एकविंशः सर्गः २१
श्रीवसिष्ठ उवाच ।
ज्ञानिनैव सदा भाव्यं राम न ज्ञानबन्धुना ।
अज्ञातारं वरं मन्ये न पुनर्ज्ञानबन्धुताम् ॥ १ ॥
अशुभा च शुभा चात्र द्विविधा ज्ञानबन्धुता ।
हेया ग्राह्या च यत्नेन लक्षणैरुपवर्ण्यते ॥
तत्रादौहेयां वर्णयितुं पीठिकां रचयति - ज्ञानिनैवेति । ज्ञानी
उत्तरसर्गवक्ष्यमाणलक्षणस्तथाविधेनैव सदा भाव्यं भवितव्यं
ज्ञानव्याजेन सत्कर्मश्रद्धाबाधनाद्भोगलाम्पठ्येन स्वं परं
चानर्थैर्बध्नातीति ज्ञानबन्धुस्तथाविधेन न भाव्यमित्यर्थः ॥ १ ॥
श्रीराम उवाच ।
किमुच्यते ज्ञानबन्धुर्ज्ञानी चैव किमुच्यते ।
किं फलं ज्ञानबन्धुत्वे ज्ञानित्वेऽपि च किं फलम् ॥ २ ॥
किं लक्षणं प्राप्य ज्ञानबन्धुरुच्यते किं लक्षणं प्राप्य ज्ञानी उच्यते पुरुषस्ते
लक्षणे तत्फले च वदेति प्रश्नार्थः ॥ २ ॥
श्रीवसिष्ठ उवाच ।
व्याचष्टे यः पठति च शास्त्रं भोगाय शिल्पिवत् ।
यतते न त्वनुष्ठाने ज्ञानबन्धुः स उच्यते ॥ ३ ॥
अनुष्ठाने साधनचतुष्टयसम्पादने मननादौ च ज्ञानोपाये यो न यतते ॥ ३ ॥
कर्मस्पन्देषु नो बोधः फलितो यस्य दृश्यते ।
बोधशिल्पोपजीवित्वाज्ज्ञानबन्धुः स उच्यते ॥ ४ ॥
यस्य शास्त्राभ्यासलब्धः शाब्दो बोधः कर्मस्पन्देषु भोगव्यवहारेषु
दृश्यमानेषु वैराग्योपरमादिफलैः फलितो न दृश्यते । तत्त्वकथाभिः
परवञ्चनचातुरीबोधशिल्पं तदुपजीवित्वात् ॥ ४ ॥
वसनाशनमात्रेण तुष्टाः शास्त्रफलानि ये ।
जानन्ति ज्ञानबन्धूंस्तान्विद्याच्छास्त्रार्थशिल्पिनः ॥ ५ ॥
अर्थाद्वसनाशनलाभादय एव शास्त्रफलानीति ये जानन्ति
तान्शास्त्रार्थकथानाटनान्नटादिशिल्पिन इव विद्यात् ॥ ५ ॥
प्रवृत्तिलक्षणे धर्मे वर्तते यः श्रुतोचिते ।
अदूरवर्तिज्ञानत्वाज्ज्ञानबन्धुः स उच्यते ॥ ६ ॥
द्वितीयां शुभां ज्ञानबन्धुतां लक्षणेन दर्शयति - प्रवृत्तिलक्षणे इति ।
प्रवृत्तिलक्षणे निष्कामाग्निहोतादिलक्षणे धम्र् श्रुतस्य शास्त्रार्थज्ञानस्योचिते
अनुरूपे श्रुतस्य करिष्यमाणवेदान्तश्रवणस्योचिते चित्तशुद्धिद्वारा अनुकूले श्रुते
श्रुतिबोधिते उचिते स्वाधिकारकुलाचाराद्युचिते च । विविदिषन्ति यज्ञेन दानेन तपसा
इत्यादिश्रुतेः । सत्कर्मानुष्ठाने चित्तशुद्धिक्रमेणावश्यं ज्ञानेन बध्यते इति
व्युत्पत्त्या अदूरवर्तिज्ञानत्वावगमादित्यर्थः ॥ ६ ॥
आत्मज्ञानं विदुर्ज्ञानं ज्ञानान्यन्यानि यानि तु ।
तानि ज्ञानावभासानि सारस्याऽनवबोधनात् ॥ ७ ॥
अनात्मशास्त्राभ्यासपरा अपि तत्तदर्थज्ञानैः सम्बध्यमाना दृश्यन्ते
तत्सदृशोऽयं मा भूदित्यात्मज्ञाने विशेषं दर्शयति - आत्मज्ञानमिति । तानि
ज्ञानमिवावभासन्ते न तु ज्ञानानि । कुतः । रसेन सारभूतेनाबाध्येन
निरतिशयानन्दात्मना सह वर्तेते इति सरसौ तदध्यस्तौ जगज्जीवौ तयोर्भावः
सारस्यन्न् तदधिष्ठानब्रह्मरस एव
तदनवबोधनादध्यस्तबाध्यार्थमात्रबोधनाद्भ्रान्तिमात्रतया
अज्ञानतरङ्गमात्रत्वादित्यर्थः ॥ ७ ॥
आत्मज्ञानमनासाद्य ज्ञानान्तरलवेन ये ।
सन्तुष्टाः कष्टचेष्टं ते ते स्मृता ज्ञानबन्धवः ॥ ८ ॥
अत एव तल्लाभमात्रतुष्टानामशुभज्ञानबन्धुतैवेत्याह - आत्मज्ञानमिति ।
अभ्यासश्रमेण दुरभिमानादिदोषाधानेन पारलौकिकानर्थफलेन च
कष्टाश्चेष्टा यस्मिन्कर्मणि तद्यथा भवति तथा ते सन्तुष्टा इति हेतोस्तेऽपि
अशुभज्ञानबन्धवः स्मृता इत्यर्थः ॥ ८ ॥
ज्ञानादितज्ज्ञेयविकाशशान्त्या विना न सन्तुष्टधियेह भाव्यम् ।
त्वं ज्ञानबन्धुत्वमुपेत्य राम रमस्व मा भोगभवामयेषु ॥ ९ ॥
अत एव न सप्तमभूमिकास्थैर्यपर्यन्तं मुमुक्षुणा तौष्टिकेन भवितव्यमित्याह
- ज्ञानादीति । ज्ञानं बाह्याभ्यन्तरगोचरवृत्तयः आदिपदत्तत्कारणानि
तदाश्रयः प्रमाता च तेषां ज्ञेयाः शब्दादयस्तेषां विकाशाः
प्रथाश्चेत्येषामात्यन्तिकशान्त्या
पूर्णानन्दैकरसस्वप्रकाशब्रह्मात्मैक्यप्रतिष्ठां विना
मुमुक्षुणाऽवान्तरभूमिलाभमात्रेण कृतार्थोऽस्मीति सन्तुष्टधिया
उत्तरोत्तरभूमिप्रापकप्रयत्नशिथिलेन कदाचिदपि न भाव्यम् । हे राम त्वं
सर्वविद्यास्थानकुशलोऽप्यनात्मशास्त्रपाटवासक्त्या ज्ञानोपेक्षणेनानधिकारिषु
ज्ञानोपदेशकौशलख्यापनेन वा ज्ञानबन्धुत्वमुपेत्य
तत्ख्यातिलाभादिप्रयुक्तभोगलक्षणेषु भवामयेषु मा रमस्वेत्यर्थः ॥ ९ ॥
अत्राहारार्थं कर्म कुर्यादनिन्द्यं कुर्यादाहारं प्राणसन्धारणार्थम् ।
प्राणाः सन्धार्यास्तत्त्वजिज्ञासनार्थं तत्त्वं जिज्ञास्यंयेन भूयो न
दुःखम् ॥ १० ॥
कथं तर्हि मुमुक्षुणा स्थातव्यं तदाह - अत्रेति । आहारो हितमितमेध्याशनं
तदर्थं तदुपायप्राप्तये श्रुतिस्मृतिशिष्टैरनिन्द्यन्न्
स्ववर्णाश्रमोचितोपायेनाहारार्जनादिकर्म कुर्यात् । शिष्टं स्पष्टम् ॥ १० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
ज्ञानविचारो नामैकविंशः सर्गः ॥ २१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ज्ञानविचारो नामैकविंशतितमः सर्गः ॥ २१ ॥