०१३

त्रयोदशः सर्गः १३

भुशुण्ड उवाच ।

जगत्प्रसररूपस्य न देश उपयुज्यते ।
न कालो धारणे स्तम्भ आलोकस्याम्बरे यथा ॥ १ ॥

मायाकार्ये न देशादेरपेक्षेत्यत्र वर्ण्यते ।
इन्द्रस्याणूदरे राज्यकल्पनाख्यानविस्तरः ॥

देशकालादिनिर्माणपूर्वकं वेदनं विदुः । सर्गात्मकत्वात् इति यदुक्तं
तस्योपपादनायेन्द्रत्रसरेण्वाख्यानं वक्तुं भूमिकां रचयति - जगदित्यादिना ।
देशकालादिनिर्माणपूर्वकं वेदनमित्यङ्गीकृत्यवादः । वस्तुतस्तु
दृष्टसृष्ट्या युगपदेव सह देशकालाभ्यां जगत्प्रसररूपस्य मायिकसर्गस्य
धारणेन प्राक्सिद्धो देश उपयुज्यते । यथा अम्बरे युगपत्प्रसृतस्यालोकस्य धारणे
स्तम्भो नोपयुज्यते तद्वदित्यर्थः ॥ १ ॥

मनोमनननिर्माणमात्रमेतज्जगत्त्रयम् ।
शान्तं तनु लघु स्वच्छं वातान्तः सौरभादपि ॥ २ ॥

वातान्तः प्रसृतमतिसूक्ष्मत्वाद्वातेनापि धारयितुं कम्पयितुं चाशक्यं
यत्सौरभं ज्योतिः सौरभं सौगन्ध्यन्न् च तस्मादपि शान्तं तिरोभूतं तनु
सूक्ष्मं लघु अगुरु स्वच्छं चेत्यर्थः ॥ २ ॥

चिच्चमत्कृतिमात्रस्य साधो जगदणोः किल ।
वातान्तः सौरभं मेरुरन्यानुभवयोगतः ॥ ३ ॥

हे साधो चिच्चमत्कृतिमात्रत्वेन दृष्टस्य जगदणोरपेक्षया
वातान्तर्गतसौरभमपि मेरुरिव स्थूलं किल । अन्यानुभवयोगतः अन्यैरपि
चक्षुर्घ्राणादिसंयोगेनानुभूयमानत्वादित्यर्थः ॥ ३ ॥

यन्न् प्रयुदेति सर्गोयं स एवैनं हि चेतति ।
पदार्थः सन्निवेशं स्वमिव स्वप्नं पुमानिव ॥ ४ ॥

दृष्टसृष्टिरूपस्य प्रपञ्चस्य तु न
स्वकल्पकदृगन्यगोचरतेत्यसाधारणत्वात्परमसौक्ष्म्यमित्याह - यं प्रतीति ।
यथा मानोरथिकपदार्थः स्वसन्निवेशं स्वसाक्षिणा स्वयमेव चेतति । यथा पुमान्
स्वस्वप्नं स्वयमेव चेतति तद्वदित्यर्थः ॥ ४ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यद्वृत्तं देवराजस्य त्रसरेणूदरे पुरा ॥ ५ ॥

अत्र अस्मिन्पूर्वसिद्धदेशकालानपेक्षारूपे अनन्यानुभवगोचरतया
परमसौक्ष्म्यरूपे चार्थे उपपादकम् ॥ ५ ॥

क्वचित्कदाचित्कस्मिंश्चित्किञ्चित्कल्पद्रुमेऽभवत् ।
कस्याञ्चिद्युगशाखायां फलं जगदुदुम्बरम् ॥ ६ ॥

कश्चिच्चासौ कल्पद्रुमश्च किञ्चित्कल्पद्रुमस्तस्मिन् । सर्वकल्पनाफलाधारे
मायाशबले ब्रह्मणीति यावत् । युगशाखायां शाखाद्वयसन्धौ ।
जगद्ब्रह्माण्डस्तद्रूपमुदुम्बरं फलम् ॥ ६ ॥

ससुरासुरभूतौघमशकाहितघुङ्घुमम् ।
शैलमांसलपातालद्युभूम्युग्रकपाटकम् ॥ ७ ॥

तद्वर्णयति - ससुरासुरेत्यादिना । शैलैः कीलस्थानीयैर्मांसलानि दृढानि
पातालादिलोकत्रयलक्षणानि उग्राणि दुराधर्षाणि कपाटानि यत्र ।
यद्यप्युदुम्बररूपकेन्तःकपाटवर्णनमनुपयुक्तं तथापि
कल्पवृक्षफलोदुम्बरफलकल्पकमनोवृत्त्यनुसारित्वेन
प्रसिद्धवैलक्षण्यकल्पनया कथञ्चिद्योज्यम् ॥ ७ ॥

चिच्चमत्कृतिचारूच्चैर्वासनारसपीवरम् ।
विविधानुभवामोदं चित्तास्वादमनोहरम् ॥ ८ ॥

चितश्चमत्कृत्या रचनाशक्तिवैचित्र्येण चारु । उच्चैर्बृहत् ॥ ८ ॥

बृहद्ब्रह्मतरुप्रौढसत्ताव्रततिकोटिगम् ।
अहङ्कारमहावृन्तं समालोकसमुज्ज्वलम् ॥ ९ ॥

बृहन् प्राग्वर्णितो यो ब्रह्मतरुरुदुम्बरस्तस्मिन्प्रौढा आविर्भूता याः
सूक्ष्मजगत्सत्ताव्रततिकोटयस्तदन्तर्गतम् । सम आलोकः साक्षिचित् तेन समुज्ज्वलम् ॥ ९ ॥

मोक्षद्वारविकास्यास्यं सरिदब्धिशिरावृतम् ।
मात्रापञ्चककोशस्थं तरत्तारकसीकरम् ॥ १० ॥

मोक्षद्वारं ज्ञानमेव विकासि आस्यं मुखं यस्य । मात्रास्तन्मात्राणि । तरन्ति
ऊर्ध्वं प्लवमानानि तारकाण्येव सीकरा रसकणा नीहारकणा वा यत्र ॥ १० ॥

कल्पावसानजरठं काककोकिलगाम्यथ ।
पतितं शान्तिमायातं क्वाप्यन्तावासनं गतम् ॥ ११ ॥

महाकल्पावसाने जरठं पक्वं पातोन्मुखम् । अथ तदनन्तरं काकगामि
कोकिलगामि वा । यथा प्रसिद्धोदुम्बरमन्ते काकैः कोकिलैर्वा भक्ष्यते
तद्वदसच्छास्त्रकटुरवानुसारिण्या अविद्याकाक्या शास्त्रमधुररवानुसारिण्या
विद्याकोकिलया वा ग्रस्यमानं क्वापि अन्तं वासनामात्रशेषलक्षणन्न्
नाशमवासनं ब्रह्मभावं वा आगतं भविष्यतीत्यर्थः ॥ ११ ॥

तत्राभूदमराधीशः शक्रस्त्रिभुवनेश्वरः ।
क्षौद्रकुम्भनिषण्णानां क्षुद्राणामिव नायकः ॥ १२ ॥

तत्र तस्मिन्नुदुम्बरे । क्षुद्राणां मधुमशकानाम् ॥ १२ ॥

गुरूपदेशस्वाभ्यासात्स क्षीणावरणोऽभवत् ।
महात्मा भावितान्तात्मा पूर्वापरविदां वरः ॥ १३ ॥

भावितः अन्तःसर्वकल्पनावधिरात्मा येन ॥ १३ ॥

नारायणादिषु ततः कदाचिद्वीर्यशालिषु ।
क्वचिदेव निलीनेषु सत्स्वेकः ससुराधिपः ॥ १४ ॥

शस्त्रज्वालानलोद्भारैरयुध्यत महासुरैः ।
विजितस्तैर्महावीर्यैरतो व्यद्रवदाद्रुतम् ॥ १५ ॥

शस्त्रज्वालानलानुद्बिभ्रतीति शस्त्रज्वालानलोद्भाराः । कर्मण्यण् । कृद्ग्रहणे
गतिकारकपूर्वस्यापि ग्रहणादुपपदसमासः । आसमन्ताद्द्रुतं शीघ्रम् ॥ १५ ॥

दिशो दश सुवेगेन दुद्रावाभिद्रुतोऽरिभिः ।
न विश्रामास्पदं प्राप परलोक इवाधमः ॥ १६ ॥

सुवेगेन अतिजवेन । अधमः पापकृत् ॥ १६ ॥

तद्भ्रान्तदृष्टिष्वरिषु मनाक् छिद्रमवाप्य सः ।
प्रशमं कायसङ्कल्पं नीत्वा स्वं स्वान्तरे बहिः ॥ १७ ॥

अरिषु मनागू भ्रान्तदृष्टिषु सत्सु । तत् तदा । छिद्रं निलयनावसरम् । कायाकारं
स्थूलाकारसङ्कल्पं स्वान्तरे भूतसूक्ष्मे प्रशमं नीत्वा विलाप्याणुतरो भूत्वा
बहिः कमपि त्रसरेणुं विवेशेति परेणान्वयः ॥ १७ ॥

कमप्यर्कांशुकोशस्थं त्रसरेणुं विवेश सः ।
संविद्रूपतया पद्मकोशं मधुकरो यथा ॥ १८ ॥

तदन्तःप्रवेशसङ्कल्पसंविद्रूपतया ॥ १८ ॥

स तत्राशु विशश्राम चिरादाश्वासमाययौ ।
अथ विस्मृतसङ्ग्रामो निवृत्तिं समुपागमत् ॥ १९ ॥

निवृत्तिं बहिर्गमनाभावम् । अनिवृत्तिमिति वा छेदः ॥ १९ ॥

कल्पितं सद्म तत्राथ स क्षणादनुभूतवान् ।
तस्मिन्सद्मनि पद्मान्ते रेमे स्व इव विष्टरे ॥ २० ॥

पद्मान्ते पद्मासनमध्ये । स्वे स्वलोकप्रसिद्धे विष्टरे सिंहासन इव ॥ २० ॥

गृहस्थः स ददर्शाथ कल्पितं नगरं हरिः ।
मणिमुक्ताप्रवालादिकृतप्राकारमन्दिरम् ॥ २१ ॥

नगरान्तर्गतोऽपश्यत्ततो जनपदं हरिः ।
नानाद्रिग्रामगोकाटपत्तनारण्यराजितम् ॥ २२ ॥

गोवाटा व्रजाः ॥ २२ ॥

तादृग्रतिश्चेतितवान्सश्रक्रो भुवनं ततः ।
साद्र्यब्ध्युर्वीनदीशान्तं सक्रियाकालकल्पनम् ॥ २३ ॥

तादृग्रतिस्तादृशसङ्कल्पोपहितः । भुवनं भूलोकम् । नद्यः ईशा राजानः
अन्तास्तत्तद्देशसीमास्तैः सह वर्तमानम् ॥ २३ ॥

तादृग्रतिश्चेतितवान्स शक्रस्त्रिजगत्ततः ।
सपातालमहीव्योमविष्टपार्कादिपर्वतम् ॥ २४ ॥

अथ तत्र सुरेशत्वे अतिष्ठदित्यपकृष्यान्वयः ॥ २४ ॥

तत्रातिष्ठत्सुरेशत्वे स भोगभरभूषितः ।
पुत्रो बभूव तस्याथ कुन्दो नामाथ वीर्यवान् ॥ २५ ॥

ततो जीवितपर्यन्ते त्यक्त्वा देहमनिन्दितः ।
निर्वाणमाययौ शक्रो निःस्नेह इव दीपकः ॥ २६ ॥

कुन्दस्त्रैलोक्यराजोऽभूज्जनयित्वा सुतं निजम् ।
कालेन जीवितस्यान्ते जगाम परमं पदम् ॥ २७ ॥

तत्पुत्रोऽपि तथैवाथ कृत्वा राज्ये सुतं निजम् ।
जगाम जीवितस्यान्ते पावनं परमं पदम् ॥ २८ ॥

एवं पौत्रसहस्राणि समतीतानि सुन्दर ।
तत्राद्यापि सुरेशस्य येषां राज्ये स्थित्ॐऽशकः ॥ २९ ॥

तस्य सुरेशस्य पौत्रसहस्राणि येषां राज्ये अद्याप्यंशको नाम राजा स्थितः ॥ २९ ॥

इत्यद्ययावदमरेश्वरवम्श एव सङ्कल्पिते जगति शक्रपदं विधत्ते ।
तस्मिन्क्षतेऽपि गलितेऽपि हतेऽपि नष्टे क्वाप्यम्बरे दिनकरातपपावनाणौ ॥ ३० ॥

इति वर्णितदिशा अद्ययावत् अद्यतनकालपर्यन्तं तत्सङ्कल्पिते त्रसरेण्वन्तरे जगति
तद्वम्श एव अमरेशपदं शक्रराज्यं विधत्ते पालयति ।क्वाप्यम्बरप्रदेशे तस्मिन्
दिनकरातपपावने अणौ त्रसरेणौ क्षते अपचिते गलिते नष्टेऽपि हि तद्राज्यं न
गलितमित्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० विद्याधरोपाख्यानान्तर्गतेन्द्रोपाख्याने
त्रसरेण्वन्तरसर्गसङ्घवर्णनं नाम त्रयोदशः सर्गः ॥ १३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
त्रसरेण्वन्तरसर्गसङ्घवर्णनं नाम त्रयोदशः सर्गः ॥ १३ ॥