०२७

सप्तविंशः सर्गः २७

श्रीवसिष्ठ उवाच ।

निर्वाणो भव शान्तात्मा यथाप्राप्तानुवृत्तिमान् ।
सन्नेवासत्समः सौम्य स्फटिकादिव निर्मितः ॥ १ ॥

चित्तस्पन्दे चितः स्पन्दभ्रमाद्विश्वविभूतयः ।
चित्तशान्त्यैव तच्छान्त्या स्वरूपस्थितिरीर्यते ॥

स्फटिकान्निर्मितः प्रतिमापुरुषो यथा सन्नापि
दृष्टिप्रसरानिरोधित्वादसत्समस्तद्वत्स्वात्माद्वैतदृष्टिप्रसरानिरोधित्वाद##-

एकस्मिन्नेव सर्वस्मिन्संस्थिते विततात्मनि ।
नैकस्मिन्न च सर्वस्मिन्नानाताकलना कुतः ॥ २ ॥

प्रबोधात्प्रागेकस्मिन्नेव सर्वात्मतया स्थिते प्रबोधे तु नैकस्मिन्न च सर्वस्मिन् ।
व्यष्टिसमष्टिभावबाधादिति भावः ॥ २ ॥

आद्यन्तरहितं सर्वं व्योम चित्तत्त्वनिर्भरम् ।
शरीरोत्पत्तिनाशेषु का चित्तत्त्वस्य खण्डना ॥ ३ ॥

ननु प्रतिशरीरमुत्पत्तिनाशाभ्यां सप्तवितस्तिपरिमाणेन च
परिच्छेदानुभवान्नानैवास्तु नेत्याह - आद्यन्तेति ॥ ३ ॥

स्फुरन्ति हि जडक्रीडाश्चिच्चमत्कारचापलात् ।
अचापलात्प्रतीयन्ते तरङ्गा इव वारिणि ॥ ४ ॥

जडसर्गादिरूपाः क्रीडाः । चिच्चमत्कारो मनस्तच्चापलात् ॥ ४ ॥

यथा शुभ्राम्बुदे वस्त्रशङ्का न फलभागिनी ।
देहोऽयमहमित्येषा तथा शङ्का न वास्तवी ॥ ५ ॥

वस्त्रशङ्का वस्त्रत्वोत्प्रेक्षा न परमार्थावधारणफलभागिनी तद्वत् । शङ्का
भ्रान्तिः ॥ ५ ॥

माऽवस्तुनि निमग्नस्त्वं भव भूरिभवप्रदे ।
वस्त्वनन्तसुखायाद्यं भव्यन्न् भावय भूतये ॥ ६ ॥

अवस्तुनि मिथ्याभूते देहादावहम्भावनिमग्नो मा भव । भूतये मुक्तये ॥ ६ ॥

चिद्व्योमानन्तमेवास्मिन्नेयत्तास्ति समात्मनः ।
इत्येव परमं वस्तु वस्तु तत्परमस्तु ते ॥ ७ ॥

किं तद्वस्तु यद्भावनं कार्यं तदाह - चिद्व्योमेति । तादृशवस्तु तत्परं ते
मनोऽस्त्वित्यर्थः ॥ ७ ॥

एवं निश्चयवान्नाम त्वमेवासि निरञ्जनः ।
ध्याता ध्येयं तथा ध्यानं सत्यं चापि न किञ्चन ॥ ८ ॥

तस्य किं फलं तदाह - एवमिति । न चायं निश्चयोऽनिश्चयो
ध्यानध्यात्रादित्रिपुटीबाधकत्वादित्याशङ्क्य तस्याबाध्यत्वमेव
युक्तमित्याशयेनाह - ध्यातेति । कुतस्तस्याबाध्यत्वं तत्राह - सत्यं चेति ।
यतो ध्यात्रादित्रये किञ्चिदपि सत्यन्न्न् नेत्यर्थः ॥ ८ ॥

द्रष्टा दृश्यं दर्शनं च चित एव विभूतयः ।
अतत्तत्संविदो नान्यदध्यानं ध्येयमस्ति च ॥ ९ ॥

तर्हि दर्शनादित्रिपुट्या अपि तत्सामान्यात्कथं तद्बाधकत्वमित्याशङ्क्य
विशेषमाह - द्रष्टेति । दर्शनं हि प्रमाणजन्यं वस्तुतन्त्रमेव न
पुरुषतन्त्रमिति वृत्त्यभिव्यक्तपरमार्थचित्प्राधान्यादज्ञाननिवर्तकत्वाच्च
परमार्थचित एव विभूतयो द्रष्ट्रादयः । ध्यानं तु न प्रमाणजं नापि
वस्तुतन्त्रं पुरुषेच्छानुसारि चेति क्रियाविशेषमात्रत्वादविद्याविभूतय एव
ध्यात्रादय इति बाध्या इत्यर्थः । विशेषान्तरमप्याह - अतदिति । अतत् असंवित्
जडवस्तु सर्वं तत्संविदोऽन्यत् पृथग्भूतन्न् न दृष्टमतो दृश्यं
दर्शनानुसार्येव । ध्येयन्न् तुअध्यानं विनापि ध्यानं अस्ति स्फुरति चेति न वस्तुनो
ध्यानानुसारितेति विशेष इत्यर्थः ॥ ९ ॥

उद्यति प्रतिपच्चन्द्रे वहति प्रलयानिले ।
आत्मतत्त्वं समं सौम्यं न क्षुभ्यति न शम्यति ॥ १० ॥

संविदस्तु निर्विकारत्वं सर्वतो विशेष इत्याह - उद्यतीति । तथा समुद्रः
प्रतिपच्चन्द्रे उद्यति सति क्षुभ्यति प्रलयानिले वहति शुष्यति च न तथा
आत्मतत्त्वमित्यर्थः ॥ १० ॥

यथा नौयायिनः स्थाणुतरुशैलादिवेपनम् ।
यथा शुक्तौ रजतधीस्तथा देहादि चेतसः ॥ ११ ॥

तर्हि तस्या द्रष्ट्रादित्रिपुटी कथं विभूतिरिति चेद्विवर्ततयैवेत्याशयेनाह - यथेति ।
चिति चेतसो दृष्ट्या भ्रम इत्यर्थः ॥ ११ ॥

यथा देहादि चित्तस्य तथा देहस्य चित्तकम् ।
तथैव जीवः परमे पदे द्वैतमतः कुतः ॥ १२ ॥

एवं देहदृष्ट्या चित्तमपि कल्पितम् । तदुभयदृष्ट्या जीवः कल्पितस्तद्दृष्ट्या
तदुभयन्न् कल्पितमिति शुद्धचिति विवर्ताः सर्वे इत्याह - यथेति ॥ १२ ॥

सर्वमेकमिदं शान्तं ब्रह्म बृंहितवेदनात् ।
न किञ्चिज्जगदाद्यस्ति भ्रान्तिरन्या न विद्यते ॥ १३ ॥

ब्रह्मदृष्ट्या तु तदेवैकमित्याह - सर्वमिति ॥ १३ ॥

न विद्यते यथा व्योम्नि वनं स्नेहश्च सैकते ।
विद्युच्छशाङ्कबिम्बे च तथा देहादि चेतसि ॥ १४ ॥

चेतसि तत्त्वदृष्टौ ॥ १४ ॥

अविद्यमान एवास्मिन्मा बिभीहि जगद्भ्रमे ।
एतदेव परं सत्यं विद्धि सत्यविदां वर ॥ १५ ॥

बिभीहि भयं प्राप्नुहि ॥ १५ ॥

जगदस्ति न सत्तेति यासीद्भ्रान्तिस्तवाद्य सा ।
शान्ता मदुपदेशेन किमन्यद्बन्धकारणम् ॥ १६ ॥

जगदेवास्ति अद्वितीयब्रह्मसत्ता नास्तीति या भ्रान्तिस्तवासीत्सा ॥ १६ ॥

स्थाल्युदञ्चनकुम्भादि यथा मृन्मात्रकं तथा ।
चित्तमात्रं जगदिदं क्षीणं तच्च विचारणात् ॥ १७ ॥

आपत्सु सम्पत्सु भवाभवेषु शान्तैषणाहर्षविषादसंवित् ।
सौम्यादहम्भावविदा विमुक्तो यथास्थितं तिष्ठ विलीय मास्व ॥ १८ ॥

हे राम त्वं सौम्यान्मदुपदेशादहम्भावरूपया विदा विमुक्तः सन् सम्पत्सु
शान्तैषणाहर्षसंवित् आपत्सु च शान्तविषादसंवित् सन् भवाभवेषु
विभवानामुत्कर्षापकर्षेषु यथास्थितं समं तिष्ठ । मदुपदेशविस्मरणेन विलीय
स्वरूपस्थितिदार्ढ्यं विहाय मा आस्व ॥ १८ ॥

यथास्थितं वस्त्वधिगम्य राम स्थितोऽसि चेद्वास्वकुलाम्बरेन्दो ।
तद्धर्षशोकैषणदूषणादि विमुच्य वा तिष्ठ यथेच्छमास्व ॥ १९ ॥

तत्किं तत्त्वज्ञानोत्तरं प्रमादात्प्रारब्धप्राबल्याद्वा
हर्षशोकानुवृत्त्यपराधेन पुनर्बन्धो भविष्यति नेत्याह - यथास्थितमिति । हे
स्वकुलाम्बरेन्दो राम त्वं यथास्थितं ब्रह्मात्मैक्यवस्तु अपरोक्षतया
सम्यगधिगम्य स्थितोऽसि चेत्तत्तर्हि हर्षशोकेषणालक्षणानि दूषणानि
चित्तसन्तापकानि विमुच्य वा तिष्ठ यथेच्छं वा तान्यनुवर्तमान आस्वेति
प्राक्तनवाशब्दस्यात्रान्वयः । तव दृष्टसुखार्थ मया विलीय मास्वेत्युक्तं न तु
तावता मुक्तौ सन्देह इति भावः ॥ १९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
मुख्ययोगोपदेशो नाम सप्तविंशः सर्गः ॥ २७ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मुख्ययोगोपदेशो नाम सप्तविंशः सर्गः ॥ २७ ॥