पञ्चदशः सर्गः १५
भुशुण्ड उवाच ।
यत्राहन्त्वं जगत्तत्र पूर्वमागत्य तिष्ठति ।
पराण्वन्तरपीन्द्रस्य त्रसरेणूदरे यथा ॥ १ ॥
अहम्भावो जगद्भ्रान्तेर्बीजं रूपं च वर्ण्यते ।
तन्मार्जनाज्जगन्मृष्ट्या शुद्धशेषात्कृतार्थता ॥
अहम्भावचमत्कारमात्राद्दृष्टिरिवाम्बुदात् । जायते दृश्यसरित् इति यदुक्तं
तदुपपादकतया इन्द्राण्वाख्यायिकां योजयति - यत्रेति । अभिनवेऽपि स्वप्नप्रपञ्चे
पूर्वसिद्धमेव जगत्पश्यामीति सर्वानुभवात्पूर्वमागत्य तिष्ठतीत्युक्तिः ॥ १ ॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अहम्भावोऽभिमन्तात्मा मूलमाद्यमुदाहृतम् ॥ २ ॥
वासनारससंसिक्तादहम्बीजकणादयम् ।
ब्रह्माद्रौ व्योमविपिने जायते त्रिजगद्द्रुमः ॥ ३ ॥
व्योम अव्याकृताकाशस्तल्लक्षणे विपिनेऽरण्ये ॥ ३ ॥
तारकापुष्पनिकरो विलीनाचलपल्लवः ।
सरित्सारशिरापूरो वासनासारतत्फलः ॥ ४ ॥
विलीना मेघमिहिका वनप्रच्छन्ना अचलाः पर्वताः पल्लवा यस्य । सरित्सारा
गङ्गाद्याः । वासना एव सारा बीजांशा येषु तथाविधास्ते भोगाः फलानि यस्य ॥ ४ ॥
अहन्त्वसलिलस्येदं जगत्स्पन्द उदाहृतः ।
चिच्चमत्करणस्वादुर्वासनाविसरद्रवः ॥ ५ ॥
इदानीमहङ्कारं महाजलतया जगच्च तत्कार्यतरङ्गादितया वर्णयति -
अहन्त्वेत्यादिपञ्चभिः । इदं जगत् अहन्त्वसलिलस्य स्पन्दो विलासः । चितश्चमत्करणं
वैषयिकसुखं स्वादु माधुर्य यत्र ॥ ५ ॥
तारकासीकरासारो नभोनन्तनिखातवान् ।
भावाभावमहावर्तो नानागिरितरङ्गकः ॥ ६ ॥
नभसा आकाशेन अनन्तनिखातवान् अपरिच्छेद्यकुक्षिकुहरवान् । भावाः सम्पदः
अभावा विपदश्च महान्त आवर्ता यत्र ॥ ६ ॥
त्रिलोकीविलिलिखल्लेखो विलोलालोकफेनिलः ।
ब्रह्माण्डबुद्बुदोद्भेदः कवाटापीडपीवरः ॥ ७ ॥
त्रिलोकीपदेन तद्गतजना लक्ष्यन्ते । त एव विलिखन्त्यश्चित्रलेख्यवदाविर्भवन्त्यो लेखा
रेखा यत्र । विलोलैः सूर्यचन्द्राद्यालोकैः फेनिलः फेनवान् । ब्रह्माण्डा एव
बुद्बुदोद्भेदा यत्र । कपाटमिव आपीडयति निरुणद्धि मोक्षप्रवेशमिति कपाटापीडो
मोहसेतुस्तेन पीवरोऽभिवृद्धः ॥ ७ ॥
भूपीठदृढडिण्डीरपिण्डश्चिद्घनमद्गुमान् ।
चित्राजवं जवीभावमज्जनोन्मज्जनात्मकः ॥ ८ ॥
भूपीठमेव घनो डिण्डीरपिण्डो यत्र । चिद्घनैश्चिदाभासैर्जीवैर्मद्गुमान्
जलकाकवान् । तेषां चित्रैराज्वं
जवीभावैरूर्ध्वाधस्तिर्यग्भ्रमणैर्मज्जनोन्मज्जनात्मकः ॥ ८ ॥
जरामरणमोहादिवीचीचयचमत्कृतिः ।
उत्पन्नध्वंसिदेहादिबिन्दुवृन्दैकबन्धुरः ॥ ९ ॥
अहन्त्वपवनस्पन्दो जगदित्यवगम्यताम् ।
अहन्त्वपद्मसौगन्ध्यं जगदित्यवबुध्यताम् ॥ १० ॥
प्रकारान्तराभ्यां जगद्वर्णयति - अहन्त्वेति ॥ १० ॥
नाहन्त्वजगती भिन्ने पवनस्पन्दवत्सदा ।
पयो द्रवत्वमिव च वह्निरौष्ण्यमिवापि च ॥ ११ ॥
इत्थं वर्णने फलितमाह - नेति ॥ ११ ॥
जगदस्त्यहमर्थेऽन्तरहमस्ति जगद्धृदि ।
अन्योन्यभाविनी त्वेते आधाराधेयवत्स्थिते ॥ १२ ॥
परस्परबीजतामाह - जगदिति अन्योन्यस्माद्भाविनी आविर्भावशीले
अन्योन्याधीनस्थितिके च ॥ १२ ॥
जगद्बीजमहन्त्वं यो मार्ष्टि बोधादवेदनात् ।
अलं चित्रं जलेनेव तेन धौतं जगन्मलम् ॥ १३ ॥
अत एवाहङ्कारमार्जनाज्जगन्मार्जनसिद्धिरित्याह - जगदिति ॥ १३ ॥
अहन्त्वं नाम तत्किञ्चिद्विद्याधर न विद्यते ।
अकारणमवस्तुत्वाच्छशशृङ्गमिवोदितम् ॥ १४ ॥
अहन्त्वस्य तत्त्वदृष्ट्या असत्त्वदर्शनमेव मार्जनमित्याह - अहन्त्वमिति ॥ १४ ॥
ब्रह्मण्यतिततेऽनन्ते सङ्कल्पोल्लेखवर्जिते ।
अहन्त्वकारणाभावान्न कदाचन सन्मयम् ॥ १५ ॥
तत्कुतस्तत्राह - ब्रह्मणीति ॥ १५ ॥
अवस्तुन्येति सर्गादौ न सम्भवति कारणम् ।
अतोऽहन्त्वादि नास्त्येव वन्ध्यासुत इव क्वचित् ॥ १६ ॥
सम्भवदपि कारणं लोके अवस्तुनि नैति न व्याप्रियते । प्रकृते तु सर्गादौ कारणं न
सम्भवति तत्सम्भवोऽपि नास्तीत्यर्थः ॥ १६ ॥
तदभावाज्जगन्नास्ति चित्त्वं जगदभावतः ।
शिष्टं निर्वाणमेवातः शान्तमास्स्व यथासुखम् ॥ १७ ॥
निर्वाणं कैवल्यलक्षणं चित्त्वं चिन्मात्रं शिष्टम् ॥ १७ ॥
अभावादुपपत्तिस्थादेवं जगदहन्त्वयोः ।
रूपालोकमनस्काराः शान्तास्तव न चेतरत् ॥ १८ ॥
एवमुपपत्तिप्रतिष्ठिताज्जगदहन्त्वयोरभावात् । बाह्या रूपालोकादयः संसारा
आन्तरा मनस्कारलक्षणाः संसाराश्च शान्ताः । न च इतरत्तदुभयव्यतिरिक्तं
हेयन्न् दुःखमस्ति अतः शान्तमास्स्वेत्यर्थः ॥ १८ ॥
यन्नास्ति तत्तु नास्त्येव शेषं शान्तमसि ध्रुवम् ।
सम्प्रबुद्धोऽसि मा भूयो निर्मूलां भ्रान्तिमाहर ॥ १९ ॥
शान्तं निर्दुःखविक्षेपम् ॥ १९ ॥
व्यपगतकलनाकलङ्कशुद्धः शिवमसि शान्तमसीश्वरोऽसि नित्यः ।
खमपि भवति पर्वतोपमानं जगदपि वा परमाणुरूपमेव ॥ २० ॥
व्यपगतो बाह्याभ्यन्तरदृश्यकलनालक्षणः कलङ्को यस्य अत एव शुद्धः ।
अध्यारोपे खं शून्यमपि पर्वतोपमानं भवति अपवादे तु जगद्ब्रह्माण्डमपि वा
परमाणुरूपमाकाशतुल्यमेव भवतीत्यर्थः ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे वि०
विद्याधरनिर्वाणं नाम पञ्चदशः सर्गः ॥ १५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विद्याधरनिर्वाणं नाम पञ्चदशः सर्गः ॥ १५ ॥