अष्टादशः सर्गः १८
श्रीवसिष्ठ उवाच ।
मरणं सर्वनाशात्म न कदाचन विद्यते ।
स्वसङ्कल्पान्तरस्थैर्यन्न् मृतिरित्यभिधीयते ॥ १ ॥
उह्यमानान्यनन्तानि पवनैः सर्वतोम्बरे ।
मृतजीवमनःस्थानि वर्ण्यन्तेऽत्र जगन्ति हि ॥
देहोऽस्त्यहन्त्वकणिकान्तरशेषदृश्यसंवित्परीत इति बुद्धिदृशैव दृष्टम् इति
यदुक्तं तत्र कथमस्ति कीदृशी सा बुद्धिदृगिति तदुभयं
मृतजीववासनामयानन्तजगद्व्युत्पादनेन समर्थयितुं भूमिकां रचयति -
मरणमिति । मनोबुद्ध्यहङ्कारादिसर्वनाशात्मकं मरणमिति पामरा मन्यन्ते ।
तथा तु कदाचिदपि न विद्यते । कृतहानादिदोषप्रसङ्गात् । किन्तु
मनुष्यादिशरीरात्मभावभोजकप्रारब्धक्षये तदनुरूपसङ्कल्पतिरोभावे
देवादिशरीराहम्भावादिभोजककर्मोद्भवे तदनुरूपस्वसङ्कल्पान्तरस्य
तद्भोजकादृष्टक्षयपर्यन्तं स्थैर्यं पूर्वभावविस्मृतिमपेक्ष्य
मृतिरित्यभिधीयत इत्यर्थः ॥ १ ॥
पश्येमे पुर उह्यन्त इव मन्दरमेरवः ।
अरूढा अपि दिग्वातैः सरिद्बिम्बितशैलवत् ॥ २ ॥
अस्त्वेवं किं ततस्तत्राह - पश्येति । एवं च तत्तज्जीवसङ्कल्पकल्पितजगत्स्था
मन्दरमेरुप्रभृतयो दिक्षुवातैः सर्वत्र उह्यन्ते प्रवाह्यन्त इव मया दृश्यन्ते
त्वमपि पश्येत्यर्थः ॥ २ ॥
उपर्युपर्यन्तरतः कदलीदलपीठवत् ।
श्लिष्टाश्लिष्टस्वरूपाः खे मिथः संसृतयः स्थिताः ॥ ३ ॥
उपर्युपरि बहिर्बहिः यावतां जीवानां भोजकादृष्टसाम्यन्न् तावतां श्लिष्टा
एकीभावेन मिलिताः । अन्येषामश्लिष्टस्वरूपाः ॥ ३ ॥
श्रीराम उवाच ।
पश्य मे पुर उह्यन्त इति वाक्यार्थमक्षतम् ।
न किञ्चिदवगच्छामि यथावन्मुनिनायक ॥ ४ ॥
उक्तमर्थमसम्भावयन् रामः पृच्छति - पश्येति । यथावत्कथयेति शेषः ॥ ४
॥
श्रीवसिष्ठ उवाच ।
प्राणस्याभ्यन्तरे चित्तं चित्तस्याभ्यन्तरे जगत् ।
विद्यते विविधाकारं बीजस्यान्तरिव द्रुमः ॥ ५ ॥
मृतानां पुरुषाणां प्राणास्तावन्नभस्युत्क्रामन्तीति लोकवेदप्रसिद्धम् । तद्यदि
प्राणाः सन्ति तर्हि प्राणस्याभ्यन्तरे चित्तं चित्तस्याभ्यन्तरे जगदपि विद्यते इति
सम्भावयेत्यर्थः ॥ ५ ॥
मृते पुंसि नभोवातैर्मिलन्ति प्राणवायवः ।
सरिज्जलैरिवाम्भोधिजलान्यात्मद्रुतानि हि ॥ ६ ॥
सन्तु नाम तथापि दिग्वातैः कथं प्रवाह्यन्ते तत्राह - मृते इति । पुंसि मृते
सति तत उत्क्रान्ताः प्राणवायवो बाह्यनभसि पूर्णैर्वातैः सह मिलन्ति ।
यतस्तान्यप्यात्मनि द्रुतानि द्रवस्वभावानि । अतः समस्वभावानां मेलने एकतैव
भवतीत्यर्थः ॥ ६ ॥
इतश्चेतश्च यान्तीव तेषामन्तर्जगन्त्यलम् ।
व्योमवातविनुन्नानां सङ्कल्पैकात्मकान्यपि ॥ ७ ॥
अतो व्योमवातैर्विशेषेण नुन्नानामाकृष्टानां तेषां प्राणानामन्तर्गतानि
जगन्त्यपि इतश्चेतश्च यान्तीवेत्युह्यन्त इवेत्युक्तिरित्यर्थः ॥ ७ ॥
सप्राणवातैः पवनैः स्फुरत्सङ्कल्पगर्भितैः ।
सर्वा एव दिशः पूर्णाः पश्यामीमाः समन्ततः ॥ ८ ॥
अत्रैते पश्य पश्यामि सङ्कल्पजगताङ्गणे ।
बुद्धिदृष्ट्या समुह्यन्ते पुरो मन्दरमेरवः ॥ ९ ॥
अहं पश्यामि त्वमपि बुद्धिदृष्ट्या पश्य ॥ ९ ॥
खवातेऽन्तर्मृतप्राणाः प्राणानामन्तरे मनः ।
मनसोऽन्तर्जगद्विद्धि तिले तैलमिव स्थितम् ॥ १० ॥
खे विद्यमाने वातेऽन्तर्मृतानां प्राणाः ॥ १० ॥
खवातैः खसमाः प्राणा यथोह्यन्ते मनोमयाः ।
उह्यन्ते वै तथैतानि तदङ्गानि जगन्त्यपि ॥ ११ ॥
ननु गुरूणि जगन्ति कथं वातैरुह्यन्ते तत्राह - खवातैरिति । तथा प्राणवदेव
तदङ्गानि जगन्त्यपि खसमानि लघूनीत्युह्यन्त इत्यर्थः ॥ ११ ॥
सभूतान्यम्बरोर्व्यादिवृन्दानि त्रिजगन्त्यपि ।
उह्यन्ते चाप्यरूढानि पुरः सर्वत्र गन्धवत् ॥ १२ ॥
सभूतानि चतुर्विधप्राणिसहितानि । अरूढानि अदृढानि । अप्रतिष्ठितानीति यावत् ॥ १२ ॥
तानि बुद्ध्यैव दृश्यन्ते न दृष्ट्या रघुनन्दन ।
पुरः सङ्कल्परूपाणि स्वस्वप्नपुरपूरवत् ॥ १३ ॥
दृष्ट्या चक्षुरादिना स्वीयस्वप्नदृष्टपुरवत्तादृशपूरवद्वा
तादृशपुरान्तर्गतनदीपूरवद्वा ॥ १३ ॥
सर्वत्र सर्वदा सन्ति सुसूक्ष्माण्येव खादपि ।
कल्पनामात्रसारत्वान्न चोह्यन्ते मनागपि ॥ १४ ॥
उह्यन्त इवेति [पश्येमे पुर उह्यन्त इव
इत्येतत्सर्गगतद्वितीयश्लोकोक्तमित्यनुसन्धेयम् ।] यदुक्तं तत्र
इवकारार्थसमर्थनायाह - कल्पनामात्रसारत्वादिति ॥ १४ ॥
तान्येव दृढभावत्वात्स्वेषु लोकेषु तेष्वलम् ।
सत्यान्येव चिदंशस्य सर्वगत्वाद्भवानिव ॥ १५ ॥
यद्यपि तानि कल्पनामात्रत्वान्न सन्त्येवेति नोह्यन्ते तथापि तान्येव तेषु
तत्तज्जीवभोग्येषु स्वेषु स्वर्गनरकभूम्यादिलोकेषु तेषां
दृढभावत्वात्सुखदुःखभोगार्थक्रियासमर्थतया सत्यान्येव
तत्सत्यतासम्पादकस्याधिष्ठानचिदंशस्य सर्वगत्वात् । यथा भवानस्मद्दृष्ट्या
श्रवणधारणाद्यर्थक्रियासमर्थः पुरोवर्ती सत्यस्तद्वदेवेत्यर्थः ॥ १५ ॥
प्रतिबिम्बं पुराणीव पुरःप्राणसरिद्रये ।
अरूढान्यपि चोह्यन्ते रूढान्यपि च नैव च ॥ १६ ॥
अरूढानि वासनामात्रत्वादनाविर्भूतानि रूढान्याविर्भूतानि चेत्थमुह्यन्ते नैव
चोह्यन्ते ॥ १६ ॥
सौरभाणि समुह्यन्ते वाताङ्गस्थानि राघव ।
जगन्ति प्राणसंस्थानि व्योमात्मकमयानि तु ॥ १७ ॥
सौक्ष्म्ये वहने च सौरभसाम्यं प्रागुक्तमित्याह - सौरभाणीति ॥ १७ ॥
कुम्भे देशान्तरं नीते यथान्तर्व्योम्नि नान्यता ।
स्पन्दनादिमये चित्ते तथैव त्रिजगद्भ्रमे ॥ १८ ॥
अत एव त्रिजगद्भ्रमात्मना चित्तस्य स्पन्दभेदयोरपि नात्मनस्तावित्याह - कुम्भे
इति । तथैवात्मनि नान्यतेति शेषः ॥ १८ ॥
इत्थं न सज्जगद्भ्रान्तिरसत्यैवोदितेव ते ।
न विनश्यति नोदेति केवलं ब्रह्मरूपिणी ॥ १९ ॥
यथा मृतानां जगत्सङ्कल्पमात्रत्वादसदित्थन्ते तवापि जगदसत् । भ्रान्तिरेव
केवलमुदितेव । सा भ्रान्तिरपि परमार्थतो न विनश्यति नोदेतीति तत्त्वदृष्ट्या
ब्रह्मरूपिण्येवेत्यर्थः ॥ १९ ॥
यदि वाप्युदिते वातैस्तत्तदस्या न लक्ष्यते ।
तदन्तःसंस्थितैः स्पन्दो नावि कोशगतैरिव ॥२० ॥
ननु यदि व्यवहारदृशा जगत्तद्भ्रान्ती वाय्वन्तःप्रवहमाने उदिते तर्हि वयं
पृथिवीं निश्चलतया कथं पश्यामस्तत्राह - यदि वेति । नोदिते एव । यदि वा उदिते
इति पक्षस्तथापि वातैः कृतं तत्तद्भ्रमणपरिवर्तनादिकमस्याः
पृथिव्यास्तदन्तःसंस्थितैरस्माभिर्न लक्ष्यते । यथा नावि जायमानः
स्पन्दस्तदन्तःकोशगतैर्नरैर्न लक्ष्यते तद्वदित्यर्थः ॥ २० ॥
यथा स्पन्दोऽङ्गलग्नायां नाब्यन्तःसंस्थितैरपि ।
न लक्ष्यते यथा पृथ्व्यां [यद्यपि तथा ब्रह्मंस्तत्संस्थैः इति पाठो
दृश्यते तथापि ब्रह्मन्निति सम्बोधनस्य रामं प्रत्ययोग्यत्वान्न
सध्रीचीनः ।] तत्संस्थैस्तन्मयैरपि ॥ २१ ॥
तदेव स्पष्टमाह - यथेति । यथा नावि अन्तः संस्थितैरपिशब्दात्तन्मयैरपि
कीलाद्यैर्नौस्पन्दो न लक्ष्यते तद्वत्पृथिवीसंस्थैः
पार्थिवदेहादिमयैरप्यस्माभिरित्यर्थः ॥ २१ ॥
यथा योजनविस्तीर्णं लघौ सद्मानुभूयते ।
यत्तस्य पादपस्तम्भे परमाणौ यथा जगत् ॥ २२ ॥
इत्थं पश्येमे पुर उह्यन्त इव मन्दरमेरवः इति स्वोक्तिं रामायोपपाद्य
उपर्युपर्यन्तरन्तःकदलीदलपीठवदित्युक्तावप्यल्पे बृहतः समावेशं प्रथमं
बृहतोऽल्पत्वकल्पनया दर्शयति - यथेति । यथा योजनविस्तीर्णमपि सद्म लघौ
पादपस्तम्भे चित्रनिर्व्यूहरचनादिना रचयुतिं यत्तस्य यतमानस्य शिल्पिनो बुद्ध्या
अल्पत्वकल्पनया तत्रानुभूयते तथा अन्तरन्तःसूक्ष्मतमेऽपि परमाणौ
जगद्बुद्धिकल्पनयाऽनुभूयत इत्यर्थः ॥ २२ ॥
वस्त्वल्पमप्यतिबृहल्लघुसत्त्वो हि मन्यते ।
मूषिकाः स्वाञ्जलिद्रव्यन्न् नवपङ्कमिवार्भकाः ॥ २३ ॥
परमाण्वादेर्बृहत्तमत्वकल्पया न वा तत्र बृहतो जगतः समावेशोऽनुभवितव्य
इत्याशयेनाह - वस्त्विति । तद्यथा रत्नकोशागारे प्रविष्टा अस्वा
धनसम्बन्धशून्या मूषिका न रत्नानि बहु मन्यन्ते किन्त्वञ्जलिमात्रमितमपि
धान्यद्रव्यमेव तत्र दैवाल्लब्धं बहु मन्यन्ते यथा वा अर्भका बहुमूल्यान्यपि
स्वाभरणानि नित्यमनुभूयमानानि न बहु मन्यन्ते किन्तु नवमपूर्वं
मृगपक्ष्याकारं वर्णकादिपरिष्कृतं पङ्कं मृत्पिण्डमेव क्रीडनाय बहु
मन्यन्ते येन तद्दानेन वञ्चिताः स्वाभरणान्यपि विनिमयेन प्रयच्छन्तीत्यर्थः ॥ २३
॥
असत्येव स्वरूपेऽस्मिञ्जगदाख्ये विदो भ्रमे ।
लोकान्तराधर्ममयी [अत्राधर्मपदमुपलक्षणं धर्मस्येत्यपीति
धर्माधर्मफलानीति व्याख्यातम् ।] सा बृहङ्गस्य भावना ॥ २४ ॥
किं च वास्तवोऽल्पे बृहतः समावेशो न सम्भवतु नाम भ्रान्त्या तु
सम्भवत्येवेत्याशयेनाह - असत्येवेति । विदः अज्ञानावृतचितो जगदाख्ये भ्रमे
असत्येवार्थे केवलं जीवतोऽयं लोको मृतस्य लोकान्तराणि तत्र च
धर्माधर्मफलानीत्यादिमयी बृहङ्गस्य बृंहणं गच्छतश्चित्तस्य सा
सङ्कल्परूपा भावनैव । न च भावनां वस्त्वन्यथाभावो निरुणद्धीत्यर्थः ।
बृंहधातोः घञर्थे कविधानमिति भावे कः । ततः अन्येष्वपि दृश्यते इति
गमेर्डः । बाहुलकान्नुम् ॥ २४ ॥
इदं हेयमुपादेयमिदमित्यन्तरज्ञता ।
यस्य तस्य भवायास्ति सर्वज्ञस्यापि मूढता ॥ २५ ॥
ननु मूढानामस्त्वन्तरन्तर्जगद्भ्रमभावना सर्वज्ञानां भवदादीनां
कथमन्तरन्तर्जगदन्तरमस्तीति भ्रान्तिस्तत्राह - इदमिति । सर्वज्ञस्यापि भवाय
व्यवहारसम्भवाय यावत्प्रारब्धक्षयं लेशतोऽनुवर्तमाना
मूढताऽस्त्येवेत्यर्थः ॥ २५ ॥
सचेतनो ह्यवयवी चेतत्यवयवान्यथा ।
स्वान्तरेव ततं जीवस्त्रिजगद्बुध्यते तथा ॥ २६ ॥
अत एव सर्वज्ञस्यापि समष्टिजीवस्य हिरण्यगर्भस्यावयववत्स्वान्तरेव
त्रिजगद्दर्शनमित्याह - सचेतन इति । अवयवी देहात्मा लौकिकपुरुषः । जीवः
समष्टिजीवः ॥ २६ ॥
संविदात्मपराकाशमनन्तमजमव्ययम् ।
व्योम्नोऽवयवरूपाणि तस्येमानि जगन्ति भोः ॥ २७ ॥
मायोपहित ईश्वरस्त्वेवं पश्यतीत्याह - संविदात्मेति । भो इति सम्बोधनेन
रामस्य तत्स्मार्यते ॥ २७ ॥
सचेतनोऽयःपिण्डोऽन्तः क्षुरसूच्यादिकं यथा ।
बुद्ध्यते बुद्ध्यते तद्वज्जीवोऽज्ञस्त्रिजगद्भ्रमम् ॥ २८ ॥
ईश्वरः प्रलयकाले कथं स्वान्तर्गतं जगत्पश्यति तत्राह - सचेतन इति चतुर्भिः ।
अयःपिण्डो यदि सचेतनः स्यात्तर्हि यथा स्वान्तः सूक्ष्मरूपेण स्थितं क्षुरसूच्यादि
भाविस्वविकारं पश्येत्तद्वदित्यर्थः । जीवः स्वलीनसर्वसंस्कारोपहितः सन् ॥ २८ ॥
अचिच्चिद्वापि मृत्पिण्डः शरावोदञ्चनादिकम् ।
यथाङ्ग मनुते जीवस्तथाङ्ग मनुते जगत् ॥ २९ ॥
अधिष्ठानसद्रूपप्राधान्येन चित् आरोपितमृदादिरूपप्राधान्यविवक्ष्या अचिद्वा ।
तात्पर्यं पूर्ववदेव ॥ २९ ॥
चिदचिद्वाङ्कुरो देहे वृक्षत्वं मन्यते यथा ।
वृक्षशब्दार्थरहितं ब्रह्मेदं त्रिजगत्तथा ॥ ३० ॥
उपहितप्राधान्येन चित् आरोपितमृदादिरूपप्राधान्येनाचिद्वाङ्कुरः । एतांवास्तु
विशेषः - जीवसंस्कारोपहितरूपेण वृक्षशब्दार्थसहितं बुध्यते
तदनुपहितेश्वररूपेण तु तद्रहितमनादिसिद्धया विद्यया वा बाधितरूपमिति यावत् ।
शेषं प्राग्वत् ॥ ३० ॥
चिद्वाचिद्वा यथादर्शो बिम्बितं वाप्यबिम्बितम् ।
नगरं वेत्ति नो वापि तथा ब्रह्म जगत्त्रयम् ॥ ३१ ॥
परिणामदृशा जीवेश्वरयोः सर्गासर्गकाले जगद्दर्शने दृष्टान्तमुक्त्वा
विवर्तदृशाप्याह - चिद्वेति । जीवेश्वरोपाध्युपहितदृशा वेत्ति
अनुपहितशुद्धदृशा तु नो वेत्ति । यत्र नान्यत्पश्यति इत्यादिश्रुतेरिति भावः ॥ ३१ ॥
देशकालक्रियाद्रव्यमात्रमेव जगत्त्रयम् ।
अहन्त्वजगतोस्तेन भेदो नास्त्येतदात्मनोः ॥ ३२ ॥
एवं रामप्रश्नान्समाधाय प्रासङ्गिकं च सर्वं समाप्य नाहन्त्वजगती भिन्ने
पवनस्पन्दने यथा । इति प्राक्प्रस्तुतार्थन्न् प्रकारान्तरेण समर्थयितुमनुसन्धत्ते
- देशेति । अहन्त्वमपि
देशकालक्रियाद्रव्यतादात्म्यसंसर्गाभिमानात्मकत्वात्तद्रूपमेवेत्ये##-
कल्पितेनोपमानेन यदेतदुपदिश्यते ।
तत्रोपमैकदेशेन उपमेयसधर्मता ॥ ३३ ॥
एतदनुभावयितुमेव श्रुत्या मया च मृल्लोहपिण्डादिदृष्टान्ता अचेतना अपि
चेतनत्वमारोप्यैकदेशसाम्येनोपन्यस्ता इत्याह - कल्पितेनेति ॥ ३३ ॥
यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
अमुञ्चतः पराणुत्वं जीवस्यैतत्स्मृतं वपुः ॥ ३४ ॥
वास्तवब्रह्मभावलक्षणं परमणुत्वं सौक्ष्म्यममुञ्चत एव विवर्तरूपं
स्थूलं जगद्रूपमित्यर्थः ॥ ३४ ॥
सर्वसंवेदनत्यागे शुद्धसंस्पन्ददे पदे ।
न मनागपि भेदोऽस्ति निःसङ्गोपलकोशवत् ॥ ३५ ॥
अत एवाधिष्ठानदृष्ट्या सर्वविवर्तसंवेदनबाधे निष्प्रत्यूहं सर्वतः
शुद्धात्मप्रसरप्रदे पूर्णपदे न मनागपि जीवजगद्भेदोऽस्तीत्याह - सर्वेति ॥ ३५ ॥
यो यो नाम विकल्पांशो यत्र यत्र यथा यथा ।
यदा यदा येन येन दीयते स तथैव चित् ॥ ३६ ॥
अबाधे तु सदा सर्वत्र सर्वविकल्पात्मनैव चिद्विवर्तत इत्याह - यो य इति । दीयते
मूढेनेति शेषः । चित् तथैव तद्विकल्पानुसारेणैव सविवर्ता भवतीत्यर्थः ॥ ३६ ॥
अचित्त्वान्नास्ति मनसि सङ्कल्पः ख इवाङ्कुरः ।
चित्त्वात्तु चेतसो विद्धि चितिरेवेह कल्पनम् ॥ ३७ ॥
मनसोऽपि चिदनुप्रवेशादेव विचित्रसङ्कल्पसामर्थ्यं न स्वत इति चित एव
सर्वविवर्तस्वातन्त्र्यमित्याह - अचित्त्वादिति ॥ ३७ ॥
या योदेति विकल्पश्रीरप्रबुद्धाशयं प्रति ।
सर्वगत्वादनन्तत्वाच्चिद्व्योम्नः सा न सन्मयी ॥ ३८ ॥
यथोदेति विकल्पश्रीः प्रबुद्धे नोदितैव सा ।
सर्वगत्वादनन्तत्वाच्चिद्व्योम्नः सा न सन्मयी ॥ ३९ ॥
एवमप्रबुद्धे उदितापि प्रबुद्धे तत्त्वे नोदितैव
अनन्तत्वात्कालवस्तुकृतपरिच्छेदशून्यत्वाच्च ॥ ३९ ॥
सर्वसङ्कल्पकलना सत्येत्याबालमक्षतम् ।
स्वप्नादावनुभूतोन्तरर्थः केनापि लभ्यते ॥ ४० ॥
यद्यसन्मयी तर्हि कथमाबालगोपालं सत्येव भाति तत्राह - सर्वेति । न
जाग्रत्सङ्कल्पकलनैव सत्येति भाति किन्तु स्वप्नादिसाधारण्येन सर्वापि । न च
स्वप्नभ्रान्त्यादावुपलब्धो गजरजतादिरर्थः केनापि लभ्यते इति काक्वा योज्यम् ॥ ४० ॥
सङ्कल्पो वासना जीवस्त्रयोऽर्था लिखिताश्चिता ।
सोनुभूतोऽप्यसत्यः स्यादसत्त्वस्यैव नो सतः ॥ ४१ ॥
ननु सत्यः संसारः कथमसत्यः स्यात्तत्राह - सङ्कल्प इति । जाग्रत्स्वप्नौ
सङ्कल्पः सुषुप्तिस्तु वासनामात्रं तदुभयप्रतिबिम्बितचिद्रूपस्तदुभयभोक्ता
जीवश्चेति त्रयः पदार्थाः सत्यकूटस्थचिता स्वात्मनि चित्रवल्लिखिताः सोऽयं
चित्रसंसारकल्पः संसारोऽधिष्ठानसत्तया सत्य इत्यनुभूतोऽप्यसत्यस्य
जीवस्यैवेत्यसत्यः स्यान्न त्वधिष्ठानसतः । तेन तदसंस्पर्शादित्यर्थः । यथा
चित्रप्रतिबिम्बस्वप्नाश्वाश्चित्रप्रतिबिम्बस्वप्नपुरुषाणामसत्यानामेव वाहनं न
सत्यपुरुषस्य तद्वदिति भावः ॥ ४१ ॥
असत्यताभिधं सत्यन्न् मुक्त एव भवेच्छिवः ।
सातिवाहिकदेहैकपरिक्षयविकासवान् ॥ ४२ ॥
ब्रह्म वा इदमग्र आसीत् इत्यादिश्रुतेरस्तु वा सत्यस्यैव स्वाबोधात्संसारस्तथापि
तन्नित्यमुक्तमेव । यथा हि तत्सत्यं ब्रह्म प्राक्तत्त्वबोधात्स्वसत्यतां जगति
सङ्क्रामयत्तत्सत्यताभिधं स्वयं भवति । तथा तत्त्वबोधोत्तरं बाधिताज्जगतः
स्वसत्तां स्वात्मन्युपसंहरत्तदसत्यताभिधमपि भवति । न हि
प्रपञ्चस्याधिष्ठानमात्रपरिशेषादन्या असत्यता काचित्सुवचा । यत
आतिवाहिकदेहसहितस्यैकस्य स्वाज्ञानस्य परिक्षयेऽपि पूर्णतालक्षणविकासवान्मुक्तः
प्रत्यगात्मैव शिवो भवेदित्यर्थः ॥ ४२ ॥
जगन्ति वातैरुह्यन्ते व्योम्नि शाल्मलितूलवत् ।
नोह्यन्ते चोपलानीव न च सन्त्येव कल्पनात् ॥ ४३ ॥
अत एवाज्ञानदृष्ट्यैव जगन्त्युह्यन्ते न तत्त्वदृशेत्युक्तमित्युपसंहरति -
जगन्तीति ॥ ४३ ॥
इत्यस्मिन्नखिलपदार्थसार्थकोशे व्योमन्यप्यतिवितते जगन्ति सन्ति ।
अन्योन्यं परिमिलितानि कानिचिच्च नान्योन्यं परिमिलितानि कानिनिच्च ॥ ४४ ॥
इति वर्णितरीत्या अस्मिन्नखिलपदार्थसमूहानां कोशभूते अज्ञाते
प्रतीचिपरमार्थतोऽतिवितते व्योमनि शून्याकाशकल्पेऽप्यविद्यया अनन्तानि जगन्ति सन्ति ।
तानि च कतिपयानां जीवानां भोजकादृष्टसाम्ये जागरे ब्रह्माण्डैक्ये च अन्योन्यं
परिमिलितानि । तद्वैषम्ये तु ब्रह्माण्डभेदे स्वप्ने च नान्योन्यं परिमिलितानीत्यर्थः ॥
४४ ॥
सर्वत्वात्परमचितेरनन्तरूपाण्यारम्भप्रचुरदिगन्तसम्भृतानि ।
लोलाम्बूदरपुरबिम्बभङ्गुराणि स्वान्तःस्थाविरलमहापुरोपमानि ॥ ४५ ॥
तान्येव विशिनष्टि - सर्वत्वादित्यादित्रिभिः । परमचितेर्ब्रह्मणः
सर्वत्वात्सर्वशक्तित्वादियत्तासङ्कोचकाभावाद्गुणतो वस्तुतः
क्रियाजात्यादितश्चानन्तरूपाणि बहुविधकार्यारम्भप्रचुरैर्दिगन्तसंस्थितजनैः
सम्भृतानि । लोले अम्बूदरे प्रतिबिम्बितं पुरबिम्बमिव भङ्गुराणि । अत एव
स्वान्तःस्थान्यविरलानि सर्वसम्भारसम्भृतानि यानि देवगन्धर्वादिमहापुराणि
तान्येव उपमा येषां तानि ॥ ४५ ॥
सस्थैर्याण्यपि सततं क्षणक्षया।इन् व्यक्ताक्षाण्यपि सततं निमीलितानि ।
सालोकान्यपि परितस्तमोवृतानि चिद्रूपार्णवलहरीविवर्तनानि ॥ ४६ ॥
अनुवृत्तवस्त्वात्मना सस्थैर्याण्यपि व्यावृत्तभावविकारैः क्षणक्षयाणि । एवं
जागरे व्यक्ताक्षाण्यपि तत्त्वतो व्यक्त्यभावान्निमीलितानि । आत्मज्योतिषा सालोकान्यपि
तस्याज्ञानतमोवृतत्वात्तमोवृतानि ॥ ४६ ॥
पृथक्स्थितानि व्यतिमिश्रितानि जलानि चैवाम्बुनुधौ नदीनाम् ।
तारार्कचन्द्रग्रहमण्डलानां समोदितानां नभसीव भासः ॥ ४७ ॥
पृथक्स्थितानां व्यतिमिश्रितत्वे व्यतिमिश्रितानां पृथक्स्थितत्वे च
क्रमाद्दृष्टान्तद्वयमाह - पृथगिति । नदीपात्रे पृथक्स्थितान्यप्यम्बुनिधौ
व्यतिमिश्रितानि । नभसि समकालमुदितानां तारादीनां भासस्तु इयमस्य भा इति
विवेक्तुमशक्यत्वाद्व्यतिमिश्रिता अपि एकचलने अपरचलनाभावात् पृथक्स्थितास्तानीव
ता इव च ॥ ४७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० वि०
जगज्जालकोशसाधर्म्ययोगोपदेशो नामाष्टादशः सर्गः ॥ १८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगज्जालकोशसाधर्म्ययोगोपदेशो नामाष्टादशः सर्गः ॥ १८ ॥