एकादशः सर्गः ११
भुशुण्ड उवाच ।
शस्त्राणि दयिताङ्गानि लग्नान्यङ्गे निरम्बरे ।
यो बुद्ध्यमानः सुसमः स परस्मिन्पदे स्थितः ॥ १ ॥
इहेन्द्रियजयात्पूर्णे निर्विकारमनःस्थितिः ।
देहादिदृश्या दृष्टिश्च दृढीकार्येति वर्ण्यते ॥
निरम्बरे वस्त्राद्यनावृते अङ्गे स्वदेहे लग्नानि शस्त्राणि दयितायास्तरुण्याः
स्तनाद्यङ्गानि च बुद्ध्यमानः साक्षादनुभवन्नपि
कामदुःखभयादिविकारानुदयाद्यः सुसमः स्यात् स परस्मिन्पदे स्थितः ।
तादृशस्थितिसिद्धिपर्यन्तमिन्द्रियजयात्मनिष्ठे दृढीकार्ये इत्यर्थः ॥ १ ॥
तावत्पुरुषयत्नेन धैर्येणाभ्यासमाहरेत् ।
यावत्सुषुप्ततोदेति पदार्थोदयनं प्रति ॥ २ ॥
अमुमेवार्थं स्पष्टमाह - तावदिति । शस्त्रकान्तादिबाह्यपदार्थेभ्यो
विकारोदयनं मिथ्यात्वबुद्ध्या प्रतिक्षिप्य स्वात्मसुखमात्रविश्रान्तिलक्षणा
सुषुप्तता यावदुदेति तावत् ॥ २ ॥
यथा भूतार्थतत्त्वज्ञमाधयोऽग्रगता अपि ।
न मनागपि लिम्पन्ति पयांसीव सरोरुहम् ॥ ३ ॥
तत्त्वज्ञानप्रतिष्ठाया आध्यसंस्पर्श एव लक्षणमित्याह - यथेति । न हि
शुक्तिबाधे तद्रजतलाभापहारयोराधिर्दृश्यत इति भावः ॥ ३ ॥
शस्त्राङ्गनानभांस्यङ्गलग्नान्यलमसंविदम् ।
अलग्नानीव शान्तात्मा यः पश्यति स पश्यति ॥ ४ ॥
नभोग्रहणं दृष्टान्तार्थम् । स पश्यति स साक्षात्कारज्ञानवानिति लक्षणेन
बोध्यमित्यर्थः ॥ ४ ॥
विषं यथा स्वान्तरेव दुर्घुणीभवति स्वयम् ।
न च दुर्घुणता नाम विषादन्यास्ति काचन ॥ ५ ॥
न भ्रान्तिकल्पितेन जीवभावेनास्य वास्तवनिर्विकारस्वभावोऽपगत इति तद्बाधमात्रेण
तल्लाभो युक्त एवेत्येतदुपपादनाय दृष्टान्तमाह - न चेति । यथा विषं
विषस्वभावादप्रच्युतमेव घुणकीटादिविकारं गतमिति घुणता विषादन्या न तथा
आत्मा ब्रह्मापि स्वतत्त्वपरिज्ञानमात्रैकबाध्यां जीवतां
जीवाकारविवर्तमधितिष्ठतीति जीवता नान्येति योज्यम् ॥ ५ ॥
स्वरूपमजहत्त्वेवं जीवतामधितिष्ठति ।
तथात्मा तत्परिज्ञानमात्रैकप्रविलापिनीम् ॥ ६ ॥
जीवो भवति दुर्घूणोऽमृत्यात्मैव [दीर्घत्वमार्षम् ।] यथा तथा ।
अत्यजन्ती निजं रूपं चिज्जडं रूपमृच्छति ॥ ७ ॥
अमरणस्वभावमेव जडं विषं स्वस्वभावमत्यजदेव यथा
मरणस्वभावकीटजीवो भवति तथा ब्रह्मचिदपि मरणस्वभावं जडं
रूपमृच्छतीति वैपरीत्यांशेऽपि दृष्टान्त इत्यर्थः ॥ ७ ॥
ब्रह्मण्यनन्योऽप्यन्याभो दुर्घुणः क्वचिदुत्थितः ।
तत्स्थः स एवास इवाप्यतत्स्थ इव सर्गकः ॥ ८ ॥
जीवः वज्जगदपि घुणवदेवोत्थितमित्याह - ब्रह्मणीति ॥ ८ ॥
विषं विषत्वमजहद्यथा स्वान्तः कृमिः क्रमात् ।
न जायते न म्रियते म्रियतेऽपि च जायते ॥ ९ ॥
कृमौ विषस्वभावदृष्ट्या यथा जन्ममरणे न स्तो देहिस्वभावदृष्ट्या तु
स्तस्तथा जीवेऽपि ब्रह्मस्वभावदृष्ट्या न स्तो जीवस्वभावदृष्ट्या तु स्त इत्याह -
विषमिति द्वाभ्याम् ॥ ९ ॥
स्वेनैव संविदर्थेन पदार्थामग्नरूपिणा ।
तीर्यते गोष्पदमिव न तु दैवाद्भवार्णवः ॥ १० ॥
देहेन्द्रियविषयपदार्थेष्वहम्ममतासक्त्या अमग्नरूपिणा अतिरोहितस्वरूपेण
श्रवणादिप्रयत्ननिष्पादितस्वसाक्षात्कार्संवित्प्रयोजनभूतेन स्वेनैव तीर्यते न तु
दैवं मां तारयिष्यतीति प्रयत्नोपेक्षयेत्यर्थः ॥ १० ॥
सर्वभावान्तरावस्था सर्वभावातिशायिनी ।
अन्तःशीतलता यस्मिंस्तस्मिन्किमिव हेलनम् ॥ ११ ॥
सर्वदृश्यभावबाधपरिशिष्टे एकात्मस्वभावे परमदरिद्रे न
विश्रान्तिसम्भावनेति प्रसक्तामवहेलनां वारयति - सर्वेति । सर्वेषां
प्रियतमभावानामान्तरी सारसुखरूपा अवस्था सर्वतापनिवृत्त्या अन्तःशीतललता
यस्मिन् पूर्णात्मस्वभावे ॥ ११ ॥
जगत्पदार्थसत्तान्तः सामान्येनाशु भाविते ।
मनोहङ्कारबुद्ध्यादि कः कलङ्कोऽमलात्मनि ॥ १२ ॥
जीवस्य मनोहङ्कारादिकलङ्कानिवृत्तावुपायमाह - जगदिति । सामान्येन
सन्मात्रब्रह्मरूपेण ॥ १२ ॥
यथा घटपटाद्यर्थान्पश्यस्येवं शरीरकम् ।
तथाहन्त्वमनोबुद्धिवेदनाद्यपि पश्य हे ॥ १३ ॥
यथा घटपटाद्यर्थांस्तटस्थतया पश्यसि तथा प्रथमं तटस्थतया शरीरं
पश्य नाहन्त्वाद्यभिमानेनेत्यर्थः ॥ १३ ॥
जगत्पदार्थसार्थौघमनोबुद्ध्यादि संस्थितम् ।
ज्ञ एवासंविदंस्तिष्ठ परिनिष्ठितनिष्ठया ॥ १४ ॥
तदनन्तरं ज्ञः सर्वसाक्षिरूप एव बहिर्जगत्पदार्थसार्थौघमन्तर्मनोबुद्ध्यादि
च असंविदन् ज्ञप्तिमात्ररूपः परिनिष्ठितनिष्ठया स्वाभाविकस्थित्या तिष्ठ ॥ १४ ॥
न केनचित्कस्यचिदेव कश्चिद्दोषो न चैवेह गुणः कदाचित् ।
सुखेन दुःखेन भवाभवेन न चास्ति भोक्ता न च कर्तृता च ॥ १५ ॥
तस्यां स्थितौ सर्वगुणदोषादिविक्षेपहेतूपरमसिद्धिरित्याह - न केनचिदिति ।
तस्यां स्थितौ भवाभवेन सम्पदा विपदा तत्प्रयुक्तसुखेन दुःखेन च
केनचिद्धेतुना कस्यचित्कदाचिदपि दोषो गुणश्च नास्ति । यतः कर्तृता नास्त्यतो भोक्ता
च नास्ति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिश्रुतेरित्यर्थः ॥ १५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे उत्तरार्धे
विद्याधरो० यथाभूतार्थवेदनं नामैकादशः सर्गः ॥ ११ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
यथाभूतार्थवेदनं नामैकादशः सर्गः ॥ ११ ॥