द्वाविंशः सर्गः २२
श्रीवसिष्ठ उवाच ।
ज्ञानेन ज्ञेयनिष्ठत्वाद्योऽचित्तं चित्तमेव च ।
न बुध्यते कर्मफलं स ज्ञानीत्यभिधीयते ॥ १ ॥
ज्ञानिनो लक्षणान्यादौ कीर्त्यन्तेऽत्रोपपत्तिभिः ।
तथा जीवजगद्ब्रह्मतत्त्वादीनि प्रसङ्गतः ॥
ज्ञानबन्धुतां तत्फलं चोपवर्ण्य ज्ञानी चैव किमुच्यते ज्ञानित्वेऽपि च किं
फलमिति प्रश्नयोरुत्तरं वक्तुं प्रथमं ज्ञानिलक्षणान्याह - ज्ञानेनेति । यः
पुमान् भूमिकारोहणक्रमपरिपक्वेन ज्ञानेन ज्ञेयब्रह्ममात्रे
दृढप्रतिष्ठत्वात्प्रारब्धकर्मफलं भुञ्जानोऽप्यचित्तं चित्तभिन्नं
शब्दादिविषयजातं तत्तदाकारपरिणतं कामसङ्कल्पादिवृत्तिभेदैः परिणतं च
चित्तमेवेति तच्च बाधितानुवृत्तिमात्रत्वान्न वस्तुसद्बुध्यते स ज्ञानीति
तल्लक्षणज्ञैरभिधीयत इत्यर्थः ॥ १ ॥
ज्ञात्वा सम्यगनुज्ञानं दृश्यते येन कर्मसु ।
निर्वासनात्मकं ज्ञस्य स ज्ञानीत्यभिधीयते ॥ २ ॥
तथा ज्ञस्य शब्दादिविषयभोक्तुः प्रमातुरन्तःकरणस्य कर्मसु भोग्यभूतेषु
विषयेषु येन पुरुषेण ज्ञाने ज्ञाने इत्यनुज्ञानम् । वीप्सायामव्ययीभावः । सर्वेषु
साक्षुषादिवृत्तिभेदेषु साक्षितया स्थितं चिन्मात्रं सम्यक् तत्त्वतो ज्ञात्वा बाधितं
दृश्यं निर्वासनात्मकं वासनामात्रेणाप्यपरिशिष्टं दृश्यते स
ज्ञानीत्यर्थः । अथवा येन तत्त्वेन ज्ञातेन चित्तं निर्वासनं भवति तत्तत्त्वं सम्यक्
ज्ञात्वा स्थितस्य यस्य ज्ञस्य सर्वेषां प्राणिनां कर्मसु यथेच्छव्यवहारेषु
स्वैरं व्यवहरन्त्वित्यनुज्ञानमेव दृश्यते ।
स्वधनापहारवधबन्धादिप्रवृत्तिमपि दस्यूनां योऽनुमोदते स ज्ञानीत्यर्थः ।
इदं तु जडभरतादौ प्रसिद्धम् ॥ २ ॥
अन्तःशीतलतेहासु प्राज्ञैर्यस्यावलोक्यते ।
अकृत्रिमैकशान्तस्य स ज्ञानीत्यभिधीयते ॥ ३ ॥
अकृत्रिमेणैकेन स्वात्मलाभेन शान्तस्य यस्य ईहासु व्यवहारेषु ॥ ३ ॥
अपुनर्जन्मने यः स्याद्बोधः स ज्ञानशब्दभाक् ।
वसनाशनदा शेषा व्यवस्था शिल्पजीविका ॥ ४ ॥
पुनर्जन्ममूलाज्ञानोच्छेदित्वात्तत्त्वज्ञानमेव ज्ञानन्न् नेतरदित्याह -
अपुनर्जन्मने इति । शेषा तदन्या शाब्दज्ञानचातुरी तु वसनाशने ददातीति
वसनाशनदा इतरशिल्पतुल्या जीविकैव न ज्ञानशब्दवाच्येत्यर्थः ॥ ४ ॥
प्रवाहपतिते कार्ये कामसङ्कल्पवर्जितः ।
तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते ॥ ५ ॥
शरदाकाशमिव निरावरणप्रकाशं हृदयन्न् यस्य ॥ ५ ॥
अकारणं प्रवर्तन्त इव भावा अकारणात् ।
अविद्यमाना अप्येतेऽविद्यमाना इव स्थिताः ॥ ६ ॥
उक्तलक्षणोपपत्तये तत्त्वज्ञानस्य सर्वद्वैतवासनोच्छेदकत्वं समर्थयितुं
जगतः असदविद्यामात्रत्वपरिशेषादकारणत्वासत्त्वे दर्शयति -
अकारणमित्यादिना । यतोऽविद्यमानाः अतः अकारणं विनैव कारणं प्रवर्तन्ते
उत्पद्यन्त इव न तु वस्तुत उत्पद्यन्ते । एवं चाविद्यमाना एव स्थिता इव ॥ ६ ॥
आविर्भावतिरोभावैर्भावाभावभवाभवैः ।
पश्चात्कारणतां यान्ति मिथः कारणकर्मभिः ॥ ७ ॥
उत्तरभावविकारेष्वप्यकारणत्वादेवासत्त्वं बोध्यमित्याशयेनाह - आविर्भावेति
। ननु बीजादङ्कुरोत्पत्तेः प्रत्यक्षं दर्शनात्कथमकारणं प्रवर्तन्त इत्युच्यते
तत्राह - पश्चादिति । नेदं सर्गादौ सम्भवति प्रलये
बीजाङ्कुरयोरुभयोरप्यभावादिति भावः । कारणकर्मभिः कारणव्यापारैः ॥ ७ ॥
असतः शशशृङ्गादेर्मृगतृष्णाम्भसो यथा ।
आलोकनादलभ्यस्य कीदृक् स्यात्किल कारणम् ॥ ८ ॥
साम्प्रतं दृश्यमानमपि बीजं सतोऽङ्कुरस्य कारणमसतो वा । नाद्यः । सतः
कारणापेक्षाभावात् । नद्वितीय इत्याह - असत इति द्वाभ्याम् ॥ ८ ॥
असतः शशशृङ्गादेः कारणं मार्गयन्ति ये ।
वन्ध्यापुत्रस्य पौत्रस्य स्कन्धमासादयन्ति ते ॥ ९ ॥
आसादयन्त्यारोहन्ति । असत्तत्कारणतन्मार्गणानां पुत्रपौत्रतत्स्कन्धारोहणानि
क्रमाद्दृष्टान्ताः ॥ ९ ॥
असत्यप्रतिभासानामेतदेवाशु कारणम् ।
यदनालोकनं नाम समालोकक्षणक्षयम् ॥ १० ॥
यद्यकारणद्वैतभावाभ्युपगमे अनिर्मोक्षप्रसङ्गवारणाय
मोक्षशास्त्रप्रामाण्याय च कारणमवश्यं कल्प्यं तर्हि ज्ञानमात्रनिवर्त्यं
मिथ्याभूतमज्ञानमेव तत्कारणं कल्पनीयं नान्यत्सद्रूपं तस्य ज्ञानेन
निवर्तयितुमशक्त्या अनिर्मोक्षतादवस्थ्यप्रसङ्गादित्याशयेनाह - असत्येति ।
अनालोकनमज्ञानम् ॥ १० ॥
परमात्मायते जीवो बुध्यमानस्त्वचेतनम् ।
चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ॥ ११ ॥
बन्धस्याज्ञानकार्यत्वं समालोकक्षणक्षयत्वं चानुभावयति - परमिति ।
अयं जीवः परं स्वातिरिक्तमचेतनं जडमहङ्कारदेहादि बुध्यमानस्तत्क्षणमेव
तत्तादात्म्याध्याससंस्कारोद्बोधादात्मायते आत्मेवाचरति स एव त्वस्य बन्धः ।
चेतनं निष्कृष्टचिन्मात्रमात्मानं बुध्यमानस्तु जीव एव येन जानाति जीवन्ति इति
श्रुतिदर्शितदिशा सर्वजगदुज्जीवनहेतुनिष्कृष्टनिरतिशयानन्दाद्वय एवावतिष्ठते
सोऽस्य मोक्ष इत्यर्थः । अथवा जीवः चेत्यते अनेनेति चेतनं बुद्धिः । चेत्यते अस्मिन्निति
चेतनं स्थूलदेहः । चितिक्रिया चेतनं चिदाभासः । तत्त्रितयरहितं
कूटस्थाद्वयचिन्मात्रमात्मानं बुध्यमानः सन् परमात्मा ब्रह्मेवाचरति
परमात्मायते । अद्वितीयपूर्णानन्दैकस्वभावोऽवतिष्ठते । चेतनं
बुद्ध्यादिकमात्मेति बुध्यमानस्तु जीव एव भूत्वावतिष्ठते न पूर्णभावं लभते
इत्यर्थः । अथवा अयं जीवश्चेतनं विषयेषु चाक्षुषादिवृत्तिफलैर्व्यापनन्न्
तद्रहितमचेतनं यथा स्यात्तथा वृत्तिव्याप्त्यैव न तु फलव्याप्त्येत्यर्थः ।
एवमात्मानं स्वप्रकाशचिद्रूपतया बुध्यमानः परमात्मैव न ह्यनात्मा
अणुमात्रमपि फलव्याप्तिं विना बुध्यते । चेतनं वृत्तिव्यापनन्न् यथा स्यात्तथा
अणुमात्रमपि बुध्यमानो जीव एवावतिष्ठते न ब्रह्मस्वभावं स्वं
प्राप्नोतीत्यर्थः । तथा च श्रुतिः - यस्यामतं तस्य मतं मतं यस्य न वेद सः
। अविज्ञातं विजानतां विज्ञातमविजानताम् इति ॥ ११ ॥
परमात्मैव जीवोऽयन्न् बुध्यमानस्त्वचेतनम् ।
आम्र एव रसापत्तेः प्रयाति सहकारताम् ॥ १२ ॥
पूर्वार्धन्न् विवृणोति - परमात्मैवेति । अयं जीवो यथोक्तरीत्या
अचेतनमजागरणमेव स्वात्मनि बुध्यमानो जागरूकः
परमात्मरसावेशात्परमात्मैव भवति । यथा आम्र एव हेमन्ते सुप्तप्रायो वसन्ते
रसावेशात्पल्लवितः पुष्पितश्च प्रबुद्धप्रायः सहकारशब्दवाच्यतां प्रयाति
तद्वदित्यर्थः । उत्तरार्धमपि विवृणोति - चेतनमिति । जातिजन्मसु नानायोनिजन्मसु
॥ १२ ॥
चेतनं चेतनं बुध्यमानस्तु जीव एवावतिष्ठते ।
जीवो जीवितजीर्णेषु जातिजन्मसु जर्जरः ॥ १३ ॥
ये परां दृष्टिमायाता विधि तेषामपामिव ।
अरूपालोकमननं स्पन्दमस्पन्दनं सदा ॥ १४ ॥
अत एव तत्त्वविदां चेष्टास्तदभिमानाभावादस्पन्दरूपा एवेत्याह - ये इति ।
रूपालोकमननाभिमानशून्यम् । अपां निम्नानुसरणमिव
प्रारब्धमात्रानुसरणमित्यर्थः ॥ १४ ॥
ये परां दृष्टिमायाता दृश्यश्रीपारदर्शिनः ।
न विद्यमानमप्यस्ति तेषां वेदनमाततम् ॥ १५ ॥
यथा दग्धपटदर्शनं पटदर्शनमेव न भवति किन्तु भस्मदर्शनं तथा
बाधितदृश्यश्रीदर्शनं तदतीतब्रह्मदर्शनमेवेति न द्वैतवेदनन्न्
तेषामस्तीत्याशयेनाह - ये इति ॥ १५ ॥
ये परां दृष्टिमायाता विद्धि तेषामपामिव ।
स्पन्दमस्पन्दनं सर्वमवेदनवशादिह ॥ १६ ॥
अतोऽपि तेषां स्पन्दस्यास्पन्दत्वं रूपदर्शनाभावेऽप्यापो दृष्टान्ता इत्याशयेनाह
- ये इति ॥ १६ ॥
अरूपालोकमननवेष्टिता मुक्तदामवत् ।
बुधाः कर्मसु चेष्टन्ते वृक्षपत्रेष्विवानिलः ॥ १७ ॥
अत एव च तेषां कर्मलेपबन्धनाभाव इत्याह - अरूपेति । यतो
रूपालोकमननवेष्टिता न भवन्त्यतो मुक्तदामा उत्सृष्टो
वृषभस्तद्वद्बन्धनशून्या इत्यर्थः ॥ १७ ॥
ये परां दृष्टिमायाताः संसृतेः पारदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यान्न् वसन्निव ॥ १८ ॥
पारलौकिककर्मापेक्षा तु दूरनिरस्तेत्याशयेनाह - ये इति ॥ १८ ॥
ये बद्धवासना मूढाः कर्म शंसन्ति तेऽनघ ।
श्रुतिस्मृत्युचितं तेन विनाबोधं प्रयान्ति ते ॥ १९ ॥
अज्ञानां तु कर्मैव शरणमित्याह - ये इति । विनाबोधं तत्त्वज्ञानाभावात् तेन
कर्मणैव ते प्रयान्ति तत्फलभोगमिति शेषः ॥ १९ ॥
इन्द्रियाणि पतन्त्यर्थं भ्रष्टं गृध्र इवामिषम् ।
तानि संयम्य मनसा युक्त आसीत तत्परः ॥ २० ॥
कुतस्तेषां कर्मैव शरणं तत्राह - इन्द्रियाणीति । भ्रष्टमधःपतितम् ।
अधःपातहेतुमिति यावत् । सत्कर्मानालम्बने तेषामधःपात एवेन्द्रियैः कार्य इति
भावः । तथा च श्रुतिः कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं
त्वयिनान्यथेतोस्ति न कर्म लिप्यते नरे इति । अत एव विदुषोपीन्द्रियनिग्रहे सत्येव
स्वरूपप्रतिष्ठा सिद्ध्यति नान्यथेत्याह - तानीति ॥ २० ॥
नासन्निवेशं हेमास्ति नासर्गं ब्रह्म विद्यते ।
किन्तु सर्गादिशब्दार्थमुक्तं युक्तमतेः शिवम् ॥ २१ ॥
अदग्धे दग्धे च पटे सन्निवेशसाम्यवज्जगत्सन्निवेशसाम्यभानमविदुषामिव
विदुषामप्यस्तु नाम तथापि तद्विदुषां ब्रह्मैवेत्याशयेनाह - नासन्निवेशमिति
॥ २१ ॥
एकान्धकारे सम्पन्ने व्यवहारो युगक्षये ।
निर्विभागो निराभासो यथा ब्रह्मघने तथा ॥ २२ ॥
सर्गशब्दार्थमुक्तत्वे प्रलयो दृष्टान्त इत्याह - एकेति । तथा असन्नपि सन्निति
शेषः ॥ २२ ॥
अभ्रोदरे भ्रमाङ्गानां स्पन्दास्पन्दमयी यथा ।
स्वसंविदात्मिका सत्ता भूतानामीश्वरी तथा ॥ २३ ॥
प्रलये स्पन्दसत्तामसम्भावयन्तं प्रति दृष्टान्तमाह - अभ्रोदरे इति । यथा
चलदभ्रोदरे तदवयवानामभ्रादविभागादस्पन्दमयी दिग्विभागात्तु स्पन्दमयीति
स्वानुभवसंविदात्मिकैव विरुद्धधर्मयौगपद्येन सत्ता सम्भाव्यते
तद्वत्प्रलयेऽपीश्वरी स्पन्दसत्ता भूतानां सम्भावनीयेत्यर्थः ॥ २३ ॥
जलस्यान्तर्जलांशानां द्वैताद्वैतमयो यथा ।
स्वसंविदात्मा सुस्पन्दस्तथा ब्रह्मणि भूतदृक् ॥ २४ ॥
तत्र चिदाभासस्पन्दसद्भावेऽपि दृष्टान्तमाह - जलस्येति । जलस्य
स्तिमिततडागादिजलस्य द्वैताद्वैतमयस्तैमित्याद्भेदाभेदाभ्यां दुर्वचः
स्वसंविदात्मा ब्रह्मसंविदात्मा भूतदृक् तत्तज्जीवाभासः ॥ २४ ॥
यथाम्बरेऽम्बरांशानां द्वैताद्वैतकृतात्मनि ।
अनन्या सृष्टिराभाति तथानवयवे शिवे ॥ २५ ॥
निरवयवे सावयवजगत्सद्भावेऽपि दृष्टान्तमाह - यथेति । अम्बरांशानां
दिग्भेदरूपाणामाकाशावयवानाम् ॥ २५ ॥
जगतोऽन्तरहंरूपमहंरूपान्तरे जगत् ।
स्थितमन्योन्यवलितं कदलीदलपीठवत् ॥ २६ ॥
अनयैव रीत्या प्रागुक्तमहङ्कारजगतोरन्योन्यान्तर्गतत्वमपि सम्भावनीयमित्याह
- जगत इति ॥ २६ ॥
रूपालोकमनस्कारै रन्ध्रैर्बहिरिव [अन्धैर्बहिरिव स्थितम् इति पाठः ।]
स्थितम् ।
सृष्टिं पश्यति जीवोऽन्तः सरसीमिव पर्वतः ॥ २७ ॥
अहङ्कारात्मनो जीवस्य स्वान्तर्गतजगतो बहिर्दर्शनेऽपि दृष्टान्तमाह - रूपेति ।
यथा पर्वतो हिमवदादिः स्वरन्ध्रैर्निर्गतं स्वान्तर्गतजलमेव
मानसादिमहासरस्तया पश्यति तद्वत् ॥ २७ ॥
जीवो जगत्तयात्मानं पश्यत्ययमकारणम् ।
हेमेव कटकादित्वं तदपश्यन्न पश्यति ॥ २८ ॥
यथा हेमपिण्डे भूतभाविकटकाद्याकाराः पर्यालोचने दृश्यन्ते
कनकमात्रदृष्टौ तु न दृश्यन्ते तद्वज्जीवे जगदपीत्याह - जीव इति । अकारणं
निर्निमित्तं भ्रान्त्यैवेत्यर्थः ॥ २८ ॥
जीवन्तोऽपि न जीवन्ति म्रियन्ते न मृता अपि ।
सन्तोपि च न सन्तीव पारावारविदः शुभाः ॥ २९ ॥
अत एव तद्दर्शिनां जीवन्मुक्तानां जन्ममरणसंसारस्थितयोऽन्यदृशा सत्योऽपि न
सन्त्येवेत्याह - जीवन्त इति ॥ २९ ॥
प्रबुद्धः सर्वकर्माणि कुर्वन्नपि न पश्यति ।
गृहकर्माणि गेहस्थो गोष्ठभाण्डमना इव ॥ ३० ॥
ब्रह्मासक्तमनसो देहयात्राकर्मणि न कर्तृताबुद्धिः यथा
गोष्ठभाण्डेष्वासक्तमनसो गृहकर्मणीत्याह - प्रबुद्ध इति ॥ ३० ॥
विराड् हृदि यथा चन्द्रः प्रतिदेहं यथा स्थितः ।
जीवो हिमकणाकारः स्थूले स्थूलो लघौ लघुः ॥ ३१ ॥
प्रासङ्गिकं समाप्य प्रस्तुतमनुसन्धत्ते - विराडिति । यथा ब्रह्माण्डहृदि
विराड् जीवश्चन्द्रः स्थित एवं प्रतिव्यष्टिदेहं रेतोहिमकणाकारो जीवो हृदि स्थित
इत्यर्थः ॥ ३१ ॥
अहमात्मा त्रिकोणत्वमुपगच्छति कल्पनम् ।
असदेव सदाभासं मन्यते चेतनाद्वपुः ॥ ३२ ॥
तस्य देहग्रहणप्रकारमाह - अहमात्मेति । स पितृहृदि रेतोरूपेण
स्थितोऽहङ्कारात्मा जीवः पित्रा मातुस्त्रिकोणयोनौ निषिक्तस्त्रिकोणपरिच्छिन्नत्वरूपं
कल्पनमुपगच्छति । तत्रत्यरक्तमिश्रितः
कललबुद्बुदपिण्डाद्याकारक्रमेणाविर्भूतमसदेव वपुः शरीरं सदाकारमहमिति
चेतनान्मन्यते ॥ ३२ ॥
कर्मकोशे त्रिकोणे च शुक्रसारेऽवतिष्ठते ।
देहे जीवोहमित्यात्मा स्वामोदः कुसुमे यथा ॥ ३३ ॥
एवं त्रिकोणोपलक्षिते मातृगर्भे शुक्रमेव सारः अस्थिस्नाय्वादिकठिनांशो यत्र
तथाविधे स्वकर्मनिर्मितकोशे देहे कोशकारकृमिरिव बद्धोऽवतिष्ठते । स्वामोदः
सुगन्धः ॥ ३३ ॥
अहमित्येव शुक्रस्था संविदापादमस्तकम् ।
विसरत्यखिले ज्योत्स्ना यथा ब्रह्माण्डमण्डपे ॥ ३४ ॥
तत्रापि चन्द्रकलानां चन्द्रबिम्ब इव हृदयस्थशुक्रकणेऽहम्भावस्फूर्तीनां
विशेषव्याप्तिस्तद्द्वारा सर्वदेहसामान्याहम्भावप्रथेति स्वानुभवादेव
प्रसिद्धमित्याह - अहमिति ॥ ३४ ॥
अक्षरन्ध्रप्रणालेन विसृतं वेदनोदकम् ।
व्याप्नोति त्रिजगद्धूमो वियन्मेघतया यथा ॥ ३५ ॥
तस्य बाह्यार्थदर्शने द्वाराण्याह - अक्षेति । विसृतं बहिर्निःसृतं
साभासान्तःकरणलक्षणं वेदनोदकम् । त्रिजगत् त्रैलोक्यस्थान्
सन्निकृष्टबाह्यर्थान् । यथा धूमो मेघतया वियद्व्याप्नोति तद्वत् ॥ ३५ ॥
देहे यद्यप्यशेषेऽस्मिन्बहिरन्तश्च वेदनम् ।
विद्यते तत्तथाप्यत्र शुक्रेऽस्ति घनवासना ॥ ३६ ॥
सर्वदेहापेक्षया हृदयस्थे शुक्रे विशेषाभिमानोऽनुभवसिद्ध इत्याह - देहे इति
। घनवासना विशेषाभिमानः ॥ ३६ ॥
जीवः सङ्कल्पमात्रात्मा यत्सङ्कल्पोऽवतिष्ठते ।
हृदि भूत्वा स एवाशु बहिः प्रसरति स्फुटम् ॥ ३७ ॥
अत एव हि हार्दसङ्कल्पपूर्वकमेव बाह्यार्थव्यवहाराः प्रवर्तन्त इत्याह - जीव
इति ॥ ३७ ॥
यथास्थितां च निश्चित्तां वर्जयित्वा स्थिरोपमाम् ।
न कयाचिदपि स्थित्या शाम्यत्यहमिति भ्रमः ॥ ३८ ॥
अत एव च तदहम्भावश्चित्तस्य ब्रह्माकारस्थितिं विना नोपायसहस्रैरपि
शाम्यतीत्याह - यथास्थितामिति । समाधिपरिपाके स्थिरब्रह्मैकरस्यात्स्थिरोपमाम्
॥ ३८ ॥
चिन्तानुचिन्त्यमानापि भावनीयाम्बरोपमा ।
अहम्भावोपशमने शमनेन क्रमेण ते ॥ ३९ ॥
अत एव हे राम ते तव मनननिदिध्यासनादिना अनुचिन्त्यमानापि ब्रह्मचिन्ता
आत्यन्तिकाहम्भावोपशमने चरमभूमिकायामम्बरोपमा भावनीया सम्पाद्या ।
नैतावतैव त्वयोपरन्तव्यमित्यर्थः ॥ ३९ ॥
तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् ।
अरूपालोकमननं मौनं दारुनरा इव ॥ ४० ॥
तर्हि किं भवदादीनामपि तथा सा भावनीया नेत्याह - तज्ज्ञा इति ।
अरूपालोकमननं बाह्यमानसदृश्यदर्शनाभिमानरहितं यथा स्यात्तथा ।
मौनं कर्मेन्द्रियव्यापारशून्यं च ॥ ४० ॥
अकिञ्चिद्भावनो यः स्यात्स मुक्त इति कथ्यते ।
जीवन्नाकाशविशदो बन्धशून्य इव स्फुटम् ॥ ४१ ॥
बन्धशून्यः शृङ्खलादिनिर्मुक्त इव ॥ ४१ ॥
अहमित्येव शुक्रस्था संविदापादमस्तकम् ।
विसरत्यखिले देहे ब्रह्माण्डेऽर्कप्रभा यथा … ४२ ॥
सर्वशरीरेऽहम्भावव्याप्तिरपि शुक्रांशव्याप्तिवशादेवेत्याह - अहमिति ॥ ४२ ॥
दृङ्नेत्रं स्वदनं जिह्वा श्रुतिः श्रोत्रं भवत्यसौ ।
इत्याद्या वासनाः पञ्च बद्ध्वा तासु निमज्जति ॥ ४३ ॥
चक्षुरादीन्द्रियभावेन तत्तत्स्थानसम्बन्धोऽपि शुक्रात्मभूतस्यैव जीवस्येत्याह ##-
स्त्र्यादिदर्शनस्पर्शनश्रवणादौ सर्वेन्द्रियैरपि कामोद्दीपनान्निमज्जतीत्यर्थः ॥ ४३
॥
चिद्भावोऽक्षतयोदेति मनो भूत्वैकदेशतः ।
सर्वगोऽपि रसो भूमौ यथाङ्कुरतया मधौ ॥ ४४ ॥
अज्ञानावृतचितो विपरीतभावनैव प्रथमं मनो भूत्वा
रेतोऽहम्भावेनैकदेशतोऽक्षतया तत्तदिन्द्रियभावेनोदेतीत्यर्थः ॥ ४४ ॥
यो भावयति भावेषु नेह रूढेष्वभावताम् ।
तस्यायत्नवतो दुःखमनन्तं नोपशाम्यति ॥ ४५ ॥
अत एव तत्प्रतिकूलयथार्थभावनां विना न तद्दुःखोपरम इत्याह - य इति । यः
पुरुष इह संसारे रूढेषु मनोहङ्कारदेहादिजगद्रूपेषु वाचारम्भणन्न् विकारो
नामधेयम् नेह नानास्ति किञ्चन अथात आदेशो नेति नेति
इत्यादिश्रुतिदर्शितामभावतां न भावयति । तस्य मोक्षानुकूलयत्नरहितस्य
पुङ्गर्दभस्यानन्तं जन्मादिदुःखं नोपशाम्यत्येवेत्यर्थः ॥ ४५ ॥
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्र क्वचनशायीह स सम्राडिव राजते ॥ ४६ ॥
तथा भावयतस्तु बाह्यसर्वस्वत्यागेऽपि प्रारब्धाकृष्टजनैः
सम्पाद्यमानवसनाशनादिभिरान्तरस्वानन्दामृततृप्त्या च
वैराजपदान्तसाम्राज्यसुखमस्त्येवेत्याह - येन केनचिदिति ॥ ४६ ॥
वासनाभिरुपेतोऽपि समग्राभिरवासनः ।
अन्तःशून्योऽप्यशून्यात्मा खमिव श्वसनान्वितः ॥ ४७ ॥
वासनाभिर्ब्रह्माकारवासनाभिर्दग्धपटतन्त्वाकारसदृशजगद्द्वासनाभिर्वा ॥
४७ ॥
आसने शयने याने स्थितो यत्नैर्न बोध्यते ।
निद्रालुरिव निर्वाणमनोमनननिर्वृतः ॥ ४८ ॥
न बोध्यते षष्ठादिभूमिकाप्रविष्टत्वादिति भावः ॥ ४८ ॥
संविन्मात्रं हि पुरुषः सर्वगोऽपि स तिष्ठति ।
स्फुटसारे शरीरस्य यथा गन्धोऽब्जकेसरे ॥ ४९ ॥
स्फुटसारे रेतसि ॥ ४९ ॥
संविन्मात्रं विदुर्जन्तुन्न् तस्य प्रसरणं जगत् ।
आत्मनिष्ठत्वमजगत्परमेत्युपदेशभूः ॥ ५० ॥
एवं व्यष्टिसमष्ठिजीवभावादिवर्णनं परमप्रस्तुते योजयन्नुपदेशसर्वस्वं
सङ्क्षिप्याह - संविन्मात्रमिति । इति परमा रहस्यभूता उपदेशभूः
उपदेशस्थितिः ॥ ५० ॥
नीरसो भव भावेषु सर्वेषु विभवादिषु ।
पाषाणं हृदयं कृत्वा यथा भवसि भूतये ॥ ५१ ॥
तत्र वैराग्यदार्ढ्यमेव साधनरहस्यमित्याह - नीरस इति ॥ ५१ ॥
साधो हृदयसौषिर्यमसौषिर्यमिवास्तु ते ।
अचित्त्ववपुषोऽचित्त्वादुपलस्येव राघव ॥ ५२ ॥
पाषाणं हृदयं कृत्वा इत्युक्तेस्तात्पर्यन्न् विशदयति - साधो इति । यथा
अचित्त्ववपुष उपलस्य हृदयसौषिर्यमचित्त्वादेव चिन्निवेशानवकाशमसौषिर्यं
प्रसिद्धं तथा चिन्मात्रवपुषस्तव दहराकाशरूपं हृदयसौषिर्यं
चित्त्वादेवाचिन्निवेशनिरवकाशं चिन्निबिडितमसौषिर्यमिवास्त्विति तदाशय इत्यर्थः ।
अथवा इयन्तं कालमचिदात्माभिमानादचित्त्ववपुषस्तव
अचित्त्वादज्ञानात्स्फटिकोपलस्यान्तःकल्पितमाकाशमिव भोगसामग्री
धनादिलाभकोटिभिरप्यपूर्यमाणं कामलक्षणं हृदयसौषिर्यं
मनश्छिद्रं साम्प्रतं नित्यनिरतिशयानन्दपूर्णात्मलाभात्पूर्णकामत्वेन
बाधितं वास्तवं स्फटिकोपलासौषिर्यमिवानन्दैकघनमस्त्विति तदाशय इत्यर्थः ॥
५२ ॥
तज्ज्ञाज्ञयोरशेषेषु भावाभावेषु कर्मसु ।
ऋते निर्वासनत्वात्तु न विशेषोऽस्ति कश्चन ॥ ५३ ॥
अत एव स्फटिकोपलप्रतिबिम्बितजनव्यवहारकर्मस्विव तज्ज्ञाज्ञयोः प्रतीतिसाम्येऽपि
सत्यत्ववासनाभावकृत एव विशेष इत्याह - तज्ज्ञेति ॥ ५३ ॥
सत्तैवैषा विदो यत्सा भवत्युन्मिषिता जगत् ।
परं तत्त्वं निमिषता दृगिवानामकं ततम् ॥ ५४ ॥
एवं च स्फटिकोपले द्रष्ट्टपुरुषदृष्टिरिव विदश्चैतन्यस्य सत्तैव
वासनाभिरुन्मिषिता जगद्भवति निर्वासनत्वेन निमिषिता ततमपरिच्छिन्नतत्त्वं
मोक्षाख्यं भवतीति फलितमित्यर्थः ॥ ५४ ॥
दृश्यन्न् विनश्यत्यखिलं विनष्टं जायते पुनः ।
यन्न नष्टं न चोत्पन्नं तत्सद्भवति तद्भवान् ॥ ५५ ॥
अत एव चित्सत्तैव नित्यत्वमित्याह - दृश्यमिति ॥ ५५ ॥
भावज्ञप्तिर्हि निर्मूला भावितापि न विद्यते ।
सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम् ॥ ५६ ॥
ईदृशबोधेन मूलाज्ञाननाशे सत्यन्वेषणेऽपि जगद्भ्रान्तिर्न लभ्येत्याह -
भावेति । भावज्ञप्तिर्जगद्भ्रान्तिः । निर्मूला बाधितमूला । भाविता अन्विष्टापि ॥ ५६ ॥
यथाभूतार्थसन्दर्शच्छिन्नाऽहमिति भावना ।
दृष्टापि न करोत्यन्तर्दग्धं बीजमिवाङ्कुरम् ॥ ५७ ॥
कर्म कुर्वन्नकुर्वन्वा वीतरागो निरामयः ।
निर्मना नित्यनिर्वाणः पुमानात्मनि तिष्ठति ॥ ५८ ॥
अत एव विहितकर्मकरणाकरणयोर्विदुषामविशेष इत्याह - कर्मेति ॥ ५८ ॥
चित्तोपशान्तौ संशान्ताः शान्ताये भोगबन्धवः ।
न स्वभावपरिक्षीणाश्चित्तमेषां किलाकरः ॥ ५९ ॥
समनसोऽपि योगिनः शान्त्यादिवशादात्मनि कुतो न तिष्ठन्ति तत्राह - चित्तेति । ये
हठाच्छान्ता योगिनसेऽपि चित्तोपशान्तौ सत्यामेव सम्यक् शान्ता भवन्ति नान्यथा ।
यतस्तेषां भोगेन बध्नन्तीति भोगबन्धवो भोगवासना न स्वभावपरिक्षीणा
मूलतश्छिन्नाः । हि यस्मादेषामाकरः खनीभूतं चित्तमस्त्येवेत्यर्थः ॥ ५९ ॥
अघनः केवलालोको बुधो जीवः परायते ।
स एवान्योऽप्यनन्योऽन्तरपराह्ण इवातपः ॥ ६० ॥
चित्तदेहादिरूपेण घनीभाव एव जीवस्य भेदकस्तापकश्च तदभावे त्वयं
ब्रह्माभिन्नो निस्ताप एवेत्याह - अघन इति । अघनो मूर्तिशून्यो जीवः
केवलचिदालोकमात्रः शोधितत्वम्पदार्थः परायते । पराभेदयोग्यो भवतीत्यर्थः ।
आतपपक्षे अघनो मेघावरणनिर्मुक्तः अखरश्च ॥ ६० ॥
एकदेशस्थितात्पुंसो दूरायातस्य चेतसः ।
यद्रूपं सकलं मध्ये तद्रूपं परमात्मनः ॥ ६१ ॥
तदेवाघनं केवलचिदालोकस्वरूपमात्मनोऽनुभावयति - एकदेशेति । पुंसो देहात्
दूरं दूरस्थादित्यचन्द्रादिविषयं चक्षुरादिद्वारा यातस्य चेतसश्चित्तवृत्तेर्मध्ये
विच्छेदाभावाद्देहमारभ्य चन्द्रमण्डलपर्यन्तमविच्छिन्ना
अपरोक्षचिदभिव्यक्तास्त्येव । तस्या देहप्रदेशे चन्द्रप्रदेशे च सविषयत्वेऽप्यन्तराले
निर्विषयं यद्रूपं प्रसिद्धं तद्रूपमेव सकलं पूर्णं परमात्मनः
परिचेयमित्यर्थः । तथा च श्रुतिः तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् इति ॥ ६१ ॥
चारुचिद्व्योमकर्पूरन्न् यच्चमत्कुरुते स्वयम् ।
अनन्तमन्तरव्यक्तं जगदित्येव वेत्ति तत् ॥ ६२ ॥
निर्विषयचित एवायं मायाचमत्कारो जगदित्याह - चार्विति । अव्यक्तमनभिव्यक्तम् ॥
६२ ॥
गतभवभ्रमभासुरमक्षयं शममुपेतमुपेक्षितदीपवत् ।
स्थितमपीह जनं जगदीश्वरादनुगतं ननु भाति मुदा च खे ॥ ६३ ॥
एवमिदं जगत्तत्त्वज्ञजनं प्रति गतभवभ्रमभासुरमुपेक्षितदीपवत् शमं
निर्वाणमुपेतमक्षयं ब्रह्मैव भाति । अज्ञजनं प्रति तु
नियन्तुरीश्वरात्सकाशात्स्र्वनियतिव्यवस्थाभिर्भुदा भोगप्रीत्या चानुगतं खे
आकाशोदरे परमार्थतः स्थितमपि भातीति दृष्टिभेदमात्रमित्यर्थः ॥ ६३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे
उत्तरार्धे सुखयोगोपदेशो नाम द्वाविंशः सर्गः ॥ २२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सुखयोगोपदेशो नाम द्वाविंशः सर्गः ॥ २२ ॥