०२५

पञ्चविंशः सर्गः २५

श्रीवसिष्ठ उवाच ।

संवेदनं भावनं च वासना कलनेति च ।
अनर्थायेह शब्दार्थे विगतार्थो विजृम्भते ॥ १ ॥

संवेदनाद्यविद्योत्थं बन्धबीजचतुष्टयम् ।
परमात्मनि विद्या च तन्निहन्त्र्यत्र वर्ण्यते ॥

एवं मङ्किना स्वसंसारानर्थमुपवर्ण्य तन्निरासोपाये पृष्टे
तद्बीजान्यपरिज्ञाय तन्निरसनोपाया न सम्पादयितुं शक्या इति
तद्बीजचतुष्टयमुपपादयितुमुपदिशति - संवेदनमिति ।
प्रथममिन्द्रियैर्विषयोपभोगलक्षणं संवेदनमपगते विषये
तद्गुणानुसन्धानेन पुनःपुनर्भावनं तेन तदाकारलाञ्छनरूपा चित्ते
दृढवासना तया च मरणादिकालेऽपि भाविदेहाद्यारम्भानुकूला कलना
तत्स्मृतिरिति चतुर्विध इह संसारे अनर्थाय सर्वानर्थबीजभूतो
मिथ्याभूतार्थगोचरत्वात्स्वयं मिथ्याभूतत्वाच्च विगतार्थः शब्दार्थः
पदार्थोऽविद्यया विजृम्भत इत्यर्थः ॥ १ ॥

वेदनं भावनं विद्धि सर्वदोषसमाश्रयम् ।
तस्मिन्नेवापदः सन्ति लता मधुरसे यथा ॥ २ ॥

तत्राद्ययोरत्यन्तमनर्थता अन्त्ययोस्तु तत्पृष्ठभावेनेत्याशयेनाह -
वेदनमिति । तत्रापि भावनं महाननर्थ इत्याशयेनाह - तस्मिन्निति । यथा
पुष्पपल्लवादिसमृद्धा लता मधुमासप्रवर्तिते तद्रसे सन्ति
तत्परिणामत्वाल्लतासर्वस्वस्य तद्वदित्यर्थः ॥ २ ॥

संसारमार्गे गहने वासनावेशवाहिनः ।
उपयाति विचित्रौघैर्वृत्तवृत्तान्तसन्ततिः ॥ ३ ॥

विवेकिनो वासनया सह संसारसम्भ्रमः ।
क्षीयते माधवस्यान्ते शनैरिव धरारसः ॥ ४ ॥

अत एव विवेकिनो विषयदोषभावनया ब्रह्मभावनया च तत्क्षये वासनया सह सर्वोपि
संसारः क्षीयत इत्याह - विवेकिन इति ॥ ४ ॥

अस्याः संसरसल्लक्या वासनोत्सेधकारिणी ।
कदल्या वनजालिन्या रसलेखेव माधवी ॥ ५ ॥

उत्तरसंसारस्य तु वासनैव प्रवर्तिकेत्याह - अस्या इति । सल्लकी
सकण्टकगुल्मविशेषः ॥ ५ ॥

संसारान्ध्यतयोदेति वासनात्मा रसश्चितौ ।
यथा वनतया तस्थौ मधुमासरसः क्षितौ ॥ ६ ॥

चितौ अज्ञानाश्रयजीवचैतन्ये ॥ ६ ॥

चिन्मात्रादमलाच्छून्यादृते किञ्चिन्न विद्यते ।
नान्यत्किञ्चिदपर्यन्ते खे शून्यत्वेतरद्यथा ॥ ७ ॥

परमार्थापलापहेतुन्न् तदावरणमज्ञानं दर्शयितुं परमार्थं प्रथममाह

  • चिन्मात्रादिति । शून्यादद्वयाच्चिन्मात्रादृते चित्सत्तास्फूर्तिभ्यामेव
    जगत्सत्तास्फूर्त्योः सर्वानुभवसिद्धत्वादित्यर्थः । स्वतः सत्तास्फूर्त्या तु
    नान्यत्किञ्चित्प्रसिद्धम् । यथा खे शून्यत्वेतरदप्रसिद्धं तद्वदित्यर्थः ॥ ७ ॥

वेदनात्मा न सोऽस्त्यन्य इति या प्रतिभा स्थिरा ।
एषाऽविद्या भ्रमस्त्वेष स च संसार आततः ॥ ८ ॥

एवं सर्वतः सर्वदा स्फुरन्नपि स चिन्मात्ररूपो वेदनात्मा देहेन्द्रियादिभ्योऽन्यो नास्ति
न भाति चेत्यसत्त्वाभानापादिका या स्थिरा अनादिः प्रतिभा
भ्रान्तिरेषैवावरणशक्तिप्राधान्येनाविद्या विक्षेपशक्तिप्राधान्येन
भ्रमस्तदुभयफलरूपेण संसार इत्यर्थः ॥ ८ ॥

अनालोकनसंसिद्ध आलोकेनैव नश्यति ।
असदात्मा सदाभासो बालवेतालवत्क्षणात् ॥ ९ ॥

अविद्यामूलप्रसाधनफलं दर्शयति - अनालोकनेति ॥ ९ ॥

सर्वदृश्यदृशो बाधे बोधसारतयैकताम् ।
यान्त्यशेषमहीपीठसरित्पूरा इवार्णवे ॥ १० ॥

भेदकदृश्योपाधिबाधे सर्वदृष्टीनामैक्यं दर्शयति - सर्वेति ॥ १० ॥

मृन्मयं तु यथा भाण्डन्न् मृच्छून्यन्न् नोपलभ्यते ।
चिन्मयादितया चेत्यन्न् चिच्छून्यं नोपलभ्यते ॥ ११ ॥

चिन्मात्रादमलाच्छून्यादृते किञ्चिन्न विद्यते इति यदुक्तं तद्दृष्टान्तैरुपपादयति

  • मृन्मयमित्यादिना । चिन्मयतया आदिपदात्सन्मयतया च ॥ ११ ॥

बोधावबुद्धं यद्वस्तु बोध एव तदुच्यते ।
नाबोधं बुध्यते बोधो वैरूप्यात्तेन नान्यता ॥ १२ ॥

चिन्मयतया स्फुरतो विमर्शे चिदैकरस्यमेव पर्यवस्यतीत्याशयेनाह - बोधेति ।
वैरूप्याद्विरुद्धरूपत्वात् । बोधाभेदं विना स्फुरणासिद्धेरबोधस्य च
बोधाभेदायोगादित्यर्थः ॥ १२ ॥

द्रष्ट्टदर्ऽसनदृश्येषु प्रत्येकं बोधमात्रता ।
सारस्तेन तदन्यत्वं नास्ति किञ्चित्खपुष्पवत् ॥ १३ ॥

यदि द्रष्ट्रादित्रिपुट्या बोधेनाध्यासिकमभेदं ब्रूयास्तर्हि तस्या
अनृतत्वादधिष्ठानबोधसारैकरस्यमेव सिद्धमित्याशयेनाह - द्रष्ट्रिति ॥ १३ ॥

सजातीयः सजातीयेनैकतामनुगच्छति ।
अन्योन्यानुभवस्तेन भवत्वेकत्वनिश्चयः ॥ १४ ॥

परस्परमिलनेनाभेदापत्तिस्तु जलस्य जलेनेव सजातीयानामेव भवतीति
जगतस्तदनुभवमात्रत्वे अनुभवानामेकत्वे चिदेकत्वसिद्धान्त एव पर्यवसन्न
इत्याह - सजातीय इति ॥ १४ ॥

यदि काष्ठोपलादीनां न भवेद्बोधरूपता ।
तत्सदानुपलम्भः स्यादेतेषामसतामिव ॥ १५ ॥

काष्ठादीनां दृश्यानां स्फुरणाभेदानभ्युपगमे
शशशृङ्गवदत्यन्ताभानमेव स्यादित्याह - यदीति ॥ १५ ॥

यदा त्वेषा नु दृश्यश्रीर्बोधमात्रैकरूपिणी ।
तदान्येवाप्यनन्यैव सती बोधेन बोध्यते ॥ १६ ॥

सिद्धान्ते तु नायं दोष इत्याह - यदेति ॥ १६ ॥

सर्वं जगद्गतं दृश्यन्न् बोधमात्रमिदं ततम् ।
स्पन्दमात्रं यथा वायुर्जलमात्रं यथार्णवः ॥ १७ ॥

तथा जगद्बोधमात्रं बोधानतिरिक्तस्फूर्तिकत्वाद्यद्यदनतिरिक्तस्फूर्तिकं
तत्तन्मात्रं यथा वायोः स्पन्द इत्यनुमानं दर्शयति - सर्वमिति ॥ १७ ॥

मिश्रीभूता अपि ह्येते जतुकाष्ठादयो यथा ।
मिथोऽननुभवे मिश्रा ऐक्यं ह्यनुभवे मिथः ॥ १८ ॥

ननु दृष्टान्ते क्रियाक्रियावतोरवयवावयविनोश्च समवायेन मिश्रीभावमात्रं न
त्वत्यन्तैक्यमित्याशङ्क्य जतुकाष्ठयोर्बहिर्मिश्रणेऽपि विवेकानुभवे
मिश्रणादर्शनादिह त्वनुभवेऽपि तद्दर्शनेन
वैषम्यात्समवायासिद्धेरित्याशयेनाह - मिश्रीभूता इति ॥ १८ ॥

अन्योन्यानुभवो ह्यैक्यमैक्यं त्वन्योन्यवेदनम् ।
यथाम्भसोः क्षीरयोर्वा न काष्ठजतुनोरिव ॥ १९ ॥

अम्भसोः क्षीरयोर्वा अन्योन्यात्मतानुभवो ह्यैक्यम् । दृग्दृश्यपदार्थयोरपि तु
तादृशमन्योन्यवेदनात्मकमैक्यमस्त्येव न तु
जतुकाष्ठवत्संयोगमात्रमित्यर्थः ॥ १९ ॥

अहमित्येव बन्धाय नाहमित्येव मुक्तये ।
एतावन्मात्रके बन्धे स्वायत्ते किमशक्तता ॥ २० ॥

एवं सर्वदृश्यानां चिन्मात्रत्वेन तत्पदार्थचितोऽपरिच्छिन्नतया नित्यमुक्तत्वे
सिद्धे त्वम्पदार्थस्याहमिति परिच्छिन्नबुद्धिरेव बन्धाय तत्त्यागमात्रं मुक्तये इति
फलितमित्याह - अहमित्येवेति ॥ २० ॥

चन्द्रद्वयप्रत्ययवन्मृगतृष्णाम्बुबुद्धिवत् ।
किमनुत्थित एवायमसदेवाहमुत्थितः ॥ २१ ॥

तदेवोपपादयति - चन्द्रेति । असदहं किमुत्थितः । अनुत्थित एवेति योज्यम् ॥ २१ ॥

ममेदमिति बन्धाय नाहमित्येव मुक्तये ।
एतावन्मात्रके वस्तुन्यात्मायत्ते किमज्ञता ॥ २२ ॥

अहन्तात्यागे ममताबन्धः स्वत एवापैतीत्याशयेनाह - ममेति । आत्मायत्ते
स्वाधीने ॥ २२ ॥

यः कुण्डबदरन्यायो या घटाकाशयोः स्थितिः ।
स सम्बन्धोऽपि नैवान्यमैक्यं ह्यन्योन्यवेदनम् ॥ २३ ॥

असता अहङ्कारेण सत्यस्यात्मनः परिच्छेदो वा न सम्भाव्य एवेत्याह - य इति ।
येन सम्बन्धेन तिरोधानमच्छेदो वा सिद्ध्येत्स
सम्बन्धोऽप्यन्यमत्यन्तभिन्नमहङ्कारं कल्पयतो नास्ति । तस्माद्वास्तवैक्यमेव
चन्द्रद्वित्ववद्भेदेनाविद्यया विकल्पितभेदरूपस्यात्मनः
स्वप्रकाशबलात्स्फुरणमन्योन्यवेदनमिव भवतीत्यर्थः ॥ २३ ॥

अन्योन्यावेदनं त्वैक्यं भागशो गतमप्यलम् ।
अजडं वा जडं वापि नैकं रूपं विमुञ्चति ॥ २४ ॥

ये तु जैमिनीया वास्तवमेव जडबोधयोरैक्यं तदेवात्मरूपमिति मन्यन्ते तेषां
तदैक्यं जाड्यां शगतं जडमेव बोधांशगतमपजडमेवेत्येकमपि न
मुञ्चतीति जडांशे न स्फुरेदेव चिदंशे स्फुरदपि
निर्विषयमेवेत्यन्योन्यावेदनमेव तदैक्यन्न् स्यादित्यर्थः ॥ २४ ॥

नाजडं जडतामेति स्वभावा ह्यनपायिनः ।
यच्चाजडं जडं दृष्टं द्वैति तत्रास्ति नैकता ॥ २५ ॥

कुतो न मुञ्चति तत्राह - नेति । हि यस्मात्कारणादनपायिन एव धर्माः स्वभावा
इत्युच्यन्ते । यच्च त्वया अजडमेवात्मरूपं जडमित्यंशान्तरतया दृष्टं तत् द्वैति
भिन्नमेव । तत्र अजडैकता नास्त्येवेति न जडबोधैक्यात्मसिद्धिरित्यर्थः ॥ २५ ॥

वासनावेशवलिताः कुविकारशतात्मभिः ।
व्रजन्त्यधोधो धावन्तं शिलाः शैलच्युता इव ॥ २६ ॥

एवं चेत्कथमात्मत्वं वादिनो नानाविधं परस्परविरुद्धं वदन्ति तत्राह -
वासनावेशेति । कुविकारशतात्मभिः स्वस्ववासनाभिरावेऽसैरभिमानैश्च वलिता
वेष्टिताः पराग्दृष्ट्यैव तत्त्वं परीक्षमाणा अधोधो व्रजन्तीत्यर्थः ॥ २६ ॥

व्यूढानां वासनावातैर्नृतृणानामितस्ततः ।
तान्यापतन्ति दुःखानि तत्र वक्तुं न पार्यते ॥ २७ ॥

अत एव श्रौतदृष्टिपरिभ्रष्टानां स्वस्ववासनावातैर्व्यूढानामितस्ततो नीतानां
नृतृणानां तानि नानायोनिजन्ममरणनरकादिलोकशास्त्रप्रसिद्धानि
दुःखान्यापतन्ति ॥ २७ ॥

भ्रान्त्वा भृशं करतलाहतकन्दुकाभं लोकाः पतन्ति निरयेषु रसेन
रक्ताः ।
क्लेशेन तत्र परिजर्जरतां प्रयाताः कालान्तरेण पुनरन्यनिभा भवन्ति ॥ २८ ॥

तदेव वर्णयन्नुपसंहरति - भ्रान्त्वेति । वासनाभिमानानुसारिरागादिरसेन रक्ता
लोका जना नारीकरतलाहतकन्दुकमिव भृशं भ्रान्त्वा निरयेषु पतन्ति । तत्र चिरं
यातनात्क्लेशेन परितो जर्जरतां प्रयाताः कालन्तरेऽपि
स्थावरकृमिकीटादिजन्मभिरन्यनिभा अन्यसदृशा एव भवन्ति पुनर्मानुष्यन्न्
दुर्लभमित्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० म०
मङ्किबोधनं नाम पञ्चविंशः सर्गः ॥ २५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मङ्किबोधनं नाम पञ्चविंशतितमः सर्गः ॥ २५ ॥