चतुर्विंशः सर्गः २४
श्रीवसिष्ठ उवाच ।
ममेत्युक्तवतो मङ्किर्विनिपत्य स पादयोः ।
उवाचानन्दपूर्णाक्षमिदं मार्गे वहन्वचः ॥ १ ॥
देहेन्द्रियमनोबुद्धिदोषाद्यैः सह विस्तरात् ।
सांसारिकं स्वदुःखौघं मङ्किनेहोपवर्ण्यते ॥
स मङ्किः इति एवमुक्तवतो मम पादयोर्विनिपत्य आनन्दवाष्पपरिपूर्णाक्षं यथा
स्यात्तथा मार्गे मां वहन् सन्नानन्दपूर्णमक्षमिन्द्रियकलापं वहन्निति वा इदं
वक्ष्यमाणमुवाच ॥ १ ॥
मङ्किरुवाच ।
भगवन्भूरिशो भ्रान्ता दिशो दश दृशो यथा ।
मया न तु पुनः साधुर्लब्धः संशयनाशकृत् ॥ २ ॥
हे भगवन् स्वसंशयविच्छेदायोपदेशकुशल साध्वन्वेषणपरेण मया दृशो
दृष्टयो यथ दिक्षु भूरिशो भ्रमन्ति तथा दिशो भ्रान्ताः ॥ २ ॥
समस्तदेहसाराणां सारस्याद्य फलं मया ।
खिन्नोस्मि भगवन्पश्यन्दशाः संसारदोषदाः ॥ ३ ॥
अद्य मया त्वल्लाभात्समस्तेषु देवासुरतिर्यगादिदेहेषु साराणां ब्राह्मणदेहानां
मध्ये ज्ञानाधिकारसम्पत्त्या सारस्य स्वदेहस्य फलं लब्धमिति शेषः ॥ ३ ॥
पुनर्जातं पुनर्नष्टं सुखदुःखभ्रमः सदा ।
अवश्यम्भाविपर्यन्तदुःखत्वात्सकलान्यपि ॥ ४ ॥
खेदमेव हेतुभिः सह प्रपञ्चयति - पुनरित्यादिना । जातं जन्म । नष्टं
मरणम् । ननु सदा दुःखभ्रम इति कुतः सुखानामपि
संसारेऽनुभूयमानत्वात्तत्राह - अवश्यमिति । सकलान्यपि
सुखान्यवश्यम्भाविपर्यन्तदुःखत्वादतिदुःखान्यत्यन्तदुःसहानि दुःखान्येवेति
परेणान्वयः ॥ ४ ॥
सुखान्येवातिदुःखानि वरं दुःखान्यतो मुने ।
दृढदुःखवदन्तत्वाद्दुःखयन्ति सुखानि माम् ॥ ५ ॥
अत एभ्यः सुखेभ्यो दुःखान्येव वरम् । अविच्छिन्ना दुःखपरम्परा हि
जलचरैस्तच्छीततेवाभ्यासात्सह्यापि स्यात् सुखविच्छिन्नाभ्यासात्तु सा दुःसहेति भावः
। प्रबलतरदुःखानुबन्धित्वाद्वा कोद्रवान्नजीवने दुःखापेक्षया
विषसम्पृक्तमोदकास्वादसुखेष्विव क्षुद्रदुःखपरम्परापेक्षया भोगसुखेषु
देष्यताधिक्यमुचितमित्याह - दृढेति ॥ ५ ॥
तथा राम यथा दुःखमेव मे सुखतां गतम् ।
वयोदशनलोमान्त्रैः सह जर्जरतां गतम् ॥ ६ ॥
हे राम हे सौम्येति वसिष्ठसम्बोधनम् । सुखानि मां तथा दुःखयन्ति यथा मे
दुःखमेव सुखतां गतं भवतीत्यन्वयः । इदानीं तत्त्वज्ञानानुपयुक्तानां
वयःप्रभृतीनां वृथा जीर्णतामनर्थपरम्पराबीजतां च दर्शयति - वय
इत्यादिना । जर्जरतां शिथिलताम् ॥ ६ ॥
उच्चैःपदे पातपरा बुद्धिर्नाध्यवसायिनी ।
सुप्रवालं कुसङ्कल्पाद्गहनं न प्रकाशते ॥ ७ ॥
उच्चैःपदे उत्तरोत्तरभोगोत्कर्षस्थाने पातोऽभिलाषस्तत्परा बुद्धिर्न
परमपुरुषार्थसाधनाध्यवसायिनी । मनस्तूत्तरोत्तरं वर्धमानै रागपल्लवैः
सुप्रवालं पल्लवितमतीतभोग्यकोटिगोचरशोकमोहादिकुसङ्कल्पाच्च गहनं
दुर्विवेकमत एव स्वस्वदोषादिसाक्षिविवेकेन न प्रकाशते ॥ ७ ॥
मनः पिप्पलपल्यूलैरिव कुग्रामकोटरम् ।
वासनाङ्गवहैर्गृध्रैर्नित्यं पापीयसी स्थितिः ॥ ८ ॥
तत्र दृष्टान्तमाह - पिप्पलेति । पिप्पलानामश्वत्थादीनां पल्यूलैः
प्लवमानैः शुष्कपर्णादिसञ्चयैर्गहनं कुग्रामान्तरालमिव स्थितिर्जीविकापि
नानाभोगवसनापूतिगन्धानङ्गे वहन्तीति वासनाङ्गवहैरत एव
गृध्रैर्गृध्रपायैरिन्द्रियैः कुग्रामस्थितिरिव नित्यं पापीयसी ॥ ८ ॥
कण्टकद्रुमवल्लीव करालकुटिला मतिः ।
आयुरायासशालिन्या यामिन्येव तमोन्धया ॥ ९ ॥
मतिश्च करञ्जादिकण्टकवल्लीव कराला कुटिला च । आयुश्च आयासशालिन्या तमोन्धया
सन्ततविषयचिन्तया अनागतालोकमप्राप्तदीपादिप्रकाशमक्षि चक्षुस्तमोन्धया
यामिन्येवाप्राप्तब्रह्मदर्शनालोकं वृथा क्षीणमिति परेणान्वयः ॥ ९ ॥
अक्षीवानागतालोकं क्षीणं सन्ततचिन्तया ।
न किञ्चिद्रसमादत्ते नष्टैवापि न नश्यति ॥ १० ॥
तृष्णा शुष्कलतेव न किञ्चिद्विवेकरसमादत्ते । पुनःपुनर्मोघीभावान्नष्टापि न
नश्यति ॥ १० ॥
न पुष्पिता न फलिता तृष्णा शुष्कलतेव नः ।
कर्म कर्मणि निर्मग्नं वासनाख्यमकर्मणे ॥ ११ ॥
ननु कर्मभिरेव तवोद्धारः किं न स्यात्तत्राह - कर्मेति ।
यत्किञ्चिन्नित्यनैमित्तिकं कर्म कृतं तत् प्राक्तनदुष्कर्मराशौ
कतिपयभागक्षपणेन निमग्नम् उपक्षीणमिति यावत् । भोगवासनाख्यं तु
बीजमुत्तरोत्तरानर्थहेतवे अकर्मणे काम्यनिषिद्धकर्मणि प्रवर्तयतीति शेषः ॥ ११ ॥
जीवितं च जने जीर्णं नैवोत्तीर्णो भवार्णवः ।
दिनानुदिनमुच्छूना भोगाशा भयदायिनी ॥ १२ ॥
जने पुत्रकलत्रबान्धवभृत्यादावासक्त्या जीर्णम् ॥ १२ ॥
पूर्णापूर्णात्मनि क्षीणाः श्वभ्रकण्टकवृक्षवत् ।
चिन्ताज्वरविकारिण्यो लक्ष्म्याः खलु महापदः ॥ १३ ॥
लक्ष्म्या अर्जनार्था महापदस्तु कदाचिदपूर्णात्मनि च गृहे चिन्ताज्वरैर्विकारिण्यः
क्षीणाः क्षपिताः ॥ १३ ॥
सम्पन्नमक्षतं सापि विप्रलम्भेन जृम्भते ।
अन्तः स्फुरितरत्नेहन्न् भास्वरं वान्धकोटरम् ॥ १४ ॥
लक्ष्मीर्बहुतरधनादिभिः सम्पन्नं शस्त्रादिभिरक्षतमपि पुरुषं भूयोभूयः
प्रलोभ्य दूरमाकृष्य शत्रुदस्युवश्यतापादनेन
सर्वसम्पन्नाशशस्त्रघातादिदुःखपर्यवसायिनी विप्रलम्भेन जृम्भते । यथा
सर्वशिरोमणिना भास्वरमन्धकोटरं सान्धकारश्वभ्रमन्तरदृष्टसर्पं
स्फुरितरत्नेहं पुरुषं स्वान्तः प्रवेश्य सर्पदंशादिविप्रलम्भेन जृम्भते
तद्वत् । इवार्थे वाशब्दः । रम्भेहं इति पाठे अन्तःप्ररूढसफलकदलीकं
तादृशश्वभ्रन्न् दृष्टान्तः ॥ १४ ॥
कल्लोलकलिलं शून्यं चेतः शुष्काब्धिदुर्भगम् ।
मामिन्द्रियार्थैकपरं न स्पृशन्ति विवेकिनः ॥ १५ ॥
चेतश्चित्तमप्याशासहस्रकल्लोलैः कलिलमस्वच्छं सर्वतः
प्रधावनेऽप्यर्थशून्यमत एव शुष्काब्धिरिव दुष्पूरत्वाद्दुर्भगमत एव
चित्तपरवशमिन्द्रियार्थैकपरं मां विवेकिनो न स्पृशन्ति उपेक्षन्ते ॥ १५ ॥
सकण्टकममेध्यस्थन्न् श्लेष्मातकमिव द्रुमम् ।
असदेव महारम्भं चलदर्जुनवातवत् ॥ १६ ॥
तत्र दृष्टान्तमाह - सकण्टकमिति । मनोऽपि विमर्शे असदेव महान्तः
कर्मारम्भा यस्मात्तथाविधम् । अर्जुनवातो वातरोगविशेषः सदैव भ्रमणकारी
यथा देहे चलति तद्वत् ॥ १६ ॥
मनो मरणमप्राप्तं शून्यन्न् दुःखाय वल्गति ।
शास्त्रसज्जनसम्पर्कचन्द्रतारकधारिणी ॥ १७ ॥
बहुशो मृतेरपि मयि मरणमप्राप्तमभिलषितार्थशून्यं दुःखायैव वल्गति
धावति । ननु शास्त्रसज्जनसम्पर्काद्युपायैर्मनो निगृह्यतामिति
चेद्यावज्ज्ञानफलविवेकार्कोदयेनाज्ञानयामिनी न क्षीणा
तावच्छास्त्रसज्जनसम्पर्कादयश्चन्द्रतारकवन्नात्यन्तिकमनोभ्रमविनाशाय
क्षमन्त इत्याशयेनाह - शास्त्रेति द्वाभ्याम् ॥ १७ ॥
अहम्भावोल्लसद्यक्षा क्षीणा नाज्ञानयामिनी ।
अज्ञानध्वान्तमत्तेभसिंहः कर्मतृणानलः ॥ १८ ॥
अहम्भाव एव उल्लसन् बालकल्पितयक्षो यस्याम् ॥ १८ ॥
उदितो न विकारार्को वासनारजनीक्षयः ।
अवस्तु वस्तुवद्बुद्धं मत्तश्चित्तमतङ्गजः ॥ १९ ॥
इन्द्रियाणि निकृन्तन्ति न जाने किं भविष्यति ।
शास्त्रदृष्टिरपि प्राज्ञैर्नाश्रिता तरणाय या ॥ २० ॥
साप्यदृष्टिरिवान्ध्याय वासनावेशकारिणी ।
तदेवमतिसम्मोहे यत्कार्यमिह दारुणे ।
उदर्कश्रेयसे तात तन्मे कथय पृच्छते ॥ २१ ॥
सेवादिना वशीकृतैः प्राज्ञैरुपायैर्या नाश्रिता सापि मे अदृष्टिर्दृष्टिविघात
इवान्ध्याय सम्पन्नेत्यन्वयः । एवं वर्णितरीत्या सर्वतोऽप्यनर्थप्रसक्त्या अतिसम्मोहे
मग्नस्य मम तदुत्तरणाय उदर्के श्रेयसे मोक्षाय च यत्कार्यं तत्कथयेति
सम्बन्धः ॥ २१ ॥
शाम्यन्ति मोहमिहिकाः शरदीव साधौ प्राप्ते भवन्ति विमलाश्च
तथाखिलाशाः ।
सत्येति वाग्भवतु साधुजनोपगीता मद्बोधनेन भवता भवशान्तिदेन ॥ २२ ॥
हे भगवन् शरदि शरत्काले इव निर्मलस्वच्छज्ञानविवेकादिज्योतिर्गणमण्डिते साधौ
गुरौ प्राप्ते सति आकाशस्येव शिष्यस्य मोहलक्षणा मिहिकाः शाम्यन्ति । अखिला आशा
दिश इव मनोरथाश्च विमला निरस्तरागादिरजोमला भवन्ति इति लोके प्रसिद्धा
साधुजनैरुपगीता वाक् भवता कृतेन मदीयभवशान्तिदेन मद्बोधनेन सत्या
अबाधितार्था भवत्विति प्रार्थना ॥ २२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
मङ्क्यु० मङ्किवैराग्यन्न् नाम चतुर्विंशः सर्गः ॥ २४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मङ्किवैराग्यं नाम चतुर्विंशः सर्गः ॥ २४ ॥