षड्विंशः सर्गः २६
श्रीवसिष्ठ उवाच ।
संसारमार्गगहने पतितस्यापतन्ति हि ।
वृत्तवृत्तान्तलक्षाणि कीटा इव घनागमे ॥ १ ॥
इह प्रपञ्च्यतेऽनर्थो भावनाद्रसरञ्जनात् ।
इच्छान्त्यानर्थसंशान्तिर्विवेकात्तत्त्वदर्शनात् ॥
एवं स्थावरादियोनिलक्षणे संसारमार्गे पतितस्य जीवस्यानादिसंसारे बहुशो
वृत्तानि च्छेदनभेदनदहनक्षुत्तृड्जराभयमरणादिरूपाणि वृत्तान्तलक्षाणि
पुनरप्यापतन्ति हि ॥ १ ॥
सर्व एव त्विमे भावाः परस्परमसङ्गिनः ।
अटव्यामुपलानीव भावनैतेषु शृङ्खला ॥ २ ॥
तत्र चभावनैव मूलमित्याशयेनाह - सर्व इति ।
शृङ्खलावत्परस्परग्रन्थनहेतुः ॥ २ ॥
चित्तमान्ध्याय वृत्तान्तद्रुमैर्गहनवत्स्थितम् ।
रसरञ्जनया लोके वसन्त इव काननम् ॥ ३ ॥
तस्याश्च मूलं विवेकान्धं रागद्वेषादिरसरञ्जितं
पूर्ववृत्तान्तवासनानिबिडितं चित्तमित्याशयेनाह - चित्तमिति । रसो
रागादिर्भौमश्च ॥ ३ ॥
अहो बत विचित्राणि वासनावशतोऽवशैः ।
भूतकैरनुभूयन्ते सुखदुःखानि जन्मसु ॥ ४ ॥
अहो बतातिविषमा वासना यद्वशाज्जनैः ।
अविद्यमानैरेवायं भ्रमोऽन्तरनुभूयते ॥ ५ ॥
अविद्यमानैर्मिथ्याभूतैरेव त्रिपुटीरूपैरर्थैः ॥ ५ ॥
आह्लादिनो मृतवतः शुद्धस्यालोककारिणः ।
शीतलस्याखिलार्थेषु ज्ञस्येन्दोश्च किमन्तरम् ॥ ६ ॥
अत एव तीर्णभ्रमास्तत्त्वविदः सुखिन इति तान्प्रशंसति - आह्लादिन इति ।
विशेषणान्यत्राग्रिमश्लोकयोश्चोभयत्र तुल्यानि योज्यानि ॥ ६ ॥
पूर्वापरमनालोच्य यत्किञ्चिदभिवाञ्छतः ।
निर्मर्यादस्य मूढस्य बालस्य च किमन्तरम् ॥ ७ ॥
अविवेकिनस्तु निन्दति - पूर्वापरमिति ॥ ७ ॥
लब्धमाप्राणपर्यन्तं शुभाशुभमनुज्झतोः ।
आमिषं को विशेषोऽस्ति वद माकरमूढयोः ॥ ८ ॥
आमिषं विषयं बडिशामिषं च प्राणानां पर्यन्तो मरणं तदवधि
अनुज्झतोरत्यजतोः । मकर एव माकरः मत्स्यजात्युपलक्षणमेतत् ॥ ८ ॥
सर्व एव त्विमे भावा देहदारधनादयः ।
क्षिप्रमाशुष्कसिकताशरावविशरारवः ॥ ९ ॥
आशुष्कसिकतानिर्मितशराव इव विशरारवो नश्वराः ॥ ९ ॥
आब्रह्मस्तम्बपर्यन्तमपि योनिशतेषु ते ।
आकल्पं भ्रमतश्चित्तशान्तिर्नास्ति शमादृते ॥ १० ॥
इदानीं श्रोतृचित्तमेव सम्बोध्याह - आब्रह्मेति ॥ १० ॥
पर्यालोचनमात्रेण बन्धगन्धो न बाधते ।
गच्छतो मार्गवैषम्यमिवालोकनकारिणः ॥ ११ ॥
पर्यालोचनं विवेकस्तन्मात्रेण । आलोकनं स्वपादन्यासप्रदेशावलोकनं तत्कारिणः
॥ ११ ॥
तव नावहितं चित्तं कामः कवलयिष्यति ।
सावधानस्य बुद्धस्य पिशाचः किं करिष्यति ॥ १२ ॥
अवहितं सविवेकावधानम् । बुद्धस्य जागरूकस्य ॥ १२ ॥
यथेक्षणप्रसरणं रूपालोकनमात्रकम् ।
संवित्प्रसृतिमात्रात्म तथा साहञ्जगत्स्थितम् ॥ १३ ॥
साहङ्कारं जगत् निर्विवेकावधानसंवित्प्रसरमात्रमित्याह - यथेति । यथा
रूपालोकनमात्रकमेवेक्षणस्य चक्षुषः प्रसरणं न तद्भिन्नं किञ्चित्प्रसिद्धं
तद्वत् ॥ १३ ॥
यथाक्षिसंवृतिः सर्वरूपालोकशमोऽरिहन् ।
संवित्संवरणं नाम सर्वदृश्यशमस्तथा ॥ १४ ॥
हे कामाद्यरिषड्वर्गहन् बहिर्मुखसंविदः प्रत्यक्प्रवणवृत्त्या संवरणं
स्वात्मन्युपरमः ॥ १४ ॥
असदेव जगत्साहन्न् शुद्धा संवित्तनोति खे ।
ईषत्प्रसरणेनाशु स्पन्दनन्न् पवनो यथा ॥ १५ ॥
साहमहङ्कारसहितं जगत् शुद्धा संविदेव अविवेकप्रयुक्तेनेषत्प्रसरणेन खे
आवृतस्वस्वरूपाकाशे तनोति ॥ १५ ॥
सदिवासत्यमेवेदमकुर्वत्यन्यमेधते ।
मृदा हेम्नेव कुम्भत्वमपृथग्लभ्यमात्मगम् ॥ १६ ॥
ब्रह्मसंवित्परमार्थतोऽन्यमकुर्व्त्येवासत्यमेव सदिवेदं जगद्रूपमेधते
जृम्भते । कथमसत्यमिति ज्ञायते तत्राह - मृदेति । यथा मृदा हेम्ना वा
आत्मगं स्वात्मनि कल्पितं कुम्भत्वमपृथग्लभ्यं पृथक्कृत्य
लब्धुमशक्यं तथेदं जगदपि चितः पृथक्कृत्य लब्धुमशक्यम् । यदि सत्यं
स्यात् पृथक् लभ्येतेति भावः ॥ १६ ॥
शून्यमात्रं यथा व्योम स्पन्दमात्रं यथानिलः ।
जलमात्रं यथोर्म्यादि संविन्मात्रं तथा जगत् ॥ १७ ॥
यद्यदपृथग्लभ्यन्न् तत्तत्पृथक्सत्ताशून्यमिति हेमादौ व्याप्तिं दर्शयति -
शून्यमात्रमिति ॥ १७ ॥
अव्यवच्छिन्ननिर्भागसंविन्मात्रं जगत्त्रयम् ।
विद्धि शान्तं तथा व्योम यथा वारिणि पर्वतम् ॥ १८ ॥
अव्यवच्छिन्नेति सजातीयभेदनिरासः । निर्भागेति स्वगतभेदनिरासः । वारिणि
प्रतिबिम्बितं पर्वतं पर्वतसदृशं बृहत्तरङ्गं वा ॥ १८ ॥
निर्वाणस्योपशान्तस्य ज्ञस्य सोदेति शीतता ।
अन्तर्यत्रेन्दवोऽप्येते दीप्तज्वलनबिन्दवः ॥ १९ ॥
इत्थं जगत्तत्त्वं जानतो न सांसारिकतापप्रसक्तिरित्याशयेनाह - निर्वाणस्येति । सा
सर्वोत्कृष्टा शीतता सर्वतापोपशान्त्युपलक्षिताऽऽह्लादता । यत्र यद्दृष्ट्येति यावत् ॥
१९ ॥
किं केन कथमेकान्तशान्ताततशिवात्मनि ।
निरालोकोऽपरालोकः शून्ये जगति जन्यते ॥ २० ॥
तत्र प्रकाशान्तरप्रसक्तिरपि नास्तीत्याह - किमिति । जगति शिवे शून्ये सति अपरालोकः
किंस्वरूपः केन साधनेन कया च क्रियया जन्यत इत्यर्थः ॥ २० ॥
या सत्ता ब्रह्मशब्दाख्या रूपं सर्वस्य तन्निजम् ।
न यत्र काचिद्बाधास्ति सर्वं तन्मयमव्ययम् ॥ २१ ॥
तदेव सर्ववस्तूनामबाध्यं स्वरूपमित्याह - येति ॥ २१ ॥
यदिदं तु पदार्थत्वं यत्र बाधानुभूयते ।
यद्यच्च बाधनं प्रेक्ष्य तन्न विद्मः खपुष्पवत् ॥ २२ ॥
बाध्यं स्वरूपं तर्हि किं तत्राह - यदिति । पदार्थत्वं नामरूपभावः । तच्च
तस्य बाधनं चाद्यच्च तस्योत्पत्त्यादिविकारषट्कं तत्सर्वं प्रेक्ष्य
सम्यग्विमृश्यापि न विद्मः । यतस्तत्खपुष्पवत्तुच्छमेवेत्यर्थः ॥ २२ ॥
ज्ञ एवापगतस्वान्तं शान्तमास्व महाश्मवत् ।
असौ न मननं मानमनन्तमजमव्ययम् ॥ २३ ॥
तच्च रूपं मनोविकल्पितं मनोपगमेऽपैतीति शान्तमास्वेत्याह - ज्ञ एवेति ।
स्वान्तापगमेन ज्ञोऽप्यपगमिष्यत्येवेति कथं ज्ञ एवास्वेत्युच्यते तत्राह - असाविति
। मनोपगमे हि नामरूपात्मकं मननं विकल्पनं तन्मानं चक्षुरादि
चाऽपगच्छेत् असौ ज्ञस्तु तथा न किन्त्वनन्तमजमव्ययं ब्रह्मैवेति
नापगच्छतीत्यर्थः ॥ २३ ॥
आकाशकल्पे स्वे भावे तिष्ठतोऽङ्गानिवेदनम् ।
भवत्यभ्यासदार्ढ्येन विना स्वप्नविकारवत् ॥ २४ ॥
हे अङ्ग आकाशकल्पे स्वे आत्मभावे मनोबाधेन तिष्ठतो ज्ञस्य
नामरूपयोरनिवेदनमप्रतीतिरेव भवति
यतस्तत्स्वरूपावस्थित्यभ्यासदार्ढ्याभावादेव स्वप्नविकारवन्मनस्युदेतीत्यर्थः ॥
२४ ॥
निरुपादानसम्भारमभित्तावेव चेतति ।
ब्राह्मं कर्तृ जगच्चित्रं न कश्चिद्वा न किञ्चन ॥ २५ ॥
मनोविकल्पमात्रं जगदिति कथं ज्ञायते तत्राह - निरुपादानेति । यतो ब्राह्मं
हैरण्यगर्भ मन एव जगतः कर्तृ निर्मातृ तच्च निरुपादानसम्भारं
निरस्तरञ्जकद्रव्यतूलिकाकूर्चादिसामग्रीकमेव जगच्चित्रमभित्तौ निराश्रय एव
सङ्कल्पमात्रेण चेतति पश्यति । न कश्चिद्वा मनोतिरिक्तः कर्ता न किञ्च न कार्यं च
मानसे स्वप्नादौ दृष्टमित्यर्थः ॥ २५ ॥
तनोति यत्तदात्मैव तस्य तत्र तथा स्थितम् ।
दृश्याभावादसद्दृश्यं तेन कः क्व करोति किम् ॥ २६ ॥
तच्च मनो यत्तनोति विस्तारयति तत्र सर्वत्र मनोराज्यादाविव आत्मा स्वयमेव तथा
तत्तद्वस्त्वाभासात्मना स्थितम् । इत्थं स्वातिरिक्तदृश्याभावात्केन कः किं क्व करोति
न कश्चित्केनचित्क्वचित्किञ्चिदित्यर्थः ॥ २६ ॥
अहं सुखीति सुखिता अहं दुःखीति दुःखिता ।
सर्व एव स्वरूपस्था व्योमात्मानोऽपि पार्थिवाः ॥ २७ ॥
इत्थं च सुखदुःखे तत्साधनीभूताः पार्थिवादिविषयाश्च कल्पनोपरमे
शून्यरूपा आत्मरूपा वा सम्पन्ना इत्याह - अहमिति ॥ २७ ॥
सर्वेषामेव भावानां चिदाकाशात्मनामपि ।
मिथ्यैव स्वप्नशैलानामिव [स्वप्नशीलानां इति पाठश्चिन्त्यः ।]
पार्थिवता स्थिता ॥ २८ ॥
पार्थिवानामप्यपार्थिवता स्वप्नशैलवत्सम्भावनीयेत्याह - सर्वेषामिति ॥ २८ ॥
अहन्त्वोल्लेखतः सत्ता भ्रमभावविकारिणी ।
तदभावात्स्वभावैकनिष्ठता शमशालिनी ॥ २९ ॥
एवं च सति यत्फलितं तदाह - अहन्त्वोल्लेखत इत्यादिना ॥ २९ ॥
हेम्नः कटकशब्दार्थो व्यतिरिक्तो यथास्ति ते ।
व्यतिरिक्ता तथा सत्या नाहन्तास्ति शमात्मनः ॥ ३० ॥
निर्वाणो निर्मना मौनी कर्ताऽकर्ता च शीतलः ।
ज्ञ एव शान्त एवास्ते शून्य एवाभिपूरितः ॥ ३१ ॥
निर्वासनास्पन्दपरो यन्त्रपुत्रकगात्रवत् ।
स यथास्थितमेवास्ते ज्ञः संव्यवहरन्नपि ॥ ३२ ॥
निर्वासनत्वादेव अस्पन्दपरः स्पन्दाभिमानशून्यः ।
यन्त्रनिर्मितशिलादिप्रतिमाशरीरवत् ॥ ३२ ॥
यथा मञ्चकसंस्थस्य स्पन्दन्ते नैव वा शिशोः ।
अङ्गानि स्वानुसन्धानं विनैवंविदितात्मनः ॥ ३३ ॥
देहस्पन्ददशायामेव तदस्पन्दसम्भावनाय दृष्टान्तमाह - यथेति ।
स्पन्दमानदोलामञ्चके सुप्तस्य शिशोरङ्गानि नैव स्पन्दन्ते
तद्वत्सम्भावनीयमित्यर्थः ॥ ३३ ॥
निःसम्बोधैकबोधस्य निराशेहैषणाशिषः ।
शान्तानन्तात्मरूपत्वादनुसन्धानता कुतः ॥ ३४ ॥
ननु तस्य स्वरूपज्ञानमेव देहाद्यनुसन्धानं किं न स्यात्तत्राह -
निःसम्बोधेति । निःसम्बोधो बहिर्मुखचित्तवृत्तिस्तच्छून्याखण्डबोधरूपस्य ।
चिरप्राप्ये विषये आशा । प्राप्तविषये स्नेह एषणा । मनोरथैराशासनमाशीरिति भेदः
॥ ३४ ॥
अद्रष्टुरपदृश्यस्यादृग्रूपस्यापरूपिणः ।
कुतः किलानुसन्धानमनपेक्षस्य पश्यतः ॥ ३५ ॥
द्रष्ट्रादित्रिपुटीबाधादपि तस्य नानुसन्धानतेत्याह - अद्रष्टुरिति । स्वयं च
अपरूपिणो निराकारस्य ॥ ३५ ॥
अपेक्षैव घनो बन्ध उपेक्षैव विमुक्तता ।
सर्वशब्दान्विता तस्यां विश्रान्तेन किमीक्ष्यते ॥ ३६ ॥
सर्वशब्दान्विता उपेक्षा सर्वोपेक्षैव विमुक्ततेत्यर्थः । तस्यां पूर्णकामतायां
विश्रान्तेन किमीक्ष्यते अपेक्ष्यते । ईप्स्यते इति पाठः साधुः ॥ ३६ ॥
पार्थिवत्वे शरीरेऽस्मिन्स्वस्वप्नाङ्ग इवासति ।
भ्रममात्रात्मनि कुतः क्व कस्य किमपेक्षणम् ॥ ३७ ॥
शरीरार्थं हि सर्वोऽप्यपेक्षते । तस्य स्वाप्नशरीरादिवद्बाधे सति न
कस्यचिदपेक्षाप्रसक्तिरित्यर्थः ॥ ३७ ॥
उपशान्तसमस्तेहं विगताखिलकौतुकम् ।
निरस्तवेदनं ज्ञेन विदा केवलमास्यते ॥ ३८ ॥
उपसंहरति - उपशान्तेति ॥ ३८ ॥
मङ्किनेति श्रुतवता ततो मोहो महानपि ।
अशेषेण परित्यक्तस्तत्रैव त्वगिवाहिना ॥ ३९ ॥
मुख्याधिकारित्वान्मङ्किनः सकृच्छ्रवणमात्रेण मोहनिवृत्तिमाह -
मङ्किनेति ॥ ३९ ॥
प्रवाहापतितं कार्यं कुर्वतापास्तवासनम् ।
तेन वर्षशतस्यान्ते स्थितमद्रौ समाधिना ॥ ४० ॥
तत्राद्ययावत्पाषाणसमधर्मा स तिष्ठति ।
संशान्तकरणो योगी बोध्यमानः प्रबुध्यते ॥ ४१ ॥
एतेन राघव विवेकपदेन शान्तिमासादयोदयवता मनसा विहर्तुम् ।
मा दीनतां व्रजतु रागमयी मतिस्ते क्षीणा क्षणादसलिलेव शरद्घनाली ॥ ४२ ॥
हे रघव त्वमेतेन मङ्किपरिगृहीतोपायेन ज्ञानेऽभ्युदयवता मनसा विवेकपदेन
स्वात्मानन्दे विहर्तुन्न् शान्तिमासादय । ते मतिः रागमयी सती असलिला शरद्घनालीव
क्षणात् क्षीणविवेका भूत्वा दीनतां मा व्रजत्वित्यर्थः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ०
मङ्क्युपा० निर्वाणसमाप्तिर्नाम [सम्यगाप्तिः समाप्तैः ।] षड्विंशः
सर्गः ॥ २६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणसमाप्तिर्नाम षड्विंशः सर्गः ॥ २६ ॥