अष्टमः सर्गः ८
भुशुण्ड उवाच ।
विद्याधर धराधारो गिरिकन्दरमन्दिरः ।
दिगन्तराम्बराचारचारसञ्चारचञ्चरः ॥ १ ॥
इह संसारवृक्षस्य ज्ञानादुच्छेद ईयते ।
सङ्कल्पमण्डपप्रायः संसार उपवर्ण्यते ॥
ईदृशोऽयं जगद्वृक्षो जायतेऽहन्त्ववीजतः ।
बीजे ज्ञानाग्निनिर्दग्धे नैव किञ्चन जायते ॥ २ ॥
वर्णितं संसारवृक्षमनुवदति - विद्याधरेति । हे विद्याधर
अधस्तनसप्तलोकसहिता धरा आधारो मूलदेशो यस्य । लोकालोकान्तगिरीणां कन्दराणि
अन्तरालभागा मन्दिरं सालवाला वेदिर्यस्य । दशदिगन्तरे अम्बरे च आचारेण
तिर्यग्विटपविस्तारेण चारेण ऊर्ध्वविटपप्रसारेण तत्र तत्र प्राणिसञ्चारेण च
चञ्चरोऽतिचञ्चलः ॥ १ ॥ २ ॥
प्रेक्ष्यमाणं च तन्नास्ति किलाहन्त्वं कदाचन ।
एतावदेव तज्ज्ञानमनेनैव प्रदह्यते ॥ ३ ॥
प्रेक्ष्यमाणं तत्त्वतः किमिदं स्यादिति रत्नपरीक्षावद्विमृश्य
ब्रह्ममात्रतयावधार्यमाणम् । तत् अहन्त्वम् ॥ ३ ॥
अहन्त्वभावाच्चाहन्त्वमस्ति संसारबीजकम् ।
नाहन्त्वभावान्नाहन्त्वमस्तीति ज्ञानमुत्तमम् ॥ ४ ॥
सर्गादावेव सर्गस्य किलास्याभावयोगतः ।
कुतोऽहन्त्वं कुतस्त्वन्त्वं कुतो द्वित्वैक्यविभ्रमः ॥ ५ ॥
उत्पत्तिरेव यस्यासतः सतो वा न सम्भवति तस्य स्थितिर्दूरनिरस्तेत्याह -
सर्गादावेवेति ॥ ५ ॥
समकर्ण्य गुरोर्वाक्यं यतन्ते ये स्वयत्नतः ।
सङ्कल्पत्यागमामूलं पदप्राप्तौ जयन्ति ते ॥ ६ ॥
संसारः कालत्रयेऽपि नास्त्येवेत्युक्तार्थस्य दृढीकरणाय सङ्कल्पद्यूतमण्डपं
वर्णयिष्यन् भूमिकां रचयति - समाकर्ण्येत्यादिना । वक्ष्यमाणं प्राग्बहुशो
वर्णितं च आमूलं समूलं सङ्कल्पत्यागं कर्तुन्न् गुरोस्तदुपायक्रमवेदकं
वाक्यं समाकर्ण्य तदुक्तक्रमेण स्वप्रयत्नतो ये यतन्ते तत्त्वबोधप्राप्तौ
सत्यामसङ्कल्पं तत्पदं कैवल्याख्यं जयन्ति ॥ ६ ॥
रन्धनाज्जयमाप्नोति स्वशास्त्रे सूपकृत्कृते ।
विवेकी स्वविवेकित्वं यतनादेव नान्यथा ॥ ७ ॥
यथा सूपकृत् सूपकारः स्वशास्त्रे सूपकारविद्याविशेषे कृते सम्यगभ्यस्ते
तदुक्तप्रकारेणैव नानाभक्ष्यभोज्यनानारसायनानां रन्धनात्पाकेन निष्पादनात्
क्षुत्तृडामयजरादिजयं राजसन्मानाद्युत्कर्षं चाप्नोति तद्वद्विवेकी अधिकारी
गुरुशास्त्रोक्तमार्गेण यतनादेव स्वविवेकित्वं कैवल्यपर्यन्तं जयति
नान्यथेत्यर्थः ॥ ७ ॥
चिच्चमत्कारमात्रं त्वं जगद्विद्धीह नेतरत् ।
नाशासु न बहिर्नान्तरेतत्क्वचन विद्यते ॥ ८ ॥
यतोऽयं संसारः स्वप्नेन्द्रजालादिवदज्ञातचिच्चमत्कारमात्रमतो न चितो
बहिरस्तीत्याह - चिदिति ॥ ८ ॥
सङ्कल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते ।
तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवद् ॥ ९ ॥
चिच्चमत्कारमात्रतामुपपादयति - सङ्कल्पेति । चित्रकृतश्चित्रकारस्य चित्ते
कल्पितं यच्चित्रं तद्वत् ॥ ९ ॥
मण्डपोऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः ।
बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः ॥ १० ॥
जगतः सङ्कल्पमात्रतां द्रढयितुं सङ्कल्पद्यूतमण्डपाकारतां कल्पयति -
मण्डप इत्यादिना ॥ १० ॥
मणिस्तम्भसहस्रेण वृतोऽग्रे प्रोतमेरुणा ।
इन्द्रायुधसहस्राढ्यकल्पसन्ध्याभ्रसुन्दरः ॥ ११ ॥
अग्रे अधोमुखं प्रोतो मेरुरिवोर्ध्वगुग्गुलुर्यस्य तथाविधेन मणिस्तम्भसहस्रेण
वृतः । अत एव क्वचिदिन्द्रायुधसहस्राढ्य इव क्वचित्कल्पसन्ध्याभ्राणीव सुन्दरः
॥ ११ ॥
स्त्रीवालपुरुषादीनां वास्तव्यानामितस्ततः ।
क्रीडार्थं स्थापिता यत्र नानारचनयान्तरे ॥ १२ ॥
यत्र यस्मिन्मण्डपे वास्तव्यानान्न् निवसतां स्त्रीबालपुरुषादीनां क्रीडार्थं
लोकान्तराणि पातालस्वर्गादीनि तदाकाराः समुद्गकाः सम्पुटकास्तत्र तत्र स्थापिताः ।
कीदृशास्ते । अन्तरे नानानदीपर्वतवनहस्त्यश्वदेवतिर्यङ्नरादिनानारचनया
युक्ताः ॥ १२ ॥
भूतबीजपरापूर्णास्तमोरिपुसघुङ्घुमाः ।
तमःप्रकाशचित्राख्या लोकान्तरसमुद्गकाः ॥ १३ ॥
भूतानि प्राणिनस्तल्लक्षणैर्बीजैः परैस्तदुपभोग्यैश्च आपूर्णाः । तमसां
रिपुभिर्घातकैर्मणिप्रदीपसूर्यचन्द्रादिभिर्व्यवहारप्रवृत्त्या सघुङ्घुमाः
सशब्दाः । क्वचित्तमोभिः क्वचित्प्रकाशैश्च् चित्रा आख्या अभिख्या येषाम् ॥ १३ ॥
आमोदसुभगा लोलजलदावलिपल्लवाः ।
लीलापद्माकरे स्त्रीणां विलूनाकल्पपादपाः [विलूनाः कल्पपादपाः इति
पाठश्चिन्त्यः ।] ॥ १४ ॥
लीलापद्मायाः क्रीडालक्ष्म्या आकरे यस्मिन्मण्डपे स्त्रीणां मण्डनाय विलूना
लवनेन गृहीता आकल्पाः कर्णपूराद्यलङ्कारा येभ्यस्तथाविधाः पादपाः
कृताः ॥ १४ ॥
वालनिःश्वासचलिताः कन्दुकानि कुलाचलाः ।
सन्ध्याम्बुदाः कर्णपूराश्चामराः शरदम्बुदाः ॥ १५ ॥
बालानां निःश्वासेनापि चलिताः अतिलघीयाम्स इति यावत् । ईदृशाः कुलाचला यत्र
अर्थाद्बालानामेव क्रीडाकान्दुकानि कृताः । सन्ध्याम्बुदा दिग्वधूनां
कर्णपूराः कृताः । शरदम्बुदाश्च तासां हस्ते चामराः कृताः ॥ १५ ॥
कल्पान्तकालजलदास्तालवृन्तपदं गताः ।
भूतलं द्यूतफलकं वितानं तारकाम्बरम् ॥ १६ ॥
यत्र मण्डपे भूतलं सम्पूर्णं द्यूतफलकं कृतम् । तारकासहितमम्बरं
वितानं कृतम् ॥ १६ ॥
भूतशारपरावर्ते द्यूतेऽक्षाः शशिभानवः ।
व्योमाजिरे जगद्भासपणे गृहनिवासिनाम् ॥ १७ ॥
यत्र मण्डपे व्योमलक्षणे अजिरे चत्वरे जगतां भास आविर्भावतिरोभावादिप्रत्यय
एव पणो यस्मिन् द्यूते क्रीडतां गृहनिवासिनां मण्डपस्वामिनां ब्रह्मादीनां
तत्र भूतसाराणान्न् चतुर्विधभूतग्रामाणां शारिफलानान्न्
पुनःपुनर्जन्ममरणादिना भ्रमणं परावर्तस्तल्लक्षणे द्यूते
शशिभान्वादिनवग्रहा अक्षाः कृताः ॥ १७ ॥
इति सङ्कल्प एवान्तश्चिरभावनया यथा ।
अग्रस्थदृश्योपमया सत्यतामिव गच्छति ॥ १८ ॥
इति ईदृशो मण्डपोऽस्तीति सङ्कल्पयितुः सङ्कल्प एव अग्रस्थदृश्योपमया यथा
सत्यतामिव गच्छति तथैवायं धातुः सङ्कल्पैः सुसमुत्थितो जगद्रूपो मण्डपोऽपीति
परेणान्वयः ॥ १८ ॥
तथैवायं जगद्रूपः सङ्कल्पैः सुसमुत्थितः ।
चिच्चमत्कारमात्रात्मा चित्रकृच्चित्तचित्रवत् ॥ १९ ॥
असत्यमेव स्फुरति सर्वमस्ति च नास्ति च ।
असदुत्थित एवायं कुतोपीव समुत्थितः ॥ २० ॥
प्रतिभासतोऽस्ति परमार्थतो नास्ति च । कुतोऽपि समुत्थितो मायाहस्त्यादिरिव ॥ २० ॥
हेम्नीव कटकादित्वं संसारोदरकोटरः ।
चिच्चमत्कार एवायमविकल्पनसङ्क्षयः ॥ २१ ॥
संसार उदरकोटरे यस्य तथाविधश्चिच्चमत्कार एव ॥ २१ ॥
अत्यन्तमेव स्वायत्तो यथेच्छसि तथा कुरु ।
यश्चान्नपानदानादावनादरमुपेयिवान् ।
तस्येदं पश्चिमं जन्म न स कर्म समुज्झति ॥ २२ ॥
तथा चैच्छिकैर्विकल्पनैरविकल्पनैश्चाविर्भावयितुं तिरोभावयितुं च
तत्त्वविदामत्यन्तमेव स्वायत्त इति यथेच्छसि तथा कुर्वित्यर्थः ।
अन्नपानादिरैहिकभोगसामग्रीदानयज्ञादिरामुष्मिकभोगसामग्री
उभयत्राप्यनादरं फलानभिसन्धिम् ॥ २२ ॥
प्राप्तो विवेकपदवीमसि पावनात्मन्पुण्यां पवित्रितजगत्त्रितयां द्वितीयाम् ।
नाघः पतिष्यसि पुनर्मनसाऽमुनेति जानामि मौनममलं पदमुत्सृज त्वम् ॥
२३ ॥
विवेकप्राप्त्यैव ते मुक्तिरवश्यभाविन्यनुमीयत इति पुनर्जन्मादिसम्भावनाभीतं
तमाश्वासयति - प्राप्त इति । हे पावनात्मन् शुद्धबुद्धे त्वं
पातहेत्वविवेकपदव्यपेक्षया द्वितीयां पवित्रितजगत्त्रितयां विवेकपदवीं प्राप्तोऽसि ।
अतोऽमुना मनसा न अधः पतिष्यसीति जानामि अनुमिनोमि । अतस्त्वं मौनं
वाङ्मनसचेष्टाशून्यममलं चिन्मात्रपदमवलम्ब्य मन##-
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० उत्तरार्धे
विद्याधरो० मायामण्डपवर्णनन्न् नामाष्टमः सर्गः ॥ ८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मायामण्डपवर्णनं नामाष्टमः सर्गः ॥ ८ ॥
प्द्फ़् १६५, प्। १०८६