०२३

त्रयोविंशः सर्गः २३

श्रीवसिष्ठ उवाच ।

विरागवासनापास्तसमस्तभववासनः ।
उत्थाय गच्छ प्रकृतेरस्या मङ्किरिवाङ्कितः ॥ १ ॥

मङ्किनो मरुकान्तारे वसिष्ठेनात्र सङ्गमः ।
निर्वेदात्तत्त्वजिज्ञासोरुपदेशश्च वर्ण्यते ॥

नीरसो भव भावेषु सर्वेषु विभवादिषु इति यद्वैराग्यदार्ढ्यस्यावश्यकत्वमुक्तं
तत्प्रतिष्ठापनाय मङ्क्युपाख्यानमारभते - विरागेत्यादिना । अस्याः
परिदृश्यमानायाः प्रकृतेः स्वाभाविकाज्ञानादिरूपायाः
संसृतेस्तत्त्वबोधेनोत्थाय निर्वाणात्मपदं गच्छेत्यर्थः ।
अङ्कितस्तल्लक्षणैश्चिह्नितः ॥ १ ॥

मङ्किर्नामाभवत्पूर्वं ब्राह्मणः संशितव्रतः ।
स कथं शृणु निर्वाणमाप्तवान्मद्विबोधितः ॥ २ ॥

मया विबोधित उपदिष्टः ॥ २ ॥

अहं कदाचिदाकाशकोशादवनिमागतः ।
भवत्पितामहार्थेन केनाप्युपनिमन्त्रितः ॥ ३ ॥

केनापि यज्ञादिरूपेण भवत्पितामहस्याऽजस्यार्थेन प्रयोजनेन प्रागुपनिमन्त्रितः सन्
॥ ३ ॥

विहरन्भूतलं गच्छंस्त्वत्पितामहपत्तनम् ।
प्राप्तोऽस्मि कामप्यादीर्घामरण्यानीं महातपाम् ॥ ४ ॥

त्वत्पितामहस्य पत्तनं नगरमयोध्यां प्रति गच्छन्गमिष्यन्सप्तर्षिलोकाद्भूतलं
प्राप्य । विहरन् सञ्चरन् । अरण्यानीं महारण्यम् । हिमारण्ययोर्महत्त्वे । इन्द्रवरुण
इत्यादिना आनुक् ॥ ४ ॥

पांसुप्रतर्दनहतां प्रकचत्तप्तसैकताम् ।
अदृष्टापारपर्यन्तां क्वचिद्राम किलाङ्किताम् ॥ ५ ॥

पांसूनां प्रतर्दनेनाविच्छिन्नप्रसरेण हतां ध्वस्ताम् । धूसरामिति यावत् ।
अङ्कितां कुग्रामैरिति शेषः ॥ ५ ॥

अक्षुब्धस्वानिलालोकजलभूशान्तिशालिनीम् ।
ततां शून्यां महारम्भां ब्रह्मसत्तामिवामलाम् ॥ ६ ॥

अविद्यमानपांस्वादिनाऽक्षुब्धस्य खस्याकाशस्यानिलस्य झञ्झापवनस्य
आलोकस्याऽऽतपस्य मृगतृष्णाजलस्य तप्तभुवश्च शान्त्या शालिनीं शोभमानाम् ।
दुर्गमत्वाद्गन्तॄणां महान्त आरम्भाः प्रयत्ना यत्र । अमलां निष्पङ्काम् ।
ब्रह्मसत्तापक्षे स्पष्टम् ॥ ६ ॥

अविद्यामिव सम्मोहमृगतृष्णां गतां भ्रमात् ।
जडतामाततां शून्यान्न् दिङ्मोहमिहिकाकुलाम् ॥ ७ ॥

जडतां गतामित्यनुषज्यते ॥ ७ ॥

अथ तस्यामरण्यान्यान्न् यावत्प्रविहराम्यहम् ।
तावत्पश्यामि पुरतो वदन्तं पथिकं श्रमात् ॥ ८ ॥

वदन्तं व्यक्तं भाषमाणम् ॥ ८ ॥

पान्थ उवाच ।

अहो नु परिखेदाय प्रौढप्रायातपो रविः ।
परितापाय पापोऽयं दुर्जनेनेव सङ्गमः ॥ ९ ॥

यथा पापो दुर्जनेन सङ्गमः परितापाय तथा प्रौढप्रायातपोऽयन्न् रविः
परिखेदायेत्यर्थः ॥ ९ ॥

सुगलन्तीव मर्माणि स्फुरतीवाग्निरातपे ।
सङ्कुचत्पल्लवापीडास्ताप्यन्ते वनराजयः ॥ १० ॥

तत्तावदेवमग्रस्थं ग्रामकं प्रविशाम्यहम् ।
श्रममत्रापनीयाशु वहाम्यध्वानमाशुगः ॥ ११ ॥

तत् तस्माद्धेतोः ॥ ११ ॥

इति सञ्चिन्त्य सोऽग्रस्थं किरातग्रामकं यदा ।
प्रवेष्टुमिच्छति ताअ मया प्रोक्तमिदं वचः ॥ १२ ॥

मया तद्भाग्योदयकालं ज्ञात्वा तदीयसर्वश्रममूलोच्छेदायेदं
तत्त्वबुभुत्सोत्पादकं साभिप्रायं वक्ष्यमाणवाक्यमुक्तमित्यर्थः ॥ १२ ॥

अपरिज्ञातनीरागमार्ग मित्र शुभाकृते ।
मरुमार्गमहारण्यपान्थ स्वागतमस्तु ते ॥ १३ ॥

परिज्ञातो नीरागाणामकिञ्चनानां सञ्चारयोग्य आतिथेयजनसम्भृतो मार्गो
येनेत्युत्तानार्थः । अत एव मरुमार्गमहारण्यपान्थ । अभिप्रेतार्थान्तरं तु स्पष्टम्
। हे मित्र तेऽत्रागमनं मद्दर्शनेन सर्वदुःखमूलक्षयात्स्वागतमस्तु ॥ १३ ॥

चिरं मनुष्यदेशेऽस्मिन्निर्जनग्राममध्वनि ।
अधराध्वग विश्रान्तिं विश्रान्तोपि न लप्स्यसे ॥ १४ ॥

तस्य अधराध्वगेति सम्बोधनात्स्वस्य तदा नभोध्वगमनं सूच्यते ।
निर्जनग्राममातिथेयजनशून्यग्रामं यथा स्यात्तथा स्थिते इति शेषः ।
प्राक्तनग्रामेष्वन्नपानप्रतिश्रयादिलाभाद्विश्रान्तोऽप्यग्रे विश्रातिं न लप्स्यसे
इत्युत्तानार्थः । आशयार्थे तु हे अधरकर्माध्वग अस्मिन्
कर्मोपासनलभ्यदक्षिणोत्तरायणमार्गलक्षणेऽध्वनि स्वर्गादिभूमिषु
किञ्चित्किञ्चिद्विश्रान्तोऽपि निर्जनग्रामं जननन्न् जनो निर्गतजन्मसमूहं यथा
स्यात्तथा मोक्षवच्चिरं विश्रान्तिं न लप्स्यसे इति योज्यम् ॥ १४ ॥

ग्रामे विश्रमणं नैव वर्तते पामरास्पदे ।
तृड्वै लवणपानेन भूय एवाभिवर्धते ॥ १५ ॥

नैव वर्तते पामराणां दुर्वाक्यादिना प्रयुत क्षोभकारित्वादित्युत्तानो भावः ।
आशयार्थस्तु ग्रामे कर्तृकरणसङ्घातालये देवमनुष्यादिदेहे पामराणां
कामद्वेषदीनामालये । यदि मन्यसे विषयोपभोगैर्विश्रान्तिरिति तत्राह - तृडिति ।
तथा चोक्तं ययातिना - न जातु कामः कामानामुपभोगेन शाम्यति । हविषा
कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ इति ॥ १५ ॥

एते ग्रामैकशरणाः पल्लवाः स्पन्दभीरवः ।
अयथापथसञ्चारा हरिणा इव जन्तवः ॥ १६ ॥

पल्लवाः पुलिन्दजातिभेदाः ।
आरण्यकत्वाज्जनपदस्पन्दाद्भीरवस्तमसहमानाइत्युत्तानार्थः । आशयार्थे त्वेते
कामादयः पल्लववत्स्नेहरागादियुक्ता विवेकस्पन्दभीरवः अयथापथसञ्चाराः
अशास्त्रीयमार्गप्रवणाः ॥ १६ ॥

न स्फुरन्ति विचारेषु प्रज्वलन्त्यनुभूतिषु ।
न त्रस्यन्ति दुराचारादश्मयन्त्रमया इव ॥ १७ ॥

न स्फुरन्तीत्याद्युभयतः स्पष्टं योज्यम् । अश्मयन्त्रमयाः प्रतिमादय इव ॥ १७ ॥

कामार्थरागसद्वेषपरिनिष्ठितपौरुषा ।
कर्मण्यापातमधुरे रमन्ते दग्धबुद्धयः ॥ १८ ॥

आभिजात्याततोदारा शीतला रसशालिनी ।
नेह विश्वसिति प्रज्ञा मेघमाला मराविव ॥ १९ ॥

आभिजात्यं विशुद्धोभयकुलता तेनातता प्रज्ञा इह जनेषु न विश्वसिति ॥ १९ ॥

वरमन्धगुहाहित्वं शिलान्तःकीटता वरम् ।
वरं मरौ पङ्गुमृगो न ग्राम्यजनसङ्गमः ॥ २० ॥

अन्धयतीत्यन्धा अन्धकारावृता गुहा तस्यामहित्वमजगरता ॥ २० ॥

निमेषास्वादमधुराः क्षणान्तरविरागिणः ।
मारणैकान्तनिरता ग्राम्या विषकणा इव ॥ २१ ॥

विषकणा मधुमिश्रविषकणाः ॥ २१ ॥

वान्ति भस्मकणाकीर्णा जीर्णाः संशीर्णसद्मसु ।
तृणपर्णवनव्यग्रा ग्राम्याधार्मिकवायवः ॥ २२ ॥

भस्मकणाकीर्णा धूलिधूसरा ग्रामे भवा ग्राम्या ये अधार्मिका जनास्तल्लक्षणा
वायवश्चण्डपवना वान्ति सञ्चरन्ति ॥ २२ ॥

एवमुक्तेन तेनाहमिदमुक्तस्ततोऽनघ ।
मद्वाक्येन समाश्वास्य स्नातेनेवामृताम्भसा ॥ २३ ॥

एवं मया उक्तेन सम्भाषितेन तेन मङ्किना मदाशयबोधादयं
मामुद्धरिष्यतीति सम्यगाश्वासं प्राप्याऽहमिदं वक्ष्यमाण्मुक्तः ॥ २३ ॥

पान्थ उवाच ।

भगवन्कोऽसि पूर्णात्मा महात्म कथमात्मवान् ।
पश्यस्यनाकुलो लोकं ग्रामयात्रामिवाध्वगः ॥ २४ ॥

पूर्णात्मा त्वमिति शेषः ॥ २४ ॥

किं त्वया पीतममृतं किं त्वं सम्राड्विराडथ ।
सर्वार्थरिक्तोऽपि चिरं सम्पूर्णं इव राजसे ॥ २५ ॥

पूर्णात्मतामेव हेतुवितर्कैः प्रकटयति - किं त्वयेत् । सम्राट् सर्वलोकेश्वरः
सम्पूर्णश्चन्द्र इव राजसे ॥ २५ ॥

शून्योऽसि परिपूर्णोऽसि घूर्णोऽसीव स्थिरोऽसि च ।
न सर्वमपि सर्वं च न किञ्चित्किञ्चिदेव च ॥ २६ ॥

सांसारिकदोषदुःखैः शून्योऽसि । निरतिशयानन्देन जीवन्मुक्तगुणैश्च परिपूर्णोऽसि ।
देहाद्यप्र्तिसन्धानान्मदघूर्णोऽसीव । परमार्थे स्थितोऽसीव । न सर्वमिति
समष्ट्यपवादाध्यारोपदृष्टिभ्याम् । न किञ्चिदिति
व्यष्ट्यपवादाध्यारोपदृष्टिभ्याम् ॥ २६ ॥

उपशान्तन्न् च कान्तं च दीप्तमप्रतिघाति च ।
निवृत्तं चोर्जितं तादृग्रूपं किमिति ते मुने ॥ २७ ॥

ईदृशोऽहं कथं त्वया ज्ञात इति चेत्त्वद्रूपदर्शनादिति सूचयन्नाह -
उपशान्तमिति । तथा च श्रुतिः रूपमेवास्यैतन्महिमानं व्याचष्टे इति ॥ २७ ॥

भूसंस्थोऽपि समस्तानां लोकानामुपरीव खे ।
संस्थितोऽसि निरास्थोऽसि घनास्थोऽसीव लक्ष्यसे ॥ २८ ॥

मादृशानामुद्धारे घनास्थोऽसीव लक्ष्यसे ॥ २८ ॥

प्रसृतं न पदार्थेषु न पदार्थात्मनाऽस्ति वै ।
तवेन्दोरिव शुद्धस्य मनोऽमृतमयं स्थितम् ॥ २९ ॥

इन्दोरिव शुद्धस्य तवामृतमयं मनः इन्दुकरवत् पदार्थेषु न प्रस्।एतं
नाप्यौषधिवनस्पतिसोमाज्यपयोन्नादिपदार्थात्मना उपभोगार्हमस्ति येन क्षीयेत ।
अतः सदैव पूर्णं स्थितमिति तव चन्द्रादतिशय इत्यर्थः ॥ २९ ॥

कलावानकलङ्कोऽन्तःशीतलो भास्वरः समः ।
रसायनभरापूर्णः पूर्णेन्दुरिव राजसे ॥ ३० ॥

अन्यदपि तत्साम्यं विशेषं चाह - कलावानिति ॥ ३० ॥

त्वदिच्छायां तु सदसद्भावं पश्यामि ते चिति ।
संसारमण्डलमिदं स्थितं फलमिवाङ्कुरे ॥ ३१ ॥

एवं हिरण्यगर्भसाम्यं ततो विशेषश्च तेऽस्तीत्याह - त्वदिच्छायामिति ।
सार्वज्ञ्यसर्वशक्त्यादिसम्पन्नस्य ते चिति आत्मनि अङ्कुरे काण्डादिफलान्तं
वृक्षरूपमिवेदं संसारमण्डलं सर्गयोग्यतया स्थितं पश्यामि
सम्भावयामि । तत्सर्गार्थन्न् त्वदिच्छायां तु सदसद्भावं पश्यामि संवेद्मि ।
यदीच्छसि तर्हि त्वमपि जगत्स्रष्टुन्न् शक्नोष्येव परन्तु नेच्छसीत्ययं ततो विशेष इति
भावः ॥ ३१ ॥

अहं तावदयन्न् विप्र शाण्डिल्यकुलसम्भवः ।
मङ्किर्नाम महाभाग तीर्थयात्राप्रसङ्गतः ॥ ३२ ॥

एवं प्रशंसयाभिमुखीकृताय वसिष्ठाय
स्ववैराग्यादिसाधनसम्पत्त्योपदेशार्हतां दर्शयितुं स्वगोत्रनामादि कीर्तयति ##-

गत्वा सुदूरमध्वानं दृष्ट्वा तीर्थानि सम्प्रति ।
चिरकालेन सदनमात्मीयं गन्तुमुद्यतः ॥ ३३ ॥

न च मे गन्तुमुद्योगो विरक्तमनसो गृहम् ।
दृष्ट्वा तडित्सकाशानि भूतानि भुवनोदरे ॥ ३४ ॥

तडित्सकाशानि क्षणभङ्कुराणि ॥ ३४ ॥

भगवन्सत्यमात्मानं कथयेहानुकम्पया ।
गम्भीराणि प्रसन्नानि साधुचेतःसरांसि हि ॥ ३५ ॥

आत्मानं नामगोत्रादिना कथयेत्युत्तानार्थः । सत्यमिति
विशेषणस्वारस्यात्परमात्मानमुपदिशेत्याशयार्थः ॥ ३५ ॥

दर्शनादेव मित्रत्वं कुर्वतां महतां पुरः ।
कमलानीव भूतानि विकसन्त्याश्वसन्ति च ॥ ३६ ॥

ममेदं च मनो मोहात्संसारभ्रमसम्भवम् ।
मन्ये हातुं न समर्थं स त्वं बोधानुकम्पितैः ॥ ३७ ॥

तमेवाशयन्न् स्फुटमाह - ममेति । अप्यर्थे चकारः ।
ममेदमीषद्विवेकशाल्यपि मनो
मोहादज्ञानसंशयप्राबल्यात्संसारभ्रमसम्भवं दुःखं हातुं
निःशेषमुच्छेत्तुं विना गुरूपदेशं स्वविमर्शकौशलमात्रेण न समर्थमिति
मन्ये पुनःपुनर्मननेन निश्चितवानस्मि । अतः स
प्राग्वर्णितमदुद्धरणसामर्थ्यस्त्वं
रहस्यबोधानुकूलैरुपदेशानुकम्पितैर्मोहसंशयोच्छेदेन दुःखक्षयसमर्थं
कुर्विति शेषः ॥ ३७ ॥

श्रीवसिष्ठ उवाच ।

वसिष्ठोऽस्मि महाबुद्धे मुनिरस्मि नभोगृहः ।
केनाप्यर्थेन राजर्षेरिमं मार्गमुपस्थितः ॥ ३८ ॥

राजर्षेः अजस्य । केनापि याजनादिरूपेणार्थेन ॥ ३८ ॥

मागा विषादं पन्थानमागतोऽसि मनीषिणाम् ।
प्रायः प्राप्तोसि संसारसागरस्य परं तटम् ॥ ३९ ॥

परं तटं परवीरम् ॥ ३९ ॥

वैराग्यविभवोदारा मतिरुक्तिरपीदृशी ।
आकृतिः शान्तरूपा च न भवत्यमहात्मनः ॥ ४० ॥

मनीषिणां पन्थानमहं प्राप्त इत्यत्र किं लिङ्गं तदाह - वैराग्येति ।
अमहात्मनो ज्ञानाधिकारभाग्यहीनस्य ॥ ४० ॥

मणिर्मधुरकाषेण यथैति विमलात्मताम् ।
तथा कषायपाकेन चित्तमेति विवेकिताम् ॥ ४१ ॥

विवेकोदयोऽपि चित्तकषायपाके तव लिङ्गमित्याह - मणिरिति । मधुरेण मृदुना
काषेण शाणघर्षणेन ॥ ४१ ॥

किं ज्ञातुमिच्छसि कथं संसारं हातुमिच्छसि ।
उपदिष्टमहं मन्ये सम्पादयति कर्मभिः ॥ ४२ ॥

शिष्यो गुरुणोपदिष्टमर्थं पुनःपुनः स्वपरिशीलनाज्ज्ञातांशं पुनः
प्रश्नावधारणादिकर्मभिर्यतः फलपर्यवसितं सम्पादयति अतस्त्वं
स्वाज्ञातजिज्ञासितांशं वदेत्यर्थः ॥ ४२ ॥

विमलवासन उत्तममानसः परिविविक्तमतिर्जनतेजसा ।
पदमशोकमलं खलु युज्यते जनितितीर्षुमतेरिदमुच्यते ॥ ४३ ॥

खलु यस्माद्धेतोर्यः शिष्यो विमला रागादिमलशून्या वासना यस्य । अत
एवोत्तमवैराग्यादिसाधनत्रयसम्पन्नमानसो भवति परिविविक्ता
नित्यानित्यसारासारादिविवेकशालिनी मतिर्यस्य तथाविधश्च । स एव
गुरुजनस्योपदेशतेजसा अशोकमात्मतत्त्वपदं प्राप्तुं युज्यते योग्यो भवति नेतरः ।
अतः कारणाज्जनिभ्यो जन्मादिसर्वदुःखेभ्यस्तितीर्षुरुत्तरणेच्छुर्मतिर्यस्य
तथाविधस्य सम्भाषणपरीक्षणेन ज्ञाताधिकारस्यैव तवमयेदमुच्यते
नान्यादृशस्य । अतः स्वपूर्वोत्तरवृत्तान्तं वदेत्यर्थः ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ०
मङ्क्युपाख्याने मङ्किनिर्वाणं नाम त्रयोविंशः सर्गः ॥ २३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मङ्किनिर्वाणं नाम त्रयोविंशः सर्गः ॥ २३ ॥