पञ्चमः सर्गः ५
श्रीवसिष्ठ उवाच ।
स्वभावं स्वं विजित्यादाविन्द्रियाणां सचेतसाम् ।
प्रवर्तते विवेके यः सर्वं तस्याशु सिध्यति ॥ १ ॥
शास्त्रं जितेन्द्रियेष्वेव सफलं नेतरेष्विति ।
वसिष्ठेन भुशुण्डोक्ता विद्याधरकथोच्यते ॥
सचेतसां समनस्कानामिन्द्रियाणां स्वं विषयानुधावनलक्षणं स्वभावमादौ
विजित्य पश्चाद्यो नित्यानित्यवस्तुविवेकादिसाधने प्रवर्तते तस्यैव सर्वं
शास्त्राचार्योपदेशफलं प्रसिद्ध्यति नान्यस्येत्यर्थः ॥ १ ॥
स्वभावमात्रं येनान्तर्न जितं दग्धबुद्धिना ।
तस्योत्तमपदप्रप्तिः सिकतातैलदुर्लभा ॥ २ ॥
सिकतानिष्पीडनश्रम इव चिराभ्यस्तोऽपि श्रवणदिर्निष्फल इत्यर्थः ॥ २ ॥
शुद्धेऽल्पोऽप्युपदेशो हि निर्मले तैलबिन्दुवत् ।
लगत्युत्तानचित्तेषु नादर्श इव मौक्तिकम् ॥ ३ ॥
निर्मले वस्त्रादौ तैलबिन्दुवल्लगति अन्तर्निविशते । उत्तानमगम्भीरं
साधनचतुष्टयरिक्तं चित्तं येषां तेषु ॥ ३ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
मम पूर्वं भुशुण्डेन कथितं मेरुमूर्धनि ॥ ४ ॥
पुरा भुशुण्डः कस्मिंश्चित्पृष्ट आसीत्कथान्तरे ।
मया कदाचिदेकान्ते मेरोः शिखरकोटरे ॥ ५ ॥
कथान्तरे अध्यात्मकथाप्रस्तावे ॥ ५ ॥
मुग्धबुद्धिमनात्मज्ञं कं त्वं सुचिरजीवितम् ।
स्मरसीति मया पृष्टेनोक्तं तेनेदमङ्ग मे ॥ ६ ॥
मुग्धबुद्धिरज्ञोऽवश्यमजितेन्द्रियो वृथाश्रमश्च भविष्यतीति तादृशस्यैव
प्रश्नः ॥ ६ ॥
भुशुण्ड उवाच ।
आसीद्विद्याधरः पूर्वमनात्मज्ञः सुखेदितः ।
लोकालोकान्तरशृङ्गे शुष्क आर्यो विचारवान् ॥ ७ ॥
सुष्ठु हेदितः अजितैरिन्द्रियैः खेदं प्रापितः । अत एव शुष्को विश्रान्तिरसहीनः । तपसा
नियमेन यमेन च शुष्क इति परेणान्वयो वा । आर्यः
आयुर्वृद्धिहेतुसदाचारसम्पन्नः ॥ ७ ॥
तपसा बहुरूपेण यमेन नियमेन च ।
अक्षीणायुरतिष्ठत्स पुरा कल्पचतुष्टयम् ॥ ८ ॥
ततश्चतुर्थे कल्पान्ते विवेकस्तस्य चोदभूत् ।
विदूरस्येव वैदूर्यमौचित्याज्जलदोदयात् ॥ ९ ॥
औचित्याच्चिराभ्यस्ततपोनियमादेर्विवेकोदयावश्यम्भावात् । यथा विदूरभूविशेषस्य
जलदोदयाद्वैदूर्यं रत्नमुद्भवति तद्वत् ॥ ९ ॥
पुनर्मृतिः पुनर्जन्म जरा मेति विभावयन् ।
लज्जेऽहं तत्किमेकं स्यात्स्थिरमित्यवमृश्य सः ॥ १० ॥
विवेकस्वरूपमेव दर्शयति - पुनरिति । जरा मा मा भूत् इति विभावयन् लज्जे ।
निर्विण्ण इति यावत् ॥ १० ॥
मामाजगाम सम्प्रष्टुमष्टादशमयीं पुरीम् ।
स्वामुपोह्य विरक्तात्मा संसारारसतां गतः ॥ ११ ॥
पञ्च प्राणा दशेन्द्रियाणि मनोबुद्धी द्वे स्थूलदेहश्चेत्यष्टादशमयीं स्वां
पुरीम् । उपोह्य चिरं वोढ्वा श्रान्तः विरक्त आत्मा मनो यस्य ॥ ११ ॥
स मत्समीपमागस्य कृतोदारनमस्कृतिः ।
मत्पूजितोऽवसरत उवाचेदमनिन्दितम् ॥ १२ ॥
अवसरतः प्रश्नावसरं प्रश्नावसरं प्राप्येत्यर्थः ॥ १२ ॥
विद्याधर उवाच ।
मृदूनि परितापीनि दृषद्वृढबलानि च ।
छेदे भेदे च दक्षाणि स्वशस्त्राणीन्द्रियाणि च ॥ १३ ॥
तत्र स्वखेदहेतूनिन्द्रियादिदोषान्विस्तरेणोत्तरत्र वर्णयिष्यन्नुपक्रमते -
मृदूनीति द्वाभ्याम् । स्वस्वविषयेषु शीघ्रानुप्रवेशित्वान्मृदूनि
प्रवेशोत्तरकालं परितापीनि ततश्चालयितुमशक्यत्वाद्दृषद्भ्योऽपि दृढबलानि
स्वशरीरानुप्रविष्टशरादिशस्त्राणीन्द्रियाणि च तुल्यानीत्यर्थः ॥ १३ ॥
पर्याकुलानि मलिनानि विपत्प्रदानि दुःखोर्मिमन्ति गुणकाननपावकत्वात् ।
हार्दान्धकारगहनानि तमोमयानि जित्वेन्द्रियाणि सुखमेति च किं ममार्थैः ॥
१४ ॥
इमानीन्द्रियाणि हार्दानि हृदि रूढान्यन्धकारगहनानि सान्धकारारण्यानि ।
कामादिमर्कटैः पर्याकुलानि । प्राणमनोदेहहृदयेष्वशनायादिषडूर्मिमन्ति ।
दैवात्क्वचिदङ्कुरितस्य शमदमादिगुणकाननस्य
पावकत्वाद्दाहकत्वादूर्मिमत्त्वेपि न शीतलानि । ईदृशानीन्द्रियाणि
चकारात्तदुपाश्रयं मनश्च जित्वा सुखमेति न भोगैः । अतो मम
वैद्याधरभोगलक्षणैरर्थैः किं प्रयोजनम् । तद्विरक्तो जिज्ञासुः
शरणागतोऽस्मीत्यर्थः ॥ १४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ०
विद्याधरोपाख्याने विद्याधरपश्नो नाम पञ्चमः सर्गः ॥ ५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विद्याधरप्रश्नो नाम पञ्चमः सर्गः ॥ ५ ॥
प्द्फ़् १६२, प्। १०८०