००६

षष्ठः सर्गः ६

विद्याधर उवाच ।

यदुदारमनायासं क्षयातिशयवर्जितम् ।
पदं पावनमाद्यन्तरहितं तद्वदाशु मे ॥ १ ॥

दिव्यभोगप्रसक्तेन चिरं स्वेन परीक्षिताः ।
इह विद्याधरेणोक्ता विषयेन्द्रियदुर्नयाः ॥

अतः साधनचतुष्टयसम्पन्नाय ब्रह्मजिज्ञासवे मह्यन्न् ब्रह्मोपदिशेत्याह -
यदिति । सर्वकार्पण्यनिवर्तकनिर्दुःखनिरतिशयानन्दरूपत्वादुदारम् । आशु शीघ्रं
वद । प्रदीप्तशिरस इव जलराशिं विविक्षोस्त्रिविधतापसन्तप्तस्य मम
विलम्बसहनाशक्तेरिति भावः ॥ १ ॥

एतावन्तमहं कालं सुप्त आसं जडात्मकः ।
इदानीं सम्प्रबुद्धोऽस्मि प्रसादादात्मनो मुने ॥ २ ॥

तर्हि प्रागेव कुतो नागमस्तत्राह - एतावन्तमिति । आत्मनो
मनसस्तीव्रतरवैराग्यलक्षणात्प्रसादात् ॥ २ ॥

मनो महामयोत्तप्तं क्षुब्धमज्ञानवृत्तिषु ।
मामुद्धर दुरन्तेहं मोहादहमिति स्थितात् ॥ ३ ॥

मनो महामयेन कामेनोत्तप्तम् । अज्ञानवृत्तिषु दुर्वासनासु क्षुब्धम् । दुरन्ता
तुरुच्छेदा ईहाः कर्माणि यस्य तम् । तत्र कारणमाह - मोहादिति ।
अहमित्यनात्मन्यात्माभिमानाकारेण
स्थितान्मोहात्स्वतत्त्वापरिज्ञानान्निमित्तादित्यर्थः । मोहादुद्धरेति
बुद्धिकृतापादाने वा पञ्चमी ॥ ३ ॥

श्रीमत्यपि एतन्त्याशु शातनाः कातरादयः ।
गुणवत्युग्रपत्रेऽपि तुहिनानीव पङ्कजे ॥ ४ ॥

ननु विद्याधराः सर्वविद्याश्रयत्वाद्विद्याबलादेव सर्वदुःखनिराससमर्था
मणिमन्त्ररसायनादिसिद्धिभिरणिमाद्यैर्श्वर्यैश्च युक्ताः श्रूयन्ते तत्किमेवं
श्रीमति त्वयि कामादिदुःखशातनाः कातरताकार्पण्यादिदोषाश्च निपतिताः । येन
देवयोनिश्रेष्ठत्वान्मान्यतमोऽपि त्वं निकृष्टकाकयोनिमपि मां शरणागतोऽसि
पृच्छसि च तत्राह - श्रीमत्यपीति ।
सर्वविद्यासिद्ध्यादिश्रीमत्यप्यात्मविद्याशून्ये
कामक्रोधेर्ष्यासूयादिदुःखशातनाः कातर्यादिदोषाश्च पतन्त्येव । अजितेन्द्रियत्वादिति
भावः । पङ्कजपक्षे श्रीमति लक्ष्म्याधारे गुणवति विसतन्तुमति
स्वाश्रयसस्नेहजलविमुखत्वात्तत्कणैरलेप्यत्वाच्चोग्राणि स्नेहनिष्ठुराणि पत्राणि
यस्य तादृशेऽपि ॥ ४ ॥

जायन्ते च म्रियन्ते च केवलं जीर्णजन्तवः ।
न धर्माय न मोक्षाय मशका इव पङ्कजे ॥ ५ ॥

ज्ञानाभावे देवयोनीनां मशकादियोनिसाम्यमेव धर्माधिकाराभावादिति
सूचयन्स्ववैराग्यहेतुं सर्वत्र दोषदर्शनं प्रपञ्चयति - जायन्ते इत्यादिना ॥ ५

भावैस्तैरेव तैरेव तुच्छालम्भविडम्बनैः ।
चिरेण परिखिन्नाः स्मो विप्रलम्भाः पुनः पुनः ॥ ६ ॥

भावैः शब्दादिविषयैस्तैस्तैः सहस्रशः पूर्वभुक्तैरेव तुच्छतमसुखलवार्थं
य आलम्भो विषयेन्द्रियस्पर्शस्तल्लक्षणैर्विडम्बनैर्वञ्चनोपायैर्विप्रलम्भाः ।
कर्मणि वञ् । विप्रलब्धा वञ्चिताः सन्तः । तुच्छान्नैः इति पाठे तुच्छानां
क्षुद्रजन्तूनामप्यन्नैरुपभोग्यभूतैरित्यर्थः ॥ ६ ॥

नान्तोऽस्त्यस्य न च स्थैर्यावस्थाऽविश्रान्तमानसम् ।
भ्रमतो भोगभङ्गेषु मरुभूमिष्विवाध्वनः ॥ ७ ॥

अविश्रान्तमानसं यथा स्यात्तथा भोगभङ्गेषु भङ्गुरेषु भोगेषु भ्रमतो
ममास्य संसाराध्वनोऽन्तो नास्ति स्थैर्येणावस्थानं स्थैर्यावस्था च नास्ति ॥ ७ ॥

आपातमधुरारम्भा भङ्गुरा भवहेतवः ।
अचिरेण विकारिण्यो भीषणा भोगभूमयः ॥ ८ ॥

मानावमानपरया दुरहङ्कारकान्तया ।
न रमे वामया तात हतविद्याधरश्रिया ॥ ९ ॥

ननु बहुतरपुण्यार्जितया विद्याधरसम्पदैव तव कुतो न विश्रान्तिस्तत्राह -
मानेति । मानः स्वोत्कर्षापादनाभिमानः अपमानः परापकर्षापादनम् तदेव
परं श्रेष्ठं यस्याम् । दुष्टः अहङ्कारो येषां तेषां कान्तया रम्यया । अत एव
वामया विवेकिनां प्रतिकूलया स्त्रिया च । तत्पक्षेऽपि विशेषणे योज्ये ॥ ९ ॥

दृष्टाश्चैत्ररथोद्यानभुवः कुसुमकोमलाः ।
कल्पवृक्षलतादत्तसमस्तविभवश्रियः ॥ १० ॥

सर्वत्र भुक्तभोगतया वैरस्यं प्रकटयति - दृष्टा इत्यादिना ॥ १० ॥

विहृतं मेरुकुञ्जेषु विद्याधरपुरेषु च ।
विमानवरमालासु वातस्कन्धस्थलीषु च ॥ ११ ॥

विश्रान्तं सुरसेनासु कान्ताभुजलतासु च ।
हारिहारविलासासु लोकपालपुरीषु च ॥ १२ ॥

हारादिभूषितानां हारा विलासा विहारचमत्कारा यासु ॥ १२ ॥

न किञ्चिदुचितं साधु सर्वमाधिविषोष्मणा ।
दग्धं भस्मायते तात विज्ञातमधुना मया ॥ १३ ॥

आधयो मानसदुःखानि तद्विषोष्मणा दग्धम् । अधुना विवेकोदयकाले विज्ञातं न
प्राक् ॥ १३ ॥

रूपालोकनलोलेन वनिताननगृध्नुना ।
सावभासेन दोषाय दुःखं नीतोस्मि चक्षुषा ॥ १४ ॥

कीदृशेन विवेकेन किं किं कथं कथं ज्ञातं तत्प्रथमं चक्षुरादिषु
दर्शयति - रूपेत्यादिना । गृध्नुना अभिकाङ्क्षमाणेन । गृधेः त्रसिगृधि
इत्यादिना क्नुः । सावभासेन बाह्यान्तरप्रकाशसहकृतेन । दोषाय
स्वविषयासङ्गेन मनोदूषणाय ॥ १४ ॥

इदं गुणावहं नेदमिति मुक्त्वा विकल्पनम् ।
रूपमात्रानुसारित्वादवस्तुन्यपि धावति ॥ १५ ॥

वनितापिण्डे इदं वस्त्राभरणानुलेपनादिकमेव गुणावहं शोभाकल्पकम् इदं
रक्तमांसास्थिकेशादि न इति विकल्पनं विवेचनं मुक्त्वा विना धावति चक्षुरिति शेषः
॥ १५ ॥

तावदायाति विरतिं न वशं यावदापदाम् ।
नानाबन्धपरं चेतः परानर्थेहितोन्मुखम् ॥ १६ ॥

तद्विषयासङ्गदूषितं रागान्धं चेतः प्रदीपरूपरागान्धपतङ्गवत् परस्मै
उत्कृष्टाय मरणाद्यनर्थाय यानि ईहितानि दुर्व्यसनानि तदुन्मुखं सत्
नानाविधानां बन्धानां वधबन्धनरकाद्यापदां वशं यावदायाति
तावद्विरतिमुपरमं नायातीत्यर्थः ॥ १६ ॥

घ्राणमेतदनर्थाय धावच्चैवाभितः स्फुटम् ।
न निवारयितुं तात शक्नोमीह हयं यथा ॥ १७ ॥

चक्षुष्युक्तं दोषं घ्राणादिष्वपि दर्शयति - घ्राणमिति ॥ १७ ॥

गन्धोदकप्रणालेन मुखश्वासानुपातिना ।
वैरिणेवातिदोषेण घ्राणेनास्मि नियोजितः ॥ १८ ॥

यथा कश्चिदतिदोषेण वैरिणा बलाद्वशीकृतो दुर्गन्धोदकवहे नगरप्रणाले सदा
सञ्चरेति नियोजितो भवति तद्वदहमपि श्लेष्मादिदुर्गन्धोदकप्रणाले नासाबिले नियोजित
इत्यर्थः ॥ १८ ॥

चिरं रसनया चाहमनया नयहीनया ।
गजगोमायुगुप्तेषु दुःखाद्रिष्वलमाहतः ॥ १९ ॥

नयो भक्ष्याभक्ष्यविभागपरं शास्त्रं तद्धीनया ।
कृमिकीटपश्वादियोनिलक्षणेषु दुःखाद्रिषु । सुरापाः कृमयो
भवन्त्यभक्ष्यभक्षिणश्च इत्यादिस्मृतेरिति भावः । यत्र बलवतां गजो
बुद्धिमतां गोमायुश्च श्रेष्ठ इति तयोरेव गोप्तृताप्रसक्तिर्नान्यस्येति तथोक्तिः ॥ १९

निरोद्धुं न च शक्नोमि स्पर्शलम्पटतां त्वचः ।
ग्रीष्मकालसमिद्धस्य तापमंशुमतो यथा ॥ २० ॥

शुभशब्दरसार्थिन्यो मुनेः श्रवणशक्तयः ।
मां योजयन्ति विषमे तृणेच्छा हरिणं यथा ॥ २१ ॥

शब्दरसः शब्दास्वादनम् । हरिणपक्षे विषमे तृणावृतकूपे ॥ २१ ॥

प्रणताः प्रियकारिण्यः प्रह्वभृत्यसमीरिताः ।
वाद्यगेयरवोन्मिश्राः शुभशब्दश्रियः श्रुताः ॥ २२ ॥

तर्हि किं तव रूपादयः शब्दान्ता विषया दुर्लभा येन तदर्थमनर्थः प्राप्तो
नेत्याह - प्रणता इत्यादिना । प्रह्वभृत्यजनेरितत्वादेव प्रणतप्रायाः ॥ २२ ॥

श्रियः स्त्रियो दिशश्चैव तटाश्चाम्भोधिभूभृताम् ।
दृष्टा विभवहारिण्यः प्रक्वणन्मणिभूषणाः ॥ २३ ॥

विशेषणे श्र्यादिचतुष्टये साधारणे योज्ये ॥ २३ ॥

चिरमास्वादिताः स्वादु चमत्कारमनोरमाः ।
प्रह्वकान्ताजनानीताः षड्रसा गुणशालिनः ॥ २४ ॥

षड्रससौगन्ध्यानां यथायोग्यं मेलनपाकचातुरीगुणशालिनः ॥ २४ ॥

कौशेयकामिनीहारकुसुमास्तरणानिलाः ।
निर्विघ्नमभितः स्पृष्टा भृशमाभोगभूमिषु ॥ २५ ॥

कौशेयादयः षट् त्वग्विषयाः ॥ २५ ॥

वधूमुखौषधीपुष्पसमालम्भनभूमयः ।
अनुभूता मुने गन्धा मन्दानिलसमीरिताः ॥ २६ ॥

वधूमुखानि ओषध्यश्चन्दनोशीरागर्वादयः पुष्पाणि समालम्भनं
कर्पूरकस्तूरीपौष्कलकादीनां मेलनं तद्भूमयस्तत्प्रभवाः ॥ २६ ॥

श्रुतं स्पृष्टं तथा दृष्टं भुक्तं घ्रातं पुनः पुनः ।
संशुष्कविरसं भूयः किं भजामि वदाशु मे ॥ २७ ॥

भूयोभूयः सेव्यमानं संशुष्कं काष्ठमिव विरसं सम्पन्नं तत्र
वान्ताशनप्राये जाते किं भजामि ॥ २७ ॥

भुक्त्वा वर्षसहस्राणि दुर्भोगपटलीमिमाम् ।
आब्रह्मस्तम्बपर्यन्तं न तृप्तिरुपजायते ॥ २८ ॥

वैरस्येनैव तज्जिहासा न तु तृप्त्येत्याह - भुक्त्वेति ॥ २८ ॥

साम्राज्यं सुचिरं कृत्वा तथा भुक्त्वा वधूगणम् ।
भङ्क्त्वा परबलान्युच्चैः किमपूर्वमवाप्यते ॥ २९ ॥

किमवाप्यते । न किञ्चिदित्यर्थः ॥ २९ ॥

येषां विनाशनं नासीद्यैर्भुक्तं भुवनत्रयम् ।
तेऽपि तेऽप्यचिरेणैव समं भस्मपदं गताः ॥ ३० ॥

येषां हिरण्यकशिपुप्रभृतीनां विनाशनं विनाशसाधनं नासीत्
प्राग्जगत्यप्रसिद्धम् । न शुष्केण न चार्द्रेण इत्यादिवरप्रार्थने
सर्वप्रसिद्धवधसाधनप्रतिषेधादिति भावः ॥ ३० ॥

प्राप्तेन येन नो भूयः प्राप्तव्यमवशिष्यते ।
तत्प्राप्तौ यत्नमातिष्ठेत्कष्टयापि हि चेष्टया ॥ ३१ ॥

इत्थं सति किं कार्यं तदाह - प्राप्तेनेति । कष्टया
इन्द्रियप्राणमनःसंयमादिश्रमसाध्ययापि चेष्टया ॥ ३१ ॥

येन कान्ताश्चिरं भुक्ता भोगास्तस्येह जन्तुभिः ।
दृष्टो न कस्यचिन्मूर्ध्नि तरुर्व्योमप्लवश्च वा ॥ ३२ ॥

चिरभुक्तमहाभोगानामपि पुंसां भोगकाले अपगते अभुक्तभोगेभ्यः
पुरुषान्तरेभ्यो न कश्चिद्विशेषो दृश्यत इत्याह - येनेति । येन येन चिरं कान्ता
रम्यतरा भोगाश्चिरं भुक्तास्तादृशस्य पुंसो मध्ये कस्यचिदपि मूर्ध्निं
सञ्जातः कल्पतरुः कैश्चिदपि जन्तुभिर्न दृष्टो येन स तच्छायायां सदैव
पूर्णकामो विश्राम्येत् । नापि तस्य गुदे व्योमप्लवो विमानादिः सञ्जातो दृष्टो येन स
सदैव सर्वत्र विहरेदित्यर्थः ॥ ३२ ॥

चिरमासु दुरन्तासु विषयारण्यराजिषु ।
इन्द्रियैर्विप्रलब्धोऽस्मि धूर्तबालैरिवार्भकः ॥ ३३ ॥

अर्भकः । साधुरिति शेषः ॥ ३३ ॥

अद्य त्वेते परिज्ञाता मया स्वविषयारयः ।
कष्टा इन्द्रियनामानो वञ्चयित्वा तु मां पुनः ॥ ३४ ॥

शब्दादिविषयात्मकानां भूतानामेव मनसो बहिराकर्षणेन स्वस्वभोगाय
श्रोत्रादीन्द्रियभावेनावस्थानादिन्द्रियनामानः स्वविषयारयो मया अद्य परिज्ञाता
इत्यन्वयः ॥ ३४ ॥

संसारजङ्गले शून्ये दग्धं नरमृगं शठाः ।
आश्वास्याश्वास्य निघ्नन्ति विषयेन्द्रियलुब्धकाः ॥ ३५ ॥

विषमाशीविषैरेभिर्विषयेन्द्रियपन्नगैः ।
येन दग्धा न दृष्टास्ते द्वित्रा एव जगत्यपि ॥ ३६ ॥

आशीविषैर्दृष्टिविषैः । येन दृष्टा न दग्धाश्च ते तथाविधाः पुरुषाः
सर्वजगत्यपि द्वित्रा एव सम्भाव्यन्त इति शेषः ॥ ३६ ॥

भोगभीमेभवलितां तृष्णातरलवागुराम् ।
लोभोग्रकरवालाढ्यां कोपकुन्तकुलाङ्किताम् ॥ ३७ ॥

अवश्यजेतव्यताप्रदर्शनायेन्द्रियाण्येव शत्रुसेनात्वेन रूपयति - भोगेत्यादि
त्रिभिः । भोगा एव भिमा इभा गजास्तैर्वलिताम् ॥ ३७ ॥

द्वन्द्वजालरथव्याप्तामहङ्कारानुपालिताम् ।
चेष्टातुरङ्गमाकीर्णां कामकोलाहलाकुलाम् ॥ ३८ ॥

द्वन्द्वानि शीतोष्णादीनि । अहङ्कारेण सेनापतिना अनुपालिताम् ॥ ३८ ॥

शरीरसीमान्तगतां दुरिन्द्रियपताकिनीम् ।
ये जेतुमुत्थितास्तात त एवेह हि सद्भटाः ॥ ३९ ॥

शरीरलक्षणस्य नगरस्य सीमान्तेषु गतामाक्रम्य स्थिताम् ॥ ३९ ॥

सुसाध्यः करटोद्भेदो मत्तैरावणदन्तिनः ।
नोत्पथप्रतिपन्नानां स्वेन्द्रियाणां विनिग्रहः ॥ ४० ॥

मत्तस्यैरावणदन्तिन ऐरावतस्य । करटस्य कुम्भस्योद्भेदो विदारणम् ॥ ४० ॥

पौरुषस्य महत्त्वस्य सत्त्वस्य महतः श्रियः ।
इन्द्रियाक्रमणं साधो सीमान्तो महतामपि ॥ ४१ ॥

सत्त्वस्य धैर्यस्य । श्रियो विश्रान्तिसम्पदः । इन्द्रियाणामाक्रमणं जयः ।
सीमान्तोऽवधिः । पराकाष्ठेति यावत् । महतां तत्त्वविदामपि ॥ ४१ ॥

तावदुत्तमतामेति पुमानपि दिवौकसाम् ।
कृपणैरिन्द्रियैर्यावत्तृणवन्नापकृष्यते ॥ ४२ ॥

उत्तमतां मान्यताम् ॥ ४२ ॥

जितेन्द्रिया महासत्त्वा ये त एव नरा भुवि ।
शेषानहमिमान्मन्ये मांसयन्त्रगणांश्चलान् ॥ ४३ ॥

मनःसेनापतेः सेनामिमामिन्द्रियपञ्चकम् ।
जेतुं चेदस्ति मे यत्नो जयामि तदलं मुने ॥ ४४ ॥

यत्न उपायश्चेदस्ति तत् तर्हि जयामि ॥ ४४ ॥

इन्द्रियोत्तमरोगाणां भोगाशावर्जनादृते ।
नौषधानि न तीर्थानि न च मन्त्राश्च शान्तये ॥ ४५ ॥

एक एवोपायो मया ज्ञातोऽस्तीत्याह - इन्द्रियेति ॥ ४५ ॥

नीतोऽस्मि परमं खेदमभिधावद्भिरिन्द्रियैः ।
एक एव महारण्ये तस्करैः पथिको यथा ॥ ४६ ॥

पङ्कवन्त्यप्रसन्नानि महादौर्भाग्यवन्ति च ।
गन्धिशैवलतुच्छानि पल्वलानीन्द्रियाणि च ॥ ४७ ॥

इतः प्रभृति तुल्यैर्विशेषणैः पल्वलादिसाम्येनेन्द्रियाणि वर्णयति -
पङ्कवन्तीत्यादिना । गन्धिभिः शैवलतुल्यैर्मालिन्यैः तुच्छानि कुत्सितानि ॥ ४७ ॥

दुरतिक्रमणीयानि नीहारगहनानि च ।
जनितातङ्कजालानि जङ्गलानीन्द्रियाणि च ॥ ४८ ॥

नीहारैर्जाड्यैर्हिमैश्च गहनानि । आतङ्को भयम् ॥ ४८ ॥

पङ्कजानि सरन्ध्राणि सुदुर्लक्ष्यगुणानि च ।
ग्रन्थिमन्ति जडाङ्गानि मृणालानीन्द्रियाणि च ॥ ४९ ॥

पङ्कान्मलाज्जातानि गुणा वासनास्तन्तवश्च सूक्ष्मतमत्वात्सुदुर्लक्ष्याः ।
जडाङ्गानि जडदेहावयवप्रायाणि । लडयोरभेदाज्जलाङ्गानि च ॥ ४९ ॥

रूक्षाणि रत्नलुब्धानि कल्लोलवलितानि च ।
दुर्ग्रहग्राहघोराणि क्षाराम्बूनीन्द्रियाणि च ॥ ५० ॥

निष्ठुरत्वादसुखस्पर्शत्वाच्च रूक्षाणि । कल्लोलैः षडूर्मिभिरूर्मिभिश्च ।
क्षाराम्बूनि समुद्रजलानि ॥ ५० ॥

बान्धवोद्वेगदायीनि देहान्तरकराणि च ।
करुणाक्रन्दकारीणि मरणानीन्द्रियाणि च ॥ ५१ ॥

अविवेकिष्वमित्राणि मित्राणि च विवेकिषु ।
गहनानन्तशून्यानि काननानीन्द्रियाणि च ॥ ५२ ॥

गहनानि दुरवगाहानि । अनन्तानि निरवधीनि । जनविश्रान्तिशून्यानि च ॥ ५२ ॥

घनास्फोटान्यसाराणि मलिनानि जडानि च ।
विद्युत्प्रकाशान्येतानि भीमाभ्राणीन्द्रियाणि च ॥ ५३ ॥

घना आस्फोटा भुजास्फालनगर्जनशब्दा येभ्यः । विद्युदिव क्षणसुखप्रकाशानि ।
पक्षान्तरे स्पष्टम् ॥ ५३ ॥

क्षुद्रप्राणिगृहीतानि वर्जितानि कृतात्मभिः ।
रजस्तमोभिभूतानि स्वेन्द्रियाण्यवटानि च ॥ ५४ ॥

क्षुद्रैस्तुच्छसुखासक्तैः कीटादिभिश्च परिगृहीतानि । अवटानि गर्तोत्करस्थलानि ॥ ५४

पातनैकान्तदक्षाणि दोषाशीविषवन्ति च ।
रूक्षकण्टकलक्षाणि श्वभ्राग्राणीन्द्रियाणि च ॥ ५५ ॥

श्वभ्राग्राणि जीर्णश्वभ्रमुखानि ॥ ५५ ॥

आत्मम्भरीण्यनार्याणि साहसैकरतानि च ।
अन्धकारविहारीणि रक्षांसि स्वेन्द्रियाणि च ॥ ५६ ॥

अन्तःशून्यान्यसाराणि वक्राणि ग्रन्थिमन्ति च ।
दहनैकार्थयोग्यानि दुर्दारूणीन्द्रियाणि च ॥ ५७ ॥

दुर्दारूणि जीर्णवंशादिकाष्ठानि ॥ ५७ ॥

घनमोहप्रबन्धीनि दुष्कूपगहनानि च ।
महावकरतुच्छानि कुपुराणीन्द्रियाणि च ॥ ५८ ॥

घनैर्मोहैश्चौर्यकलहद्यूतादिदुर्व्यसनप्रबन्धनशीलानि । कुपुराणि
असज्जननगराणि ॥ ५८ ॥

अनन्तेषु पदार्थेषु कारणानि घटादिषु ।
सम्भ्रमाणि सपङ्कानि चक्रकाणीन्द्रियाणि च ॥ ५९ ॥

चक्रकाणि कुलालचक्राणि ॥ ५९ ॥

आपन्निमग्नमिममेवमकिञ्चनं त्वं मामुद्धरोद्धरणशील दयोदयेन ।
ये नाम केचन जगत्सु जयन्ति सन्तस्तत्सङ्गमं परमशोकहरं वदन्ति ॥ ६० ॥

हे आपन्नोद्धरणशील एवं वर्णितप्रकारेन्द्रियप्रयुक्तापत्सागरनिमग्नमकिञ्चनं
त्यक्तसर्वस्वमिमं शरणागतं मां दयोदयेन कृपोत्थेन तत्त्वोपदेशेनोद्धर
यतः कारणाज्जगति ये ये प्रसिद्धास्त्वादृशाः केचन सन्तस्तत्त्वज्ञा दयालवो जयन्ति
सर्वोत्कर्षेण वर्तन्ते तेषां सङ्गमं शरणागतिं परमशोकहरं वदन्ति
सर्वशास्त्राणि सर्वजनाश्चेत्यर्थः ॥ ६० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ०
विद्याधरोपाख्याने वैराग्यवर्णनं नाम षष्ठः सर्गः ॥ ६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
वैराग्यवर्णनं नाम षष्ठः सर्गः ॥ ६ ॥

सप्तमः सर्गः

भुशुण्ड उवाच ।

ततस्तस्य मया ब्रह्मंस्तच्छ्रुत्वा पावनं वचः ।
इदमुक्तं यथापृष्टं सुस्पष्टपदया गिरा ॥ १ ॥

ब्रह्मैव न जगद्दुःखमज्ञानं जगदाततम् ।
अहम्बीजात्प्ररूढो हि जगद्वृक्षोऽत्र व्र्ण्यते ॥

तस्य विद्याधरस्य । इदं वक्ष्यमाणमुत्तरम् ॥ १ ॥

साधु विद्याधराधीश दिष्ट्या बुद्धोऽसि भूतये ।
भवान्धकूपकुहराच्चिरेणोत्थानमिच्छसि ॥ २ ॥

दिष्ट्या भाग्योदयात् ॥ २ ॥

पावनीयं तव मती राजते घनरूपिणी ।
विवेकेनानलेनेव कनकद्रवसन्ततिः ॥ ३ ॥

विवेकेन घनरूपिणी निबिडं व्याप्ता । यथा अनलेन व्याप्ता कनकद्रवसन्ततिः
कान्त्यतिशयेन विराजते तद्वदित्यर्थः ॥ ३ ॥

उपदेशगिरामर्थमादत्ते हारिहेलया ।
मुकुरे निर्मले द्रव्यमयत्नेनैव बिम्बति ॥ ४ ॥

अत एव ते मतिर्मदुपदेशगिरामर्थमादत्ते अवश्यमादास्यति । हेलया अप्रयत्नेन ॥ ४ ॥

यदिदं वच्मि तत्सर्वमोमित्यादातुमर्हसि ।
अस्माभिश्चिरमन्विष्टं नात्र कार्या विचारणा ॥ ५ ॥

ओमिति अङ्गीकारबुद्ध्या ॥ ५ ॥

यत्किञ्चित्स्वदतेऽन्तस्ते बुध्यस्वाबोधमुत्सृजन् ।
नासि त्वं चिरमप्यन्तः प्रेक्षितोऽपि न लभ्यसे ॥ ६ ॥

तत्रादौ सर्वदृश्यविवेके साक्षिस्वरूपमेव शुद्धं ब्रह्मेति सर्ववेदान्तरहस्यन्न्
सङ्क्षिप्योपदिशति - यत्किञ्चिदिति । यत्किञ्चिदहङ्कारादि ते अन्तर्हृदि स्वदते
दृश्यतया प्रथते तत्सर्वं त्वं नासि । दृश्यवर्गेष्वेव कश्चिदात्मास्ति स
मयान्विष्य लब्धव्य इति चिरमप्यन्तः प्रेक्षितोऽन्विष्टस्त्वमात्मान लभ्यसे । अतो
दृश्यमात्रलक्षणमबोधमुत्सृजन् संस्तत्साक्षिणमात्मानं बुध्यस्वेत्यर्थः ॥
६ ॥

नाहन्त्वमस्ति न जगदिति निश्चयिनस्तव ।
सर्वमस्ति शिवं तच्च न दुःखाय सुखाय ते ॥ ७ ॥

न हि द्रष्ट्टदृश्यलक्षणसर्वदृश्यत्यागे शून्यतापत्तिः किन्तु
सुखदुःखवैषम्यप्रयोजककल्पितदोषांशनिवृत्त्या
वास्तवपरमकल्याणब्रह्मभावेन पूर्णतया सर्वमस्त्येवेत्याशयेनाह -
नाहमिति ॥ ७ ॥

किमज्ञत्वाज्जगज्जातं जगतोऽथ किमज्ञता ।
विचार्यापीति नो विद्म एकत्वादलमेतयोः ॥ ८ ॥

दृश्यमात्रस्य अबोधरूपत्वमुक्तमुपपादयति - किमिति । किं सुषुप्तौ
प्रसिद्धादज्ञानादहङ्कारादिभावेन घनीभूताज्जाग्रत्स्वप्नलक्षणं
जगज्जातमथवा जतुकाठिन्यादिव विलीनाज्जाग्रदादिलक्षणाज्जगतः सौषुप्ती अज्ञता
जाता इति विचार्यापि विनिगमकाभावात्कार्यकारणभावव्यवस्थां नो विद्मः । अतः
काठिन्यद्रवावस्थयोर्घृतस्येवैकत्वात्सर्वस्याज्ञानमात्रत्वमित्यर्थः ॥ ८ ॥

मृगतृष्णाम्बुवद्विश्वमवस्तुत्वात्सदप्यसत् ।
यच्चेदं भाति तद्ब्रह्म न किञ्चित्किञ्चिदेव वा ॥ ९ ॥

तस्य विवर्ततादर्शनमेव त्यागः बाधितस्य जगतस्तुच्छताविभावने न किञ्चिद्ब्रह्म
अधिष्ठानरूपतापत्तिविभावने तु सर्वमेव ब्रह्मेत्याह - मृगतृष्णेति ॥ ९ ॥

मृगतृष्णाम्बुवद्विश्वं नास्ति त्वमथवास्ति च ।
प्रतिभासोऽपि नास्त्यत्र तदभावादतः शिवम् ॥ १० ॥

उक्तमाशयं विशदयंस्तत्प्रतिभासमपि निराचष्टे - मृगतृष्णेति ।
तदभावात्प्रतिभास्याभावात् । न हि घटाभावे प्रकाशसत्त्वेऽपि
घटप्रकाशशब्दार्थोऽस्तीति भावः ॥ १० ॥

विश्वबीजमहन्त्वं त्वं विद्धि तस्माद्धि जायते ।
साद्र्यब्ध्युर्वीनदीशादिजगज्जरठपादपः ॥ ११ ॥

अनन्तरूपस्य जगतः प्रातिस्विकरूपेण निरसितुमशक्यत्वाद्बीजदाहेनैव निरास इति
वक्तुमहङ्कारं बीजत्वेन जगत्तत्प्रभवतरुत्वेन वर्णयति - विश्वेत्यादिना ॥ ११ ॥

अहन्त्वबीजादणुतो जायतेऽसौ जगद्द्रुमः ।
तस्येन्द्रियरसाढ्यानि मूलानि भुवनानि हि ॥ १२ ॥

इन्द्रियरसो विषयासङ्गस्तदाढ्यानि अधोभुवनानि तस्य द्रुमस्य मूलानि ॥ १२ ॥

तारकाजालकलिका ऋक्षौघः कोरकोत्करः ।
वासनागुच्छविसराः पूर्णचन्द्रः फलालयः ॥ १३ ॥

अश्विन्यादिसप्तविंशतितारकाजालं तस्य प्रधानकलिका । तदन्यऋक्षौघः
सूक्ष्मकोरकोत्करः । प्राणिनां धर्मादिवासनाः पुष्पगुच्छसमूहाः । फलालयः
फलगुच्छाः ॥ १३ ॥

स्वर्गादयो बृहद्वर्गा महाविटपकोटराः ।
मेरुमन्दरसह्यादिगिरयः पत्रराजयः ॥ १४ ॥

स्वर्गादयः स्वर्महर्जनतपःसत्यलोकाख्या बृहतां लोकानां वर्गा महान्तो
विटपकोटराः शाखावलयगर्भदेशाः ॥ १४ ॥

सप्ताब्धयोऽग्रसुतयः पातालं मूलकोटरम् ।
युगानि घुणवृन्दानि पर्वाणि गुणपङ्क्तयः ॥ १५ ॥

अग्रसुतयः आलवालपरिखाः । युगानि कृतादीन्युत्तरोत्तरं
धर्मपिष्टक्षरणाद्घ्रुणवृन्दानि । तत्तद्युगवत्सरायनर्तुमासादिगुणपङ्तयो
वृक्षय शाखामूलाद्युद्भवपर्वाणि [उद्भेदपर्वाणि इति पाठः ।] ॥ १५ ॥

अज्ञानमुत्पत्तिमही नरा विहगकोटयः ।
उपलम्भो बृहत्स्तम्भो दवो निर्वाणनिर्वृतिः ॥ १६ ॥

नरा जीवाः । उपलम्भो भ्रान्तिज्ञानमेव बृह स्तम्भः
सर्वविटपाधारमध्यभागः । तस्य तत्त्वबोधान्निर्वाणं निर्वृतिरेव दवो
वनहुताशनः ॥ १६ ॥

रूपालोकमनस्कारा विविधामोदवृत्तयः ।
वनन्न् विपुलमाकाशं शुक्तिजालं मुखत्वचः ॥ १७ ॥

इन्द्रियैरर्थोपलम्भा रूपालोकाः मनसा तद्गोचरसङ्कल्पविकल्पा मनस्काराश्च तस्य
द्रुमस्य विविधा आमोदवृत्तयः सुगन्धप्रसराः । आकाशमव्याकृताकाशं तस्य
विपुलं वनम् । मुखत्वचो नेत्रपुटानि उत्तराधरोष्ठाश्च
नेत्रहास्यमुक्तोद्भेदशुक्तिजालमिव पुष्पोद्भेदनम् । प्रसवबन्धनमिति यावत् ॥ १७ ॥

विचित्रशाखा ऋतव उपशाखा दिशो दश ।
संविद्रसमहापूरो वातस्पन्दो निवर्तनः ॥ १८ ॥

तस्यात्मसंविदेव जीवनहेतू रसप्रवाहः । सूर्यचन्द्राग्न्यादीनां संवर्गेण
निवर्तनः सूत्रात्मैव तस्य वातस्पन्दः ॥ १८ ॥

चन्द्रार्करुचयो लोला मज्जनोन्मज्जनोन्मुखाः ।
रम्याः कुसुममञ्जर्यस्तिमिरं भ्रमरभ्रमः ॥ १९ ॥

मज्जनोन्मज्जने प्रत्यहमुदयास्तमयौ तदुन्मुखाश्चन्द्रार्करुचयस्तस्य रम्याः
कुसुममञ्जर्यः । सूर्येण सह भ्रमत्तिमिरमन्धकार एव भ्रमराणां
भ्रमणं भ्रमरभ्रमः । भ्रमन्तो भ्रमरा इति यावत् ॥ १९ ॥

पातालमाशागणमन्तरिक्षमापूर्य तिष्ठत्यसदेव सद्वत् ।
तस्यानहन्ताग्निहतेऽहमर्थबीजे पुनर्नास्ति सतोऽपि रोहः ॥ २० ॥

ईदृशोऽयं संसारवृक्षः पातालं मूलतो मध्यत आशागणं
दिक्समूहमग्रतोऽन्तरिक्षं चापूर्य वस्तुतोऽसदेव भ्रान्तिरूपं सद्वतिष्ठति । तस्य
अहमर्थरूपे बीजे अनहन्तालक्षणेनाग्निना हते भर्जिते सति जीवन्मुक्तिभोगाय
यावत्तद्देहपातं प्रतिभासमात्रेण सतोऽप्यस्य संसारवृक्षस्य पुनर्जन्मादिना
रोहः प्ररोहो नास्तीत्यर्थः ॥ २० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो निर्वाणप्रकरणे उत्त०
विद्याधरोपाख्याने जगद्वृक्षबीजवर्णनं नाम सप्तमः सर्गः ॥ ७ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगद्वृक्षबीजवर्णनं नाम सप्तमह् सर्गः ॥ ७ ॥