नवमः सर्गः ९
भुशुण्ड उवाच ।
अबुद्ध्यमानश्चेत्यादिचिद्रूपमपि चानघ ।
शान्तचिद्घन एवास्व निर्मलाप्स्वन्तरंशुवत् ॥ १ ॥
चिदधीनोदयध्वंससत्तास्फूर्तिविवर्तनम् ।
इह चित्कचनं विश्वं चिन्मात्रमिति वर्ण्यते ॥
हेम्नीव कटकादित्वं संसारोदरकोटरः । चिच्चमत्कार एवायमविकल्पनसङ्क्षयः ॥
इति यदुक्तं तदुभयमनुभावयिष्यन्नविकल्पनप्रकारं प्रथममुपदिशति -
अबुध्यमान इति । चेत्यं तद्गतक्रियागुणदोषादि तद्व्यावृत्तं तदवभासकं
चिद्रूपमपि विभाजकविकल्पकमनसो बाधादबुध्यमानो निर्मलासु अप्सु प्रविष्टा
अंशवः सूर्यकिरणा इव प्रशान्ततापः प्रकाशमात्रावशेष आस्व । सेयमपि
कल्पस्थितिर्जगद्विकल्पक्षयहेतुरित्यर्थः ॥ १ ॥
अचेतनं चेतनान्तश्चेतनादेव विद्यते ।
स्वेऽसादृश्येऽपि सदृशं पयोराशौ यथानलाः ॥ २ ॥
संसारोदरकोटरश्चिच्चमत्कार एवायमित्येतदपि सोपपत्तिकमनुभावयति -
अचेतनमित्यादिना । अचेतनन्न् दृश्यं स्वे स्वीये जाड्यदुःखपरिणामित्वादिलक्षणे
चिदसादृश्ये सत्यपि चेतनायाश्चितोन्तरे विद्यते नान्यत्र । तत्कुतः । चेतनादेव । न
ह्यन्यत्र विद्यमानं तदसम्बद्धया चेतनया चेतितुं शक्यम् । न चाचेत्यमानं
किञ्चित्सिद्ध्यति । नापि चेतना सक्रिया येन गत्वा चेतयेत् । सा यदि सर्वगता तर्हि सिद्धैव
प्रतिज्ञेत्यर्थः ॥ २ ॥
सचेतनाचेतनयोर्हेतुश्चित्त्वात्तथैव चित् ।
विनाशोत्पादयोर्वह्निज्वालायाः पवनो यथा ॥ ३ ॥
एवं देशतः सर्वदृश्यस्य चिदन्तःस्थितिं प्रसाध्य कालतोऽपि तां
सूचयंश्चित्कार्यतां साधयति - सचेतनेति । सचेतना [इदं
मूलस्थचेतनेत्यादेः फलितार्थकथनम् ।] अहंवृत्तिविषयाः । अचेतना
इदङ्कारविषयाः । तथा पूर्ववदेव कारणं विवर्तोपादानम् । चिद्विवर्ततैव
चिच्चमत्कार इति भावः ॥ ३ ॥
नाहमस्तीति चिद्रूपं चिति विश्रान्तिरस्तु ते ।
ततो यथा यादृशेन भूयते तादृशो भव ॥ ४ ॥
तत्राहमिति सचेतनांशनिरासेनैवोभयनिराससिद्ध्या चिन्मात्रावस्थितिसिद्धिरित्याह ##-
विकल्पहेतुक्षयादेवेदं विकल्पनिर्मुक्तपूर्णचिति विश्रान्तिरस्त्वित्यर्थः । एवं
विश्रान्तेन त्वया । ततः प्रारब्धशेषक्षयोत्तरम् ॥ ४ ॥
चिद्रूपः सर्वभावानामन्तर्बहिरसि स्थितः ।
प्रसन्नाम्बुभरस्यान्तर्बहिश्चैव यथा पयः ॥ ५ ॥
अम्बुव्यापिनः क्षीरस्याम्बुक्षयेऽपि परिशेषवद्ब्रह्मरूपमेवानुपमं ते परिशिष्यत
इत्याह - चिद्रूप इति द्वाभ्याम् ॥ ५ ॥
नाहमस्तीति चिद्रूपं चितौ चेल्लग्नमङ्ग ते ।
न चान्यच्चेतितं ब्रह्म रूपं केनोपमीयते ॥ ६ ॥
प्रत्यक्चिद्रूपं ब्रह्म चितौ लग्नमखण्डैक्यं प्राप्तं चेत् ॥ ६ ॥
ससुरासुरपातालभूविष्टपमिवोषितम् ।
नानाभावाजवीभावक्रियाकालमिवाकुलम् ॥ ७ ॥
यथा सुरासुरैः सह वर्तमानं पातालभूत्रिविष्टपमिव स्थितम् ।
प्रीतिहर्षक्रोधयुद्धजयपराजयादिनानाभावैः
पलायनानुधावनाद्याजवीभावैस्तत्तदनुरूपक्रियाकालमिव आकुलमपि रङ्गमयं
चित्रलिखितं जगत् कुड्ये कुड्यात्मना मौनन्न् मुनिशरीरमिव निर्व्यापारमेव स्थितं
तथा मायाशबलचिच्चित्रकचितं जगदपि शुद्धचिदाकाशलक्षणे कुड्ये
निर्विकाराद्वयतदात्मनैव संस्थितं न जगद्भावेनेत्यर्थः ॥ ७ ॥
यथा रङ्गमयं कुड्ये जगन्मौनमिव स्थितम् ।
तथा चिच्चित्रकचितं खे कुड्ये चात्मसंस्थितम् ॥ ८ ॥
तेनैव भूयते भूरि यच्चित्तं कचितं स्वतः ।
अचेतनं चेतनं वा यथेच्छसि तथा कुरु ॥ ९ ॥
अचेतनमनृतजगद्रूपम् । चेतनन्न् परमार्थसद्ब्रह्मरूपं वा यदेव चिति स्वतः
स्वरसतः कचितं तेनैव भूयते । एवं स्वायत्तयोरुभयोर्व्युत्थानेन समाधिना वा
यदेवेच्छसि तत्कुर्वित्यर्थः ॥ ९ ॥
चिच्चमत्कृतयो व्योम्नि स्फुरन्त्येता जगत्तया ।
अर्कांशुवदरोधिन्यः स्वच्छा विदितवेदिनाम् ॥ १० ॥
एतावांस्त्वज्ञेभ्यस्तत्त्वविदां विशेषः । यथा मरुभूमौ महानद्यात्मना
दृश्यमाना अर्कांशवो
मज्जनमरणादिभयजननात्तरणोपायादर्शनाच्चाज्ञानामर्वाक्कूले निरोधकाः न
मरुभूमितत्त्वज्ञानाम् तद्वदेकविज्ञानेन तत्त्वतः सर्वविज्ञानाद्विदितवेदिनां
तत्त्वविदां जगद्रूपाश्चिच्चमत्कृतयोऽप्यनिरोधिन्य इत्यर्थः । उपपादितं चेदं
लीलोपाख्याने विस्तरेण ॥ १० ॥
तिमिराक्रान्तदृष्टीनां यथा केशोण्ड्रकादि खे ।
स्फुरत्येवं जगद्रूपमनात्मन्येव तिष्ठताम् ॥ ११ ॥
अज्ञानां तु निरोधिन्य एवेत्याशयेनाह - तिमिरेति । अनात्मनि संसारे एव
तिष्ठतामज्ञानाम् ॥ ११ ॥
एवं जगत्त्वमहमित्यवबोधरूपमाभासमात्रमुदितं न च नोदितं च ।
अर्कांशुजालरचनानगराभमत्र कुड्यादि सत्यमिदमस्ति न खे लतेव ॥ १२ ॥
अर्कांशुवदिति दृष्टान्तं प्रकारान्तरेणापि वर्णयन्नुपसंहरति - एवमिति ।
आभासमात्रं वर्णितचिच्चमत्कारमात्रमतोऽज्ञदृशोदितं तत्त्वदृशा नोदितम् ।
चकारौ विकारान्तराणामपि समुच्चयप्रतिषेधार्थौ । अर्कांशुजालैरेव रचना
निर्माणं यस्य तथाविधं यद्गन्धर्वनगरं तदाभमत्र व्यवहारभूमौ
कुड्यादि जगत् । तच्च जगद्रूपेण खे लतेव सत्यन्न् नास्ति । अतो न
चिन्निरोधकमित्यपरिच्छेदश्चितः सिद्ध इत्यर्थः ॥ १२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
वि० चित्कचनयोगोपदेशो नाम नवमः सर्गः ॥ ९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
चित्कचनयोगोपदेशो नाम नवमः सर्गः ॥ ९ ॥