसंसारानर्थकारिणां तत्त्वं
प्राग्विशकलितोक्तमपि पुनः पिण्डीकृत्य कथयेत्यर्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
दैवकर्मादिपर्यायन्न् घटादि घटतावधि ।
संवित्स्पन्दनमेवेदं लोके पुरुषतां गतम् ॥ २ ॥
तत्रादौ दैवस्य तत्त्वं कर्म कर्मणस्तत्त्वं पुरुषस्तत्तत्त्वं मनोरूपश्चित्स्पन्दः
तस्य तु चिदात्मैव तत्त्वं यश्चिदात्मैव प्रथमं बहु स्यां प्रजायेय इति
प्राथमिकसङ्कल्पलक्षणेन चित्स्पन्देन समष्टिव्यष्टिमनो भवति ततो
देहाकाराध्यासेन पुरुषस्ततः कर्माणि कुर्वन्पुण्यपापादृष्टरूपदैवतां
चापद्य तद्भोगाय घटादिद्रव्यात्मना तद्गतगुणक्रियाद्यात्मना च
घटत्वादिसामान्यं तेन जगद्रूपेण विवर्तत इति दैवकर्मादिकारणशब्दरूपं
घटादि घटतावधि कार्यशब्दरूपं च
तत्त्वतश्चित्स्पन्दपर्यायमित्याशयेनोत्तरमाह - दैवेति ॥ २ ॥
संवित्स्पन्दादृते पुंस्त्वं कर्म वा कीदृशं भवेत् ।
घटावटपटाद्यात्म ह्येतेनैव जगत् कृतम् ॥ ३ ॥
अत एव हि पुरुषकर्मादि घटावटादि च संविदधीनसत्तास्फूर्तिकं सर्वैरनुभूयते
संविद्विवर्तत्वानभ्युपगमे तु सत्तास्फूर्तिशून्यं तत् कीदृशं भवेत् । अलीकमेव
स्यादित्यर्थः ॥ ३ ॥
प्रवर्तते जगल्लक्ष्मीः संवित्स्पन्दात्सवासनात् ।
निवर्तते हि संसारः संवित्स्पन्दादवासनात् ॥ ४ ॥
सर्वस्य संवित्स्पन्दमात्रत्वे वैचित्र्येणोद्भवे तन्निवृत्तौ च निमित्तमाह -
प्रवर्तते इति ॥ ४ ॥
अवासनं हि संवित्तेः स्पन्दमस्पन्दनं विदुः ।
सस्पन्दोऽप्यस्फुरत्स्पन्दो येनावर्तादिनोह्यते ॥ ५ ॥
येन हेतुना आवर्तादिना स्वान्तःप्रवेश्यमानस्तरङ्गः
सस्पन्दोऽप्यन्तःसमुद्रमात्रतामापद्यमानः अस्फुरत्स्पन्द एवोह्यते वितर्क्यते
इत्यर्थः ॥ ५ ॥
मनागपि न भेदोऽस्ति संवित्स्पन्दमयात्मनोः ।
कल्पनांशादृते राम सृष्टौ पुरुषकर्मणोः ॥ ६ ॥
अत एव चितः स्पन्द एव पुरुषाद्याकारता तन्निवृत्तिरेव निराकारतेति स्पन्दपुरुषयोः
परस्परं विमर्शेन भेद इत्याह - मनागिति ॥ ६ ॥
जलवीच्योर्यथा द्वित्वं सङ्कल्पोत्थं न वास्तवम् ।
तथेह चित्परिस्पन्दरूपयोर्जन्तुकर्मणोः ॥ ७ ॥
अधिष्ठानाद्भेदस्तु सुतरां नास्तीत्याह - जलेति । जन्तुः पुरुषः ॥ ७ ॥
कर्मैव पुरुषो राम पुरुषस्यैव कर्मता ।
एते ह्यभिन्ने विद्धि त्वं यथा तुहिनशीतते ॥ ८ ॥
अभिन्ने इति । तथा च श्रुतिः अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि
कर्माण्युत्तिष्ठन्ति इति ॥ ८ ॥
हिमं यत्तद्यथा शैत्यं यच्छैत्यन्न् तद्यथा हिमम् ।
यत्कर्मासौ तथा जन्तुर्यो जन्तुः कर्म तत्तथा ॥ ९ ॥
तथा च क्रियमाणे पुण्यपापे भाविदेहस्य तद्भोग्यस्य च पूर्वावस्थे इत्यर्थः ॥ ९ ॥
संवित्स्पन्दरसस्यैव दैवकर्मनरादयः ।
पर्यायशब्दा [शब्दास्तु इति पाठः ।] न पुनः पृथक्कर्मादयः
स्थिताः ॥ १० ॥
एवं च यदुक्तं दैवकर्मादिपर्यायम् इति तत्सिद्धमित्याह - संविदिति ॥ १० ॥
स्पन्दात्संविज्जगद्बीजमस्पन्दाद्यात्यबीजताम् ।
अङ्कुरश्च तदेवान्तः स्थितत्वादङ्कुरश्रियः ॥ ११ ॥
बीजाङ्कुराणामिति प्रश्नस्योत्तरमाह - स्पन्दादिति ।
तद्बीजमेवान्तःसूक्ष्मावयवरूपं निर्गतमप्यङ्कुर इत्यर्थः ॥ ११ ॥
चित्त्वं च क्वचिदस्पन्दं क्वचित्स्पन्दं स्वभावतः ।
अनन्तमेकार्णववद्दिक्कालक्रमसंस्थितम् ॥ १२ ॥
चित्त्वं चित्स्वभाव ईदृशो यद्दिक्कालक्रमसंस्थितं स्पन्दं क्वचिद्भजते
क्वचिन्नेत्यर्थः ॥ १२ ॥
संवित्स्पन्दो वासनावानिह बीजमकारणम् ।
भूत्वा कारणतामेति देहादेरङ्कुरावलेः ॥ १३ ॥
वासनावान् भूत्वा अकारणमपि कारणतामेति ॥ १३ ॥
तृणवल्लीलतागुल्मबीजान्तरगतेरपि ।
बीजन्न् संवित्स्पन्द एव तस्य बीजं न विद्यते ॥ १४ ॥
अवान्तरबीजवेषेऽवस्थितः स एव सर्वत्र बीजमवान्तरवेषास्तु तस्य
कार्यवेषविशेषव्यवस्थार्थमित्याशयेनाह - तृणेति । बीजान्तराणां
गतेर्व्यवस्थितकार्यप्रवृत्तेः । नन्वेवं तदन्तरमप्यनुगतं बीजान्तरं
स्यादित्यनवस्थामाशङ्क्याह - तस्येति ॥ १४ ॥
न बीजाङ्कुरयोर्भेदो विद्यतेऽग्न्यौष्ण्ययोरिव ।
बीजमेवाङ्कुरं विद्धि विद्धि कर्मैव मानवम् ॥ १५ ॥
यदि बीजान्तर्गता शक्तिरेवाङ्कुर इति मन्यसे तदापि न शक्तितद्वतोर्भेद इत्याशयेनाह
- नेति ॥ १५ ॥
चित्स्फुरन्ती भूमिकोशे करोति स्थावराङ्कुरम् ।
स्थूलान्सूक्ष्मान्मृदुक्रूरान्पयोबुद्बुदकानिव ॥ १६ ॥
स्थावराणां वटादीनामङ्कुरम् । क्रूरान्कठिनान् । तथा च स्मरन्ति
भूजलादिस्वरूपेण बीजमाविश्य सर्वकृत् । स्वयं कालस्वरूपेण
विदध्यादङ्कुरोदयम् ॥ इति ॥ १६ ॥
चिता विना धराकोशादत्यन्तपरिपेलवात् ।
अङ्कुरान्वज्रसारांश्च [अङ्कुरात् इति पाठः साधुः ।] क उल्लासयितुं
क्षमः ॥ १७ ॥
वज्रसारानिति । दृढान्प्रवालादीन्मृदुतरादङ्कुरात् क उल्लासयितुं निःसारयितुम् ॥
१७ ॥
प्राणिवीर्यरसान्तस्था संविज्जङ्गममाततम् ।
तनोति लतिकान्तस्थो रसः पुष्पफलं यथा ॥ १८ ॥
शुक्रशोणिताभ्यां देहनिष्पादनेऽप्ययमेव न्याय इत्याह - प्राणीति ॥ १८ ॥
यदि सर्वगता संविद्भवेन्नातिबलीयसी ।
तत्क उल्लासने शक्तः स्याद्देवासुरभूभृताम् ॥ १९ ॥
जङ्गमानां स्थावराणामेतदाद्यं च बीजकम् ।
संविद्विस्फुरणामात्रमस्य बीजं न विद्यते ॥ २० ॥
संविदो विस्फुरणा स्पन्दः ॥ २० ॥
बीजाङ्कुरविकल्पानां क्रियापुरुषकर्मणाम् ।
ऊर्मिवीचितरङ्गाणां नास्ति भेदो न वस्तुनि ॥ २१ ॥
कर्म दैवम् । परस्परमपि भेदो नास्ति वस्तुन्यधिष्ठानेपि भेदो नास्ति ॥ २१ ॥
द्वित्वं नृकर्मणोर्यस्य बीजाङ्कुरतया तयोः ।
विपश्चित्पशवे तस्मै महतेऽस्तु सदा नमः ॥ २२ ॥
इत्थं श्रौतमभेदं यो न पश्यति तं निन्दति - द्वित्वमिति । द्वित्वं भेदम् ।
तयोर्बीजाङ्कुरयोरपि । महते पशवे तद्रूपपशुत्वेन स्थिताय महते ब्रह्मणे नम
इत्यर्थो वा ॥ २२ ॥
संवित्तेर्जन्मबीजस्य योऽन्तस्थो वासनारसः ।
स करोत्यङ्कुरोल्लासं तमसङ्गाग्निना दह ॥ २३ ॥
वासनासङ्गप्रयुक्ता अस्य बीजता वासनादाहेऽपैतीत्याह - संवित्तेरिति ॥ २३ ॥
कुर्वतोऽकुर्वतश्चैव मनसा यदमज्जनम् ।
शुभाशुभेषु कार्येषु तदसङ्गं विदुर्बुधाः ॥ २४ ॥
अथवा वासनोत्साद एवासङ्ग इति स्मृतः ।
यया कयाचिद्युक्त्यान्तः सम्पादय तमेव हि ॥ २५ ॥
यदि तु वासनैव सङ्गस्तदुच्छेद एवासङ्गतेति मन्यसे तर्हि तत्त्वज्ञानाभ्यासेनैव
वासनां दहेत्याह - अथवेति । तं वासनोत्सादमेव ॥ २५ ॥
ययैव वेत्सि ततया युक्त्या पुरुषयत्नतः ।
वासनाङ्कुरनिर्मूलमेतदेव परं शिवम् ॥ २६ ॥
प्रागुक्तराजयोगलक्षणया हठयोगलक्षणया वा ययैव पुरुषयत्नतस्ततया
चिराभ्यस्तया युक्त्या वासनाक्षयं सुकरं वेत्सि तयैव सम्पादयेत्यनुषज्यते । एतत्
प्रत्यगात्मरूपमेव ॥ २६ ॥
पौरुषेण प्रयत्नेन यथा जानासि वा तथा ।
निवारयाहम्भावांशमेषोऽसौ वासनाक्षयः ॥ २७ ॥
सर्ववासनानां चिद्ग्रन्थिरहम्भाव एव मूलमतस्तमेव निवारयेत्याह -
पौरुषेणेति ॥ २७ ॥
नास्त्येव पौरुषादन्या संसारोत्तरणे गतिः ।
निरहम्भावरूपेऽस्मिन्वासनाक्षयनामनि ॥ २८ ॥
वासनाक्षयनामनि संसारोत्तरणे ॥ २८ ॥
आद्यैव संविदस्तीह सोऽङ्कुरो बीजमस्ति तत् ।
तत्कर्म तच्च पुरुषस्तद्दैवं तच्छुभाशुभम् ॥ २९ ॥
अनाद्यनन्तप्रत्यगात्मसंवित्सत्तयैवाङ्कुरबीजादीनां सत्ता न स्वत इत्याह -
आद्येति ॥ २९ ॥
न बीजमादावस्त्यन्यन्नाङ्कुरो न च वा नरः ।
न कर्म न च दैवादि केवलं चिदुदेति हि ॥ ३० ॥
नरः पुरुषः ॥ ३० ॥
नो बीजमस्ति न किलाङ्कुरकोऽपि वास्ति नाप्यस्ति कर्म पुरुषश्च न वास्ति साधो ।
एकं तु चित्त्वमुदितं ह्यनयाभिधानलक्ष्म्या नटः सुरनरासुरशोभयेव ॥ ३१
॥
बीजादेः स्वतः सत्ताशून्यत्वे एकश्चिदात्मैवानृतैर्बीजादिवेषैर्जगद्भूत्वा नृत्यतीति
फलितमित्याह - नो बीजमिति । चित्त्वं चित्स्वरूपम् । अभिधानग्रहणन्न्
वाचारम्भणश्रुतिस्मारणार्थम् ॥ ३१ ॥
इत्येव निश्चयमनामय भावयित्वा त्यक्त्वा भृशं
पुरुषकर्मविचारशङ्काम् ।
निर्वासनः सकलसङ्कलनाविमुक्तः संविद्वपुर्ननु यथाभिमतेच्छमास्व ॥
३२ ॥
ननु हे अनामय राम त्वं इति एवंरूपमेव निश्चयसन्दिग्धं भावयित्वा
पुरुषकर्माद्यनृतविचारशङ्कां त्यक्त्वा निर्वासनः सन् यथाभिमतेच्छं
समाहितो व्यवहरन्वा आस्वेत्यर्थः ॥ ३२ ॥
प्रशान्तसर्वेच्छमशङ्कमच्छचिन्मात्रसंस्थोऽखिलकार्यकारी ।
आत्मैकरामः परिपूर्णकामो भवाभयो राम शमाभिरामः ॥ ३३ ॥
एतदेव स्पष्टयन्नुपसंहरति - प्रशान्तेति ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाण० उत्तरार्धे
शङ्कातत्त्वसिद्धान्तप्रतिपादनं नामाष्टाविंशः सर्गः ॥ २८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शङ्कातत्त्वसिद्धान्तप्रतिपादनं नामाष्टाविंशः सर्गः ॥ २८ ॥