सप्तदशः सर्गः १७
श्रीवसिष्ठ उवाच ।
अनहंवेदनादेवं शुभाशुभफलप्रदा ।
संसारफलिनी नूनमिच्छान्तरुपशाम्यति ॥ १ ॥
अत्राहम्बिजनिर्दाहादनहम्भाववह्निना ।
देहादिसंसृतेः सम्यग्बाधेऽलीकत्वमीर्यते ॥
सर्वसंसृतेः काममूलत्वादनहम्भावेन प्रथमं तन्निवृत्तिमाह -
अनहमिति ॥ १ ॥
अनहंवेदनाभ्यासात्समलोष्टाश्मकाञ्चनः ।
भूत्वा शान्तभवापीडो न नरः परिताम्यति ॥ २ ॥
कामोपरमे लोभादिदोषक्षयाद्वैराग्यादिसम्पदा सर्वमानसदुःखक्षय इत्याह ##-
अहन्तापुटकोड्डीनपरबोधबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति ॥ ३ ॥
साधनवतोऽवश्यश्रवणादिना ज्ञानोदये ब्रह्मव्यतिरिक्ताहमर्थस्य
बाधेनालीकत्वमेव पर्यवस्यतीत्याशयेनाह - अहन्तेति । श्रवणादिना
ज्ञाननिर्मथनाभ्यासेन अहन्तालक्षणात्प्रमातृयन्त्रपुटकादेव
वह्निज्वालावदुड्डीन आविर्भूतो यः परब्रह्मसाक्षात्कारलक्षणो बोधस्तद्बलेन
ईरितः क्षिप्तः । निरस्त इति यावत् । अहमादिदृश्यार्थपाषाणोऽग्नियन्त्रक्षिप्तपाषाण
इवाशु क्व गच्छति न जाने । तुच्छत्वमेवापद्यत इति भावः ॥ ३ ॥
अहन्तापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति ॥ ४ ॥
चरमसाक्षात्कारवृत्त्या रूढन्न्
ब्रह्मैवाज्ञानाहङ्कारादिनिराससमर्थमित्याशयेनाह - अहन्तेति ।
अज्ञानाहङ्कारयोरिव स्थूलदेहस्यापि व्यष्टिसमष्टिरूपस्य तादृशं ब्रह्मैव
न्निवर्तकमित्याशयेनाह - अहन्तेति ॥ ४ ॥
अहन्तापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
शरीरयन्त्रपाषाणो न जाने क्वाशु गच्छति ॥ ५ ॥
ब्रह्मैव वीरो विक्रान्तस्तद्बलेरितः ।
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति
समानाधिकरणसमासे वीरशब्दपरनिपातश्छान्दसः ॥ ५ ॥
अहमर्थहिमं त्वन्तरनहन्ता चिदर्चिषा ।
उड्डीयेव विलीनं सन्न जाने क्वाशु गच्छति ॥ ६ ॥
अनहन्ताभावनावृत्तिप्रतिफलितचितैवाहन्तानाश इति पक्षो वाऽस्त्वित्याशयेनाह ##-
अहंरसो विलीनोन्तरनहन्ताचिदर्चिषा ।
शरीरपर्णादुद्वर्णान्न जाने क्वाशु गच्छति ॥ ७ ॥
उद्वर्णात् ब्रह्मविद्याधिकारिब्राह्मणाद्युत्कृष्टवर्णात्परिपाकपाण्डुराच्च ॥ ७ ॥
शरीरपर्णान्निष्पीतस्त्वहम्भावरसासवः ।
अनहन्तार्कमार्गेण परतामधिगच्छति ॥ ८ ॥
अथवा न बाधिताहन्तादेः शून्यता किन्तु ब्रह्मतैवेत्याशयेनाह - शरीरेति ।
अनहन्तालक्षणेनार्करश्मिमार्गेण परतां ब्रह्मतां
स्वकारणसूक्ष्मजलात्मतां च ॥ ८ ॥
शयने कर्दमे शैले गृहे व्योम्नि स्थले जले ।
स्थूला सूक्ष्मा निराकारा रूपान्तरगतापि च ॥ ९ ॥
तत्त्वज्ञानं विना तु न क्वाअपि कदापि कस्याञ्चिदवस्थायान्न् देहस्याहङ्कारस्य वा
आत्यन्तिकोच्छेदस्तयोः परस्परबीजतया परस्परान्तःसत्त्वेन जगद्भावेन
सर्वत्रोद्भवावर्जनादित्याह - शयने इत्यादिना । शयने शय्यायान्न्
स्थूलादिद्वादशावस्थाप्राप्ता शयनादिस्थानसप्तके यत्र तत्र स्थितापि शरीरलक्षणा
वटधाना अन्तःस्थित उद्भूतोऽहन्त्वनवाङ्कुरो यस्यास्तथाविधा सती क्षणादिदं
संसाराख्यमाशु सर्वदिग्व्यापनशीलं शाखाजालं तनोतीति तृतीयेनान्वयः ॥ ९ ॥
यत्र तत्र स्थिता सुप्ता प्रबुद्धा भस्मतां गता ।
धृता नीता निमग्ना च दूरस्था निकटा सती ॥ १० ॥
शरीरवटधानान्तःस्थिताहन्त्वनवाङ्कुरा ।
शाखाजालं तनोत्याशु संसाराख्यमिदं क्षणात् ॥ ११ ॥
अहन्त्ववटधानान्तःस्थितदेहबृहद्द्रुमः ।
संसारशाखानिवहं यत्र तत्र तनोत्यलम् ॥ १२ ॥
एवमहन्त्वलक्षणवटधानान्तःस्थितो देहमहाद्रुमोऽपि बोध्य इत्याह -
अहन्त्वेति ॥ १२ ॥
शाखाशतेद्धदलपुष्पफलद्रुमोऽस्ति बीजोदरे ननु दृशा परिदृश्यतेऽसौ ।
देहोऽस्त्यहन्त्वकणिकान्तरशेषदृश्यसंवित्परीत इति बुद्धिदृशैव
दृष्टम् ॥ १३ ॥
उक्तमर्थं वटादिबीजदृष्टान्तेनैवानुभावयति - शाखेति । यथा बीजोदरे
शाखाशते इद्धानि विराजमानानि दलानि पुष्पाणि फलानि च यस्य तथाविधो द्रुमोऽस्ति
यतोऽसौ सत्त्वादेव बीजपुटं भित्त्वाङ्कुरादिक्रमेण निर्गच्छन्प्रत्यक्षं सर्वजनैः
परिदृश्यते । नन्विति प्रसिद्धौ । तथा अहन्त्वलक्षणा या कणिका सूक्ष्मबीजं
तदन्तरशेषदृश्यसंवीतो देहोऽस्तीति सूक्ष्मबुद्धिलक्षणया दृशैव
विद्वद्भिर्दृष्टमित्यर्थः ॥ १३ ॥
देहादहन्त्वमनवाप्तवतो विचारैश्चिद्व्योममात्रवपुषो वपुषोऽथ वोच्चैः ।
नाहन्त्वबीजजठरादसतोऽभ्युदेति संसारवृक्ष इह बोधमहाग्निदग्धात् ॥ १४
॥
एवमविचारफलं सर्वत्रानिर्मोक्षमुक्त्वा विचारफलं मोक्षमाह - देहादिति ।
विचारैः श्रवणादिभिस्तत्त्वबोधाच्चिद्व्योममात्रं वपुःस्वरूपं यस्य तथाविधस्य
जीवन्मुक्तस्य विद्यमानादपि देहादहन्त्वं तत्तादात्म्याभिमानमनवाप्तवतः
अथवा अदेहवतो विदेहमुक्तस्योच्चैर्निरतिशयानन्दे प्रतिष्ठितस्य पुंसो
बोधमहाग्निदग्धाहन्त्वबीजजठरात् संसारवृक्षो नाभ्युदेति ॥ १४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ०
अहन्त्वासत्तायोगोपदेशो नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अहन्त्वासत्तायोगोपदेशो नाम सप्तदशः सर्गः ॥ १७ ॥