द्वादशः सर्गः १२
भुशुण्ड उवाच ।
ख एव व्योम सम्पन्नमिति सङ्कल्पनं यथा ।
भ्रान्तिमात्रमसद्रूपं तथाहम्भावभावनम् ॥ १ ॥
भ्रान्तिमात्रमहम्भावश्चिद्विवर्तो जगद्भ्रमः ।
तस्य मूलमविद्येति तत्क्षयक्रम ईर्यते ॥
वक्ष्यमाणक्रमेण सहोच्छेदसिद्धये अविद्याया
एवाहम्भावलक्षणसूक्ष्मप्रपञ्चभावस्तस्यैव स्थूलप्रपञ्चरूपतेति
सर्वकल्पनानां चिद्विवर्तमात्रतयैकतां दर्शयति - ख एवेत्यादिना । यथा खे
व्योम्न्येवापरं व्योम सम्पन्नमुत्पन्नमिति मनसा सङ्कल्पनमेकस्यैव व्योम्नो
भेदभ्रान्तिमात्रं तथा अज्ञाते आत्मनि सूक्ष्मप्रपञ्चात्मनोऽहम्भावस्य
भावनं कल्पनमित्यर्थः ॥ १ ॥
खे खं जातमिति भ्रान्तेरहं कल्पयिता यथा ।
तथा निर्व्यपदेश्यात्म सदस्त्यसदिवाततम् ॥ २ ॥
ननु दृष्टान्ते कल्पयिता पुरुषस्तृतीयोऽस्ति तत्र कस्तृतीयस्तमाह - खे खमिति ।
निर्व्यपदेशि अविद्यापिहितत्वादसदिवाततमत एव शब्दादिना अव्यवहार्यमात्मरूपं
सद्वस्त्वस्ति तृतीयं कल्पकमित्यर्थः ॥ २ ॥
खे खात्मैवास्ति चिद्रूपं तत्स्वकं बुध्यते वपुः ।
भासते यदिदन्त्वेन नाहमस्मि न चानहम् ॥ ३ ॥
दृष्टान्ते यथा खे अद्वयः खात्मैवास्ति द्वितीयं तु खं कल्पकपुरुषस्य
सङ्कल्पावच्छिन्नचिद्रूपं स्वकं सङ्कल्पात्मकं वपुरेव यथा कल्पयित्वा बुध्यते
तथा यद्यस्मादविद्योपहितचिदात्मा स्वकं
वपुरविद्यामेवाहमिदमित्यभिमन्त्रभिमन्तव्यरूपेण कल्पयित्वा भासते ततो नाहं
नामाज्ञानादन्यदस्ति नाप्यनहम्प्रपञ्चरूपमित्यर्थः ॥ ३ ॥
ततश्चिद्रूपमस्तीदृग्यत्र स्थूलं खमप्यलम् ।
अणाविव महामेरुस्तत्संवित्तिर्हि खादिता ॥ ४ ॥
अत एव तत्परमसूक्ष्मं सर्वस्थूलकल्पनाधिष्ठानं ब्रह्मास्तीति परिचेयमित्याह ##-
घनस्ततोऽचिदाभासः खादप्यतितरामणुः ।
जानाति यत्स्वभावं तदेतत्सर्गतया स्थितम् ॥ ५ ॥
परमसौक्ष्म्यं तस्योक्तमुपपादयति - घन इति ।
खादाकाशादप्यतितरामणुरचिदाभासोऽज्ञानलक्षणोऽनादिविवर्तस्तत आत्मचितेः
सकाशात् घनः स्थूल एव तत्तादृशं परमसूक्ष्मं
चैतन्यमनाद्यहमिदमाकारवासनयोत्तरोत्तरस्थूलस्वभावकल्पनया जानाति । एतदेव
सर्गतया आभासान्निरूढमित्यर्थः ॥ ५ ॥
अहन्ताखादिताद्यात्मविदः प्रसरणं जगत् ।
अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम् ॥ ६ ॥
आत्मविद आत्मचैतन्यस्याऽध्यात्ममहन्ताद्यधिलोकं तु खादिता पञ्चभूतता तदादि
प्रसरणं विवर्तविस्तारो जगत्सर्गः ॥ ६ ॥
अचित्प्रसरणन्न् शान्तमस्पन्दीव जलद्रवः ।
निःस्पन्दपवनाकारमाकाशहृदयोपमम् ॥ ७ ॥
चित्प्रसरणस्याभावः अचित्प्रसरणं शान्तं जगदुपरमः प्रलय इति यावत् ॥ ७ ॥
न देशकालादिजगत्प्रसरेषु च युज्यते ।
घनाच्छून्यान्निराभासाच्चिन्मात्रविसरादृते ॥ ८ ॥
एवं सिद्धस्य देशकालादिजगतोऽवान्तरकार्यसहस्रलक्षणेषु प्रसरेष्वपि
चिन्मात्रप्रसरादृते अन्यत्पारमार्थिकं रूपं न युज्यते नोपपद्यते ॥ ८ ॥
चिन्मात्रे प्रसृते काले [काष्ठे इति पाठः ।] व्योम्नि नावि जले स्थले ।
निद्रायां जाग्रति स्वप्ने भवेज्जगदिवोदितम् ॥ ९ ॥
तत्रोपपत्तिं दर्शयति - चिन्मात्रे इति । निद्रायां प्रसिद्धस्वप्ने जाग्रति प्रसिद्धे
मनोराज्यादिस्वप्ने च ॥ ९ ॥
प्रसरणाप्रसरणे न च सम्भवतो विदः ।
खादप्यत्यन्तस्वच्छत्वादक्षोभादेः सदैव हि ॥ १० ॥
चितो जगदाकारपरिणामलक्षणो वास्तवः प्रसर एव किं न स्यात्तत्राह -
प्रसरणेति । क्षोभः सञ्चलनं तदादिसर्वविकारशून्यत्वादित्यर्थः ॥ १० ॥
ज्ञश्चेतति न भोगादि न चैवात्मन्यसावहम् ।
द्रवत्वमम्भसीवान्तरद्वितीयः परे स्थितः ॥ ११ ॥
ननु सुखदुःखभोगाद्यनुभवरूपा देहाद्यहम्भावरूपाश्च विकाराश्चिदात्मनि
दृश्यन्ते तत्राह - ज्ञ इति । परे कूटस्थस्वभावे । तथा च चिदाभासस्यैव
भोगादिविभ्रमा न कूटस्थात्मन इति भावः ॥ ११ ॥
धीर्ह्रीः श्रीर्भीः स्मृतिः कीर्तिः कान्तिरित्यादिकं गणं ।
न पश्यति विसङ्कल्पस्तमसीव पदान्यहेः ॥ १२ ॥
उक्तेऽर्थे सङ्कल्पादिमनोवृत्त्यन्वयव्यतिरेकदर्शनं प्रमाणमित्याह - धीरिति ।
श्रीश्चिन्तात्मकमनोवृत्तिः । श्रीः सम्पदभिमानलक्षणा हर्षात्मकमनोवृत्तिः ।
कीर्तिः स्वगुणख्यातिश्रवणजन्या तादृशवृत्तिः । कान्तिरिच्छा । सर्वत्र
मनोवृत्तिबोधकैः पदैस्तद्धेतवो बाह्यविषया लक्ष्यन्ते ॥ १२ ॥
ब्रह्मेन्दुबिम्बस्फुरितचिज्ज्योत्स्नांशामृतद्रवः ।
दिक्कालासम्भवात्सर्गो नेश्वरादतिरिच्यते ॥ १३ ॥
ब्रह्मलक्षणादिन्दुबिम्बात्स्फुरिता या जीवचिदाभासलक्षणज्योत्स्ना
तदंशचाक्षुषादिज्ञानरूपं यदमृतं तदधीनसिद्धिकत्वात्तद्द्रवप्रायः सर्ग
ईश्वराद्ब्रह्मणो नातिरिच्यते । कुतः । तदाधारयोर्दिक्कालयोर्निरवयवे निष्क्रिये च
ब्रह्मण्यसम्भवात् । सत्यां हि दिशि मूर्तद्रव्यस्य क्रियया सर्गकालः कल्प्येत । न च
सा प्रागस्ति । एवं सति काले दिगाद्युत्पत्तिः कल्प्येत । न च प्रलये सोऽस्ति । क्रियातिरिक्तस्य
तत्साधकस्याभावात् । पूर्णे कूटस्थे क्रियाऽयोगात् । न च तयोरसतोः
कस्यचिदन्यस्यावकाशोऽस्तीति न ब्रह्म व्यतिरिक्तसिद्धिरित्यर्थः ॥ १३ ॥
आधिमान्यः स्फुरत्येवं परे स्फुरति भासुरम् ।
जगदाद्यात्मकं चित्तं चक्रौघत्वमिवाम्भसि ॥ १४ ॥
परे परमेश्वरे एवं वर्णितदिशा स्वाभिन्नजगदाकारे भासुरं यथा स्यात्तथा
सर्वसाधारणसच्चिदानन्दात्मना स्फुरति सति क्वचिदेव देहादौ विशेषाभिमानेन
तदनुकूलप्रतिकूलेषु हेयोपादेयतादिकल्पनेन आधिमान्योऽहङ्कारात्मा अन्य इव स्फुरति
तत्सर्वजगज्जीवबन्धमोक्षादिकल्पनात्मकमम्भसि चक्रावर्तौघ इव कल्पितं
भ्रान्तं चित्तमेव नाणुमात्रमप्यन्यदस्तीत्यर्थः ॥ १४ ॥
मज्जनोन्मज्जनारावैर्विवर्तावर्तवेष्टनैः ।
अच्छिन्नानुपदं क्षीणा भाति सर्गसरिच्चिरम् ॥ १५ ॥
दृष्टान्तदार्ष्टान्तिके रूपकेणैकीकृत्योपपादयति - मज्जनेति । अनुपदं
सद्यस्तत्त्वसाक्षात्कारात् क्षीणा सर्गलक्षणा मरीचिसरित् ॥ १५ ॥
यथावर्तैः पयो भाति धूमो भाति यथा घनः ।
तथा जडात्मकतया तृतीयः सर्ग एतयोः ॥ १६ ॥
दूराद्धूमराशिर्यथा घनो निबिडो मेघो वा भाति । एतयोर्ब्रह्ममनसोस्तृतीयः
सर्गो विषयत्वाज्जडात्मकतया सत्यतया स्फुरणादजडात्मकतया च भातीति शेषः ॥
१६ ॥
दारुणि क्रकचच्छेदे यथावर्तादिकं तथा ।
अदिगादौ परे सर्गस्तदतद्रूपवानयम् ॥ १७ ॥
तदतद्रूपवान् जडाजडरूपवान् ॥ १७ ॥
संसारकदलीस्तम्भाद्विना सङ्कल्पपल्लवम् ।
मृदुनोऽपि दृषत्क्रूरान्न किञ्चिल्लभतेऽन्तरम् ॥ १८ ॥
स्वतो मिथ्यात्वान्मृदुनोऽप्यधिष्ठानसत्तया दृषदिव
क्रूराद्दृढात्स्फटिकशिलाप्रतिबिम्बितकदलीस्तम्भादन्तरमसाम्यं न
किञ्चिद्विवेकदृशा लभते । सङ्कल्पकल्पितपल्लववैलक्षण्यकृतमेव
वैसादृश्यन्न् नान्यदित्यर्थः ॥ १८ ॥
सहस्रखुरमूर्धाक्षिकरवक्त्रेहितोहितम् ।
नानाद्रितनुदिग्देशसरित्प्रादेशमात्रकम् ॥ १९ ॥
इदानीं जगत्पटलिखितचित्रराज्यसादृश्येन वर्णयति - सहस्रेत्यादिचतुर्भिः ।
सहस्रसङ्ख्यानि करादिवक्रान्तानि तदीहितानि तदिङ्गितानि च ऊहितानि वितर्कितानि यत्र ।
नानाविधा अद्रयस्तनवश्चतुर्विधशरीराणि दिशो देशाः सरितश्च प्रादेशमात्रमिव
परिच्छिन्ना यत्र ॥ १९ ॥
अन्तःशून्यमसारात्म बहुरागोपरञ्जितम् ।
स्फुरद्विरागविहितमार्जनामात्रतर्जनम् ॥ २० ॥
अन्तःशून्यमवस्तु आन्तरावयवशून्यं च । बहुभिः रागैः कामै
रञ्जकद्रव्यैश्चोपरञ्जितम् । विरागो वैराग्यं विरुद्धवर्णन्न् मार्जनद्रव्यं च
तद्विहितमार्जनामात्रमेव तर्जनं निरासो यस्य ॥ २० ॥
ससुरासुरगन्धर्वविद्याधरमहोरगम् ।
जडात्मपवनस्पन्दि परचेतनचेतितम् ॥ २१ ॥
जडात्मना पवनेन सूत्रात्मना प्रसिद्धवायुना च स्पन्दनशीलम् । परेण
ब्रह्मचेतनेन द्रष्ट्टचेतनेन च चेतितम् ॥ २१ ॥
पटे चित्रमहाराज्यमिव भासुरसुन्दरम् ।
परामर्शासहं चारु विकल्पस्फूर्जितं जगत् ॥ २२ ॥
परामर्शो विचारः परेण आमर्श उपमर्दश्च तदसहम् ॥ २२ ॥
स्पन्दात्मनि विकल्पांशे पतिताऽसत्यरूपिणि ।
संवित्प्रसरति भ्रान्तौ तैलबिन्दुरिवाम्भसि ॥ २३ ॥
विकल्पांशे विकल्पवृत्तौ मनसि प्रतिबिम्बभावेन पतिता
अर्थशून्यत्वाद्बाध्यत्वाच्चासत्यरूपिणि ॥ २३ ॥
हृल्लेखाजालविसरैः सर्वावर्तविवर्तनैः ।
विसरत्स्नेहसम्मिश्रजडानुदयचर्वणैः ॥ २४ ॥
कथं प्रसरति तदाह - हृल्लेखेति । हृदयं मनो लिखन्ति क्षोभयन्तीति
कृल्लेखाः कामवासनास्तल्लक्षणस्य जालस्यानायस्य विसरैः समूहैर्निबद्धा ।
पुत्रकलत्रादिषु विसरता स्नेहेन सम्मिश्रं यथा स्यात्तथा जडा मिथ्यात्वादनुदया
अनुत्पन्ना एव ये शब्दस्पर्शादयोऽर्थास्तेषां चर्वणैरास्वादनैः प्रसरति स एव
चित्रमहाराज्यत्वेन वर्णितः संसार इत्यर्थः ॥ २४ ॥
अहमित्यादिचिद्रूपे विकल्पेनोन्मुखी सती ।
न पराद्व्यतिरिक्तैषा जलत्वादिव तोयता ॥ २५ ॥
एवंरीत्या एषा आदिचित् अहमिति विकल्पेनोन्मुखी बहिर्मुखी जीवभावमिवापन्ना सत्यपि न
परात्परमात्मनो व्यतिरिक्ता । भेदकोपाधीनां विकल्पमात्रत्वे
जीवपरशब्दयोर्जलतोयशब्दवदेकार्थपर्यवसानादिति भावः ॥ २५ ॥
चिदादित्यः स्व आत्मैव सर्ग इत्यभिधीयते ।
भूत्वाहमिति तेनान्यो न न सर्गोऽस्ति न सर्जकः ॥ २६ ॥
उपाध्यनुप्रवेशेन नामरूपव्याकर्तुरहमर्थजीवस्य ब्रह्ममात्रत्वे
तद्भोग्यसर्गशब्दार्थोऽपि ब्रह्ममात्रं सम्पन्न इत्याह - चिदादित्य इति ॥ २६ ॥
स्पन्दात्मिकायान्न् सत्तायां यथा स्पन्दो जलद्रवः ।
तथा चिदात्मा व्योमत्वे न व्योमत्वादि वेत्ति हि ॥ २७ ॥
जगतो राहुशिरोवच्चिद्विकल्पमात्रतामविद्यामात्रतापर्यवसानाय
दृष्टान्तेनोपपादयति - स्पन्दात्मिकायामिति । जलं स्पन्दते इत्यत्र विचार्यताम् ।
किं जलमेव स्पन्दात्मना आस्ते उतान्यत् । न द्वितीयः । अन्यस्यानुपलम्भात् । अन्य एव
स्पन्दत इति हि तदा स्यात् स्पन्दस्य जलापेक्षानियमाभावप्रसङ्गाच्च । न च
समवायात्तन्नियमस्तस्य सम्बन्धानवस्थया असिद्धेः । आद्ये तु कल्पे जलस्य
स्पन्दकर्तृत्वानुपपत्तिः । न हि स्पन्दात्मा स्पन्दं करोति स्पन्दस्यापि कर्तृत्वापत्तेः
। तस्माज्जलद्रवो यथा स्पन्दात्मिकायां स्वसत्तायामस्पन्द एवेति
स्पन्दप्रत्ययोविकल्पमात्रं तथा चिदात्मा व्योमादिप्रपञ्चनिर्माणेपि न व्योमत्वे
स्थितो न व्योमकर्तेति न स्वस्यान्यस्य वा व्योमभावादिकं वेदितुं शक्नोतीति
जलद्रवभेदविकल्पवद्विकल्पमात्रमेव तदित्यर्थः ॥ २७ ॥
देशकालादिनिर्माणपूर्वकं वेदनं विदः ।
सर्गात्मकत्वात्तेनाम्बुद्रवसाम्यं न दूरगम् ॥ २८ ॥
ननु जलद्रवभेदविकल्पे देशकालभेदो नियामकोऽस्ति । पूर्वकाले पूर्वदेशे स्थितं
जलमुत्तरकाले परदेशे उपलभ्यते । उत्तरदेशप्राप्तिस्तत्क्रियापूर्विकैव शरादौ
कॢप्तेति जलेपि द्रवणक्रियाभेदः कल्प्यते । ब्रह्मणि त्वद्वये न देशकालभेदोऽस्तीति न
वियदादिभेदविकल्पे निमित्तमस्तीत्यम्बुद्रवसाम्यं दूरापास्तमिति शङ्कां
समाधत्ते - देशेति । किमयं वियदादिसर्गविकल्पासम्भवः
सर्गात्मकत्वदशायामाक्षिप्यते उत ब्रह्मदशायाम् । द्वितीये इष्टापत्तिः । न हि वयं
ब्रह्मभावे कञ्चिद्विकल्पमङ्गीकुर्मः । सर्गात्मकत्वदशायां तु अयं सर्गकालः
प्राक् प्रलयकाल इति कालविभागं संसारासंसारदेशभेदं च कल्पनया निर्माय
तत्र विदश्चिदात्मनो वियदादिविकल्पवेदनं वर्णयाम इति नाम्बुद्रवसाम्यं
दूरगमित्यर्थः । तथा चोक्तं वार्तिके अविद्यास्तीत्यविद्यायामेवासित्वा प्रकल्प्यते ।
ब्रह्मदृष्ट्या त्वविद्येयं न कथञ्चन युज्यते ॥ इति ॥ २८ ॥
मनोहम्भावबुद्ध्यादि यत्किञ्चिन्नाम वेदनम् ।
अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति ॥ २९ ॥
देशकालभेदनिर्माणस्यापि देशकालान्तरसापेक्षत्वादनवस्था । एवं विकल्पानां
मनोहम्भावबुद्ध्यादिसाध्यत्वाद्वियदादिसर्गभेदविकल्पकाले
तेषामसिद्धत्वात्कथं विकल्पनेत्याद्याशङ्का अपि अनुपपत्त्यादिदोषसहस्रभाजना
विद्यामात्रत्वाभ्युपगमादेव परिहर्तव्या इत्याशयेनाह - मन इति ॥ २९ ॥
अर्धं मिथःसङ्कथया भागः शास्त्रविचारणैः ।
आत्मप्रत्ययतः शिष्टमविद्याया निवर्तते ॥ ३० ॥
केन केन पौरुषेण कियती सा नश्यति तदाह - अर्धमिति ।
विनयप्रणतिदानसन्मानादिवशीकृतैस्तत्त्वविद्भिः सह
सङ्कथनात्प्रथमभूमिकाप्रतिष्ठापर्यन्तमभ्यस्तयोत्कटवैराग्यादि##-
नश्यतीत्यर्थः । शास्त्रविचारणैः श्रवणादिभिः प्रमाणप्रमेयासम्भावनादिरूपो
देहादिष्वहन्तारूपश्चाविद्याया विक्षेपशक्तिरूपो भागश्चतुर्थांशो नश्यति ।
आत्मप्रत्ययतो
ब्रह्मात्मभावसाक्षात्काराच्चतुर्थभूमिकामारभ्योत्तरोत्तरमुपचीयमानात् शिष्ट
आवरणशक्तिरूपश्चतुर्थभागश्चारुणोदयोत्तरं तम इव क्रमानिवर्तत इत्यर्थः ॥
३० ॥
चतुर्भागात्मनि कृते इत्यविद्याक्षये क्रमात् ।
समकालाच्च यच्छिष्टं तदनामार्थसन्मयम् ॥ ३१ ॥
इति प्राग्दर्शितप्रकाराद्भूमिकाभ्याससमकालात्क्रमादविद्याक्षये कृते सति
यच्छिष्टं तन्नामरूपरहितं सन्मात्रमेव परमपुरुषार्थ इत्यर्थः ॥ ३१ ॥
श्रीराम उवाच ।
अर्धं मिथःसङ्कथया भागः शास्त्रविचारणैः ।
आत्मप्रत्ययतो भागः कथं तस्या निवर्तते ॥ ३२ ॥
सङ्क्षेपोक्तं विस्तरेण जिज्ञासू रामः पृच्छति - अर्धमित्यादिना ॥ ३२ ॥
समकाले क्रमाच्चेति मुनिनाथ किमुच्यते ।
तदनामार्थसच्चेति सच्चासच्चेति किं वद ॥ ३३ ॥
अनामार्थसन्मयमित्यत्र मयटा असदंशस्यापि क्रोडीकारात्सच्चासच्चेत्युक्तम् ।
तत्रासदंशः किं तद्वदेत्यर्थः ॥ ३३ ॥
श्रीवसिष्ठ उवाच ।
सुजनेन विरक्तेन संसारोत्तरणार्थिना ।
सह चाप्यात्मविदुषां संसृतिं प्रविचारयेत् ॥ ३४ ॥
प्रश्नक्रमाद्वसिष्ठ उत्तरमाह - सुजनेनेति । आत्मविदुषा सह
चशब्दादपिशब्दाच्चान्येनापि मुमुक्षुणा सह स्वबुद्ध्या च संसृतिं केयं
किम्पर्यवसाना किम्मूला किंसारा कथमुत्तरणीयेति च प्रविचारयेत् ॥ ३४ ॥
यतः कुतश्चिदन्विष्य सविरागममत्सरम् ।
जनं सज्जनमात्मज्ञं यत्नेनाराधयेद्बुधः ॥ ३५ ॥
सम्पन्ने सङ्गमे साधोरविद्यार्थं क्षयं गतम् ।
विद्धि वेद्यविदां श्रेष्ठ ज्येष्ठश्रेष्ठदशोदयात् ॥ ३६ ॥
इतरभूमिकाभ्यो ज्येष्ठा साधनचतुष्टयसम्पत्त्या च श्रेष्ठा या
प्रथमभूमिकाप्रतिष्ठा दशा तदुदयादित्यर्थः ॥ ३६ ॥
अर्धं सज्जनसम्पर्कादविद्याया विनश्यति ।
चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः ॥ ३७ ॥
चतुर्भागं चतुर्थभागम् । स्वयत्नतो नाशयेदिति शेषः ॥ ३७ ॥
एकोऽभिलाष उत्पन्नो भोगेभ्यश्च निवार्यते ।
तत्क्षये यात्यविद्यायाश्चतुर्थांशः स्वयत्नतः ॥ ३८ ॥
तत्राद्यमुपपादयति - एक इति । एक उत्कटमुमुक्षालक्षणोऽभिलाष
उत्पन्नश्चेदयन्न् पुरुषो वैराग्यादिसम्पदा भोगेभ्यस्तत्साधनेभ्यश्च निवार्यते ।
अवश्यं निर्ममः सन्न्यस्यतीत्यर्थः ॥ ३८ ॥
साधुसङ्गमशास्त्रार्थस्वयत्नैः क्षीयते मलम् ।
एकैकेनाथ सर्वैश्च तुल्यकालं क्रमादपि ॥ ३९ ॥
युगपत्प्राप्तौ तुल्यकालम् । क्रमात्प्राप्तौ क्रमादपि ॥ ३९ ॥
यदविद्याक्षयैकात्म न किञ्चित्किञ्चिदेव च ।
शिष्यते तत्परं प्राहुरनामार्थमसच्च सत् ॥ ४० ॥
पञ्चमप्रश्नस्याप्युत्तरमाह - यदिति । अर्थक्रियाव्यवहारानर्हत्वादसत्
अबाध्यपरमपुरुषार्थत्वात्सच्चेत्यर्थः ॥ ४० ॥
ब्रह्मेदं घनमजराद्यनन्तमेकं सङ्कल्पस्फुरणमविद्यमानमेव ।
बुद्ध्वैवं व्यपगतमानमेयमोहो निर्वाणं परिविहरन्विशोकमास्स्व ॥ ४१ ॥
हे राम इदं परिशिष्टवस्तु आनन्दैकघनं जरादिविकारशून्यन्न् ब्रह्मैव ।
जीवजगद्रूपं तु सङ्कल्पो विकल्पस्तत्स्फुरणमात्रमित्यविद्यमानमेव ।
त्वमेवमात्मानात्मतत्त्वं बुद्ध्वा व्यपगतमानादित्रिपुटीमोहः सन् निर्वाणं
ब्रह्मैव भूत्वा निरतिशयबृहत्त्वादेव परितो व्याप्त्या विहरन् सन् विशोकमास्स्व
तिष्ठेत्यर्थः ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० वि०
सङ्कल्पसर्गयोरैक्यप्रतिपत्तिर्नामद्वादशः सर्गः ॥ १२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सङ्कल्पसर्गयोरैक्यप्रतिपत्तिर्नाम द्वादशः सर्गः ॥ १२ ॥