०२०

विंशः सर्गः २०

श्रीवसिष्ठ उवाच ।

सङ्कल्पपुरुषस्त्वेष यद्यत्कपयति स्वयम् ।
तत्तथा तादृशं पञ्चभूतात्मा भवतीव खम् ॥ १ ॥

वासनाकर्मकामानुरूपसङ्कल्पसर्जनैः ।
समष्टिसाम्यन्न् व्यष्टीनां जीवानामिह वर्ण्यते ॥

विराट्पुरुषसत्यसङ्कल्पानुसारिविवर्तं ब्रह्म धत्ते इत्याह - सङ्कल्पेति ।
पञ्चभूतात्मा विराट्पुरुषो यद्यद्यथा यथा भवत्विति सङ्कल्पयति तत्तत्तथा तथा
खं ब्रह्माकाशमपि भवति ॥ १ ॥

सर्वं राम जगज्जातं तत्सङ्कल्पं विदुर्बुधाः ।
तादृग्रूपं पञ्चकात्मविषयोन्मुखमाततम् ॥ २ ॥

यतो ब्रह्मपूर्वोपासनाहितवासनया तादृग्रूपं पञ्चभूतात्मविराड्रूपं
सर्गादौ भूत्वा उपासनाफलपञ्चमहाभूतात्मकविषयसमष्टिभोगोन्मुखतां
गतमित्यर्थः ॥ २ ॥

जगत्पदार्थसार्थस्य विराट् सर्वस्य कारणम् ।
कारणेन समान्येव कार्याणि च भवन्त्यतः ॥ ३ ॥

कारणेन मृदादिना कार्याणि घटादीनि समस्वभावान्येव यतो भवन्त्यतो
हेतोरित्युत्तरत्रान्वयः ॥ ३ ॥

यथैष स विराडेव विराट् प्रत्येकमात्मनि ।
स्वसंविदि प्रसरति बोधवान्न त्वबोधवान् ॥ ४ ॥

प्रत्येकं व्यष्टिजीवोऽप्यात्मनि स्वस्मिन्विराट् सर्वसर्गसमर्थ इत्यर्थः । यतो
मनोवृत्त्यनुसारेण स्वसंविदि बाह्यान्तरविषयाकारेण प्रसरति सति विराडिवायमपि
तत्तदर्थबोधवानेव न त्वबोधवानिति साम्यमित्यर्थः ॥ ४ ॥

आसरीसृपमारुद्रमेवमभ्युदितो भ्रमः ।
अणावप्यद्रिविस्तारो बीजकोश इव द्रुमः ॥ ५ ॥

अपकर्षावधौ आसरीसृपमुत्कर्षावधावारुद्रमेवं जगदाकारो भ्रमोऽभ्युदितः
स एव सर्गः । अणावपीति भ्रमत्वे उपपत्तिः ॥ ५ ॥

आसरीसृपमारुद्रं विराट् प्रत्येकमात्मनि ।
पराणावप्यनन्तात्मबोधतो न त्वबोधतः ॥ ६ ॥

अस्त्वेवं किं ततस्तत्राह - आसरीसृपमिति । विराट् स्रष्टा । तथा च साम्यं
सिद्धमित्यर्थः ॥ ६ ॥

यादृगेव विराडात्मन्येष विस्तार आगतः ।
तादृगेवेह सर्वस्मिन्नणुमात्रेऽपि भूतके ॥ ७ ॥

अणुमात्रे मशकप्लुष्यादिदेहपरिच्छिन्नेऽपि भूतके जीवे ॥ ७ ॥

परमार्थेन न स्थूलं न सूक्ष्मं किञ्चन क्वचित् ।
यद्यथा विततं यत्र तत्तथाश्वनुभूयते ॥ ८ ॥

विततं भ्रान्त्या विस्तारितम् ॥ ८ ॥

मनश्चन्द्रमसो जातं मनसश्चन्द्र उत्थितः ।
जीवाज्जीवोऽथवैकैषा सत्ता द्रवजलाङ्गवत् ॥ ९ ॥

ननु विराजो व्यष्टिमनस्तदुपहितजीवोभयकारणत्वेन वैषम्यमिति कथं साम्यं
तत्राह - मन इति । अथवा समष्टिव्यष्ट्योरेकैवैषा सत्तेति भेद एव नास्ति कुतः
कारणता तत्रेत्यविशेष इत्यर्थः ॥ ९ ॥

शुक्रसारं विदुर्जीवं प्रालेयकणसन्निभम् ।
आनन्दोऽचलसन्दोहस्तत एव प्रवर्तते ॥ १० ॥

एवमुपाधिमनःकारणतां निरस्योपहितजीवं प्रति कारणतां
निरसितुमुपाधिस्वरूपमाह - शुक्रसारमिति । प्रथमं शुक्रं रेत एव सार
उपाधिर्यस्य तम् । ततः शुक्रोपहितजीवादेव मातापित्रोर्मैथुनकाले अचलस्य
पूर्णानन्दब्रह्मणो भोगाकारवृत्तौ प्रतिबिम्बनेन सन्दोहः प्रपूर्तिलक्षण
आनन्दः प्रवर्तते । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेरित्यर्थः
॥ १० ॥

तं चेतसि तदाभासं पूर्णमात्मस्थमात्मना ।
तत्र तन्मयतां धत्ते तेन तन्मयरूपिणी ॥ ११ ॥

तं तस्य ब्रह्मणः आभासलक्षणमानन्दं रेतोवच्छिन्नजीवचिदात्मस्थमात्मना
रेतोभूतस्वभावेनैव चेतत्यनुभवति । चेतयन्तीव रेतोरूपमेवानन्दः प्रियतमोऽहमिति
बीजमारभ्य तत्र तादात्म्याध्यासलक्षणां तन्मयतां धत्ते । आनन्दाद्ध्येव
खल्विमानि भूतानि जायन्ते इति श्रुतेः ॥ ११ ॥

जीवसंविदथैषान्तर्यदुपायाति पञ्चताम् ।
न तत्र कारणन्न् किञ्चिद्विद्यते न च कार्यता ॥ १२ ॥

अथानन्तरमेषा जीवसंवित्तदन्तर्गतपञ्चतां देहरूपां तादात्म्येनैवोपायाति ।
सैवास्यास्तदुपहितता तत्र च न विराजोऽन्यस्य वा कारणतेत्याह - न तत्रेति ॥ १२ ॥

प्रतियोगिव्यवच्छित्तेरभावात्स्वस्वभावयोः ।
स्वभावोक्तिर्न चैवात्र भवत्यर्थानुसारिणी ॥ १३ ॥

यद्युपहितरूपे न किञ्चित्कारणं तर्हि तदनागन्तुकं जीवानां स्वभावः स्यात् । न च
कस्यचित्स्वभावोऽपैतीत्यनिर्मोक्षप्रसङ्ग इत्याशङ्क्याह - प्रतियोगीति ।
अत्रोपहितरूपे स्वभावोक्तिरर्थानुसारिणी अर्थवती न भवति । स्वशब्दार्थविशिष्टो हि
भावशब्दार्थः स्वभावः तत्र स्वशब्दो यदि शुद्धपरस्तर्हि तस्याद्वयत्वान्न
प्रतियोगी तद्व्यवच्छेदो वान्योऽस्तीत्यव्यावर्तकात्तस्मादन्यो भावशब्दार्थोपि न
निरूपयितुं शक्यत इति तद्विशिष्टार्थसिद्धेर्दूरनिरस्तत्वादित्यर्थः ॥ १३ ॥

जीवो जीवत्वमेव स्वजीवत्वादेव च स्वतः ।
अन्तस्त्वेन बहिष्ट्वेन दृश्यते न च वायुवत् ॥ १४ ॥

यदि वा उपहितपरः स्वशब्दस्तदाप्यसौ न स्वबहिर्भूतं भावशब्दार्थं लभते
यः स्वार्थेन विशिष्यादित्याह - जीव इति । उपहितरूपो जीवोऽपि स्वतः स्वस्य
जीवत्वादुपहितरूपत्वादेव जीवत्वमुपहितरूपमेव स्वयं न तद्व्यतिरिक्तं
रूपान्तरमन्तस्त्वेन बहिष्ट्वेन वा भावशब्दार्थभूतन्न् विशेष्यतायोग्यं तत्र
दृश्यते । स च वायुर्वातीत्यत्र क्रियात्मैव वायुर्यथा विकल्पबुद्ध्या भेदं
परिकल्प्य वातीति व्यपदिश्यते तद्वज्जीवो जीवत्वमिति धर्मधर्मिभावेनेत्यर्थः ॥ १४ ॥

नीहारेणेव संवीतश्चेत्यवस्तुपरायणः ।
जात्यन्ध इव पन्थानं मारुतात्मा न पश्यति ॥ १५ ॥

यदि न जन्यन्न् न नित्यं स्वभावभूतं वा तर्हि किं तज्जीवरूपं यत्संसरतीति
चेदनिर्वचनीयाज्ञानावृतब्रह्मैव तत्स्वात्मन एवान्यथादर्शनं तस्य संसार
इत्याह - नीहारेणेत्यादिना । मारुतात्मा प्राणेन्द्रियादिजडतादात्म्यापन्नः अत एव
स्वरूपं न पश्यति । न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति इत्यादिश्रुतेरिति भावः ॥ १५ ॥

जगज्जृम्भिकया जीवः स्वमैक्यं द्वित्वमास्थितः ।
स्पन्दशक्त्येव पवन आवृतात्मा न पश्यति ॥ १६ ॥

जगदाकारया जृम्भिकया बृंहिकया अविद्याशक्त्या संवीतः अत एव स्वमैक्यमेव
द्रष्ट्टदृश्यमिति द्वित्वं कल्पयित्वा तत्रास्थितोऽभिनिविष्टः ॥ १६ ॥

अज्ञानस्य महाग्रन्थेर्मिथ्यावेद्यात्मनोऽसतः ।
अहमित्यर्थरूपस्य भेदो मोक्ष इति स्मृतः ॥ १७ ॥

अत एव विद्यया अविद्यानाशसम्भवान्नानिर्मोक्षदोष इत्याह - अज्ञानस्येति ।
अहमित्यर्थरूपस्य महाग्रन्थेर्भेदो विदारणम् ॥ १७ ॥

व्यपगतघनचेतनः समन्तादहमिति नूनमबुध्यमान आस्व ।
अनभिधघनचेतनैकरूपः क्षितसदसत्सदसत्सदोदितश्च ॥ १८ ॥

अत एव हे राम त्वं व्यपगतो घनोऽज्ञानमेघो
यस्मात्तथाविधश्चेतनश्चित्प्रकाशमातः
सन्नहमित्यहङ्कारोपाधिपरिच्छेदमबुध्यमानः शोधितत्वम्पदार्थः सन् क्षितं
बाधितं सत् मूर्तं असदमूर्तं सदसत्तन्मूलाज्ञानं च यत्र तथाविधो
रूपबाधादेवानभिधो नामशून्यः सैन्धवघनवदानन्दैकरसघनो
यश्चेतनः शोधिततत्पदार्थस्तदेकरूपः सन् समन्तात्पूर्ण आस्व ॥ १८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे
उत्तरार्धे जीवनिर्वाणयोगोपदेशो नाम विंशः सर्गः ॥ २० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जीवनिर्वाणयोगोपदेशो नाम विंशः सर्गः ॥ २० ॥