षोडशः सर्गः १६
भुशुण्ड उवाच ।
कथयत्येवमप्येवं स विद्याधरनायकः ।
आसीत्संशान्तसंवित्तिः समाधिपरिणामवान् ॥ १ ॥
श्रुत्वा विद्याधरस्यात्र समाधिरुपवर्ण्यते ।
कथाशेषोपसंहारोऽनहम्भावप्रशंसया ॥
संशान्ता दृश्यसंवित्तिर्यस्य समाधिलक्षणो यश्चित्तस्य क्षीरोदकवच्चिदैकरस्येन
परिणामस्तद्वान् ॥ १ ॥
प्रबोध्यमानोऽपि मया भूयोभूयस्ततस्ततः ।
न पपात पुरोदृश्ये परं निर्वाणमागतः ॥ २ ॥
पुरोगते दृश्ये शब्दादिविषये न पपात ॥ २ ॥
स प्राप परमं स्थानं तावन्मात्रप्रबोधवान् ।
केनचिन्नाधिकेनाङ्ग यत्नेनातिशयैषिणा ॥ ३ ॥
मुख्याधिकारित्वात्तावन्मात्रेण मदुपदेशेन प्रबोधवान् ।
श्रवणावृत्तिमनननिदिध्यासनाद्यतिशयैषिणा न । अङ्गेति वसिष्ठसम्बोधनम् ॥ ३
॥
अत उक्तं मया राम यदि शुद्धे हि [विचेतसि इत्यपि पाठः ।] चेतसि ।
उपदेशः प्रसरति तैलबिन्दुरिवाम्भसि ॥ ४ ॥
इदानीं वसिष्ठः प्राक् स्वोक्तेऽर्थे विद्याधरचित्तमुदाहरणमिति वर्णनत्वरया
भुशुण्डोक्तिमुत्क्रम्य रामं प्रत्याह - अत इत्यादि ॥ ४ ॥
नाहमित्यस्ति ते नान्तर्मैनं भावय शान्तये ।
एतावदुपदेशोक्तिः परमा नेतरास्ति हि ॥ ५ ॥
कोऽसावुपदेशस्तमाह - नाहमिति । ते अन्तः प्रत्यगात्मनि चिदेकरसे अहमित्यंशो
नास्ति । अतोऽसन्तमेनं मा भावय इत्येतावत् एतावत्येवोपदेशोक्तिः परमा
सारसङ्ग्रहभूता ॥ ५ ॥
एषैवाभव्यमनसि पतिता प्रविलीयते ।
उत्ताने मसृणादर्शे मुक्ताफलमिवामलम् ॥ ६ ॥
भव्ये तु शान्तमनसि लगत्यभ्येत्यविच्युतिम् ।
प्रविश्यान्तर्विचाराख्यामर्चिरर्कमणौ यथा ॥ ७ ॥
अविच्युतिं अभ्येति । अन्तः प्रविश्य विचाराख्यां
सर्वमोहारण्यदाहक्षमामग्निशिखां च जनयतीति शेषः । यथा अर्कमणौ
सूर्यकान्ते प्रविष्टं सूर्यार्चिरग्निशिखां जनयति तद्वत् ॥ ७ ॥
अहम्भावनमेवोच्चैर्बीजं दुःखाख्यशाल्मलेः ।
ममेदं तद्वदादीति शाखाप्रसरकारणम् ॥ ८ ॥
तद्वदहम्भावनवदेव ममेदं भावनन्न् संसारवृक्षस्य
[संसारवृक्षस्येत्यादि मूलस्थदुःखाख्येत्यादेरर्थः ।] मूलादिशरीरं
[मूलादिशरीरमिति तूत्तरार्धस्यादीत्यस्यार्थः ।] यतो रागादिशाखाप्रसरस्य
कारणमित्यर्थः ॥ ८ ॥
अहमादौ ममेत्यन्तस्तत इच्छा प्रवर्तते ।
इदमर्थशतानर्थकारिणी भवभारिणी ॥ ९ ॥
तदेवाह - अहमिति । आदौ बीजावस्थास्थाने । अन्तः तत्कार्यवृक्षस्थाने । इच्छा
शाखास्थाने प्रवर्तते ॥ ९ ॥
एवंविधा मुनिश्रेष्ठ मूढा अपि चिरायुषः ।
भवन्त्यनियमो ह्यङ्ग दीर्घायुष्यस्य कारणम् ॥ १० ॥
एवं प्रागुक्तं प्रकृतसम्मत्या समर्थ्य वसिष्ठः
पुनर्भुशुण्डोक्तिकथामेवानुसरन्विद्याधरकथामुपसंहरति - एवंविधा इति ।
दीर्घायुष्यस्य कारणं तत्त्वज्ञानमेवेतीति शेषः ॥ १० ॥
अन्तःशुद्धमनस्का ये सुचिरायाभयप्रदम् ।
मनागप्युपदिष्टास्ते प्राप्नुवन्ति परं पदम् ॥ ११ ॥
अन्तःशुद्धेस्तु चिराभ्यास एव ज्ञानकारणमिति नियमोऽस्त्येवेत्याशयेनाह -
अन्तरिति । सुचिरायाभ्यासेनान्तःशुद्धमनस्का ये ते । परं पदं ज्ञानम् ॥ ११ ॥
श्रीवसिष्ठ उवाच ।
मेरुमूर्धनि मामेवमुक्त्वा स विहगाधिपः ।
तूष्णीं बभूव मुक्तात्मा ऋष्यमूक इवाम्बुदः ॥ १२ ॥
विहगाधिपो भुशुण्डः । ऋष्यमूके गिरौ मतङ्गाश्रमे मतङ्गशापभयान्मूका
मेघा न गर्जन्तीति प्रसिद्धिः ॥ १२ ॥
अहमापृच्छ्य तं सिद्धं विद्याधरमथो पुनः ।
प्राप्त आत्मास्पदं राम मुनिमण्डलमण्डितम् ॥ १३ ॥
प्रथमं तं सिद्धं भुशुण्डमापृच्छ्य अथो विद्याधरं गत्वा
तदुक्तिसंवादाय पुनस्तमप्यापृच्छ्य निश्चितार्थोऽहम् । आस्पदं स्वाश्रमम् ॥ १३ ॥
एतत्तवाद्य कथितं बलिभुक्कथोक्तं विद्याधरोपशमनं लघुबोधनोत्थम् ।
अस्मिन्भुशुण्डविहगेन्द्रसमागमे मे चैकादशेह हि गतानि महायुगानि ॥ १४ ॥
ह रामे मया लघु शीघ्रमेव बोधनेनोत्थमुत्पन्नं विद्याधरस्योपशमनं
बलिभुजः काकस्य भुशुण्डस्य कथया उक्तं तवाद्य कथितम् । अस्मिन् वर्णिते
भुशुण्डविहगेन्द्रसमागमे मे जाते तदनन्तरमिह अस्मिन् कल्पे एकादशमहायुगानि
दिव्ययुगानि गतानीत्यर्थः ॥ १४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ०
विद्याधरोपाख्याने विद्याधरनिर्वाणं नाम षोडशः सर्गः ॥ १६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विद्याधरनिर्वाणं नाम षोडशः सर्गः ॥ १६ ॥