एकोनविंशः सर्गः १९
श्रीराम उवाच ।
मुने जीवस्य यद्रूपमाकृतिग्रहणं तथा ।
यथा च परमात्मत्वं स्थानं यच्चास्य तद्वद ॥ १ ॥
जीवस्वरूपतत्तत्त्वं समष्टिव्यष्टिदेहयोः ।
कल्पनं स्थानकरणभेदाद्भोगश्च वर्ण्यते ॥
यत् रूपं शास्त्रीयव्यवहारोपयुक्तं पारमार्थिकरूपं च । आकृतिः स्थूलशरीरं
तस्य ग्रहणं कल्पनम् । स्थानं बाह्यव्यवहारद्वारम् ॥ १ ॥
श्रीवसिष्ठ उवाच ।
स्वसङ्कल्पेन चेत्योक्तं चिदित्यपरनामकम् ।
अनन्तं चेतनाकाशं जीवशब्देन कथ्यते ॥ २ ॥
तत्र समष्टिजीवं मोक्षशास्त्रप्रसिद्धं शोधने ब्रह्माभेदयोग्यं प्रथमं
दर्शयति - स्वेति । अनन्तं यच्चेतनाकाशं ब्रह्म तदेव हन्ताहमिमास्तिस्रो देवता
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति श्रुतिदर्शितस्वसङ्कल्पेन
स्वचेत्यसूक्ष्मभूतोपाधिप्रवेशात्तद्विष्टम्भकप्राणधारणात् जीव प्राणधारणे
इति धात्वर्थानुगमाच्चेत्येन प्राणेनोक्तं जीव इत् व्यपदिष्टम् । चक्षुरादिद्वारा
चेतयतीति चित् चेतनः इत्यपरं नाम यस्य तथाविधं राज्जीवशब्देन कथ्यत इत्यर्थः ॥
२ ॥
न पराणुर्न च स्थूलं न शून्यं न च किञ्चन ।
चिन्मात्रन्न् स्वानुभूत्यात्म सर्वगं जीव उच्यते ॥ ३ ॥
तस्य पारमार्थिकं रूपमाह - नेति । शून्यमाकाशं तदन्तर्गतं वा किञ्चन
न ॥ ३ ॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
न किञ्चिन्मात्रकं चैव सर्वं जीवं विदुर्बुधाः ॥ ४ ॥
यस्य यस्य पदार्थस्य यो भावस्तेन तत्र तम् ।
स्थितं विद्धि तदाभासं तदात्मैकान्तवेदनात् ॥ ५ ॥
तस्य सर्वगत्वमनुभावयति - यस्य यस्येति । यो भावो
जातिगुणसंस्थानाद्यसाधारणरूपन्न् तेन तेन भावेन संस्थितगत एव तत्तदिव
आभासमानम् । तत्कुतः । तदेकान्तवेदनात्पुनः पुनस्तद्दर्शने तत्तदाकारेणैव
भाननियमाद्घटचक्षुःसंयोगे हि चक्षुर्द्वारा निर्गतमन्तःकरणं
स्ववृत्तिव्याप्तघटावच्छिन्नं जीवचित्स्फुरणन्न् घटोऽयं स्फुरति घटोऽयं
स्फुरतीति घटस्वभावतादात्म्येनैव यतो नियमेनानुभावयतीत्यर्थः ॥ ५ ॥
स चेतति यथा यत्र यद्यदाशु तदेव हि ।
तथा तत्र तदा राम भवत्यनुभवात्मकम् ॥ ६ ॥
अत एव समष्टिजीवो यत्र यथा चेतति तत्र तथा भवति सत्यसङ्कल्पत्वात् । व्यष्टिजीवस्तु स
यत्र यथा भवति तत्र तथा चेतति ॥ ६ ॥
पवनस्य यथा स्पन्दश्चेत्यं जीवस्य वै तथा ।
स्वसंविन्मात्रनिर्णेयं नोपदेशाम यक्षवत् ॥ ७ ॥
तथा च समष्टिजीवस्य पवनस्य स्पन्द इव सर्ववस्तुवैचित्र्यचेतनात्मकः सर्गः
पवनस्पन्दवत्स्वानुभवसिद्धः स्वभावो न तु बालस्य
यक्षभ्रान्तिवदुपदेशाभ्यासकृत इत्याह - पवनस्येति । न चोपदेशाम
उपदेशेन न साधयाम । दिशतेर्विकरणव्यत्ययश्छान्दसः ॥ ७ ॥
यथैवास्पन्दनाद्वातः सन्नेवैत्य सदात्मताम् ।
तथैवाचेतनाज्जीवो जीवन्नेति परां गतिम् ॥ ८ ॥
अत एवास्य मुक्तिसुषुप्तिप्रलयेषु बाह्याभ्यन्तरार्था चेतने जीवतापि शाम्यतीत्याह -
यथैवेति । परां गतिं ब्रह्मभावम् ॥ ८ ॥
जीवश्चिद्घनरूपत्वादहमित्येव चेतनात् ।
देशकालक्रियाद्रव्यशक्तीर्निर्माय तिष्ठति ॥ ९ ॥
तस्याकृतिग्रहणप्रकारं वर्णयितुं
सर्वकल्पनामूलस्तम्भमाविर्भूतसर्वशक्तिकं समष्ट्यहङ्काराध्यासं
प्रथमं दर्शयति - जीव इति । निर्माय आविर्भाव्य । सैवास्य
सार्वज्ञयसर्वशक्तिसम्पत्तिलक्षणा रुद्रता ॥ ९ ॥
देशकालक्रियाद्रव्यचर्चिताचर्चितां स्वयम् ।
असत्यान्न् सत्यवत्स्फारां तावन्मात्रशरीरिकाम् ॥ १० ॥
ततः सूक्ष्मभूतसंस्काराविर्भावलक्षणसमष्टिचित्तकल्पनामाह - देशेति
सार्धाभ्याम् । संस्कारात्मना ईषदाविर्भावाच्चर्चितां स्थूलतया
सम्यगनाविर्भावादचर्चितां च ॥ १० ॥
चेतसा ह्यसदाकारां प्रालेयपरमाणुताम् ।
पश्यत्यात्मन्यथात्मत्वे स्वप्ने स्वमरणोपमाम् ॥ ११ ॥
चेतसा समष्टिचित्तभावेन सूक्ष्मतमात्संवलनात्प्रालेयपरमाणुप्रायाम् ॥ ११ ॥
स्वप्नस्वावयवान्यत्वसदृशीं तां विभावयन् ।
विस्मृत्य चेतनां सत्तां तत्तामेवाशु गच्छति ॥ १२ ॥
स्वप्ने व्याघ्राद्यात्मतादर्शने प्रतीतं यत्स्वावयवानां
हस्तपादादीनामन्यादृशत्वं तत्सदृशीं तां समष्टिचित्तरूपां विष्णुताम् ।
तस्यैव पूर्णब्रह्मभावविस्मरणे
मनःसमष्ट्यात्मकचन्द्रभावोपलक्षितस्थूलभावकल्पनया
ब्रह्माण्डरूपाविराडाकृतिराविर्भवतीत्याह - विस्मृत्येत्यादिना । चेतनां
चिदेकरसां ब्रह्मसत्तां विस्मृत्य परिच्छिन्नजडसत्तामेवाहमिति
पश्यंस्तद्भावमेवाशु गच्छति ॥ १२ ॥
एवंरूपो बुध्यमानः प्रोच्छूनत्वमथात्मनि ।
पश्यत्याशु स्वमात्मानं चन्द्रबिम्बमिव द्रुतम् ॥ १३ ॥
पञ्चीकरणेन स्थौल्यापादनात्स्थूलसमष्टिविराडात्मना प्रोच्छूनत्वम् । तत्र
मनःसमष्ट्यात्मकं कालोपचयात्मना द्रुतं द्रवस्वभावं चन्द्रबिम्बमिव
पश्यति सैवास्य बुद्धिसमष्टिभावलक्षणा विरञ्चितेत्यर्थः ॥ १३ ॥
आत्मन्यथेन्दुबिम्बात्मन्यसौ संवित्तिपञ्चकम् ।
काकतालीयवद्भिन्नमुदितं चेतति स्वयम् ॥ १४ ॥
तस्य विराड्देहे भोगोपपत्तये मनःसमष्टेरेव
सकाशादादित्यादिरूपेन्द्रियपञ्चकं तत्स्थानभेदकल्पनां चाह - आत्मनीति ।
संवित्तिविषयभेदेनैवेन्द्रियभेदविभावनात्संवित्तिपञ्चकमित्युक्तिः ॥ १४ ॥
पञ्चानां संविदां पञ्च भिन्नान्यङ्गान्यसावथ ।
बुध्यते तानि तद्रूपरन्ध्राण्यनुभवत्यपि ॥ १५ ॥
तद्रूपाणि स्थानभेदरूपाणि रूपादिभोगद्वाराणि ॥ १५ ॥
स पञ्चावयवः पश्चाद्राजते पुरुषो विराट् ।
अनन्ताकारसंवित्तिरव्यक्तात्मा निरामयः ॥ १६ ॥
आदित्यदिग्वारिवायुपृथिव्याख्यपञ्चेन्द्रियस्थानावयवैः
पञ्चविषयानुपभुञ्जानो राजते तद्विषयेषु
मनोविकल्पैरनन्ताकारकल्पनादनन्ताकारसंवित्तिः । स चायं
कार्यभावस्यानृतत्वात्स्वकारणव्यक्तात्मैव । अत एव निरामयः ॥ १६ ॥
मनोमयोऽसावुदितः परस्मात्प्रथमोत्थितः ।
आकाशविशदः शान्तो नित्यानन्दविभामयः ॥ १७ ॥
तस्य मनोमयभावेऽपि
स्वतःसिद्धज्ञानैश्वर्यसर्वशक्तिसम्पन्नत्वाज्जीवत्वमीश्वरत्वं
चास्तीत्याशयेनाह - मनोमयोऽसाविति द्वाभ्याम् ॥ १७ ॥
स चाप्यपञ्चभूतात्मा पञ्चभूतात्मकोपमः ।
विराडात्मैकपुरुषः परमः परमेश्वरः ॥ १८ ॥
सर्वपुरुषसमष्टिरूपैकपुरुषः ॥ १८ ॥
स्वयमेवाशु भवति स्वयमेव विलीयते ।
स्वयमेव प्रसरति स्वयं सङ्कोचमेति च ॥ १९ ॥
तस्येश्वरभावेन स्वाविर्भावतिरोभावेऽपि स्वातन्त्र्यमस्तीत्याह - स्वयमेवेति ॥ १९ ॥
स्वसङ्कल्पकृतेनासौ कल्पौघेन क्षणेन च ।
यदृच्छयोदेति पुनः पुनर्भूत्वोपशाम्यति ॥ २० ॥
मनोमात्रैकरूपात्मा प्रकृतेर्देह एष सः ।
एष पुर्यष्टकं प्रोक्तः सर्वस्यैवातिवाहिकः ॥ २१ ॥
प्रकृतेः सर्वोपादानेश्वरस्य स एष देहः । एष एव व्यष्टिभावेन सर्वस्य
जीवजातस्य । पुर्यष्टकं प्राग्व्याख्यातम् ॥ २१ ॥
सूक्ष्मः स्थूलोऽम्बरात्मैष व्यक्तोऽव्यक्तोन्तवर्जितः ।
सर्वस्य बहिरन्तश्च न किञ्चित्किञ्चिदेव च ॥ २२ ॥
स च सूक्ष्मेषु पिपीलिकादिदेहेषु सूक्ष्मः । समः प्लुषिणा समो नागेन इत्यादिश्रुतेः ।
परमार्थतस्तु न किञ्चित् व्यवहारतस्तु किञ्चित्परिच्छिन्न एव च ॥ २२ ॥
अङ्गानि राम तस्याष्टौ मनःषष्ठानि पञ्च च ।
साहम्भावानीन्द्रियाणि भावाभावमयानि च ॥ २३ ॥
पञ्च ज्ञानेन्द्रियाणि चकारात्कर्मेन्द्रियसहितः प्राणो मनोऽहङ्कार
इत्यष्टावङ्गानि । भावाभावमयानि मूर्तामूर्तरसरूपाणि ॥ २३ ॥
तेन गीता इमे वेदाः सहशब्दार्थकल्पनाः ।
नियतिः स्थापिता तेन तथाद्यापि यथास्थिता ॥ २४ ॥
तेन चतुर्मुखीभूयेमे चत्वारो वेदा गीताः । नियतिः शास्त्रीयसदाचारादिमर्यादा ॥ २४ ॥
अनन्तमूर्ध्वं मूर्धास्य तथाधः पादयोस्तलम् ।
अपराकाशमुदरमिदं ब्रह्माण्डमण्डपम् ॥ २५ ॥
ऊर्ध्वं द्यौरस्य मूर्धा शिरः । अधः पृथिवी पादयोस्तलम् ।
अपरमान्तरालिकमुदरम् । तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्देहो बहुलो बस्तिरेव रयिः
पृथिव्येव पादौ इत्यादिश्रुतेरिति भावः । ब्रह्माण्डमण्डपं शरीरमिति शेषः ॥ २५
॥
लोकान्तराण्यनन्तानि पार्श्वकाः क्षतजं पयः ।
मांसपेश्यः क्षितिधराः सरितः सन्तताः शिराः ॥ २६ ॥
पार्श्वकाः पार्श्वाद्यवयवाः । पयो वारि क्षतजं रक्तम् ।
मूत्रस्याप्युपलक्षणमेतत् । क्षितिधराः पर्वताः । मांसपेश्यः सरितः शिरा
नाड्यः ॥ २६ ॥
रक्ताधारा जलधयो द्वीपान्येवान्त्रवेष्टनम् ।
बाहवः ककुभः स्फारास्तारका रोमसन्ततिः ॥ २७ ॥
रक्ताधारा रक्तसञ्चयपेश्यः । वेष्टनं षट्कोशवेष्टनम् । ककुभो दिशः
बाहवः । यद्यपि छान्दोग्यादौ लोमानि बर्हिरित्युक्तं तथापि श्रुत्यन्तरानुरोधेन
तारका इत्युक्तिः ॥ २७ ॥
पञ्चाशदनिलस्कन्धा एकोनाः प्राणवायवः ।
मार्तण्डमण्डलं चण्डं पित्तं जठरपावकः ॥ २८ ॥
एकोनाः पञ्चाशत् आवहप्रवहाद्यनिलस्कन्धाः प्राणवायवः । चण्डं क्रूरं
चक्षुरिति शेषः । जठरपावक और्वानलः पित्तम् ॥ २८ ॥
दशाङ्कमण्डलं जीवः श्लेष्मा शुक्रं सितं बलम् ।
मनः सङ्कल्पकोशात्म सारात्मा परमामृतम् ॥ २९ ॥
जीवादिषट्कं तु शशाङ्कमण्डलमेव । सितं वपाभावः । सङ्कल्पकोशात्मेति
मनोविशेषणम् । परामृतं ब्रह्मैव सारात्मा ॥ २९ ॥
मूलं शरीरवृक्षस्य बीजं कर्मद्रुमस्य च ।
प्रसवात्सर्वभावानामिन्दुरानन्दकारणम् ॥ ३० ॥
बीजादिभावोऽपि मनस एवेत्याह - मूलमित्यादिना ।
अन्नादिभावेनाप्यायनादानन्दकारणम् ॥ ३० ॥
यदिन्दुमण्डलं नाम स सम्राट् जीव उच्यते ।
शरीरकर्ममनसां बीजं मूलं च कारणम् ॥ ३१ ॥
स एव विराट्शरीरे जीवः अन्नात्मकेन तेन समष्टिप्राणधारणादित्याशयेनाह -
यदिति । व्यष्टिशरीराणामन्नमयानां स बीजं प्राणहेतुकानां सर्वकर्मणां
मूलं व्यष्टिमनसां च कारणम् । चन्द्रमा मनो भूत्वा हृदयं प्राविशत्
इत्यादिश्रुतेरित्यर्थः ॥ ३१ ॥
अस्मादिन्दुविराड्जीवात्प्रसरन्ति जगत्त्रये ।
जीवा मनांसि कर्माणि सुखान्यत्रामृतानि च ॥ ३२ ॥
तदेव स्पष्टमाह - अस्मादिति । सुखानि भोगा अमृतानि मोक्षाश्च ॥ ३२ ॥
विराज एते सङ्कल्पा ब्रह्मविष्णुहरादयः ।
तस्य चित्तचमत्काराः सुरासुरनभश्चराः ॥ ३३ ॥
विराजो विराड्जीवस्य । चतुर्मुखादिशरीराणामपि चान्द्रामृतपरिणामरूपत्वात् सोमः
पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य
जनितेन्द्रस्य जनितोत विष्णोः इति श्रुतेरिति भावः । नभश्चराः पक्षिणः ।
सर्वप्राण्युपलक्षणमेतत् ॥ ३३ ॥
चित्स्वभावो बुध्यमानः प्रालेयपरमाणुताम् ।
यदादौ भावयत्याशु तदा तत्रैव तिष्ठति ॥ ३४ ॥
चित्तचमत्कारतां चित्तोपहितचिद्विवर्ततया प्रकटयति - चित्स्वभाव इति ।
प्रालेयपरमाणुतां सुसूक्ष्मामृतकलात्मतां साक्षितया चन्द्रे बुध्यमानो यदा
देवतादिशरीराकारं सर्गादौ भावयति सङ्कल्पयति विराडात्मा प्रजापतिस्तदा तत्र
तादृशचतुर्मुखादिशरीरभावे एव स्वयन्न् सिद्धवत्तिष्ठति
सत्यसङ्कल्पत्वादित्यर्थः ॥ ३४ ॥
तेनैतदेव जीवस्य स्थानन्न् विद्धि रघूद्वह ।
पञ्चावयवमेतत्तच्छरीरमनुभूयते ॥ ३५ ॥
एतच्चन्द्रमण्डलमेव सर्वजीवसमष्टिविराड्जीवस्यापञ्चीकृतपञ्चभूतान्यवयवा
यस्य तथाविधं तस्य विराजः शरीरम् । एतज्जाग्रदिति सर्वैरनुभूयते ॥ ३५ ॥
विराड्जीवाच्चन्द्रमसो जीवभूतानि देहिनाम् ।
प्रसरन्त्यन्नजातानि प्रालेयविसरात्मना ॥ ३६ ॥
इन्दुविराड्जीवाद्व्यष्टिजीवप्रसरं प्रागुक्तमुपपादयति - विराडिति । जीवभूतानि
जीवनसाधनानि । प्रालेयविसरश्चन्द्रकलानामोषधीषु प्रसरस्तदात्मना ॥ ३६ ॥
तान्येव देहिदेहेषु जीवा जीवन्ति जीविषु ।
मनो भूत्वा विचेष्टन्ते कर्म जन्मसु कारणम् ॥ ३७ ॥
जीवाः जीवोपाधयः ॥ ३७ ॥
एवं विराट्सहस्राणि महाकल्पशतानि च ।
गतान्यथ भविष्यन्ति नानाचाराणि सन्ति च ॥ ३८ ॥
सहस्रशतशब्दावसङ्ख्यपरौ । सम्प्रति सन्ति च ॥ ३८ ॥
सर्वतोऽनुभवरूपयानया सत्तयोत्तमपदादभिन्नया ।
अन्तवर्जितमहाङ्गसङ्गया तिष्ठतीति पुरुषः परो विराट् ॥ ३९ ॥
उत्तमपदाद्ब्रह्मणः । अभिन्नया अत एवान्तवर्जितो निरवधिर्महांश्चाङ्गसङ्गो
व्यष्टिसमष्टिदेहसम्बन्धो यस्यास्तथाविधया अधिष्ठानसत्तयैव तद्विवर्तो
विराट्पुरुष इति वर्णितरीत्या सर्वतः सर्वदेशकालेषु इह मायावृते ब्रह्मणि
तिष्ठतीत्युपसंहारः ॥ ३९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
विराडात्मवर्णनं नामैकोनविंशः सर्गः ॥ १९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विराडात्मवर्णनन्न् नामैकोनविंशः सर्गः ॥ १९ ॥