०१०

दशमः सर्गः १०

भुशुण्ड उवाच ।

विद्धि त्वं चेतनादेव चेतनेतरचेतनम् ।
जलेऽग्निरिव चिज्जाड्ये नातो भिन्ने मनागपि ॥ १ ॥

यथाभूतं स्थितं ब्रह्म निर्विकारमकारणम् ।
नासीदेव जगत्क्वापि कदापीत्युपवर्ण्यते ॥

ब्रह्मणि जगदपलापसिद्धये तज्जाड्यमपलपितुं जडत्वेनाभिमतस्य
चिद्भावमनुभावयति - विद्धीत्यादिना । हे विद्याधर त्वं
चेतनेतरत्वेनाभिमतस्य जगतश्चेतनादेव चेतनं स्फुरणं विद्धि ।
स्फुरद्रूपत्वमेव हि चेतनत्वम् । तद्यदि जगद्रूपं स्फुरति तर्हि चेतनमेव न
चेतनेतरदिति । जले प्रतिबिम्बितोऽग्निरिव जलान्न चेतनाद्वस्त्वन्तरमस्ति । अतो
जलशैत्यादतिरिक्तं प्रतिबिम्बवह्नेरौष्ण्यमिव न चैतन्याज्जाड्यन्न्
नामान्यदस्तीत्यर्थः ॥ १ ॥

तद्वेदनावेदनयोरभेदात्स्वस्थमास्यताम् ।
निर्यन्त्रमेव चित्रस्थज्ञप्तिवद्व्योममध्यवत् ॥ २ ॥

जाड्यमात्रापलापेनैव जगदपलापसिद्ध्या निर्विक्षेपं स्थीयतामित्याह - तदिति ।
यन्त्रणं यन्त्रं परिच्छेदस्तद्रहितं यथा स्यात्तथा ।
चित्रकृच्चित्तचित्रस्थतज्ज्ञप्तिवत् । गन्धर्वनगराधिष्ठानव्योममध्यवच्च ॥ २ ॥

ब्रह्मण्यशेषशक्तित्वादचित्त्वं विद्यते तथा ।
अक्षुब्धे विमले तोये भाविफेनलवो यथा ॥ ३ ॥

ये तु प्रलयेऽपि ब्रह्मणि अचिद्रूपं जगत् सूक्ष्मरूपेणाऽस्त्येवेति श्रुतिस्मृतिवादास्ते
मायाशबलस्य सर्वशक्तित्वादसत्स्वपि ब्रह्मसत्तारोपदृष्ट्या भाविफेनलवे
साम्प्रतिकजलसत्तया सत्ताव्यवहारवदित्याशयेनाह - ब्रह्मणीति ॥ ३ ॥

न कारणं विनोदेति जलात्फेनलवो यथा ।
न कारणं विनोदेति सर्गादि ब्रह्मणस्तथा ॥ ४ ॥

वास्तवदृष्ट्या तु मायाया एवासत्त्वादद्वितीये निर्विकारे
क्षोभतद्धेत्वोरेवासम्भवाज्जडसर्गादेरुदय एव न सम्भवतीत्याह -
नेत्यादिना ॥ ४ ॥

न च कारणमस्त्यत्र सर्गवृत्तावकारणे ।
नातः सञ्जायते किञ्चिज्जगदादिर्न नश्यति ॥ ५ ॥

अत्यन्तं कारणाभावान्न किञ्चिज्जायते जगत् ।
मरावम्ब्विव नास्त्येव दृष्टमप्यग्रतो [दृश्यं इति पाठः ।] जगत् ॥
६ ॥

ब्रह्मानन्तमजं शान्तमतोऽस्तीदं न सर्गधीः ।
कारणाभावतस्तेन ब्रह्मैवेदमखण्डितम् ॥ ७ ॥

अतः शिलोदराभोऽसि व्योमकोशोपमोपि च ।
ब्रह्मैकघनरूपत्वादजोऽनवयवोऽसि च ॥ ८ ॥

ज्ञोऽसि किञ्चिन्न किञ्चिद्वा निःशङ्कमलमास्यताम् ।
अचेतनाचिदाभासे शाम्यतामात्मनात्मनि ॥ ९ ॥

अनवधारितविशेषसर्वानुगतसत्तासामान्यरूपत्वात्किञ्चित् । विशेषबाधे तदनुगतस्य
सामान्यरूपताया अपि निवृत्तेरैकरूप्यावधारणाच्च न किञ्चित् । चेतना
बुद्धिस्तच्चिदाभासश्च न विद्येते यत्र ॥ ९ ॥

नित्यानन्दतयाऽजस्य कारणं नास्ति कार्यकृत् ।
सर्गाद्यसम्भवे तस्माद्यदस्ति तदजं शिवम् ॥ १० ॥

प्रयोजनापेक्षाभावादपि सर्गो नास्तीत्याह - नित्यानन्दतयेति । कारणं
क्रियानिमित्तं फलम् ॥ १० ॥

अजो येषां तु चिद्रूपो नास्ति मौर्ख्यविलासिनाम् ।
सर्गनाशे समुत्पन्ने किं तेषां प्रविचार्यते ॥ ११ ॥

एवं तत्त्वदृशा नित्यमुक्ततासिद्धिमुपपाद्य तदनभ्युपगमे
नित्यबद्धताप्रसक्तिर्मूर्खाणां स्यादित्याह - अज इति ।
तेषामनिर्मोक्षदोषानिवृत्तेः किं प्रविचार्यते । निष्फला मोक्षोपायचिन्तेत्यर्थः ॥ ११ ॥

यत्र यत्र परं ब्रह्म तत्र सन्ति जगन्ति हि ।
जगच्छब्दार्थरूपेण मुक्तान्येवंविधानि च ॥ १२ ॥

अर्धप्रबुद्धदृष्ट्या यादृशी स्थितिस्तामाह - यत्र यत्रेति ॥ १२ ॥

तृणे काष्ठे जले कुड्ये सर्वत्रैव परं स्थितम् ।
सर्वत्रैव च सर्गौघः परिप्रोतः स्थितो [स्थिर इति पाठः ।] मिथः ॥ १३ ॥

ब्रह्मणः कः स्वभावोऽसाविति वक्तुं न युज्यते ।
अनन्ते परमे तत्त्वे स्वत्वास्वत्वात्यसम्भवात् ॥ १४ ॥

तर्हि मिथ्यासर्गस्वभावमेवास्तु ब्रह्म नेत्याह - ब्रह्मण इति । स्वः स्वीयो भावो
व्यावर्तकधर्मो हि स्वभावस्तस्य च धर्मता अस्वभावव्यावर्तकतया वाच्या अद्वये
तु ब्रह्मणि स्वत्वास्वत्वयोरत्यन्तासम्भवान्न स्वभावोऽन्यो निरूपयितुं शक्य
इत्यर्थः ॥ १४ ॥

अभावसव्यपेक्षस्य भावस्यासम्भवादपि ।
पदं बध्नन्ति नानन्ते स्वभावाद्या दुरुक्तयः ॥ १५ ॥

व्यावर्तके स्वशब्दासङ्घटनमुक्त्वा भावशब्दासङ्घटनमपि दर्शयति -
अभावेति … १५ ॥

अस्वत्वाभावयोर्नित्येऽनन्तेऽत्यन्तमसम्भवात् ।
स्वत्वभावेषु सिद्धेषु स्वभावोक्तिर्न तिष्ठति ॥ १६ ॥

व्यावर्त्याप्रसिद्धेरपि पदद्वयस्यापि तत्राघटनमित्याह - अस्वत्वेति । कालान्तरे
देशान्तरे वा तत्प्रसिद्धिशङ्कावारणाय विशिनष्टि - नित्येऽनन्ते इति ।
स्वतःसिद्धेष्वव्यावर्तकेषु स्वत्वेषु भावेषु च लोके स्वभावोक्तिः
स्वभावशब्दप्रयोगो न तिष्ठति । अप्रसिद्ध इत्यर्थः ॥ १६ ॥

नाहन्त्वं लभ्यते साधो बुद्ध्यालोके निरीक्षितम् ।
असदेव कुतोऽप्येतद्बालयक्ष इवोदितम् ॥ १७ ॥

यथा ब्रह्मणि सर्गादिर्न सिद्ध्यतीत्यद्वयता एवं
प्रतीच्यप्यहन्त्वादिरपीत्युभयशोधे अखण्डता सिद्धेत्याशयेनाह - नाहन्त्वमिति
॥ १७ ॥

मुक्तं त्वहन्त्वशब्दार्थैर्लभ्यते यच्च तत्परम् ।
युक्तं त्वहन्त्वशब्दार्थैः प्रेक्ष्यमाणं विलीयते ॥ १८ ॥

प्रेक्ष्यमाणं रत्नतत्त्ववच्छास्त्राचार्यानुभवैः परीक्ष्य तत्त्वदृशा
दृश्यमानम् ॥ १८ ॥

भेदो जगद्ब्रह्मदृशोरभेदः पर्यायशब्दार्थविलासतुल्यः ।
सङ्कल्पमात्रं कथितो न सत्यो यथानयोर्वै कटकत्वहेम्नोः ॥ १९ ॥

अनया दृशा जाड्यं चित्स्वभावतामिव जीवजगद्भेदोऽप्यभेदात्मतामेवापन्न इति
प्रदर्शनाय प्राक्तना हेमकटकाभेददृष्टान्ताः पर्यवसन्ना
इत्याशयेनोपसंहरति - भेद इति । सङ्कल्पो राहोः शिर इति
व्यपदेशवद्विकल्पमात्रं विद्वद्भिः कथितः । कटकत्वं कटकाकारः ॥ १९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० वि०
स्वर्गापवर्गप्रतिपत्तियोगोपदेशो नाम दशमः सर्गः ॥ १० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
स्वर्गापवर्गप्रतिपत्तियोगोपदेशो नाम दशमः सर्गः ॥ १० ॥