००४

चतुर्थः सर्गः ४

श्रीवसिष्ठ उवाच ।

साहन्तादिजगच्छान्तौ बोधे संवित्कलात्मनि ।
संशान्तदीपसङ्काशस्त्यागः सिद्ध्यति नान्यथा ॥ १ ॥

ईहाहन्तैव संसारमूलमित्युपवर्ण्यते ।
तत्त्यागश्चानहम्भावभावनादात्मबोधतः ॥

दृगात्मनः सर्वदृश्यत्यागो हि मोक्षः स च स्नेहक्षये
दीपनिर्वाणवत्तत्त्वबोधेन सर्वदृश्यमूलाज्ञानबाधे सिद्ध्यति नान्यथेत्याह ##-

न त्यागः कर्मसन्त्यागो बोधस्त्याग इति स्मृतः ।
अजगत्प्रतिभैकात्मा योऽनहन्तादिरव्ययः ॥ २ ॥

न विद्यते जगत्प्रतिभा यस्मिंस्तथाविध एकात्मैव परिशिष्टो मुख्यः
सर्वत्यागलक्षणो मोक्ष इत्यर्थः ॥ २ ॥

अयं सोहमिदं तन्म इति निःस्नेहदीपवत् ।
शान्ते परमनिर्वाणे प्रबोधात्मेति शिष्यते ॥ ३ ॥

स पामरप्रसिद्धोऽयं देहादिर्दृश्यरूपा एवाहं तद्देहादिसम्बद्धं भोग्यं
जगन्मे इति एतस्मिंस्तादात्म्यसंसर्गाध्यासलक्षणे द्विविधे बन्धे
निःस्नेहदीपवत्समूलं शान्ते सति प्रकृष्टो बोधश्चैतन्यमेवात्मा इति परिशिष्यते
सएव निर्वाणमोक्ष इत्यर्थः ॥ ३ ॥

अयं सोहमिदं तन्मे शान्तमित्येव यस्य नो ।
न ज्ञानं तस्य नो शान्तिर्न त्यागो न च निर्वृतिः ॥ ४ ॥

उक्तमर्थं व्यतिरेकमुखेनापि द्रढयति - अयमिति ॥ ४ ॥

ममेदमयमेवाहमित्येतावति यः क्षयः ।
बोधात्मा शिवमाशान्तं तस्मादन्यन्न विद्यते ॥ ५ ॥

एतावति एतावतो यः क्षयः । षष्ठ्यर्थे सप्तमी । स बोधात्मैव ।
अध्यस्तबाधस्याधिष्ठानमात्रत्वादिति भावः ॥ ५ ॥

अहमंशे विदा क्षीणे सर्वमेव क्षयं गतम् ।
न किञ्चिच्च क्वचित्क्षीणं निर्वाणैकघनं स्थितम् ॥ ६ ॥

विदा तत्त्वबोधेन । सर्वं ममतास्पन्दं जगत् । सर्वनाशे सर्वस्वनाशभीरुं
समाधत्ते - न किञ्चिदिति । पारमार्थिकरूपेण सर्वं स्थितमेव ॥ ६ ॥

अहंविदनहंवित्त्वादेव शाम्यत्यविघ्नतः ।
एतावन्मात्रसाध्येयन्न् किमिवेयं कदर्थना ॥ ७ ॥

अहम्बुद्धिनाशेसुलभ उपायमाह - अहंविदिति ।
अनहंवित्त्वादनहम्भावभावनात् । अविघ्नत इति । नेदं रजतमितिबुद्ध्या
रजताध्यासबाधने विघ्नादर्शनादिति भावः । इयं मुक्तिः । इयमियती कदर्थना
बहुसाधनसम्पादनश्रान्तिः किमिव किमर्थमित्यर्थः ॥ ७ ॥

अहन्नाहमिति भ्रान्तिर्न च चित्त्वादृतेऽस्ति सा ।
चित्त्वं चाकाशविशदमतः क्वैषा [कैषा इत्यपि पाठः ।] भ्रमस्थितिः
॥ ८ ॥

नन्वनहम्बुद्धिरपि द्वैतत्वादहम्बुद्धिवदध्यास एव । सा केन शाम्यतीति
चेत्पङ्केन सह कतकरेणुरिव अहम्बुद्ध्या सह स्वत एव चिदात्मनि सा शाम्यतीति
सोपपत्तिकमाह - अहमिति । चित्त्वात्परमार्थचित्स्वभावात् । ऋते विना ॥ ८ ॥

न भ्रमो भ्रमणं नैव न भ्रान्तिर्भ्रामकोऽस्ति वा ।
अनालोकनमेवेदमालोकान्नेदमस्ति ते ॥ ९ ॥

भ्रमतत्साधनतत्फलतदाश्रयाणामज्ञानमात्रविलासत्वादज्ञाननिवृत्तौ न
पृथगवस्थानमस्तीत्याह - नेति । अनालोकनमज्ञानम् ॥ ९ ॥

विद्धि चिन्मात्रमेवेदमसद्रूपोपमं ततम् ।
तेनालं मौनमास्स्वैवं सर्वं निर्वाणमात्रकम् ॥ १० ॥

येनैवाशु निमेषेण त्वहमित्येव चेतति ।
तेनैव नाहमित्येव चेतित्वाशु न शोच्यते ॥ ११ ॥

यदा यदा अहम्भावोदयप्रसक्तिस्तदा तदा तुल्यकालमेव तद्विरुद्धा
अनहम्भावबुद्धिरुत्पाद्येत्याह - येनैवेति ॥ ११ ॥

अहम्भावं नभोर्थेन निर्वाच्यारूढबाणवत् ।
अजस्रमाशु वाऽक्षीणं तिष्ठावष्टब्धतत्पदः ॥ १२ ॥

एवमजस्रं सावधानमुपस्थापितेनानहम्भावेन अहम्भावमाशु नभोर्थेन
खपुष्पादिना तुल्यं निर्वाच्य निर्वचनार्हतां नीत्वा रणे शरासनारूढोऽर्जुनबाण
इव अपराङ्मुखः अवष्टब्धं दृढमालम्बितं तद्ब्रह्मपदं येन तथाविधः
सन्नक्षीणं शाश्वतं तिष्ठ ॥ १२ ॥

सनभोर्थामहन्तां त्वं चेतन्नेवमनारतम् ।
सर्वभावैरनारूढो भव तीर्णभवार्णवः ॥ १३ ॥

नभोर्थैः समानां सनभोर्थाम् । समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु इति
सः ॥ १३ ॥

स्वभावमात्रविजये स्वयं यस्य न वीरता ।
तस्योत्तमपदप्राप्तौ पशोर्ब्रूहि कथैव का ॥ १४ ॥

स्वभावः स्वाभाविकाज्ञानप्रयुक्तोऽहम्भावस्तन्मात्रविजये ॥ १४ ॥

षड्वर्गो निर्जितः पूर्वं येनोत्तमविदा स्वतः ।
भाजनं स महार्थानां नेतरो नरगर्दभः ॥ १५ ॥

कामाद्यरिषड्वर्गः ॥ १५ ॥

यस्य स्वान्तर्मनोवृत्तिर्जीयमाना जिताथवा ।
विषयः स विवेकानां स पुमानिति कथ्यते ॥ १६ ॥

मध्यमाधिकारिणो जीयमाना । उत्तमाधिकारिणो जिता । पुमान् पुरुषार्थसाधनेन
सफलीकृतपुञ्जन्मा ॥ १६ ॥

अर्थो दृषदिवाम्भोधौ यो य आपतति त्वयि ।
तस्मादेव पलायस्व नाहमित्येव भावयन् ॥ १७ ॥

अम्भोधौ प्रक्षिप्ता दृषदिवेति नाहमित्यसङ्गात्मभावनया तदसंस्पर्श एवात्र
पलायनम् ॥ १७ ॥

नाहमस्मीति [अस्तीति पाठः ।] बुद्ध्वापि सोपपत्तिकमप्यलम् ।
जानानो ज्ञप्तिमात्रं च किमज्ञ इव मुह्यसि ॥ १८ ॥

सोपपत्तिकं ज्ञप्तिरूपं कं सुखं जानानः अनुभवन्नपि किं मुह्यसि । न
मुह्यस्येवेत्यर्थः ॥ १८ ॥

न ज्ञेयमर्थतोऽस्तीह हेम्नीव कटकादिता ।
भ्रान्तिमात्रादृते सा च शाम्यत्यस्मरणेन ते ॥ १९ ॥

अर्थत उपपत्तितस्ते ज्ञेयं नास्ति वाचारम्भणन्यायाद्युपपत्तीनां त्वया
ज्ञातत्वादित्यर्थः ॥ १९ ॥

यो यो भाव उदेत्यन्तस्त्वयि स्पन्द इवानिले ।
नाहमस्मीति चिद्वृत्त्या तमनाधारतां नय ॥ २० ॥

अथवा किमुपपत्तिसहस्रैर्नाहमिति दर्शनमेकमेवाभ्यस्तं सर्वभ्रान्तिं
परिहरिष्यतीत्याह - यो य इति ॥ २० ॥

लोभो लज्जा मदो मोहो येनादाविति नो जिताः ।
निरर्थकमनर्थेऽस्मिन्स किमर्थं प्रवर्तते ॥ २१ ॥

इति एवंरूपेणानहम्भावेन येन न जिताः । निरर्थकं निष्फलं अनर्थे
नास्तिक्ययथेष्टाचरणाद्यापादके अस्मिन्नध्यात्मशास्त्रे अनधिकारी स किमर्थं
प्रवर्तते ॥ २१ ॥

अहन्त्वं पवने स्पन्द इव यत्त्वयि संस्थितम् ।
परमात्मनि तन्नान्यदेतत्स्पन्द इवानिले ॥ २२ ॥

त्वयि परमात्मनि सति तदेतत् नान्यत् ॥ २२ ॥

असर्गसंविदा सर्गः परेऽस्तोऽतिविराजते ।
सन्निवेशविशेषेण दुरर्थोऽपि हि शोभते ॥ २३ ॥

असर्गः कूटस्थाद्वयचिन्मात्रस्वभावस्तत्संविदा परे परमात्मनि अस्तो
विलीनस्तद्भावं प्राप्तः सन् विराजते । यथा स्नजि कल्पितः सर्पादिर्दुरर्थोऽपि बोधात्स्रजि
विलीनः स्रक्सन्निवेशविशेषेण कण्ठधृतः शोभते तद्वत् ॥ २३ ॥

परमात्मा तु नोदेति नास्तं याति कदाचन ।
न चास्मादन्यदस्तीति को भावोऽभाव एव वा ॥ २४ ॥

बोधेन जगतो जीवस्य च परमात्मरूपसन्निवेशविशेषोत्पत्तिरभ्युपगता चेत्तदुत्तरे
भावविकारा अपि स्युरिति तैर्जीवजगद्भावध्वंसादिभिश्च द्वैतापत्तिस्तत्राह -
परमात्मा त्विति । कल्पितस्य बाधेनाधिष्ठानात्मतापत्तिर्नोत्पत्तिर्न वा ध्वंसः किन्तु
नित्यसिद्धतत्स्वभाव एव । क्रियैव हि विकारादिहेतुर्न ज्ञानमिति न द्वैतापत्तिरिति भावः
॥ २४ ॥

परं परे पूर्णं पूर्णे शान्तं शान्ते शिवं शिवे ।
इत्येवमात्रं विततं नाहं न च जगन्न धीः ॥ २५ ॥

अहमादित्रिपुटीबाधे तत्परिच्छेदप्रयुक्तजीवभावापगमात्पूर्णं शान्तं शिवं च
त्वम्पदलक्ष्यं परमेव । तच्च पूर्णे शान्ते शिवे च तत्पदलक्ष्ये परे स्वभावे
स्थितमित्येतावन्मात्रं यथास्थितं तत्त्वबोधेन विततं नापूर्वं
किञ्चिदुत्पदितमित्यर्थः ॥ २५ ॥

अनिर्वाणे विनिर्वाणं शान्तं शान्ते शिवे शिवम् ।
निर्वाणमप्यनिर्वाणं सनभोर्थं न वापि तत् ॥ २६ ॥

ननु प्रदीपनिर्वाणवत्साभासाविद्यानिर्वाणन्न् ज्ञानफलं निष्पन्नमित्यवश्यं
वाच्यम् । अन्यथा ज्ञानस्य नैष्फल्यप्रसङ्गात्तत्राह - अनिर्वाणे इति । सत्यं
निर्वाणं ज्ञानफलं तथापि तदत्यन्ताप्रसिद्धमनिशे सूर्ये
निशानिवृत्तिवदनिर्वाणे एव ब्रह्मणि निर्वाणं नित्यशान्ते शान्तमिति
नानर्थनिवृत्तिरूपं ज्ञानफलमपूर्वम् । एवं शिवे नित्यसिद्धनिरतिशयानन्दे
शिवमानन्दावाप्तिलक्षणं फलमपि नापूर्वमिति न ज्ञानफलेन द्वैतापत्तिः । यदि
प्रतीचि बन्धो ब्रह्मणि वियदादिपदार्थश्च सत्यः स्यात्तदा तन्निर्वाणं
प्रदीपनिर्वाणवदपूर्वं स्यात् । इदं तु रज्जुसर्पनिर्वाणवत्प्रतीचो
बन्धनिर्वाणमनिर्वाणमेव । तद्ब्रह्मापि वा सनभोर्थं वियदादिसत्यार्थसहितं
वस्तुतो न भवत्येवेति तन्निवृत्तिरपि न द्वैतापादिकेत्यर्थः ॥ २६ ॥

प्द्फ़् १६१, १०७८

शस्त्राघाताः प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः ।
नाहमित्येवमात्रस्य सहने का कदर्थना ॥ २७ ॥

अनहम्भावनाया असह्यतं वारयति - शस्त्रेति ॥ २७ ॥

जगत्पदार्थसार्थानामहमित्यक्षयोऽङ्कुरः ।
तस्मिन्निर्मूलतां याते जगन्निर्मूलतां गतम् ॥ २८ ॥

वाष्पेणेवाहमर्थेन निःसारेणापि सारवत् ।
व्यामलः परमादर्शस्तच्छान्तौ सम्प्रसीदति ॥ २९ ॥

परमात्मलक्षण आदर्शोऽहमर्थेनाहङ्कारेण मुखबाष्पेण प्रसिद्धादर्श इव
व्यामलो व्याप्तमलो मलिनो भातीत्यर्थः ॥ २९ ॥

अहमर्थः परे वायौ स्पन्दस्तत्प्रशमे तु तत् ।
अनिर्देश्यमनाभासमनन्तमजमव्ययम् ॥ ३० ॥

अनन्तमद्वयमाकाशमात्रं च ॥ ३० ॥

अहमर्थः पुरो द्रव्यप्रतिबिम्बप्रदश्चिति ।
तच्छान्तौ सा निराभासमनन्तमजमव्ययम् ॥ ३१ ॥

बाह्यानर्थदर्शनेऽप्यहङ्कार एव हेतुरित्याह - अहमर्थ इति । सा चित् ॥ ३१ ॥

अहमर्थाम्बुदे क्षीणे परमार्थशरन्नभः ।
परयानन्तया लक्ष्म्या स्वच्छयाच्छं विराजते ॥ ३२ ॥

अहमर्थमलोन्मुक्तमव्यक्तं ताम्रमङ्ग चेत् ।
तत्परं परमाभासं सम्पन्नं हेम कान्तिमत् ॥ ३३ ॥

हे अङ्ग अव्यक्तमनाविर्भूतस्वभावं
चिरमहमर्थताम्रमलसम्पर्काज्जीवताम्रतामापन्नं ब्रह्म हेम
श्रवणाद्युपायनिष्टप्तमहमर्थमलोन्मुक्तं चेत्तदेव परं
परमाभासमतिभास्वरमत एव कान्तिमत् ब्रह्म हेम सम्पन्नम् । परं
ज्योतिरुपसम्पद्य स्वेन रूपेणामिनिष्पद्यते इति श्रुतेरित्यर्थः ॥ ३३ ॥

यथा निरभिधार्थश्रीर्भजत्यव्यपदेश्यताम् ।
तथानहन्ताहन्तेयं ब्रह्मत्वमधिगच्छति ॥ ३४ ॥

अहन्तानिवृत्तौ मम केन शब्देन व्यपदेश इति चेद्यथा समुद्रे विलीनायाः
सैन्धवकरकाद्यर्थश्रियः करकाद्यभिधानिवृत्त्या अव्यपदेश्यता
तद्वत्तावपीत्याह - यथेति ॥ ३४ ॥

अस्त्यहन्त्वे स्थितं ब्रह्म सनामेव पदार्थवत् ।
शान्तवत्सदिवाभासं तद्वत्स व्यपदेशवान् ॥ ३५ ॥

तस्य ब्रह्मादिनाम्ना व्यपदेशोऽपि इतरपदार्थवत्
अहन्त्वलक्षणाल्पत्वात्ययरूपबृहत्त्वलक्षणं प्रवृत्तिनिमित्तं परिकल्प्य
प्रवृत्तो न वस्तुवृत्तेनेत्याह - अस्तीति । यथा शान्ततरङ्गादिजलं स्वभावेन
स्थितं प्राक्तनसमुद्रतरङ्गादिरूपेणान्तः सदिवावभासमानं
तरङ्गसमुद्रादिव्यपदेशभाक् जलस्वभावेनाव्यपदेश्यमेव तद्वदित्यर्थः ॥ ३५ ॥

अहमर्थो जगद्बीजं यदि दग्धमभावनात् ।
तदहन्त्वं जगद्बन्ध इत्यादेः कलनैव का ॥ ३६ ॥

अभावनाद्भावनामूलाज्ञाननाशात् । तत् तर्हि ॥ ३६ ॥

सद्ब्रह्म शिवमात्मेति परे नामकलङ्किता ।
उदेत्यहन्ता कुम्भत्वादिव मृद्धातुविस्मृतिः ॥ ३७ ॥

अहमर्थस्य जगद्बीजतामुपपादयितुं तदुद्भवप्रकारमाह - सदिति । सत्
कालत्रयाबाध्यम् । ब्रह्म अपरिच्छिन्नम् । शिवं निरतिशयानन्दम् । आत्मा
अपरोक्षचिदेकरसमित्येवंस्वभावे परे नमनं नामश्चतुर्णामपि स्वभावानां
सङ्कोचस्तेन कलङ्किता सञ्जातमालिन्या अत एव मृदः
कुम्भाकारपरिच्छेदान्मृत्स्वभावविस्मृतिरिव
स्वभावचतुष्टयप्रतिसन्धानशून्या समष्ट्यहन्ता उदेति ॥ ३७ ॥

अहमर्थादियं बीजात्सत्ता बिम्बलतोत्थिता ।
यस्यां जगन्त्यनन्तानि फलान्यायान्ति यान्ति च ॥ ३८ ॥

तस्मादहमर्थाद्बीजादियं दृश्यसत्तालक्षणा बिम्बलता उत्थिता ।
व्यष्टिभावेनानन्तान्यसङ्ख्यानि ॥ ३८ ॥

साद्र्यब्ध्युर्वीनदी सेयं रूपालोकैषणादिका ।
अहमर्थस्य मरिचबीजस्यान्तश्चमत्कृतिः ॥ ३९ ॥

तदेव प्रपञ्चयति - साद्रीत्यादिना । अद्रिभिरब्धिभिरुर्वीभिर्नदीभिश्च सहिता
साद्र्यब्ध्युर्वीनदी । बहिरिन्द्रियैरर्थालोचनं रूपालोको
मनस्तद्गोचरकामसङ्कल्पादिवृत्तय एषणास्तदादिका ॥ ३९ ॥

द्यौः क्षमा वायुराकाशं पर्वता सरितो दिशः ।
इत्यामोदोऽहमर्थोग्रकुसुमस्य विकासिनः ॥ ४० ॥

अहमर्थः प्रविसृतः प्रकटीकुरुते जगत् ।
सद्रूपालोकमननं प्रवृत्त इव वासरः ॥ ४१ ॥

मेरोः परभागे सद्रूप एव वासरः प्रविसृतः सन् सत एव रूपस्यालोकं मननं च
यथ निमित्तभावेन करोति तद्वत् ॥ ४१ ॥

प्रवृत्तेन दिनेनार्थः प्रकटीक्रियते यथा ।
असज्जगदहन्त्वेन क्षणान्निर्मीयते तथा ॥ ४२ ॥

अर्थो रूपादिः । निर्मीयत इति मिथ्यार्थस्य भावनमेव निर्माणमित्याशयः ॥ ४२ ॥

अहमित्यर्थदुस्तैललवो ब्रह्मणि वारिणि ।
प्रसृतो यत्तदाश्वेतत्त्रिजगच्चक्रकं स्थितम् ॥ ४३ ॥

तैलस्य लवो बिन्दुः । चक्रकं चक्राकाराभासः ॥ ४३ ॥

उन्मेषमात्रेणाहन्ता जगन्त्यनुभवत्यहो ।
न निमेषेण दृगिव सत्यानीत्यप्यसन्त्यलम् ॥ ४४ ॥

दृक् दुष्टचक्षुरिव असन्ति असत्यान्यपि जगन्ति सत्यानीत्यनुभवति । निमेषेण तिरोभावेन
तु नानुभवति ॥ ४४ ॥

अहमर्थे प्रविसृते संसारो ह्यनुभूयते ।
नान्तर्भूय परिक्षीणे लोचनस्येव तारके ॥ ४५ ॥

तदेव दृढीकर्तुं पुनराह - अहमर्थे इति । सुषुप्तिमरणमूर्च्छासु तिरोभूय
स्थिते मोक्षे मूलतः परिक्षीणे च सति नानुभूयते । समाधौ अन्तर्भूय साक्षात्कारेण
परिक्षीणे इति वा । तारके कनीनिकायाम् ॥ ४५ ॥

अहमंशे निरंशत्वं नीते शाश्वतसंविदा ।
शाम्यतीयमशेषेण संसारमृगतृष्णिका ॥ ४६ ॥

निरंशत्वं निःशेषताम् ॥ ४६ ॥

स्वसंविद्भावनामात्रसाध्येऽस्मिन्वरवस्तुनि ।
सिद्धमात्रात्मनि स्वैरं मा खेदं गच्छ मा भ्रमीम् ॥ ४७ ॥

साधनफलयोरतिसुलभतां दर्शयति - स्वसंविदिति । स्वसंवित्
स्वप्रकाशचिदात्मा तस्य भावना तदाकारवृत्तिमात्रसिद्धिस्तावन्मात्रसाध्ये न तु
जडेष्विव तत्फलव्याप्तिप्रयत्नापेक्षास्तीति साधने अतिसुलभता । सिद्धमात्रात्मनीति
फलेऽप्युत्पादनप्रयत्नानपेक्षत्वादतिसुलभता सूचिता । भ्रमीमहम्भावादिभ्रान्तिम्
। कृदिकारादक्तिनः इति ङीष् ॥ ४७ ॥

स्वयत्नमात्रसंसाध्यादसहायादिसाधनात् ।
अनहंवेदनान्नान्यच्छ्रेयः पश्यामि तेऽनघ ॥ ४८ ॥

पुरुषान्तरादिबाह्यसाधनानपेक्षत्वादप्यतिसुलभतामाह - स्वेति ॥ ४८ ॥

विस्मृत्याहं त्वमास्स्व प्रविसृतविभवः पूरिताशेषविश्वो
विष्वक्शैलान्तरिक्षक्षितिजलधिमरुन्मार्गरूपोऽमलात्मा ।
स्वस्थः शान्तो विशोकः करणमलकलावर्जितो निष्प्रपञ्चो
निःसञ्चारश्चरात्मा सकलमसकलं चेति सिद्धान्तसारः ॥ ४९ ॥

इदानीं सर्वोपदेशसिद्धान्तसारं सङ्क्षिप्य दर्शयन्नुपसंहरति - विस्मृत्येति
। हे राम त्वं प्रथमं व्यष्ट्यहम्भावं विस्मृत्य विष्वक् सर्वतः प्रसिद्धः
शैलान्तरिक्षक्षितिजलधयश्च मरुद्वायुश्च तन्मार्ग आकाशश्चेत्येवंरूपः
पूरिताशेषविश्वः प्रविसृतविभवः सन् समष्टिभावेनास्स्व । तदनन्तरं
निःसञ्चारः स्थावरऽस्चरात्मा चेति सकलं निष्प्रपञ्चं ब्रह्मैवेति बाधित्वा
निष्प्रपञ्चः करणैर्मलैः कलाभिश्च वर्जितः सन् स्वस्थः शान्तो विशोकोऽमलात्मा
आस्स्वेत्यध्यारोपापवादाभ्यां निष्प्रपञ्चात्मपरिशेष एव
सर्ववेदान्तसिद्धान्तसार इत्यर्थः ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
अहन्तानिरासो नाम चतुर्थः सर्गः ॥ ४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अहन्तानिरासो नाम चतुर्थः सर्गः ॥ ४ ॥